संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-श्रृणु लक्ष्मि कथयामि कथां भक्तस्य शोभनाम् ।गृहस्थस्य सदा चात्मनिवेदिनः प्रमुक्तिदाम् ॥१॥आसीद् भक्तो भिक्षुको मे भिक्षायनो मुनीश्वरः ।अयाचिताञ्जलिनाम्नी भार्या तस्याऽभवच्छुभा ॥२॥भिक्षायनस्त्रिषवणं स्नाति नित्यं सरोवरे ।अश्वपट्टे च तत्पत्नी जलं चादाय मन्दिरे ॥३॥करोति मम पूजां वै नित्यं त्रिषवणे स्थिता ।एवं तयोर्हि दम्पत्योर्मन्दिरे मम सर्वदा ॥४॥पूजयतोर्मम मूर्तिं वृत्तिस्तु जीविकात्मिका ।निर्वहते भक्तलोकैर्दत्तैरन्नजलाम्बरैः ॥५॥प्रातः प्रपूज्य तौ मां च मन्दिरस्य प्रसेवनम् ।मार्जनं लेपनं धूपदानं दीपप्रकाशनम् ॥६॥पुष्पाद्याहरणं चापि पाचनं पात्रमर्षणम् ।आरार्त्रिकं तथा स्थालनिवेदनं जलार्पणम् ॥७॥ताम्बूलदानकं चापि कुरुतोऽथ विसर्जनम् ।नित्यमेवं चात्मनिवेदित्वं कुरुत आदरात् ॥८॥अहमाभ्यां प्रत्यहं वै भिक्षायोगं करोमि च ।कश्चिद् भक्तः समागत्य यात्रालुर्वा परोऽपि वा ॥९॥अर्पयत्येव भोज्यादि प्रणिर्बृहतस्तावुभौ ।सन्तुष्टौ मम भक्तौ तौ यदृच्छालाभतोषिणौ ॥१०॥गार्हस्थ्यधर्ममेवाऽपि समाचरत आदरात् ।कामः क्रोधस्तथा लोभो मोहो नात्मार्थमेतयोः ॥११॥मां हरिमुररीकृत्य मत्वा चाऽन्तःस्थितं सदा ।कुरुतः सर्वकार्याणि देहजानीतराणि च ॥१२॥भोजनं जलपानं च तैलाभ्यंगं शङ्गारकम् ।सद्वेषं चोत्सवं चापि प्रमोदं रमणं तथा ॥१३॥सर्वं मामेव संस्मृत्य कुरुतो दिव्यदृष्टितः ।आत्मार्पणं विना क्वापि नैवाचरत ऐच्छिकम् ॥१४॥व्यवसायोऽपि सर्वो वै मदात्मकस्तयोरभूत् ।यदा भिक्षां गृह्णतस्तौ कवले कवले हरिम् ॥१५॥अनादिश्रीकृष्णनारायणं मां स्मरतश्च तौ ।शय्यायां चापि दोलायां प्रयासे चेतरेऽपि च ॥१६॥मां स्मृत्वैव प्रवर्तेते न मां विहाय कर्हिचित् ।आतपे मम प्रीत्यर्थं जलकटादिबन्धनम् ॥१७॥शीतवारिप्रद्पानादि मदर्थं कुरुतः सदा ।शैत्ये चोष्णसलिलं च तथोष्णभोजनादिकम् ॥१८॥मदर्थे तौ हि कुरुतश्चोर्णवस्त्रादिकार्पणम् ।वर्षायां छत्रदानादि चैकादश्यां च जागरम् ॥१९॥व्रतेषु फलपुष्पाणां मदर्थानयन तथा ।गीतं नृत्यं वाद्यशब्द तालं च रञ्जनादिकम् ॥२०॥मदर्थं कुरुतो नित्य कथां च कुरुतो मम ।एवं वै वर्तमानौ तौ कथां संशृणुतो मम ॥२१॥कामो वै निरयो लोके वासनामूलको मतः ।कामिनां नैव मोक्षोऽस्ति तस्मात् कामं परित्यजेत् ॥२२॥अयाचिताऽञ्जलिः पत्नी श्रुत्वा पप्रच्छ तं मुनिम् ।भूदेव! भिक्षुकश्चास्से पतिर्मे भवतारकः ॥२३॥सन्देहं कथया जातं पृच्छामि तं निवर्तय ।कामना नरकं प्रोक्तं कामिनां मुक्तिरेव न ॥२४॥आवां गार्हस्थ्यधर्मस्थौ कामस्तत्र तु विद्यते ।कथंकारं भवेन्मुक्तिस्त्याज्यस्तस्मान्मनोभवः ॥२५॥भिक्षायनस्तु तच्छ्रुत्वोवाच पत्नीं निजां प्रियाम् ।सत्यं भार्ये निरया वै लोकाः सर्वे तु मायिकाः ॥२६॥हर्यर्पणमृते पत्नि हर्यर्पणे तु निर्गुणाः ।कामः क्रोधश्च लोभश्च त्यक्तव्यो लोभ इत्यपि ॥२७॥नारायणे परे तत्त्वे निर्गुणतां भजेद्धि सः ।स्वात्मसुखार्थमेवाऽयं बन्धनो निरयप्रदः ॥२८॥परात्मन्यर्पितो भार्ये परमात्मप्रसंगदः ।हरेः प्रसंगतो भार्ये माया तत्र विनश्यति ॥२९॥अमायिकाः क्रियाः सर्वा भवन्त्येव हि निर्गुणाः ।यथा शाकादिकं सर्वं मिष्टान्नं सलिलं फलम् ॥३०॥मायिकं भौतिकं चापि कृष्णार्पितं तु निर्गुणम् ।तथा चक्षुः करो वक्षः पादौ कटिर्मनस्तथा ॥३१॥हर्यर्पितं क्रियाद्यं च सर्वं भवति निर्गुणम् ।आवाभ्यां श्रीहरेर्नित्यं पूजने सेवने प्रिये ॥३२॥देहेन्द्रियस्वभावाद्या अर्प्यन्ते निर्गुणा हि ते ।ततो नास्ति निरयो नः किन्तु धर्मः सनातनः ॥३३॥तेन सेवादिधर्मेण पुण्यं हरेः प्रसंगतः ।भिक्षुकोऽहं भिक्षुकी त्वं भिक्षा हरेः सदा हि नौ ॥३४॥आवयोर्भिक्षुकः कृष्णो निर्गुणः परमेश्वरः ।तद्योगेनाऽऽवयोश्चेष्टा कृष्णात्मिका तु निर्गुणा ॥३५॥तस्मात् पत्नि सर्वकार्ये स्मर कृष्णं परेश्वरम् ।न मां न त्वां किन्तु कृष्णं श्लेषे विश्लेषणेऽपि च ॥३६॥एवं नैवाऽस्ति लोकेऽत्र देहे वा बन्धनं तव ।ममापि बन्धनं नास्ति परार्थकर्मणोः प्रिये ॥३७॥इत्येवं बोध्यमानाऽपि लक्ष्मि सा मुनिभिक्षुकी ।साध्वी विश्वासमापन्ना मनागपि च वै ततः ॥३८॥पुनः सञ्चिन्तयामास कामोऽयं कल्मषात्मकः ।पापमेवाऽस्ति निरयप्रदो दुःखप्रदोऽपि च ॥३९॥एवं चिन्तयते नित्यं भजते मां सती सदा ।एकदाऽहं तयोः साक्षादभवं नेत्रगोचरः ॥४०॥तस्याः शंकाविनाशार्थं चाऽस्पृशं स्वकरेण ताम् ।सा मुमोह स्वरूपे मे सर्वशृंगारशोभिते ॥४१॥समाश्चिषत्तूर्णमेव मां मुग्धा पतिसन्निधौ ।मया तस्यै विना भोगं स्पर्शमात्रेण सर्वथा ॥४२॥सर्वानन्दाः प्रदत्ता वै सुखिनी सा पराऽभवत् ।दिव्याऽभवत्तत आरभ्यैव निष्कामभावना ॥४३॥संकल्पः कामनाजन्यस्तस्या नष्टोऽन्तरात् सदा ।निष्कामा सा मुक्तरूपा ब्रह्मव्रतोर्जिताऽभवत् ॥४४॥भिक्षुकोऽपि तया स्पृष्टो निष्कामः सर्वथाऽभवत् ।ब्रह्मशीलव्रतौ तौ तु तदारभ्याऽर्कभास्वरौ ॥४५॥विलक्षणौ देवपूज्यौ लोकपूज्यौ बभूवतुः ।एवं नित्यं सेवया मे मया निष्कामिनौ कृतौ ॥४६॥मम योगेन नार्योऽपि नराश्चापि ह्यकामिनः ।भवन्त्येवेति ते सर्वे प्रयान्ति परमं पदम् ॥४७॥कालेन निधनं प्राप्तौ दिव्यविमानसंस्थितौ ।मुक्तरूपौ तु तौ भूत्वा ययतुर्धाम मेऽक्षरम् ॥४८॥एवं लक्ष्मि चात्मनिवेदिनोः स्त्रीनरयोरिह ।सर्वदोषान्नाशयामि गुणान् दिव्यान् करोमि च ॥४९॥सर्वं कर्तुं समर्थस्य दयालोः परमात्मनः ।भक्ताय त्वागमो लोके भक्तान् सन्तारयामि वै ॥५०॥भिक्षा बहुविधा लक्ष्मि दातव्या पतये तु मे ।सर्वा सा निर्गुणा तेन जायते मम योगतः ॥५१॥समाकर्णय कमले विविधां कथयामि ते ।यद्यदिष्टतमं स्वस्य सर्वं भिक्षात्मकं मतम् ॥५२॥स्वप्ने जाग्रति सौषुप्ते तुर्ये मुक्तौ यदिष्टकम् ।अनर्पितं न वै ग्राह्यं मह्यं दत्वा समालभेत् ॥५३॥भोजनं रासनं सर्वं मिष्टं मिष्टं दिशेन्मयि ।पानं स्वादु यदिष्टं च दद्यान्मह्यं ममाश्रयी ॥५४॥वस्त्राणि यानि रम्याणि वेषाश्च भूषणादिकम् ।स्वर्णरूप्यहीरकादि रत्नानि चार्पयेन्मयि ॥५५॥अभ्यंगादि सुगन्धादि कज्जलादि दिशेन्मयि ।मुकुटादि शयनादि गेन्दुकादि च मेऽर्पयेत् ॥५६॥वितानादि चासनादि यानाद्यपि च मेऽर्पयेत् ।मन्दिरादि वाहनादि विमानादि च मेऽर्पयेत् ॥५७॥धूपदीपादि पुष्पादि चन्दनादीनि मेऽर्पयेत् ।गजवाजिगवादीनि दासदासीश्च मेऽर्पयेत् ॥५८॥रूपाणि सर्वरम्याणि शब्दान् श्राव्याँश्च मेऽर्पयेत् ।स्पर्शान् सर्वविधाँश्चापि ग्राह्यान् सर्वांश्च मेऽपयेत् ॥५९॥गन्तव्यान् सुखभाजश्चाऽऽनन्दितव्याँश्च मेऽर्पयेत् ।मिष्टान्नानि समग्राणि तुलसीमञ्जरीर्दिशेत् ॥६०॥तैलसारान् कर्पूरादि दद्यान्मह्यं तु भिक्षवे ।पुत्रं पुत्रीं पतिं पत्नीं सर्वस्वं मेऽर्पयेत् सदा ॥६१॥मह्यं सर्वाण्यायुघानि सर्वयन्त्राणि मेऽर्पयेत् ।यज्ञयागादिकार्याणि हवनादीनि मेऽर्पयेत् ॥६२॥अर्पयेन्मेऽपि सस्यानि कणिशाँश्च कणाँस्तथा ।मिष्टरसाढ्यौषधीश्च मध्वादीनि च मेऽर्पयेत् ॥६३॥अष्टषष्टिकलाश्चापि नववस्तूनि मेऽर्पयेत् ।प्रकाशं चाऽप्रकाशं च सर्वं मह्यं दिशेज्जनः ॥६४॥आयश्चोत्पादनं सर्वं वृद्धिर्द्रव्यस्य वस्तुनः ।हार्दिकं दैहिकं चाप्यैन्द्रियकं मे समर्पयेत् ॥६५॥पत्रं पुष्पं फलं वारि मह्यं दत्वा सुयोजयेत् ।विद्यां ज्ञानं विवेकं च कौशल्यं गुणशालिताम् ॥६६॥न्यायं परोपकारं च सर्वं मह्यं समर्पयेत् ।संकल्पा विफला ये च ये चान्ते फलदायिनः ॥६७॥कृतयश्चापि यत्नाश्च तान्मे सर्वान् समर्पयेत् ।ऐश्वर्याणि समस्तानि सर्वाण्यपि बलानि च ॥६८॥अवस्थाश्चापि सर्वाश्च चमत्काराः समस्तकाः ।सौन्दर्यगुणयोगाश्च तान्मे सर्वान् समर्पयेत् ॥६९॥अहं परार्थो भवतां भिक्षुश्चानन्तसंख्यदः ।गृहीत्वा प्रददाम्येव शाश्वतं भिक्षयाऽर्थितम् ॥७०॥राज्यं स्वर्गं दिव्यलोकान् भोगाँश्च सम्पदो नवाः ।सुखानि चोत्सवान्मोदान् हर्षान् प्रतिददाम्यहम् ॥७१॥धनं धान्यं चाम्बराणि भवनान्युत्तमानि च ।गोधनं दासदासीश्च पुत्रान् पुत्रीर्ददाम्यहम् ॥७२॥धिष्ण्यं चापि च माहेन्द्रं वैष्णवं ब्राह्ममित्यपि ।दिक्पालत्वं चैश्वरं वा वैराजं पदमुत्तमम् ॥७३॥ऐशं वा लोकपालत्वं महर्षित्वं गुरोः पदम् ।ध्रौव्यं वा सौरमेवाऽपि चान्द्रं राज्यं ददाम्यहम् ॥७४॥वैकुण्ठं चामृतं चाव्याकृतं गोलोकमक्षरम् ।श्रीपुरं ब्रह्मलोकं वा परंधाम ददाम्यहम् ॥७५॥भिक्षयामि भवद्भ्योऽहं सर्वं मे रोचते सदा ।दाने लभे भुनज्म्येतद् भुक्त्वा ददाम्यनन्तकम् ॥७६॥पुण्यं पापं शुभं चाप्यशुभं संभिक्षयाम्यहम् ।अनिष्टं जनतादत्तं लब्ध्वेष्टं प्रतिसन्ददे ॥७७॥अलाभं प्राप्य लाभात्मं फलं प्रतिददाम्यहम् ।स्वल्पं प्राप्य च बहुधा यथेष्टं प्रददाम्यहम् ॥७८॥लक्ष्मीं ददामि विपुलां सम्पदश्चातिवर्चुलाः ।शक्तीर्ददामि बहुधा जयं ददामि नित्यदा ॥७९॥मदीयं यद्भवेत् सर्वं सर्वं तस्मै ददाम्यहम् ।यो मह्यं प्राऽर्पयेत् सर्वं मम भूत्वा च वर्तते ॥८०॥लक्ष्मीत्येवं समर्थोऽस्मि सर्वं दातुमनन्तकम् ।भिक्षुकाश्चेन्मदर्थं वै भिक्षयन्त्यर्पयन्ति च ॥८१॥ततश्च भुञ्जते तेभ्यः फलं ददाम्यनन्तकम् ।बहवो नाम राजानो विप्राश्चर्षय इत्यमी ॥८२॥तपसोऽन्ते तु भिक्षयामासुर्मामेव पुत्रकम् ।पुत्रोऽभवं भिक्षुकाणां मुहुर्वै भिक्षितो मुधा ॥८३॥गणेशोऽहं शंकरस्य हरिः कृष्णो वृषस्य च ।अदितेर्वामनश्चापि कपिलः कर्दमस्य च ॥८४॥वसुदेवस्य गोपालो नाभेः ऋषभ इत्यपि ।कंभराया अनादिश्रीकृष्णनारायणोऽस्मि च ॥८५॥दत्तोऽत्रेर्जमदग्नेश्च पर्शुरामस्तथाऽभवम् ।रामः शतरथस्यापि कुमारो ब्रह्मणस्तथा ॥८६॥एवमाद्यानि जन्मानि भिक्षारूपाणि तानि वै ।भिक्षायां वर्तते सर्वं भिक्षायां चाहमित्यपि ॥८७॥भिक्षुका मेऽतिवात्सल्यपात्राणि मम रूपिणः ।भिक्षायां भृगुणा दत्ता भार्गवी त्वं परेश्वरी ॥८८।पद्माऽपि भिक्षया लब्धा नारायणो तथैव च ।दुःखहाश्रीस्तथा लब्धा लक्ष्मीश्च माणिकी तथा ॥८९॥प्रज्ञा पद्मावती लब्धा भिक्षाया कमला रमा ।पठनाच्छ्रवणादस्य भोगवान् मोक्षवान् भवेत् ॥९०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भिक्षायनर्षेः अयाचिताञ्जलिनामभार्याया गार्हस्थ्येऽपि श्रीहर्यर्पणक्रियादिभिर्मुक्तिर्भिक्षामहिमा चेत्यादिनिरूपणनामा अष्टसप्तत्यधिकशततमोऽध्यायः ॥१७८॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP