संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६७ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-आपद्गतस्य भक्तस्य भक्तायास्तव केशव ।आपन्नाशः कथं स्याच्च पापनाशः कथं भवेत् ॥१॥श्रीपुरुषोत्तम उवाच-अव्रतस्याऽप्यशक्तस्य ज्ञानहीनस्य देहिनः ।आपत्पापादिनाशार्थं स्तोत्रं व्यापहनं मतम् ॥२॥एकाग्रमानसो भूत्वा स्तुवीत परमेश्वरम् ।अवताराँस्तथा मुक्तानीश्वरान् पितृदेवताः ॥३॥ऋषीन् गुरून् भागवतान् साधून् भक्तान् स्तुवीत च ।अनन्यशरणो भूत्वा प्रार्थयेत् सुखवान् भवेत् ॥४॥सर्वसिद्धिप्रदं स्तोत्रं दिव्यं वदामि ते रमे ।श्रोतुर्वक्तुर्वाचयितुः सर्वेष्टानां द्रुतं प्रदम् ॥५॥ 'नमोऽनादिकृष्णनारायणाय परमात्मने ।महाभगवते मुक्ताऽक्षरेशाय परात्मने ॥६॥सृष्टित्रयाधिनाथाय सर्वान्तर्यामिणे नमः ।परब्रह्मणे पुरुषोत्तमाय चावतारिणे ॥७॥सर्ववित् सर्ववासः श्रीनिवासः सर्वसंस्थितः ।पराऽक्षरस्थो मुक्तेशश्चापत्पापं व्यपोहतु ॥८॥अवतारी परब्रह्म दिव्यात्मा श्रीनरायणः ।परमेशो हि भगवानापत्पापं व्यपोहतु ॥९॥अनाद्यनन्तः सर्वेशः सर्वविद्याधरो हरिः ।सर्वप्रदः सुखदश्च पापाऽऽपदो व्यपोहतु ॥१०॥अणोरणीयान्महतो महीयान् विश्वपूजितः ।अनादिश्रीकृष्णनारायणः पापं व्यपोहतु ॥११॥ब्रह्मप्रियाप्रियः कान्तः शान्तः स्नेहभरः प्रभुः ।हरिप्रियामनोहारी पायाऽऽपदो व्यपोहतु ॥१२॥मुक्तमण्डलसंसेव्यो मुक्तानिकाप्रसेवितः ।कमनीयः परः कान्तः पापाऽऽपदो व्यपोहतु ॥१३॥अवतारी परिपूर्णः परब्रह्म परात्परः ।परावरेशः परमः पापाऽऽपदो व्यपोहतु ॥१४॥श्रीपतिः श्रीधरः श्रीहृत् श्रीमान् श्रीदः श्रियाऽन्वितः ।श्रीपादः श्रीहरिः कृष्णः पापाऽऽपदो व्यपोहतु ॥१५॥लक्ष्मीपतिर्लक्ष्मीधरो लक्ष्मीहृत् लक्ष्मदाऽन्वितः ।लक्ष्मीसेवाऽतिसन्तुष्टः पापाऽऽपदो व्यपोहतु ॥१६॥राधापतिश्च राधाधृग् राधाहृद्राधिकाऽन्वितः ।राधात्मा राधिकाकृष्णः पापाऽऽपदो व्यपोहतु ॥१७॥माणिकीवाहनो माणिकीश्वरो माणिकीप्रभुः ।माणिक्याऽभिनवहारः पापाऽऽपदो व्यपोहतु ॥१८॥गोलोकेशो गोपिकेशो गोपीगोपप्रपूजितः ।गोपालकृष्णो गोधृङ् मे पापाऽऽपदो व्यपोहतु ॥१९॥नृवरो नृपतिर्नाथो नारायणो नरोत्तमः ।वैकुण्ठवासी भगवान् पापाऽऽपदो व्यपोहतु ॥२०॥वसुदो वासुदेवश्च धर्मार्थकाममोक्षदः ।अमृतादोऽमृतदो ये पापाऽऽपदो व्यपोहतु ॥२१॥भूमिदो भूस्थितो भूमा भूमतां भाग्यवर्धनः ।भूसत्ताऽव्याकृतस्वामी पापाऽऽपदो व्यपोहतु ॥२२।वेदाऽवनो धराधृक्च मन्द्रधृग् ज्ञानधृग् हरिः ।गोधृग् गोदोहनो हंसः पापाऽऽपदो व्यपोहतु ॥२३॥तापसो वत्सलः साधुर्भिक्षुः क्रूरोऽध्वरो वनी ।बालो भिषग्वरः क्लेशी पापाऽऽपदो व्यपोहतु ॥२४॥सम्राट् शास्त्री कृष्णकान्तः प्राज्ञोऽवतारकारणम् ।आवेशोंऽशः कला भूतिः पापाऽऽपदो व्यपोहतु ॥२५॥पूर्णः परो व्यूह ऐशोऽन्तर्याम्यर्चा स्वरूपकृत् ।विभवश्चैत्यः सुन्यासी पापाऽऽपदो व्यपोहतु ॥२६॥सर्वधामनिवासो योऽनेकरूपः परेश्वरः ।जडचेतनशास्ता मे पापाऽऽपदो व्यपोहतु ॥२७॥नारायणी श्रीपुरेशी माधवी पुरुषोत्तमी ।कार्णीं श्रीललितालक्ष्मीः पापाऽऽपदो व्यपोहतु ॥२८॥भार्गवी दुःखहालक्ष्मीः शिवराज्ञी च वैष्णवी ।पद्मिनिका पद्मजा मे पापाऽऽपदो व्यपोहतु ॥२९॥कंभराश्रीर्महालक्ष्मीर्वासुदेवी परेश्वरी ।आक्षरी श्रीर्भगवती पापाऽऽपदो व्यपोहतु ॥३०॥पौरुषी प्राकृती देवी मायेशी पार्वती प्रभा ।पारब्राह्मी रमा माता पापाऽऽपदो व्यपोहतु ॥३१॥भूम्नी पद्मा च वैराजी गंगा रेवा सरस्वती ।गायत्री गोमती गोपी पापाऽऽपदो व्यपोहतु ॥३५॥सादाशैवी च माहेशी ब्राह्मी ब्रह्मप्रिया सती ।साध्वी च स्वामिनी चान्द्री पापाऽऽपदो व्यपोहतु ॥३३॥हिरण्मयी कानकी च हरिणी स्वर्णरूपिणी ।वैकुण्ठा तूलसी वृन्दा पापाऽऽपदो व्यपोहतु ॥३४॥सिद्धा पैत्री सिद्धिरूपा चमत्कृतिः सुधैनवी ।सुधाऽमृता पाशवती पापाऽऽपदो व्यपोहतु ॥३५॥प्रभा सौरी पार्षदानी चैश्वरी देवता रतिः ।प्रीतिर्भक्तिर्व्रतरूपा पापाऽऽपदो व्यपोहतु ॥३६॥सौम्या पुरातनी दिव्या सन्तुष्टा तृप्तिरब्जिका ।कमलाऽम्बा शारदा मे पापाऽऽपदो व्यपोहतु ॥३७॥ऐन्द्री चानन्दमात्रा च चिच्छक्तिर्ज्ञानरूपिणी ।योगिनी नैष्ठिकी हृत्स्था पापाऽऽपदो व्यपोहतु ॥३८॥मोहिनी नन्दिनी पद्मेक्षणोर्वशी पतिव्रता ।जननी स्वर्णवर्णा मे पापाऽऽपदो व्यपोहतु ॥३९॥पुण्या च पावनी विद्या धनदा वित्तधारिणी ।आर्त्तिहाऽब्धिसुता शान्ता पापाऽऽपदो व्यपोहतु ॥४०॥भावज्ञा भुक्तिमुक्त्यादिप्रदा भक्ताऽभयंकरी ।सर्वार्धांगा जीवनी श्रीः पापाऽऽपदो व्यपोहतु ॥४१॥सौभाग्ययुक्ता शोभाढ्या सर्वाभरणभूषिता ।सर्वशृंगारदीप्तांगा पापाऽऽपदो व्यपोहतु ॥४२॥सस्यलक्ष्मीः रत्नलक्ष्मीः सम्पल्लक्ष्मीः कुटुम्बिनी ।धान्याऽन्नधारिणी गौरी पापाऽऽपदो व्यपोहतु ॥४३॥रोहिणी पोषणकर्त्री कन्यका नवयौवना ।रामयित्री सुरामा मे पापाऽऽपदो व्यपोहतु ॥४४॥सत्त्वमयी सत्त्वदात्री सत्त्वध्रा सत्त्वयोगिनी ।सात्त्विकी सच्चिदानन्दा पापाऽऽपदो व्यपोहतु ॥४५॥मुक्ताश्च पार्षदा भक्ता भक्तान्यः साध्य ईश्वराः ।ईश्वराण्यो महामुक्ता व्यपोहन्त्वघमापदः ॥४६॥शंखश्चक्रं गदा पद्मं कौस्तुभो मुकुटो हरेः ।वनमाला पुष्पमाला व्यपोहन्त्वघमापदः ॥४७॥यष्टिश्छत्रं चामरं चांगदश्च कटकस्तथा ।शृंखला रशना कार्ष्णी व्यपोहन्त्वघमापदः ॥४८॥गुणैश्वर्याणि सर्वाणि चमत्काराश्च सिद्धयः ।शक्तयः श्रीहरेः सर्वा व्यपोहन्त्वघमापदः ॥४९॥शालग्रामस्तथा शालंकायनर्षिश्च गण्डकी ।त्रिवेणी शालवृक्षश्च व्यपोहन्त्वघमापदः ॥५०॥बदरी बदरीवासाः ऋषयश्च नरो हरिः ।गंगा हिमाश्रयो हैमा व्यपोहन्त्वघमापदः ॥५१॥शेषशायी क्षीरनिधिः क्षीरजा श्वेतभोगिराट् ।निरन्नमुक्तभक्ताश्च व्यपोहन्त्वघमापदः ॥५२॥ब्रह्मा विष्णुः शंकरश्च गणेशश्च प्रभाकरः ।गणा रुद्राश्च रुद्राण्यो व्यपोहन्त्वघमापदः ॥५३॥सिद्धा यक्षाश्च गन्धर्वाश्चन्द्रस्ताराश्च तैजसाः ।ग्रहाश्च केतवश्चापि व्यपोहन्त्वघमापदः ॥५४॥हंसो गरुडो वृषभः सिंहश्च हरिणो गजः ।शेषः शिखी टिव्यवाहा व्यपोहन्त्वघमापदः ॥५५॥कार्तिकेयो महाकालो महावज्रं त्रिशूलकम् ।कालदण्डो हेतयस्ते व्यपोहन्त्वघमापदः ॥५६॥आदित्या वसवो रुद्रा अश्विनावीश्वरेश्वराः ।दिक्पाला लोकपालाश्च व्यपोहन्त्वघमापदः ॥५७॥गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा ।तन्मात्राणि तथा प्राणा व्यपोहन्त्वघमापदः ॥५८॥साध्या विश्वे मरुतश्च किन्नरा गुह्यकास्तथा ।गन्धर्वा किंपुरुषका व्यपोहन्त्वघमापदः ॥५९॥देवानां मातरश्चापि गणानां मातरस्तथा ।भूतानां मातरः सर्वा व्यपोहन्त्वघमापदः ॥६०॥अप्सरसस्तथा देव्यो राशयस्तिथयस्तथा ।पक्षा मासा वत्सराश्च व्यपोहन्त्वघमापदः ॥६१॥ज्वरा रोगाश्च ऋतवः ऋणानि राक्षसास्तथा ।दैत्याश्च दानवा दुष्टा व्यपोहन्त्वघमापदः ॥६२॥सागराः सरितः कूपास्तडागानि च दीर्घिकाः ।वाप्यः सरांसि वरुणो व्यपोहन्त्वघमापदः ॥६३॥गावो याः कामवर्षिण्यः कल्पपूराश्च वल्लिकाः ।तथा च कल्पतरवो व्यपोहन्त्वघमापदः ॥६४॥यज्ञा यज्ञक्रियाश्चापि विधयः श्रतयोऽपि च ।ऋचः सामानि छन्दांसि व्यपोहन्त्वघमापदः ॥६५९॥सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।सहस्रबाहुः सर्वज्ञो व्यपोहन्त्वघमापदः ॥६६॥पावकः पावनो वह्निः सप्तार्चिः सप्तजिह्विकः ।स्वर्णपिता ब्रह्ममुखं पापाऽऽपदो व्यपोहतु ॥६७॥दानं दमो दया दैवं देवा देव्यश्च साधवः ।सन्तः सत्पुरुषाः पुण्या व्यपोहन्त्वघमापदः ॥६८॥वृद्धा वन्द्या भागवता भक्ताश्चैकान्तिनो हरेः ।दैवज्ञा देवपुरुषा व्यपोहन्त्वघमापदः ॥६९॥व्रतानि पुण्यकर्माणि सुकृतानि प्रसेवनम् ।सेवा श्रद्धा भावना च व्यपोहन्त्वघमापदः ॥७०॥योगा ज्ञानानि सर्वाणि सत्यं वैराग्यमीशिता ।उपासना हरेराज्ञा व्यपोहन्त्वघमापदः ॥७१॥गृहदेवा ग्रामदेवाः क्षेत्रदेवाश्च सीमगाः ।द्वारदेवा बहिर्देवा व्यपोहन्त्वघमापदः ॥७२॥वास्तुदेवाः श्राद्धदेवा मखदेवा महोत्सवाः ।तीर्थानि देववासाश्च व्यपोहन्त्वघमापदः ॥७३॥देवालया मन्दिराणि मठाः कथास्थलानि च ।मुक्तिक्षेत्राणि सर्वाणि व्यपोहन्त्वघमापदः ॥७४॥मातरः पितरः श्रेष्ठा बान्धवाश्च सतीश्रियः ।भक्ता बाला बालिकाश्च व्यपोहन्त्वघमापदः ॥७५॥प्रायश्चित्तानि सर्वाणि दर्भाश्च देवहेतयः ।हव्यकव्यानि दैवानि व्यपोहन्त्वघमापदः ॥७६॥देवरथा देवयाना देवमार्गाश्च देवताः ।आतिवाहिकदेवाश्च व्यपोहन्त्वघमापदः ॥७७॥विद्युतश्च घना मेघा भूकम्पा ईतयस्तथा ।बलिहाराश्च ये देवा व्यपोहन्त्वघमापदः ॥७८॥निधयश्च दिशाश्चापि मनवश्च कलास्तथा ।चतुर्दशभवनानि व्यपोहन्त्वघमापदः ॥७९॥व्याहृतयः प्राणयमा याम्याश्च धर्मवंशजाः ।धर्मदेवश्च तत्पत्न्यो व्यपोहन्त्वघमापदः ॥८०॥कुण्डमण्डपदेवाश्च ध्वजशाखानिवासिनः ।समित्पात्रादिदेवाश्च व्यपोहन्त्वघमापदः ॥८१॥सद्गुरोश्चरणौ लक्ष्मि चरणामृतवारि च ।गुरुभुक्तप्रसादश्च व्यपोहन्त्वघमापदः ॥८२॥सतीपतिपादवारि साधुचरणवारि च ।विष्णुपादोदकं पुण्यं व्यपोहन्त्वघमापदः ॥८३॥सतां समागमः सेवाऽऽश्रयश्चाऽऽज्ञावचांसि च ।प्रसन्नताऽऽशीर्वादाश्च व्यपोहन्त्वघमापदः ॥८४॥मातृतीर्थं पितृतीर्थं गुरुतीर्थं तथोत्तमम् ।पतितीर्थं सतीतीर्थं व्यपोहन्त्वघमापदः ॥८५॥गोतीर्थं चाऽवभृथतीर्थं पंक्तितीर्थं च दक्षिणम् ।सन्यासतीर्थं मन्त्रश्च व्यपोहन्त्वघमापदः ॥८६॥यज्ञोपवीतकं कण्ठी तौलसेयी समर्पणम् ।आत्मनिवेदिताख्यं च व्यपोहन्त्वघमापदः ॥८७॥योगित्वं साधुता नैष्ठिकता श्रोत्रियता तथा ।ब्रह्मसत्ता भक्तता च पावयन्तु हि मां सदा ॥८८॥पावनी कुंकुमवापी पावनः श्रीनरायणः ।पावनीश्रीः पावयन्तु मां सदा शरणागतम् ॥८९॥धर्मो विष्णुः श्रीश्च भक्तिः सेवा मां पावयन्त्विह ।एषः समर्पितश्चाऽस्मि तं मां भक्तं पुनन्त्विह ॥९०॥एवं स्तुवन् नमेद् भूमौ लक्ष्मि पावनवृत्तिमान् ।आपदस्तस्य नश्यन्ति निवर्तन्ते ह्यघानि च ॥९१॥व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि ।पत्रं पुष्पाद्यर्पयेश्च शुद्धो भवति तत्क्षणात् ॥९२॥कन्यार्थी लभते कन्यां जयकामो जयं लभेत् ।अर्थकामो लभेदर्थं पुत्रकामः सुतान् लभेत् ॥९३॥विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् ।सम्पदर्थी सम्पदश्च राज्यार्थी राज्यमाप्नुयात् ॥९४॥स्वर्गार्थी स्वर्गमादद्यान्मोक्षार्थी मोक्षमाप्नुयात् ।दुःखनाशाभिलाषी च दुःखनाशमवाप्नुयात् ॥९५॥पत्यर्थिनी पतिं रम्यं धनार्थिनी धनं लभेत् ।सुखार्थिनी सुखं चापि सौभाग्यं लभते तथा ॥९६॥यशोऽर्थिनी यशश्चापि प्राधान्यं लभते तथा ।यान् यानर्थयते कामान् सर्वानवाप्नुयात् स्तवी ॥९७॥पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते ।तस्य रोगा न बाधन्ते वातपित्तादिसंभवाः ॥९८॥नाऽमृत्युर्भवेत्तस्य न दंष्ट्राविषसंगमः ।नाऽकालदुःखवाँश्चापि भवेद् व्यपोहनस्तवी ॥९९॥सर्वतीर्थप्रपुण्यानि यज्ञपुण्यानि यानि च ।दानव्रतानां पुण्यानि लभेद् व्यपोहनस्तवी ॥१००॥गोघ्नः कृतघ्नो वीरहा ब्रह्महा बालहा तथा ।शरणागतहा मित्रविश्वासघातकोऽपि च ॥१०१॥मातृहा पितृहा नारीहा तथा पशुघातकः ।व्यपोह्य सर्वपापानि शुद्धो भवति संस्तवी ॥१०२॥भक्तिं कृत्वा सर्वपुण्यो याति मोक्षप्रदं ततः ।अगतिकस्य गतिदं स्तोत्रं व्यपोहनं त्विदम् ॥१०३॥लक्ष्मि स्तुत्वाऽनेन मां तु नमेत् प्रप्रार्थयेत्ततः ।ध्यात्वा ब्रह्ममयो भूत्वा मुच्यते बन्धनादितः ॥१०४॥एतदुच्चार्य भावेन स्तोतव्यं नावशिष्यते ।तस्मादापत्प्रदे काले व्यपोहनं समुच्चरेत् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वाऽऽपत्पापबन्धनादिनाशार्थकं व्यपोहनस्तवनमुक्तमिति सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP