द्वापरयुगसन्तानः - अध्यायः ७०
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं ग्राहयेत् सद्गुरोर्मनून् ।
सहस्रशाखाध्यायी च सर्वयज्ञेषु दीक्षितः ॥१॥
तापसो विप्रवर्योऽपि न गुरुः स्यादवैष्णवः ।
महाभागवतो यश्च मम ध्यानपरायणः ॥२॥
भक्तिमार्गप्रदेष्टा वैष्णवो गुरुर्भवेद् बुधः ।
आचार्यः सद्गुरुः साधुर्भवबन्धविदारकः ॥३॥
तस्मान्मन्त्रान् हि गृह्णीयादोंकारसहितान् शुचिः ।
आदौ सर्वत्र मन्त्राणां योजयेत् प्रणवं प्रभुम् ॥४॥
ओंकारोऽहं परव्रह्म प्रणवो मन्त्रनायकः ।
ओमित्येकाक्षरं पूर्वं चतुर्थ्यन्ता ममाऽभिधा ॥५॥
ततश्च द्व्यक्षरं नाम नमः इत्येवं पूरयेदपि ।
'ओं श्रीकृष्णनन्दजाय नमः' एवं वदेद् गुरुः ॥६॥
मन्त्रचतुष्टयं श्रेष्ठं मन्त्रदशकमुत्तमम् ।
सप्त द्वादश च द्वे च गायत्र्यश्चोत्तमा मम ॥७॥
त्रयोदश तथा मन्त्रास्त्रयः श्रेष्ठाः सदा मम ।
त्रयस्त्रिंशदवतारमन्त्राः श्रेष्ठास्तथा मम ॥८॥
त्रयोस्त्रिंशच्छ्रियो मन्त्राः श्रेष्ठाः सर्वे मता मम ।
एको वा सर्व एवापि ह्यनेके वा यथेष्टकम् ॥९॥
ग्राह्या मन्त्रा हि शिष्येण गुरुः परीक्ष्य वाऽर्पयेत् ।
पञ्चदशोर्ध्वशतमन्त्रदेवोऽस्मि हरिः स्वयम् ॥१०॥
त्रयस्त्रिंशन्मम मन्त्राश्चान्ये मद्रूपवर्णिनः ।
रूपरूपितादात्म्याद्वै युज्यन्ते मयि सर्वशः ॥११॥
यो भक्तो यत्स्वरूपस्य तन्मन्त्रं शृणुयाद् गुरोः ।
परब्रह्मतरोः शाखाः शतं च दश पंच च ॥१२॥
तानि तानि च रूपाणि तत्तन्मन्त्रैः प्रपूज्य च ।
आराध्य मत्स्वरूपाणि यास्यन्त्येव हि मां हरिम् ॥१३॥
परब्रह्मसम्प्रदायाः सर्वे मेंऽगानि पद्मजे ।
मदुत्पन्नमिदं सर्वं मत्तो नैवातिरिच्यते ॥१४॥
अनादिश्रीकृष्णनारायणे प्रोता मयीश्वराः ।
अवतारास्तथा मुक्ता जीवाः प्रोता हरौ मयि ॥१५॥
अवतारिण्य एवेमाः शक्तयो मयि संस्थिताः ।
सर्वा मन्त्रस्वरूपिण्यः प्रोता मयि हरौ प्रभौ ॥१६॥
इतिविज्ञाय मन्त्राणां शतं पंचदशाधिकम् ।
विद्वान् विज्ञाय दद्याद्वै विदुषे त्वधिकारिणे ॥१७॥
स स्याद् आचार्यसम्राट् वै सर्वमन्त्रप्रदो गुरुः ।
'परब्रह्मसम्प्रदायाऽऽचार्यसम्राट' निगद्यते ॥१८॥
न्यूनमन्त्रप्रदा न्यूना आचार्यास्ते भवन्ति वै ।
स्वतःप्रकाशोभगवान् स्थाप्यते वै मया गुरुः ॥१९॥
'परब्रह्मसम्प्रदायाऽऽचार्यसम्राट् मनुप्रदः ।
सर्वमनूपदेष्टा स मत्स्वरूपो भवत्यपि ॥२०॥
त्वं लक्ष्मीश्च तथा गुर्वी स्थाप्यते वै मया प्रिये ।
'परब्रह्मसम्प्रदायाचार्यसम्राज्ञी' मन्त्रदा ॥२१॥
सर्वमनूपदेष्ट्री त्वं मत्स्वरूपात्मिका ह्यसि ।
किं च लक्ष्मि शृणु चान्यन्मन्त्रे यन्नाम विद्यते ॥२२॥
स तन्मनोस्तथाऽऽचार्यः, मदंशो वर्तते सदा ।
सा तन्मनोस्तथाऽऽचार्याणी च बोध्या मदाज्ञया ॥२३॥
एवं मनून् नियुञ्जीत गृह्णीयाच्च गुरोर्मुखात्॥
सबीजोऽयं भवेन्मन्त्रो गुरोस्तैजसभासुरः ॥२४॥
दैवबलो गुरोर्बली मनुर्मोक्षप्रदो भवेत् ।
शिष्यबलोऽधिकः स्याद्वै मनुर्भुक्तिप्रमुक्तिदः ॥२५॥
बीजं सर्वत्र मन्त्रेषु कृष्णकान्तोऽहमेव तु ।
नित्याऽनपायिनी शक्तिः श्रीर्लक्ष्मीर्विद्यते मनौ ॥२६॥
ओंकारो मेऽभिधानं श्रि! अकाराऽहं परेश्वरः ।
उकारः श्रीस्त्वमेवासि मकारो भक्त एव मे ॥२७॥
अकारोऽहं परात्मा च उकारश्चेश्वरा मताः ।
मकारश्च जीववृन्दा तदात्मा ओं मतो मम ॥२८॥
अकारश्चानिरुद्धश्च उकारस्तु प्रद्यम्नकः ।
मकारः संकर्षणस्त्रेधा ओमित्यहं श्रीहरिः ॥२९॥
अकारश्च स्वयं विष्णुरुकारः शंकरस्तथा ।
मकारश्च विश्वसृड् वै त्रेधाऽहं परमेश्वरः ॥३०॥
अकारश्चाऽक्षरं ब्रह्म उकारो मुक्तकोटयः ।
मकारश्चावतारा मे त्रेधाहं पुरुषोत्तमः ॥३१॥
अकारो ब्रह्मसृष्टिर्मे उकारश्चेश्वरसृजिः ।
मकारो जीवसृष्टिश्च त्रेधाहं परमेश्वरः ॥३२॥
अकारोऽहं परब्रह्म उश्च ब्रह्मप्रिया मम ।
मश्च हरिप्रियाः सर्वास्त्रेधाऽहं परमः प्रभुः ॥३३॥
अहं स्वामी स्वामिनी त्वं शेषा दासास्तथा परे ।
एवं मे विद्यते हार्दं प्रणवार्थे हि दासता ॥३४॥
दासा दास्यो मम भक्ताः परतन्त्राः सदा मम ।
देहेन्द्रियमनोऽहंधीगुणा भक्तस्य मे वशाः ॥३५॥
मय्यर्पिता हि ते दिव्या मत्तन्त्रा मत्प्रजीवनाः ।
अतो मम पदस्थस्य मदिच्छाधीनवर्तनम् ॥३६॥
ममैव सर्वसंकल्पात् प्रारब्धं तस्य विद्यते ।
ममैव लक्ष्मि सामर्थ्यान्नाऽलभ्यं तस्य विद्यते ॥३७॥
मय्यर्पितभरः श्रीशे मत्कर्मैव समाचरेत् ।
परमात्मा ह्यहं स्वामी भक्तस्तु दास एव मे ॥३८॥
इच्छया विनियोक्तव्यो भवेद् दासो हि सर्वदा ।
दासी भृत्या किंकरी च नियोक्तव्या ममाऽऽश्रिता ॥३९॥
ममाऽहं मत्स्वरूपौ वै मम भक्तस्य नेतरौ ।
तस्माद् देहादिबन्धैः स मुक्तो नित्यो ममाऽऽश्रयात् ॥४०॥
कुर्वन्नपि हि कर्माणि मत्कृतान्येव तानि वै ।
न लेपं लभते तैश्च भक्तो मे बन्धवर्जितः ॥४१॥
माया भक्तस्य मे दिव्या भक्तं रञ्जयति ध्रुवम् ।
आनन्दयति दिव्या सा मोक्षार्थं योजयत्यपि ॥४२॥
एवं लक्ष्मि मम मनोर्माहात्म्यमुदित तव ।
अनादिश्रीकृष्णनारायणोऽहं चाऽक्षराधिपः ॥४३॥
पुरुषोत्तमसंज्ञोऽहं चाऽवतारी परेश्वरः ।
परमेश्वर एवाऽहं परमात्मा सनातनः ॥४४॥
पूर्णब्रह्म परब्रह्म भगवान् सर्वकारणम् ।
ममाऽवताराः कृष्णाद्या वासुदेवादयोऽपि च ॥४५॥
भूमादयोऽपीश्वराश्च राधालक्ष्म्यादिशक्तयः ।
ममांऽशा विष्णुरुद्राऽजा देवाश्चांऽशकलांऽशकाः ॥४६॥
मानवाद्यास्तदंशाश्च तिर्यञ्चः पादपास्तथा ।
किंचिदंशांशसंभूताः सृष्टयः सन्ति चैव मे ॥४७॥
तत्र नारायणश्चाऽहं नारा इत्यात्मसंहतिः ।
तत्राऽयनं करोम्येव ततो नारायणोऽस्म्यहम् ॥४८॥
नराज्जातेषु तत्त्वेषु वासी नारायणोऽस्म्यहम् ।
नारे चराचरे लोकेऽन्तःस्थो नारायणोऽस्म्यहम् ॥४९॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
यस्मान्मत्तः समुत्पन्नः सोऽहं वै परमेश्वरः ॥५०॥
यद्भूतं यच्च भाव्यं च यस्मात् सर्वं परेश्वरात् ।
अमृतत्वस्य चेशानः सोऽहं श्रीपुरुषोत्तमः ॥५१॥
वासुदेवो यतो भाति हिरण्यगर्भ इत्यपि ।
सविता च यतो भाति सोऽहं श्रीपुरुषोत्तमः ॥५२॥
वेदादिश्च परा वाणी यस्य भाषा सुसंस्कृता ।
स्वरो यस्य प्रकण्ठाद्वै सोऽहं श्रीपुरुषोत्तमः ॥५३॥
परमात्मा तु यश्चास्ते मायी च माययाऽर्चितः ।
मायेशो मायया शून्यः सोऽहं श्रीपुरुषोत्तमः ॥५४॥
पादे सृष्टिस्त्रिपादे चाऽक्षरं धामाऽस्ति यस्य वै ।
भूलीलाश्रीपतिर्योऽस्ति सोऽहं श्रीपुरुषोत्तमः ॥५५॥
यज्ञनारायणश्चाऽहं सर्वनारायणोऽस्मि च ।
भिन्ननारायणरूपः सोऽहं श्रीपुरुषोत्तमः ॥५६॥
यन्मूर्तेर्मूर्तयः सन्ति विप्राद्या मानवाः सुराः ।
चन्द्रः सूर्योऽग्निर्द्युर्विद्युत् सोऽहं श्रीपुरुषोत्तमः ॥५७॥
एतादृशस्य मे दास्यं नरनारीभिरादरात् ।
मन्त्रं लब्ध्वा प्रकर्तव्यं रहस्यं मोक्षदं हि तत् ॥५८॥
विश्वतः पाणिपादोऽहं चक्षुष्मान् विश्वतस्तथा ।
विश्वानि भुवनान्येव धामानि त्वपि सन्ति मे ॥५९॥
एवं बृहत्स्वरूपोऽहं श्रीपतिः पुरुषोत्तमः ।
ईश्वर्या वै त्वया साकं दिव्यमंगलरूपवान् ॥६०॥
बृहद्देहो मानवर्ज्यो युवा हरिः पतिस्तव ।
रेमे रेमे त्वया लक्ष्म्या श्रिया साकं हि शाश्वतः ॥६१॥
अहं जगज्जनन्या वै कुमारो नित्ययौवनः ।
कन्दर्पांऽर्बुदलावण्यस्तिष्ठामि परमे पदे ॥६२॥
मुक्तिस्थानं परं व्योम मुक्तमुक्तानिकाश्रितम् ।
शाश्वतानन्दसौख्यादिसंभृतं चाऽक्षरं मम ॥६३॥
गोलोकश्चापि वैकुण्ठोऽव्याकृतोऽमृत इत्यपि ।
भोगार्थानि हि धामानि मया कृतानि सन्ति वै ॥६४॥
हिरण्मयास्तथा वैराजाद्याश्च मायिकास्तथा ।
सादाशैवा वैष्णवाश्च प्राधानिकाश्चभूमयः ॥६५॥
आवरणानि सर्वाणि सत्यादिमानवादयः ।
पातालान्ताश्च लीलायाः क्रीडासौभाग्यसंभृताः ॥६६॥
सर्वे लोका मम क्रीडालीलाद्यर्था मया कृताः ।
भोगे नित्या स्थितिर्मे धामस्ववताररूपिणः ॥६७॥
लीलां तु संहरे लक्ष्मि मायामयं हि तद् यतः ।
त्रिपाद्व्याप्यक्षरं धाम परमं मे हि शाश्वतम् ॥६८॥
त्रिपाद् विभूतिर्नित्या सा तत्र धामानि यानि मे ।
गोलोकादीनि सर्वाणि नित्यान्येव पराणि हि ॥६९॥
पादोऽस्यैश्वरजैवादिलोका अनित्यसंज्ञकाः ।
लीलात्मका हि ते सर्वे क्रीडार्थं वै मया कृताः ॥७०॥
नित्येऽक्षरे च गोलोके वैकुण्ठेऽव्याकृतेऽमृते ।
अच्युतः शाश्वतो दिव्यः सदा यौवनमाश्रितः ॥७१॥
तिष्ठाम्यनादिश्रीकृष्णनारायणः पुमुत्तमः ।
श्रीकृष्णश्च तथा नारायणो भूमा तथा प्रभुः ॥७२॥
वासुदेवः सदा लक्ष्मि तव रूपैः समन्वितः ।
मुक्तानिकाब्रह्मप्रियाहरिप्रियाभिः संयुतः ॥७३॥
राधाविरजागोपीभिर्गोलोके मम शक्तिभिः ।
लक्ष्मीहरिणीकमलादिसेवितो विकुण्ठके ॥७४॥
रमाश्रीपार्षदानीभिः सेवितोऽव्याकृते प्रभुः ।
वासुदेवीपद्मिनीभिः सेवितोऽमृतधामनि ॥७५॥
मुक्तैर्गोपैः सेवकैश्च पार्षदैरभिसेवितः ।
अवतारस्वरूपोऽहं भिन्नरूपो वसामि वै ॥७६॥
नित्यसंभोगमीश्वर्या श्रिया लक्ष्म्या च राधया ।
त्वया च रमया वासुदेव्या कमलया सह ॥७७॥
विन्देऽहं सर्वदा लक्ष्मि भूम्या च दिव्यया सदा ।
नित्या सा त्वं जगन्माता मम श्रीरनपायिनी ॥७८॥
सर्वगता सदा विभ्वी हीशानां जगतां सदा ।
सर्वतः पाणिपादाढ्या सर्वतोऽक्षिशिरोमुखी ॥७९॥
परमेशी जगन्माता नारायणी हिरण्मयी ।
त्वत्तनावास्थितं सर्वं जगत् स्थावरजंगमम् ॥८०॥
जगत्स्थितिलयौ स्यातां तवोन्मीलनमीलनात् ।
सर्वस्याद्या महाब्राह्मी महालक्ष्मीः परेश्वरी ॥८१॥
लक्ष्याऽलक्ष्यस्वरूपा त्वं कृत्स्नं व्याप्य व्यवस्थिता ।
विभूतिस्त्वं परे धाम्नि राधा गोलोकवासिनी ॥८२॥
लक्ष्मीर्वैकुण्ठवासा च रमाऽव्याकृतवासिनी ।
पद्माऽमृतनिवासा च विभूतिश्चाऽऽक्षरी मम ॥८३॥
ईश्वराणां च लोकेषु जीवानामण्डकेषु च ।
लीलैश्वर्यवपुस्त्वं वै भवसि भूमिकात्मिकाः ॥८४॥
ईश्वराणां भूमयश्चाऽऽलयाः प्रासादकोटयः ।
स्मृद्धयो वाटिकाः क्षेत्रदिव्यविषयभूमयः ॥८५॥
भवत्येव भवतीति लीला मे सर्वसम्पदः ।
आवरणानि तत्त्वानि त्वं सादाशैवगानि च ॥८६॥
वैष्णवानि च तत्त्वानि मायिकान्यपि यानि च ।
हैरण्मयानि तत्त्वानि वैराजादीनि यानि च ॥८७॥
सत्यादिद्युनिवासानि मानवान्यपि यानि च ।
पातालेषु तथा यानि तत्त्वानि भोगभूमयः ॥८८॥
जलभूतैजसवायुमयानि यानि सन्ति च ।
तानि सर्वाणि ते लक्ष्मि लीलारूपाणि सन्ति वै ॥८९॥
रूपरसगन्धस्पर्शरूपा त्वं स्वररूपिणी ।
लक्ष्मीरूपत्वमापन्ना धनद्रव्यादिनामिका ॥९०॥
एवं जगत्स्वरूपा त्वं जगतः श्रीः श्रिता हिमाम् ।
वेदा वेद्यं समस्तं वै तव रूपं हि पद्मजे ॥९१॥
स्त्रीरूपमखिलं लक्ष्मि तव रूपं वपुस्तव ।
सौन्दर्यं शीलमौज्ज्वल्यं सौभाग्यं मार्दवं सुखम् ॥९२॥
लावण्यं चापि सौगन्ध्यं चाकर्षणं रसादिकम् ।
तवैवं रूपं कमले सर्वनारीषु संस्थितम् ॥९३॥
ब्राह्मी नारायणीश्रीश्चाऽऽक्षरी मुक्तानिका रमा ।
ब्रह्मप्रिया च कमला हरिप्रिया च माणिकी ॥९४॥
राधा लक्ष्मीः पराविद्या रमा श्रीश्च नरायणी ।
विद्या सरस्वती माता वैष्णवी पद्मिनी सती ॥९५॥
पद्मा च पद्मजा चाऽब्धिपुत्री रंभा च राधिका ।
भूर्लीला सुखदालक्ष्मीर्हरिणी माधवीश्वरी ॥९६॥
गौरी कार्ष्णी कृष्णनारायणी स्वाहा स्वधा रतिः ।
सम्पत् स्मृद्धिर्वासुदेवी विरजा च हिरण्मयी ॥९७॥
भार्गवी शिवराज्ञीश्री रामा श्रीकान्तवल्लभा ।
एतानि तव नामानि सदा प्रातः पठेद्धि यः ॥९८॥
स स्मृद्धिं महतीं लक्ष्मीं श्रियमाप्नोत्यनाशिनीम् ।
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ॥९९॥
ज्योत्स्नां हिरण्मयीं लक्ष्मीं विन्दते मत्स्वरूपिणीम् ।
उत्कृष्टगन्धरूपादिस्वरूपां पुष्टिवर्धिनीम् ॥१००॥
तव दाता प्रभुः श्रीमान् पुरुषोत्तम एव च ।
परनारायणः स्वामी वात्सल्यकरुणाऽर्णवः ॥१०१॥
सुशीलः सुभगः पूर्णकामश्च सर्वशक्तिमान् ।
स्वर्गापवर्गसुखदः शरणं सर्वदेहिनाम् ॥१०२॥
सोऽहं मे दासभक्ताय दास्यै साकं त्वयाऽप्यहम् ।
मां चाऽर्पयामि देवेशि परस्परात्मवेदिताम् ॥१०३॥
श्रीमन्नारायणः स्वामी श्रीपतिः पुरुषोत्तमः ।
अनादिश्रीकृष्णनारायणः सोऽहं गतिः परा ॥१०४॥
शरणं मन्दिरं वासो बन्धुः पिता पतिः सुहृत् ।
माता भ्राता रक्षिता च पालको जगतां प्रभुः ॥१०५॥
कल्याणगुणवान् श्रीशः सर्वकामफलप्रदः ।
प्राकृतगुणशून्योऽहं निर्गुणो दिव्यमूर्तिमान् ॥१०६॥
दिव्याऽसंख्यगुणैश्वर्यरूपलावण्यसंयुतः ।
अमृते शाश्वते दिव्येऽनन्तेऽक्षरे परे पदे ॥१०७॥
निवसामि ब्रह्मलोके ब्रह्मानन्दसुखान्विते ।
अतितेजोमये शुद्धे प्रलयादिविवर्जिते ॥१०८॥
असंख्ये चाऽजरे नित्ये जाग्रत्स्वप्नादिवर्जिते ।
समानाधिकरहितेऽन्ताऽऽद्यविरहिते शुभे ॥१०९॥
अतिसर्वोत्कृष्टतेजोभृते चानन्दसागरे ।
यदक्षरं वेदवेद्यं यस्मिन् देवाः साध्या निषेदुः ॥११०॥
अधिविश्वे निषेदुश्च देवा विदुस्तदासते ।
तदक्षरं मे परमं सदा पश्यन्ति सूरयः ॥१११॥
यत्र गावो भूरिशृंगा अयास आसतेऽभितः ।
ते ह नाकस्य महिमानं विदुः साध्ययोगिनः ॥११२॥
तिष्ठामस्तत्र सततं युवानौ श्रीनरायणौ ।
यत्र स्वसारो युवत्यस्त्वदाद्या मम वल्लभाः ॥११३॥
तत्प्राप्य न निवर्तन्ते परमाक्षरधाम मे ।
एतन्मोक्षपदं दिव्यं प्रयान्ति मन्त्रवेदिनः ॥११४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महामन्त्रगूढार्थज्ञानप्राप्यादिनिरूपणनामा सप्ततितमोऽध्यायः ॥७०॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP