द्वापरयुगसन्तानः - अध्यायः २०५
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्तस्य पण्यकारिणः ।
नाम्ना वात्सल्यधीरस्य कथां परमपावनीम् ॥१॥
नागशालायने ग्रामे भक्तो वैश्योऽभवन्मम ।
कुटुम्बधनवाट्यादिधेनुक्षेत्रादिसम्पदा ॥२॥
वर्धमानोऽतिमान्यश्च लोकानां च नृपस्य च ।
विप्राणां पूजकश्चातिध्यानवृत्तिर्हरौ मयि ॥३॥
पूजापाठपरो नित्यं भक्तिकीर्तनतत्परः ।
तीर्थसाधुसतीमन्ता गोसेवः सुरसेवकः ॥४॥
वृद्धाऽभिपूजकश्चान्नदानधर्मपरायणः ।
धनाढ्यः स धनं वर्षे वर्षे यज्ञार्थमुत्तमम् ॥५॥
ददात्येव तथा वृक्षारोपणार्थं ददात्यपि ।
वापीकूपतडागानां खातार्थं च ददात्यपि ॥६॥
जीर्णदेवालयादीनामुद्धारे वितरत्यपि ।
अनाथबालदीनानां सहायार्थं ददात्यपि ॥७॥
गोवृषश्वशुकानां च पारावातादिपक्षिणाम् ।
घासाऽन्नकणकान् श्रेष्ठी ददात्येव सुधर्मवान् ॥८॥
व्यधादन्नादिसत्राणि धर्मशालाः शुभाश्रयाः ।
प्रपापर्वाणि रम्याणि वेदिकाश्चत्वरादिषु ॥९॥
सीम्नि जलान्नसत्राणि कुटीश्चाश्रयदायिकाः ।
अकरोत् स च देवानां पूजाप्रवाहमुत्तमम् ॥१०॥
एवं नित्यं तस्य लक्ष्मि द्रव्यं दानेऽपि दीयते ।
अक्षय्यं वर्धते नित्यं वात्सल्यधीरनाणकम् ॥११॥
एतादृशः स भक्तो मे व्रते महोत्सवं परम् ।
करोति राजवच्छ्रेष्ठोपचारैर्बहुमूल्यकैः ॥१२॥
वाद्यगायनगीत्याद्यैः कीर्तनैर्भजनैरपि ।
नृत्योत्सवादिभिश्चापि कारयत्येव सूत्सवम् ॥१३॥
निवेदितान्नसलिलमिष्टान्नफलपायसैः ।
तर्पयत्येव सर्वान् स महोत्सवे समागतान् ॥१४॥
पूर्वे दत्तं ततश्चात्र लब्धं ततोऽपि दीयते ।
लप्स्यते चाऽक्षयं सर्वं नारायणाय दीयते ॥१५॥
एवं मत्वा ददात्येव दत्तं चाऽक्षयतां व्रजेत् ।
वृद्धिं यायान्न तु ह्रासं तस्माद् देयं विशेषतः ॥१६॥
पुण्यं फलं महच्चापि दानस्य स्वर्गमुत्तमम् ।
प्रसन्नता हरेश्चापि तृप्तिश्चात्मगता भवेत् ॥१७॥
सुखदं सर्वथा दानं रसाऽन्नधनसम्पदाम् ।
गृहक्षेत्रवाटिकानां धेनूनां पयसां तथा ॥१८॥
द्रव्याणामुपकरणानां च दानं तथाऽक्षयम् ।
दातव्यं सर्वथा सम्पद्युक्तैः सम्पन्मिलिष्यति ॥१९॥
अदत्तं लभ्यते नैव नारीधनगृहादिकम् ।
दत्तमेवाऽऽप्यते सर्वं सुखं चेन्द्रियदेहजम् ॥२०॥
लक्ष्मि वात्सल्यधीरस्तु सत्रे सत्रे स्थले स्थले ।
लिलेख कृष्णनामानि कपाटेषु प्रपासु च ॥२१॥
कुटीषु भित्तिषु पात्रेष्वपि वस्त्रेषु वस्तुषु ।
जपते श्रीकृष्णनारायणं श्रीवल्लभम् प्रभुम् ॥२२॥
एवंविधस्य भक्तस्य नित्यं प्रपूजकस्य मे ।
गृहं चाऽहं जगामैव भूत्वा तु जटिलो यतिः ॥२३॥
अहं चाकारितस्तेन भोजनार्थं तृणासने ।
मया चाभिहितो भक्तः पादप्रक्षालनाय मे ॥२४॥
सुवर्णकलशे भृत्वा जलं सुगन्धिमिश्रितम् ।
स्नेहेनाऽक्षालयत् पादौ पपौ वारि प्रसादजम् ॥२५॥
अथापि भक्तराट् तूर्णं मया पुनर्निवेदितः ।
देहसम्मर्दनार्थं वै तैलैः सुगन्धिसारकैः ॥२६॥
सोऽपि प्रसन्नमनसा मेऽङ्गान्यमर्दयत्तथा ।
मयोक्तः स ततश्चाऽप्युष्णाद्भिः स्नापयितुं तु माम् ॥२७॥
द्रागुष्णाद्भिः सह तत्राययावुत्साहवान् स्वयम् ।
मया निराकृतः सोऽपि याचितस्तत्स्त्रियं प्रति ॥२८॥
तूर्णं सा सहसा मञ्जुलिकानाम्नी पतिव्रता ।
पत्याज्ञयोपतस्थे मां स्नापयितुं निःशङ्किनी ॥२९॥
प्रसन्नमानसा साध्वी ददौ स्वर्णासनं तु मे ।
अहं कौपीनमात्राढ्यो निषसाद शुभासने ॥३०॥
सा हस्ताभ्यां सती साध्वी भक्तानिका च मां मुहुः ।
सर्वांगेषु प्रसम्मृद्य स्नपयामास भावुकी ॥३१॥
मया तस्यै दर्शिता वै विकृतिर्जाग्रतात्मिका ।
तथापि सा विशंका मां स्नपयामास सादरम् ॥३२॥
स्पर्शं पुनः पुनः कृत्वा सर्वांगेषु पतिव्रता ।
प्रसन्नमानसा मञ्जुलिका न विकृतिं ययौ ॥३३॥
धीरा स्थिरा धर्मवती तुष्टाव च कृताञ्जलिः ।
प्रसन्नो भव मुक्तात्मन् यत्ते सेवां करोमि ते ॥३४॥
पत्युराज्ञा यथा स्यात्ते सेवां कुर्यां विसंशया ।
साधुर्नारायणः साक्षाद् दिव्यमूर्तिः स्वयं हरिः ॥३५॥
तस्य सेवा तु भाग्येन लभ्यते खलु योषिता ।
पत्याज्ञा चेत् तवाऽस्म्येव यतश्चास्मि पतिव्रता ॥३६॥
उक्तश्चैवं तथाऽहं च लक्ष्मि तत्पतिमाह्वयम् ।
पत्नी ते दीयतां मह्यं बाधते मानसं मम ॥३७॥
पतिः प्रपूज्य पादौ मे तदा तथाऽस्तु संददौ ।
साऽपि मत्परभावा च व्यजायताऽऽज्ञया रमे ॥३८॥
अस्पृष्ट्वा तां तदा तूर्णं दिव्यश्चतुर्भुजोऽभवम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥३९॥
साऽपि धन्यां मन्यमाना स्वां पपात च पादयोः ।
तस्याः पतिश्च वात्सल्यधीरोऽपि प्रेमविह्वलः ॥४०॥
साधुरूपं हरिं मां च ज्ञात्वा पपात पादयोः ।
भक्तान् समाह्वयामास सेवां चक्रे च तत्क्षणम् ॥४१॥
वस्त्रविभूषणैश्चापि चन्दनैः कुंकुमादिभिः ।
अर्पयामास सर्वं मे भोजनं च जलं फलम् ॥४२॥
मञ्चं स्वर्णासनं चापि शृंगारं च परार्हणम् ।
नीराजनं चकारापि शयनं मे ददौ ततः ॥४३॥
अथ साधुस्वरूपोऽहं सर्वैः सम्पूजितः प्रभुः ।
ययाचिरे च भक्ताश्च तथा वात्सल्यधीरकः ॥४४॥
भुक्तिर्लब्धा दिव्यगतिर्दीयतां परमेश्वर ।
ज्ञानं माहात्म्यसम्पन्नं दीयतां ते परात्परम् ॥४५॥
अहं लक्ष्मि ददौ तस्मै तेभ्यश्च ज्ञानमुत्तमम् ।
स्नेहः कार्यो भगवति मयि श्रीपरमेश्वरे ॥४६॥
सर्वार्पणं विधेयं च निःशंकं मयि माधवे ।
निःस्पृहत्वं विधेयं च सांसारिकेषु सर्वथा ॥४७॥
वैराग्यः सर्वथा रक्ष्यो बन्धनस्य विछित्तये ।
कृष्णे मय्यनुरागश्च प्रेम स्नेहोऽतिस्निग्धता ॥४८॥
कर्तव्या सर्वथा नारीनरैर्मदर्पणाय वै ।
यतितव्यं नित्यशश्च प्राप्तो भवामि तेन ह ॥४९॥
स्नेहेन हृदयेऽखण्डं स्मरणं मे हरेर्भवेत् ।
मम मूर्तेः सदा स्फुर्तिर्वर्तेत तेन सौख्यदा ॥५०॥
अन्यभानास्तु संकल्पाश्चोदयं नेयुरेव ह ।
विलीना मायया साकं निर्बीजास्ते भवन्ति वै ॥५१॥
पूर्णप्रेमवतां पूर्णाः संकल्पा मम गोचराः ।
नान्यगोचरा जायन्ते सर्वदा भक्तियोगिनाम् ॥५२॥
विपरीते देशकालसंगादौ चेत् तु मायिकः ।
संकल्पो यद्युत्पद्येत तदा व्यथा भवेद्धृदि ॥५३॥
यथा नेत्रे तीक्ष्णसूचीक्षेपे व्यथा भवेत्तथा ।
यथा तीक्ष्णा शल्यधारा हृद्गता वै व्यथां क्रियात् ॥५४॥
तथोद्भूताऽन्यसंकल्पो व्यथां कुर्याज्जनं श्रितम् ।
एतादृशः परः स्नेहः कर्तव्यो मयि केशवे ॥५५॥
स्नेहस्तु मम माहात्म्यज्ञानाद् भवति वर्धितः ।
वरमालाग्रहणाच्च नैसर्गिको भवेदपि ॥५६॥
कण्ठी माला वरमाला मन्त्रो मे च वरः स्मृतः ।
तदादाने भवेत् स्नेहः कन्याया इव कान्तके ॥५७॥
अदृष्टेऽपि भवेत् स्नेहः सर्वाधारे हि रक्षके ।
तदर्पणात्मिका वृत्तिः सर्वा भक्तस्य जायते ॥५८॥
करग्रहेऽपि संस्पर्शे स्नेहश्चातीव वर्धते ।
सर्वात्मनाऽर्पणे स्नेहः निःसीमा सम्प्रवर्धते ॥५९॥
गुरोः प्रसंगतः स्नेहो गुरुः साधुजनो मतः ।
सतां प्रसंगमासाद्य माहात्म्यं चाप्नुयान्मम ॥६०॥
देहे दैहिकविषये सम्पत्स्वपि विवेकवान् ।
रागं हित्वा हरौ कृष्णे मयि स्नेहं विवर्धयेत् ॥६१॥
जडं देहं दैहिकं च न मन्तव्यं निजं क्वचित् ।
आत्माऽहं चेतनो दिव्यो भगवच्छरणागतः ॥६२॥
सच्चिदानन्दरूपोऽस्मि मुक्तोऽस्मि ब्रह्मसंस्थितः ।
माया मे नास्ति लोकेऽत्र विना हरिं न किञ्चन ॥६३॥
एवं विवेकवान् कृष्णे स्निग्धो भवति सर्वथा ।
अहन्ताममताहीनः सर्वरागादिवर्जितः ॥६४॥
न माता न पिता मेऽस्ति न स्त्री न द्रव्यमस्ति मे ।
न पुत्रो न सुता मेऽस्ति न गेहं मे न वाटिका ॥६५॥
पूर्वभवेषु बहवो जाता वै जनकादयः ।
अज्ञानेन मया चात्र विस्मृतास्तत्तथा त्विमे ॥६६॥
आत्मनो नहि माताऽस्ति कुतः पिता कुतो गृहम् ।
अहन्ताममतारागद्वेषाश्चापि कुतस्तराः ॥६७॥
एवं विवेकिनां सर्वा नश्यन्ति ममतादिकाः ।
मय्येव श्रीहरौ चाहंममत्वं तूपजायते ॥६८॥
सत्यं तन्मोक्षदं भक्तास्तरन्त्येतेन मज्जनाः ।
विवेकहीनाः संसारे बध्यन्ते न तरन्ति ते ॥६९॥
यथा नाट्यगृहे प्रौढाः किशोरा रंगभूकृते ।
नाट्यसम्पादनार्थं वै वेषान् वहन्ति चोचितान् ॥७०॥
वेषाणां कुशलास्तेषां धारयन्ति सुवेषकान् ।
सज्जयन्ति सुशोभाढ्यान् शृंगारयन्ति शोभनान् ॥७१॥
किशोरान् स्त्रीस्वरूपाँश्च क्लृप्तयन्ति सुरूपिणः ।
तत्र वेषधरो वेषसम्पादकान् जनान् यदि ॥७२॥
मन्येत पितरौ जन्मप्रदौ मौढ्यात्तदा तु सः ।
अज्ञ एव भवेत् सर्वविवेकादिविवर्जितः ॥७३॥
तथा देहोपि वेषोऽस्ति देहादौ पितरौ न तु ।
मन्तव्यौ चात्मना ब्रह्मरूपेण वर्तिना त्विह ॥७४॥
एवमेव यथा नानाजातिषु बहवो गताः ।
देहस्योत्पादकाश्चापि तथाऽस्य वर्ष्मणोऽपि तौ ॥७५॥
एवं विवेकं कृत्वैव स्त्रीपुत्रधनसम्पदि ।
स्नेहं त्यक्त्वा प्रकुर्याद्वै स्नेहं मयि परेश्वरे ॥७६॥
देहेऽहन्ता विनष्टा स्याद् दैहिके ममता ततः ।
आत्मनिष्ठाबलं नित्यं प्रवर्धेताऽक्षरप्रदम् ॥७७॥
वर्णाश्रमाभिमानश्च लयं यायाद् विवेकतः ।
मुक्तिं प्रत्येव वलयं निजात्मनः समुद्भवेत् ॥७८॥
तद् गृहीत्वा भुजायां वै कृष्णं कान्तं समाश्रयेत् ।
भुक्तिर्मुक्तिर्भवेदस्य करस्था नैव संशयः ॥७९॥
गृहस्थोऽपि भवेच्चापि मन्तव्यः साधुरेव सः ।
भजेत् कृष्णं तु यस्तादृग्ज्ञाननिष्ठो विरागवान् ॥८०॥
यस्माद्धरिर्न वै दूरे दुर्लभः साधुरेव सः ।
तस्माद् बन्धा विनश्यन्ति सेव्यः साधुः स एव सः ॥८१॥
ब्रह्मात्मना वर्ततेऽसौ देहादिभाववर्जितः ।
सर्वार्पणात्मना लक्ष्मि तस्मात् किञ्चिन्न शिष्यते ॥८२॥
अपित्यागवतां त्यक्तगेहादीनामपि क्वचित् ।
अभिमानं भवेच्चेत्तदस्य योगाद् विलीयते ॥८३॥
एवं स पण्यकृच्छ्रेष्ठी लक्ष्मि मया निबोधितः ।
महासाधुसमो जातः पत्नीपुत्रादिसंयुतः ॥८४॥
व्यापारान् सर्वथा कृष्णेऽर्पितान् चक्रे कुटुम्बयुक् ।
विशेषतश्चात्मनिष्ठां माहात्म्यं मे विवेद सः ॥८५॥
अथ वैराग्यमापन्नः पत्न्या साकं स भक्तराट् ।
इयेष वैष्णवीं दीक्षां साधवीं साधुसम्मताम् ॥८६॥
ममाऽऽज्ञया स प्रददौ पुत्रेभ्यो धनसम्पदः ।
स्वयं वात्सल्यधीरः स मञ्जुलिकासतीयुतः ॥८७॥
दीक्षां जग्राह मन्त्रं च साधुर्यत्याश्रमोऽभवत् ।
साध्वी पत्नी च तस्याऽभूत् सांख्ययोगिन्यतः परम् ॥८८॥
वात्सल्यायननामाऽयं मया साधुस्तदा कृतः ।
वैराग्येण युतस्तीर्थयात्रार्थमुद्यमं व्यधात्। ॥८९॥
तिरोऽभवं त्वहं द्राक् च साधुः प्रजां प्रणम्य च ।
पुत्रानापृच्छ्य तीर्थार्थं चाऽश्वपट्टसरो ययौ ॥९०॥
आक्षरं परमं क्षेत्रं प्राप कुंकुमवापिकाम् ।
अनादिश्रीकृष्णनारायणं मां प्राङ्निभालितम् ॥९१॥
तीर्थं चक्रेऽभितस्तत्रोवास श्रीलोमशाश्रमे ।
मञ्जुलिका महासाध्वी ब्रह्मप्रियासु चाऽवसत् ॥९२॥
उभौ तौ साधुरूपौ मां भजेते चात्मवेदिनौ ।
वर्तमानाविमौ लक्ष्मि पश्य मञ्जुलिकां सतीम् ॥९३॥
तवेयं सेविका चास्ते पावनी भक्तिसंभृता ।
निःसंशयाऽभवद् या सा साधवे मे पुरा गृहे ॥९४॥
अर्पणार्थं स्थिता पत्युराज्ञयाऽत्र ततः स्थिता ।
दिव्या दिव्यस्वरूपाऽद्य वर्तते ब्रह्मयोगिनी ॥९५॥
वात्सल्यायनसाधुश्च वर्तते ब्रह्मरूपवान् ।
आत्मनिष्ठस्तथा सम्यग्ज्ञानी स्नेहपरं गतः ॥९६॥
मायां कालं च कर्माऽपि गणयत्येव नैव सः ।
मद्बलात् सर्वतत्त्वानामुच्छ्रये वर्तते ह्यसौ ॥९७॥
आकशेऽयं प्रयात्येव देहेनानेन सर्वथा ।
समुद्रे पर्वतेऽरण्ये मेघे प्रयात्यनर्गलः ॥९८॥
वह्नौ चन्द्रे तथा सूर्ये लोकालोकाचले दिवि ।
मेरौ याति पुनर्याति स्वाश्रयं योगपारगः ॥९९॥
मम मूर्तिं सदा ध्यायति मत्कृपया साधुराट् ।
धर्तुं कर्तुं च संहर्तुं समर्थो विद्यतेऽधुना ॥१००॥
ममोपासनया लक्ष्मि सेवया चाप्यशंकया ।
मम योगेन दिव्यत्वं प्राप्तोऽयं मुक्तवत् सदा ॥१०१॥
एवं भक्तिं प्रकुर्वन्तो भवन्ति दिव्यविग्रहाः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिस्तथा भवेत् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पण्यकृतो वात्सल्यधीराख्यभक्तस्य तत्पत्न्या मञ्जुलिकादेव्या भक्त्या प्रसन्नो भगवान् दर्शनं ददौ, साधुभूतौ तौ च वर्तेते इत्यादिनिरूपणनामा पञ्चाधिकद्विशततमोऽध्यायः ॥२०५॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP