संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं साध्वीकथां ह्यनुत्तमाम् ।सौराष्ट्रे जालकपुर्यामभूद् गोपी सुचन्द्रिका ॥१॥गोपश्चास्याः पतिः कृष्णनारायणं भजत्यपि ।भक्तोऽभवत् सदा स्नानपरश्च गोव्रजाऽनुगः ॥२॥गोपालो गोपवासाश्च गोपवासश्च मां सदा ।सेवते बालकृष्णं वै वने वन्यादिभिः सदा ॥३॥पायसैर्दुग्धपाकैश्च क्षीरैर्दध्ना घृतादिभिः ।नवनीतेन पुष्पैश्च जलैः पूजयतीति माम् ॥४॥स च ज्वरेण वै वर्षाकाले त्यक्त्वा निजं वपुः ।ययौ स्वर्गं सकामो मे भक्तो दौर्हृदलक्षणाम् ॥५॥गोपीं पत्नीं परित्यज्य ह्यर्धायुर्विगमे सति ।गोपालो वै कृपया मे विमानवरमास्थितः ॥६॥अप्सरोभिश्च सहितो राजते धेनुभिः सह ।सर्वे सर्वोपकरणैर्भक्ष्यभोज्यादिभिर्युते ॥७॥भूतले चास्य पत्नी सा भक्ता मे गर्भबालका ।सगर्भाऽपि निजकान्तमनु मर्तुं समिच्छति ॥८॥पतिव्रता पतिं विना दुःखं सोढुमशक्तिका ।ययौ चितां स्वामिनश्च तदा लोकैर्निवारिता ॥९॥गर्भस्य नाशने गोपि! पापं बहुगुणं तव ।पत्युः स्वर्गं तव जातं स्वर्गविमानकम् ॥१०॥रक्ष गर्भं पुत्रवती भविष्यसि समान्तरे ।पत्युः पृष्ठे मरणे तु पुण्यं वै पतियोषितः ॥११॥अगर्भाया भवत्येव सगर्भायास्तु दूषणम् ।तस्मान्मा कुरु घातं स्वं सुखिनी वस गोव्रजे ॥१२॥इत्येवं वार्यमाणाऽपि पपात पतिना सह ।चितायां तावदेवाऽयं पतिस्तस्या विमानगः ॥१३॥ददृशे व्योममार्गेण मा मैवं गोपि! मा कुरु ।निषिषेध स्वहस्तेनोत्तोलयामास तां प्रियाम् ॥१४॥अदग्धां तां समाश्वास्य दाहं प्रशाम्य तत्क्षणम् ।विमाने तां समागृह्योपाऽऽदिशद् गर्भरक्षणे ॥१५॥पुत्रस्य रक्षणं कृत्वा विवाह्य च ततः परम् ।समायाहि मम स्वर्गं मा कृथाश्चाऽनुयात्रिकाम् ॥१६॥इत्युक्ता सा प्रशान्ता च सुखिनी पतिवाक्यगा ।पृथ्व्यां विमानात् पतिना प्रापिता शोकवर्जिता ॥१७॥चितां नत्वा पतिं नत्वा ययौ गृहं हि गोपिका ।भजते मां हरे कृष्ण कृष्णनारायण स्म च ॥१८॥धर्मं भक्तिं व्रतं शीलं पालयत्येव गोपिका ।सुषुवे च सुतं गोपी सुचन्द्रिका शुभाननम् ॥१९॥ववृधे बालकश्चाऽपि युवा जातो विवाहितः ।गोपी पुत्राय च ततो न्यवेदयत् पुराभवम् ॥२०॥सर्वं वृत्तं निजपत्युः पुत्रोऽपि मुमुदे ततः ।अथ स्वर्गं प्रगन्तव्यं मया ते पितरं प्रति ॥२१॥इत्युक्त्वा सा गोशकृतोपलिप्य भूतलं ततः ।उपाविशत् क्षणं ध्यात्वा पतिं तत्याज वर्ष्म तत् ॥२२॥तावत्पत्युर्विमानं तद् देवदेवीसमन्वितम् ।समायातं व्योमतश्चाऽऽरोहयामासुरेव ताम् ॥२३॥सुचन्द्रिकां जयवाक्यैर्वर्धयन्त्योऽप्सरोवराः ।गोपपुत्रो वधूयुक्तो व्यलोकयद् विहायसि ॥२४॥पितरं देवरूपं च प्राणमन्मातरं ततः ।विमानं क्षणमात्रेण गतं चाम्बरमूर्धनि ॥२५॥विमानस्था मञ्जुघोषाऽप्सरोवरा तु गोपिकाम् ।अपृच्छत् सुचन्द्रिकां च भर्तुः सन्निधिमेव ह ॥२६॥केन व्रतेन कल्याणि! केनाऽऽचारेण वर्धिता ।गोपी विधूय पापानि देवलोके समागता ॥२७॥वह्न्युज्ज्वलाम्बरधरा स्वर्णचम्पकशोभना ।ज्वलमाना च तेजोभिर्दिव्या कथं स्वरागता ॥२८॥नाल्पेन तपसा गोपि! दानेन नियमेन वा ।स्वर्गं लोकमनुप्राप्ता कथं वद समागता ॥२९॥श्रुत्वा सुचन्द्रिका गोपी मञ्जुघोषां समब्रवीत् ।कथं वै प्राप्यते स्वर्गं वद मे तत्र कारणम् ॥३०॥मञ्जुघोषा ततः प्राह गोपीं शृणु च कारणम् ।काषायवसना या स्यात् त्यागमार्गपरायणा ॥३१॥मुण्डा वा जटिला वा स्यात्तथा वल्कलधारिणी ।तापसी दानपरमा बहुदा पुण्यशालिनी ॥२२॥सर्वप्रदाऽतिथये या साधवे च महात्मने ।सा स्वर्गगा भवेत् साध्वी पातिव्रत्यपरायणा ॥३३॥पतिर्देवः पतिः कृष्णः पतिरेव परो वृषः ।पत्याज्ञा परमो वेदः पत्युस्तुष्टिर्वृषः स्त्रियाः ॥३४॥एवं या वर्तते साध्वी सा स्वर्गं विन्दतेऽच्युतम् ।श्रुत्वा प्राह तदा गोपी शृणु विमानवाहिनि! ॥२५॥नाऽहं काषायवसना नाऽपि त्यागपरायणा ।न मुण्डा न जटिला वा नाऽपि वल्कलधारिणी ॥३६॥और्णाम्बरादिधर्त्र्यास्मि नापि वै तापसी तथा ।वनवासा दुग्धदाना किन्त्वतिथिं न वेद्म्यपि ॥३७॥साधुसेवाकरी चाऽस्मि गोपी गोपानुयोजिता ।पतिसेवापरा चाऽऽसं येन देवीत्वमागता ॥३८॥आहितानि परुषाणि कदाचिन्नाऽब्रुवं पतिम् ।श्रीकृष्णदेवसाधूनां पूजनेऽहं रताऽभवम् ॥३९॥पत्युर्गवां सेविका च श्वश्रूश्वशुरवर्तिनी ।पैशुन्ये न प्रवर्ते च न कापट्य मनस्यपि ॥४०॥अस्थाने न च तिष्ठामि चाऽश्लीलं प्रवदामि न ।असद्वा हसितं वाप्यहितं वा पापसंभृतम् ॥४१॥रहस्यं चाऽरहस्यं वा न वै करोमि सर्वथा ।गवामर्थे निर्गतं मे भर्तारं गृहमागतम् ॥४२॥जलान्नासनदानाद्यैः सेवयामि सदाऽनुगा ।यदन्नं रोचते नाऽस्य यद्भोज्यं रोचते न च ॥४३॥भक्ष्यं लेह्यं च पेयं च सर्वं तद् वर्जयाम्यहम् ।कुटुम्बार्थे समग्रं वै कार्यं सदा करोमि च ॥४४॥मंगलानि मम सर्वविधानि स्वामिनः कृते ।अंजनं रोचनां स्नानं माल्यानुलेपनादिकम् ॥४५॥प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ।नोत्थापयामि भर्तारं सुखसुप्तं क्वचित् खलु ॥४६॥आन्तराण्यपि कार्याणि करोम्यहं सुखान्विता ।नाऽऽयासयामि भर्त्तारं तेन तुष्यति मे मनः ॥४७॥गुप्तगुह्या सदा चास्मि तदाज्ञावशवर्तिनी ।एवं प्रपाल्य वै पत्युश्चितायां निधनोत्तरम् ॥४८॥निविष्टाऽपि निषिद्धा चोत्तोलिता जीविताऽऽहिता ।पृथ्व्यां पुत्रं सवधूकं सम्पाद्य दिवमागता ॥४९॥एवं वै मञ्जुघोषेऽहं दिवमेतत्समागता ।पतिः प्राप्तो मया चात्र पुत्रो मे वर्तते भुवि ॥५०॥एतादृश्यो विविधा वै गोप्यो भवन्ति भूतले ।कृष्णगोप्यश्च ता जाताः कल्पकल्पान्तरेष्वपि ॥५१॥भजित्वा श्रीहरिं कृष्णनारायणं तथा पतिम् ।एवमहं पतिं देवं भजित्वाऽत्र समागता ॥५२॥श्रुत्वैवं मञ्जुघोषा सा प्रहृष्टा प्रशशंस ताम् ।अन्या अप्सरसश्चापि शशंसुस्तां पतिव्रताम् ॥५३॥बहुकालमुषित्वा च भोगान् भुक्त्वा ह्यनेकशः ।सत्यलोकं ययौ साध्वी पत्या साकं सुचन्द्रिका ॥५४॥सावित्री चात्र चाऽपृच्छत् स्वर्गाद् गच्छन्ति वै सुराः ।मर्त्यलोकं चाऽवशेषं भोक्तंु त्वं कथमत्र वै ॥५५॥सत्यं समागता साध्वि वद तत्र हि कारणम् ।सुचन्द्रिका च सावित्रीमुवाच हृष्टमानसा ॥५६॥स्वर्गे दृष्टं मया सर्वं सुखं भोगात्मकं परम् ।परन्त्वनियमं तद्धि शीलव्रतविवर्जितम् ॥५७॥देवानां नास्ति वै शीलं न शीलं देवयोषिताम् ।अप्सरस्सु व्यवायश्च विद्यते परमो दिवि ॥५८॥देवेषु चापि देवीनां प्रायशोऽपि तथा विधा ।रीतिर्वै विद्यते तत्र सावित्रि! किं वदाम्यहम् ॥५९॥कामरूपधरा देवा देव्यश्चापि तथाविधाः ।विहरन्ति यथेष्टं वै मर्यादावर्जिताः खलु ॥६०॥पातिव्रत्यं न देवीषु पत्नीव्रतं न नाकिषु ।एवंविधा भुक्तशेषा व्रजन्ति मानवालयम् ॥६१॥प्रधानेषु च देवेषु पत्नीव्रतं न विद्यते ।का कथा चाऽल्पदेवानां ते मृता यान्ति मर्त्यकम् ॥६२॥संज्ञा चान्द्री रोहिणी च पौलोमी ऋषियोषितः ।एताश्चान्याः स्वल्पसंख्या भवन्ति वै पतिव्रताः ॥६३॥मया स्वर्गे मम पत्युर्विमाने वै पतिव्रतम् ।पालितं सर्वथा नित्यं यथा पृथ्व्यां तथा दिवि ॥६४॥हरेः पूजा कृता नित्यं वृषश्चापि प्रपालितः ।अनन्यनरसंस्पृश्या भवामि पूर्वपुण्यतः ॥६५॥श्रीहरेः कृपया चापि सावित्रि! तद्बलादहम् ।सह पत्या सत्यलोकं चायाता नाऽन्यकारणम् ॥६६॥अत्रोषित्वा प्रयास्यामि कृपया स्वामिनस्तव ।वैकुण्ठं तु जलोर्ध्वे यत् पत्युर्हरेर्व्रतेन च ॥६७॥इत्येवं चाऽवदत् साध्वी न्यूषतुस्तत्र वै चिरम् ।ततो ययतुर्वैकुण्ठं विष्णोः पादाम्बुजे ह्युभौ ॥६८॥गत्वा तत्र महासाध्वी नेमे लक्ष्मीं हरिप्रियाम् ।ननाम विष्णुं गोपश्च ववन्दतुश्च तौ मुदा ॥६९॥पृष्टा लक्ष्म्या कथं साध्वि सत्यलोकादुपागता ।सुचन्द्रिका श्रियं प्राह कान्तभक्त्या समागता ॥७०॥कान्तोऽयं मे हि गोपालो विष्णुश्चाऽयं परेश्वरः ।कान्तं भजामि नित्यं वै कान्तकान्तं च शाश्वतम् ॥७१॥साध्वीधर्मं समापन्ना पातिव्रत्यपरायणा ।कान्तधर्मबलेनाऽहं वैकुण्ठं समुपागता ॥७२॥अथ तत्राऽप्युषित्वा सा चिरं पत्या समन्विता ।ययौ गोलोकमेवाऽपि गोपी गोपेन शोभिता ॥७३॥नेमे गोपी राधिकां च गोपः कृष्णं ननाम च ।ऊषतुस्तत्र लोके तौ गोपीगोपगणेष्वपि ॥७४॥राधा सुचन्द्रिकामाह कथं चाऽत्र समागता ।वद मे कारणं गोपि! केन पुण्येन चागता ॥७५॥सुचन्द्रिकाऽऽह राधां वै कृष्णकान्तस्य सेवया ।कान्तस्य सेवया कान्तकान्तस्याऽपि च सेवया ॥७६॥पातिव्रत्येन धर्मेण कृष्णधर्मेण गोगृहम् ।आगताऽहं राधिकेऽत्र साध्वीधर्मेण योजिता ॥७७॥पातिव्रत्यं परो धर्मः सर्वधर्मोत्तमोत्तमः ।कृष्णधर्मः परो धर्मः साध्वीधर्मोत्तमोत्तमः ॥७८॥मया नित्यं मम कान्तः पूजितो गोपसत्तमः ।गोपानामपि गोपश्च कृष्णः सदा प्रपूजिताः ॥७९॥तेन पुण्येन लोकेऽत्र चागता राधिके तव ।उषित्वा च चिरं पश्चाद् यास्याम्यक्षरधाम वै ॥८०॥कृष्णाज्ञया तु सा साध्वी कान्तयुतोषिता चिरम् ।पातिव्रत्यं पालयित्वा ययौ धामाऽक्षरं ततः ॥८१॥अनादिश्रीकृष्णनारायणाश्रयं परात्परम् ।ब्रह्मह्रदे चाप्लुता च महामुक्तानिकाऽभवत् ॥८२॥मुक्तोऽभवत् पतिश्चापि ब्रह्मभावान्वितस्तदा ।मायाकार्याणि सर्वाणि लीनानि वै द्वयोस्तदा ॥८३॥एकभावानि तत्त्वानि जातानि च द्वयोस्तदा ।आत्मतत्त्वं समस्तं वै समूर्तं शोभनं परम् ॥८४॥पुरुषोत्तमरूपेण रूपितं चाऽभवत्तदा ।पुंस्त्रीभावौ गतौ तत्र दिव्यभावावुपागतौ ॥८५॥श्रीहरेस्तत्र सारूप्यं सालोक्यं सार्ष्टिताऽभवत् ।सामीप्यं चाऽभवत्तत्र नेमतुः पुरुषोत्तमम् ॥८६॥ऊषतुश्चाऽक्षरे धाम्नि जपन्तौ पुरुषोत्तमम् ।अनादिश्रीकृष्णनारायणश्रीपरमेश्वर ॥८७॥परब्रह्म हरे कृष्ण श्रीकृष्ण पुरुषोत्तम ।इत्येवं तौ ततो लक्ष्मि मुक्तौ जातौ ममाऽक्षरे ॥८८॥पूर्वं तौ लोमशात् प्राप्तौ मम मन्त्रान् भुवस्तले ।तद्बलान्मम भक्तिश्च व्यवर्धत तयोश्चिरात् ॥८९॥पतिव्रत्यं हारिव्रत्यं पत्नीव्रतं च शोभनम् ।व्यवर्धत सदा गोप्या गोपस्याऽप्युत्तरोत्तरम् ॥९०॥मे साधूनां सेवया च शीलेन सर्वथा तथा ।सर्वलोकेषु मे भक्त्या प्राप्तवन्तो हि मां पतिम् ॥९१॥माणिक्या मे प्रिया धाम्नि जया च ललिता तथा ।पप्रच्छुस्तां गोपिकां वै कथं चात्र समागता ॥९२॥सुचन्द्रिकाऽऽह माणिक्यां मुक्तां श्रीपरमेश्वरि ॥पतिशुश्रूषया साध्वीधर्मवृत्त्या तथा शुभे ॥९३॥अनादिश्रीकृष्णपातिव्रत्यभक्त्या समागता ।पतिर्मेऽयं महामुक्तो ब्रह्मह्रदे समप्लवात् ॥९४॥सञ्जातश्चाऽऽहमेवापि ब्रह्मप्रियाऽस्मि सर्वथा ।जाता मुक्तानिका साध्वी मुक्तरूपा हि माणिकि ॥९५॥कृपालभ्या परामुक्तिः सर्वथा नैव संशयः ।सतां सेवा हि सत्संगः सेवया पुण्यशेवधिः ॥९६॥पुण्यपुञ्जैर्विवेकश्च भवेदात्मपरात्मनोः ।विवेकादात्मकल्याणे प्रवृत्तिर्जायते ततः ॥९७॥पापनाशः पावनत्वं ताभ्यां भक्तिरुदेति च ।भक्त्या च नामधामादिस्मरणं स्नेहसंभृतम् ॥९८॥स्नेहार्पणेनेष्टसिद्धिः सविविधा प्रजायते ।परमात्मा सदेष्टश्चाऽनादिनारायणो हरिः ॥९९॥सोऽयं सम्प्राप्यते सिद्धः पतिः कृष्णोऽतिवल्लभः ।एवं मया हरिः कान्तः प्राप्तोऽत्राऽक्षरधामनि ॥१००॥इत्युक्ता माणिकी तुष्टा प्रशशंस सुचन्द्रिकाम् ।सखीं शीलवतीं प्राप्याऽऽनन्दिता सा बभूव च ॥१०१॥सुचन्द्रिका सदा मुक्ता ह्युवास श्रीरिवाऽपरा ।हरिप्रियाऽक्षरे धाम्नि लक्ष्मि भक्ता प्रिया मम ॥१०२॥इत्येवं दर्शितं तेऽत्र साध्वीमाहात्म्यमुत्तमम् ।सस्वामिन्या हि भक्ताया मे साध्व्या मोक्षकृत्परम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सुचन्द्रिकाख्यगोप्याः पातिव्रत्येन हरिपातिव्रत्यभक्त्या च सपतिकायाः स्वर्गसत्यवैकुण्ठगोलोकाऽक्षरधाम-गमनमित्यादिसाध्वीचमत्कारनिरूपणनामाऽष्टसप्ततितमोऽध्यायः ॥७८॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP