संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भक्तं किरातजातिजम् ।सागराख्यं महाशाटीनगरीवासिनं शुभम् ॥१॥कुटुम्बसहितश्चाऽयं महीनदीतटे वने ।चरति देहयात्रार्थं कुरुते सञ्चयं गृहे ॥२॥वन्यानां कन्दमूलानां चान्नानां कणिनां तथा ।शिम्बीनां च फलानां च बीजानां रसिनां तथा ॥३॥क्वचिदन्नं फलं पत्रं क्वचित् कन्दं भुनक्ति सः ।देहयात्रासु निर्वाहं करोति भजते च माम् ॥४॥वाटगानां धनाढ्यानां भारवाही भवत्यपि ।श्रेष्ठिनां भृत्यतां चापि क्वचित् करोति भीलकः ॥ ५॥एवं कुर्वन् स निर्वाहं क्वचिन्नाप्नोति भोजनम् ।तदोपवासे निरतो भजते मां मुदा युतः ॥६॥मालिकाऽऽवर्तनं चापि करोति कृष्णकृष्ण च ।व्रतं साहजिकं तद्वै मत्वा च जागरं निशि ॥७॥करोति कीर्तनं रात्रौ क्षुधातृषान्वितः स वै ।पत्नी पुत्रास्तथा पुत्र्यः सर्वे कुर्वन्ति वै व्रतम् ॥८॥एकदा कमले तेषां श्रवणे शुक्लपक्षके ।एकादशीदिने नैव मिलितं भोजनं मनाक् ॥९॥व्रतं जातं सहजं चैकादशीजं सजागरम् ।निर्जलं ते प्रचक्रुश्च पूजनं कीर्तनं च मे ॥१०॥अथ प्रातस्तु ते सर्वे भाजीं निवेद्य मे रमे ।जलं समर्प्य मह्यं च बुभुजुर्भाजीमेव ह ॥११॥पपुर्जलं कृष्णकृष्णकृष्णनारायणप्रभो ।गृणन्तश्च मुदा लक्ष्मि तदाऽहं करुणालयः ॥१२॥तेषामग्रे गोधुमानां शकट्या सह संययौ ।ते सर्वे मां विक्रयिणं मत्वा श्रेष्ठिनमुत्तमम् ॥१३॥नेमुर्जलं ददुश्चापि विश्रान्त्यर्थं जगुः क्षणम् ।अहं मत्वा च तद्वाक्यं शकरीं तद्गृहांगणे ॥१४॥अवस्थाप्य वृषभौ च निर्बध्य तत्कृतासने ।उपाविशं च ते सर्वे पादसंवाहनं मम ॥१५॥व्यधुश्च कृष्ण कृष्णेति वदन्तो मग्नमानसाः ।अथ पृष्टा मया सर्वे किंवृत्ताः किंप्रजीवनाः ॥१६॥ते प्रोचुर्जीवनं कृ६णो ददाति जीव्यते तथा ।अद्य भाज्या कृतं कृष्यपूजनं च जलेन च ॥१७॥भुक्ता भाजी जलं पीतं शान्तिस्तत्र हि नः सदा ।वर्तते सुखदा श्रेष्ठिन् किं लक्षैः कोटिभिर्धनैः ॥१८॥भजामः श्रीहरिं नित्यं ददात्येव स भोजनम् ।सर्वार्पणं प्रकुर्मश्च हरये निर्गुणायितम् ॥१९॥भवान् श्रेष्ठी वर्ततेऽद्य महीमानो गृहेऽत्र नः ।भवद्योग्यं महान्नं तु नास्ति स्वागतकारकम् ॥२०॥ततो भाजीं प्रदद्मस्ते रोचते संगृहाण ताम् ।इत्युक्तोऽहं तदा लक्ष्मि प्रेम्णा भाजीं चखाद ताम् ॥२१॥जलपानं चकाराऽपि तृप्तिं जगाम भक्तिजाम् ।अथाऽहं प्रददौ तेभ्यो गोधुमानां समस्तकम् ॥२२॥धनं च प्रददौ तेभ्यो सहस्रं रूप्यमुद्रिकाः ।ततस्ते मां पप्रच्छुश्च नाम ग्रामं कुटुम्बकम् ॥२३॥अहमाह हरिकृष्णो बालकृष्णो भवाम्यहम् ।ग्रामं धामाऽक्षरं मे च कुटुम्बं भक्तमण्डलम् ॥२०॥तेषां गृहे मम यात्रा महीमानो भवाम्यहम् ।भवद्भिर्यत् कृतं त्वेकादश्या व्रतं सजागरम् ॥२५॥भाज्या चाद्भिस्तोषितोऽहं रक्षार्थं समुपाययौ ।कृपया त्वागतोऽस्म्यत्र दातुं सर्वांश्च गोधुमान् ॥२६॥अक्षयास्ते मम हस्तस्पृष्टा गोधुमका इमे ।भविष्यन्ति कुसुले च निक्षिप्योपरि छादनम् ॥२७॥कृत्वा छिद्रात् निष्कासनीया न चान्यथा ।अक्षयास्ते भविष्यन्ति मम प्रतापतः खलु ॥२८॥भवन्तु सुखिनो भक्ता वंशपरम्पराभवाः ।यदा मे पूजनं नैव भविष्यति गृहेऽत्र वै ॥२९॥तदा क्षयमवाप्स्यन्ति गोधुमास्ते मयाऽर्पिताः ।इत्युक्त्वा प्रददौ सर्वान् दर्शनं दिव्यमित्यपि ॥३०॥ददौ चतुर्भुजं मे च श्रिया युक्तं मनोहरम् ।तुष्टुवुर्मां तु ते सर्वे निपेतुः पादयोर्मम ॥३१॥मुमुचुः प्रेमभावेनाऽश्रूणि सर्वे तु विह्वलाः ।वव्रिरे रक्षणं चापि मोक्षं त्वन्ते परं पदम् ॥३२॥अहं धैर्यं वचो दत्वा शकटेन समं तथा ।वृषभाभ्यां समं लक्ष्मि तूर्णं तत्र तिरोऽभवम् ॥३३॥आजीवनं किरातो मे भक्तो गोधुमपोलिकाः ।कारयित्वा निजपत्न्या भाज्या साकं न्यवेदयत् ॥३४॥यतयः साधवश्चान्ये सत्यः साध्व्यश्च भिक्षुकाः ।ये चाऽऽयान्ति लभन्ते ते भाजीं गोधुमपोलिकाः ॥३५॥अन्नसत्रं सागरस्य प्रावर्तत निरन्तरम् ।तार्थयात्रालवोऽप्यस्य गृहे शान्तिं प्रयान्ति हि ॥३६॥सतां सेवां महालाभं लभते सागरः सदा ।बहुपुण्ययुतो जातः सागरः सागरोपमः ॥३८॥यद्गृहे मुनयो यान्ति देवप्रसादभोजिनः ।देवताः साधुवेषाश्च भोक्तुं गोधुमपोलिकाः ॥३८॥मत्वा प्रसादं दिव्यं च समायान्ति हि भिक्षुकाः ।श्रीकृष्णदत्तगौधुम्यः पोलिकाः सुधया समाः ॥३९॥भुज्यन्ते देवताभिश्च पितृभिर्भिक्षुकात्मकैः ।सिद्धैश्च दिव्यदेहैश्च भुज्यन्ते पुण्यपोलिकाः ॥४०॥प्रातरारभ्य चाऽऽसायं प्रवर्तन्ते हि पोलिकाः ।अक्षया गोधुमाः सर्वे वर्धन्ते कुसुलोदरे ॥४१॥सागरस्य गृहं तीर्थं जातं जगत्प्रसिद्धकम् ।त्रैलोक्यां ख्यातमेवापि पावनं जायते तदा ॥४२॥अथ श्रुत्वा तु दुर्वासा अक्षयं चान्नसत्रकम् ।दशसाहस्रशिष्यैश्चाऽकस्मात् प्रातरुपाययौ ॥४३॥सागरेण कृतमानः कृतस्वागत आदरात् ।भोजनार्थं ततः पंक्तीः कृतवान् समकालिकीः ॥४४॥सागरश्चिन्तयामास भीतः श्रीपतिमीश्वरम् ।मां तदाऽहं श्रिया साकं प्राविरासं गृहोदरे ॥४५॥सागरश्चातिमुमुदे दृष्ट्वा मां च श्रियं तथा ।लक्ष्मीर्मया तदाऽऽज्ञप्ता पोलिकानिर्मितौ द्रुतम् ॥४६॥सा निर्ममे तु पञ्चैव पोलिकाः सहसा रमा ।चुल्याश्च वह्निना पक्ता मया धृता करेण सा ॥४७॥अक्षयाः पञ्च चैताश्च न्यूना भवन्ति नैव ह ।सागरेण करे धृत्वा स्थालीं ताः परिवेषिताः ॥४८॥एकैकस्मै दशसख्याः सहस्रेभ्यः समर्पिताः ।एवं दशसहस्रेभ्यः पोलिकाः परिवेषिताः ॥४९॥भाजाऽपि स्थालतो दत्ता सर्वेभ्यः परिवेषिता ।मया स्पृष्टा स्वादवती भाजा च पोलिकास्तथा ॥५०॥बुभुजुश्च समस्तास्ते दुर्वाससोऽनुयायिनः ।तृप्तास्ते चुलुकं कृत्वा महाश्चर्यं हि मेनिरे ॥५१॥अथ स्थाल्यां पोलिकाश्चावशिष्यन्ते तु पञ्च वै ।एवं दृष्ट्वा महाश्चर्यं दुर्वासा गृहमाययौ ॥५२॥पराक्षार्थं हरिश्चाहं लक्ष्म्या साकं तिरोऽभवम् ।दुर्वासाः कुसुलं नत्वा नत्वा भक्तं च सागरम् ॥५३॥तत्पत्नीं सारिकानाम्नीं दत्वाऽऽशीर्वादमुत्तमम् ।अक्षयं ते धनं चाऽस्तु धान्यमक्षयमस्तु ते ॥५४॥भाजा ते चाऽक्षयाऽप्यस्तु श्रद्धा तेऽस्तु तथाऽक्षया ।अन्नसत्रं चाऽक्षयं तै पुण्यं ते चाऽक्षयं तथा ॥५५॥मुक्तिस्ते त्वक्षया चास्तु भक्तिस्ते चाऽक्षयाऽपि च ।दानधर्मश्चाऽक्षयस्ते भवत्वेवं प्रयाम्यहम् ॥५६॥इत्युक्त्वा पूजितश्चातिप्रसन्नः प्रययौ वनम् ।एवं लक्ष्मि मया तत्र सागरः परिरक्षितः ॥५७॥अथ श्रुत्वा वालखिल्या ब्रह्मपुत्रा महर्षयः ।अष्टाशीतिसहस्राणि वामनास्तत्र चाययुः ॥५८॥प्रसादपोलिका भोक्तुममायां प्रातरेव ह ।तेषां चक्रे सागरश्च सम्मानं स्वागतं तथा ॥५९॥आमन्त्रणं भोजनार्थं पंक्तिशस्ते ततोऽभवन् ।तदा नारायणं विष्णुं सस्मार मां च सागरः ॥६०॥द्रागेव चागतस्तत्र लक्ष्म्या साकं जनार्दनः ।ब्राह्मणश्चाऽभवं तत्र लक्ष्मीश्च ब्राह्मणी तथा ॥६१॥कृत्वा हस्ततलमानाः पोलिकाः सहसा दश ।अष्टाशीतिसहस्रेभ्यः प्रत्येकं दश वै दश ॥६२॥भाजया सहिता अददां बुभुजुस्तेऽतिहर्षिताः ।तृप्तास्ते वै ततो जाताः कृत्वा च चुलुकं ययुः ॥६३॥प्रशसन्तः सागरस्य भक्तिं प्रसन्नतां हरेः ।एवं लक्ष्मि मया तत्र त्वया साकं स सागरः ॥६४॥रक्षितः सुसहायेन भोजिताः ऋषयोऽखिलाः ।अथ ज्ञात्वा शंकरस्तद्गृहं पावनमुत्तमम् ॥६५॥दशलक्षगणैः साकं मध्याह्ने समुपाययौ ।सर्वे साधुस्वरूपास्ते जटाचर्मधराः खलु ॥६६॥अन्नसत्रं परं ज्ञात्वा चाऽक्षयं तद् ययाचिरे ।भोजनं पोलिकानां च भाजानां कृष्णपावनम् ॥६७॥सारिकासागरौ तत्र भीतौ सस्मरतुश्च माम् ।लक्ष्म्या साकं तदा तूर्णमुपस्थितोऽभवं गृहे ॥६८॥शतं च पोलिकाः कृत्वाऽददां प्रत्येकसाधवे ।दशलक्षयतिभ्यो वै दत्तवानहमेव ह ॥६९॥बहुरूपधरश्चाऽह शतं त्वन्तेऽवशेषिताः ।भुक्त्वा ते पोलिका भाजास्तृप्ताः प्रशंस्य सागरम् ॥७०॥ययुर्निजं हि कैलासं शंकरो ध्यानमाचरत् ।ददर्श कारणं विष्णुं बालकृष्णं श्रिया युतम् ॥७१॥आश्चर्यं परमं प्राप भक्ताधीनं विलोक्य माम् ।इत्येवं वै मया लक्ष्मि सागरश्चाऽवितस्तदा ॥७२॥अथ श्रुत्वा स्वयं ब्रह्मा पोलिकार्थमुपाययौ ।कोटिसिद्धैरुपेतो वै प्रसादलब्धये द्रुतम् ॥७३॥ययाचे व्योममार्गेण प्रसादं पोलिकोद्भवम् ।कोटिसिद्धप्रतृप्त्यर्थं सागरश्च पुनर्हरिम् ॥७४॥सस्मार मां रक्षकं चोपस्थितोऽहं तदाऽभवम् ।लक्ष्म्या साकं श्रिया साकं राधया साकमित्यपि ॥७५॥साकं ललितया चापि माणिक्या रमया सह ।पद्मावत्या सह ब्रह्मप्रियाभिः सह वै तदा ॥७६॥कोट्यर्बुदाभिः पत्नीभिश्चाऽम्बरेऽवस्थितोऽभवम् ।सहस्रं पोलिकाः कारयित्वा कोटिप्रियायुतः ॥७७॥सिद्धेभ्यश्चाददां प्रत्येकाय सहस्रपोलिकाः ।सहस्रं चाऽवशिष्टाश्चेत्याश्चर्यं विश्वसृट् ययौ ॥७८॥अथैवं सागरश्चापि मत्वा भाग्यं महत्तमम् ।कृष्णनारायणाधीनं सर्वं कृत्वा हि वर्तते ॥७९॥महीमानस्वागतं च ' रात्रिंदिवं करोति सः ।अक्षया कुसुला तस्य त्रैलोक्ये ख्यातिमाप ह ॥८०॥आयान्ति च परायान्ति महीमानास्त्रिलोकतः ।आयासं परमं प्रोह्य सागरः सेवते मुदा ॥८१॥नाऽयाचत सहायार्थं चापरं बलमैश्वरम् ।मामेव स्मरति भक्तो यदा भीतिं स गच्छति ॥८२॥एवमात्मनिवेदस्य भक्तस्य वीक्ष्य भावनाम् ।सेवां त्रिलोकिजीवानां प्रसन्नोऽहं ततोऽभवम् ॥८३॥विशेषेण मया भक्तकृते तत्र विचिन्तितम् ।देयमस्मै कल्पपात्रं यत्राऽसंख्यास्तु पोलिकाः ॥८४॥आविर्भवेयुः सततं भाजापात्रं तथाऽपरम् ।भाजा यत्राप्यनन्ताश्चाऽऽविर्भवेयुः सुपाचिताः ॥८५॥विचार्येत्थं ददौ तस्मै पात्रद्वयं सुतैजसम् ।प्रातरेव सुपक्त्वाऽत्र पोलिका भाजिकास्तथा ॥८६॥नित्यं रक्षति चाच्छाद्य पात्रयोरुभयोरपि ।मयोक्तः सागरस्तत्र त्वं वा ते स्त्री पतिव्रता ॥८७॥पूर्णपात्राण्यनन्तानि यावदिष्टानि तानि वै ।सकल्पयसि तावन्ति पूरितानि शुभानि च ॥८८॥निस्सरिष्यन्ति रम्याणि चाऽऽभ्यां संकल्पमात्रतः ।परिवेषणयत्नो वा पात्रदानक्रिया अपि ॥८९॥कर्तव्या न भविष्यन्ति पंक्तौ यास्यन्ति वै स्वतः ।एवमुक्त्वा पूजितोऽहं दत्वा जलस्य भाजनम् ॥९०॥तादृशं चाऽक्षयं पूर्णं पूर्णकलशकारणम् ।तिरोऽभवं ततः स्थानात् सागरो मुमुदे ह्यति ॥९१॥अथ ज्ञात्वा महाश्चर्यं भाद्रामावास्यसद्दिने ।कोट्यर्बुदाश्च पितरो महर्जनतपोभवाः ॥९२॥आययुः सुप्रसादस्येच्छया तृप्त्यर्थमुत्सुकाः ।शरीरिणः समस्तास्ते पंक्तिशोऽवस्थितास्तदा ॥९३॥सारिका स्नानशुद्धा च कृत्वा भाजाश्च पोलिकाः ।दुग्धपाकं श्राद्धयोग्यं न्यधात् तयोस्तु पात्रयोः ॥९४॥आच्छाद्य विष्णवे प्रार्प्य यथोक्तं समकल्पयत् ।सागरोऽपि कृतस्नानः पात्रान्तिकमुपाययौ ॥९५॥अचिन्तयत् कोट्ययुताऽर्बुदपात्राणि वै तदा ।पूरितानि ह्यसंख्यानि निर्ययुः पात्रयुग्मकात् ॥९६॥प्रत्येकपितृदेवाय प्रत्येकं समुपस्थितम् ।पात्रं पूर्णं पोलिकाभिः पायसान्नैस्तथा रमे ॥९७॥भाजाभिश्च तथा वारिकलशश्चेति तृप्तिदः ।कोट्यर्बुदाब्जपितरो भुक्त्वा तृप्तास्ततो ययुः ॥९८॥रिक्तपात्राणि विलयं स्वभावात् समुपाययुः ।एवं स सागरो भक्तो मया गोधुमसत्रके ॥९९॥वर्धितोऽतिकृपया वै सर्वस्वागतकृद् यथा ।किरातोऽन्वभवद् भक्त्या देवरातो हि सर्वथा ॥१००॥अथ कालान्तरे चाऽहं दम्पती दिव्यपार्षदैः ।सहितः सुविमानेनाऽनयं धामाऽक्षरं मम ॥१०१॥महीशाटीनगरी च पश्चाद् गोधुमभाजिका ।इतिनाम्नाऽभवल्लक्ष्मि तथा गोधुमसारिका ॥१०२॥गोधुमरा ततश्चापि कथ्यते पावनी धरा ।इत्येवं तन्महत्तीर्थं कृतं मया कृपालुना ॥१०३॥दम्पत्योर्मोक्षणे पश्चाद् राज्ञा गोधरसूरिणा ।कुसुला सा निजायत्ता कृता तावत्तु गोधुमाः ॥१०४॥अदृश्यतां गताः पात्रत्रयं चाऽदृश्यतां गतम् ।अन्नसत्रं समाप्तं च चमत्कारो लयं ययौ ॥१०५॥इत्येवं गोधरसूरिर्वीक्ष्य दैवकृतं हि तत् ।कुसुलं नित्यदा रिक्तं ह्यपूजयत् स्मरन् हरिः ॥१०६॥तथापि तु चमत्कारो गतो यस्तु गतो हि सः ।पठनाच्छ्रवणादस्य लक्ष्मि दिव्यगतिं लभेत् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सागराख्यकिरातभक्तस्य भक्त्या प्रसन्नेन श्रीहरिणा श्रेष्ठिरूपेण गोधुमपुञ्जोऽर्पितः कुसुलस्थोऽक्षयश्च कृतस्तत्पोलिकाभाजाजलपात्राण्यक्षयाणि कृतानि मोक्षश्चकृत इत्यादिनिरूपणनामा अष्टाऽधिकद्विशततमोऽध्यायः ॥२०८॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP