संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां भक्तस्य शोभनाम् ।कीशनकुलपालस्य नाम्ना देश्यावनस्य वै ॥१॥देश्यावनोऽभवद् योगी चन्द्रावनस्य चात्मजः ।गोमण्डल्याश्चापगायास्तटे गौवादिखेटगः ॥२॥पित्रा पुत्रः शिक्षितो वै कीशनकुलपालने ।कीशयोर्नर्तने चापि नकुलयोस्तु योधने ॥३॥वानरो भवति राजा वानरो घर्घरीयुता ।शाटीधरा च लज्जायां वर्तते कीशसन्निधौ ॥४॥राज्ञीव वर्तते चापि नृत्यस्येव प्रशिक्षिता ।नृत्यक्षतौ वानरस्तां ताडयत्येव रोषतः ॥५॥बानरोऽपि ततः खातवंशयोर्मध्यरज्जुगः ।नटवत् संप्रयात्येव स्थाल्या छत्रधरो नटः ॥६॥वानरी डमरूवाद्यं वादयत्येव रंगगा ।जनान् प्रदर्शयत्येषा यष्ट्या हस्तेन वानरम् ॥७॥जना दृष्ट्वा मग्नचित्ता अर्पयन्ति धनाऽन्नकम् ।अथाऽपि वानरश्चाऽधोऽवतीर्य शकटीं नवाम् ॥८॥आयुक्त्वा तु शृगालौ द्वौ तत्राऽऽरोप्य तु वानरीम् ।स्वयंभूत्वा सूतकर्मा चालयत्येव राजवत् ॥९॥नकुलौ वानरीपार्श्वे पार्षदाविव तिष्ठतः ।चामरे शोभिते धृत्वा वीक्षन्ते कौतुकं जनाः ॥१०॥शृगालौ वहमानौ तौ कीशो यष्ट्या प्रताडनम् ।यावत् करोति जम्बुकौ क्रुद्धौ प्रतिमुखौ धुरि ॥११॥ भूत्वा निर्गत्य धुरतश्चोत्प्लुत्याऽऽक्रुश्य रोषतः ।वानरेण समं सम्यग् युध्यतः संप्रपश्यताम् ॥१२॥जनानां तत्र कीशेन युद्ध्यत्येकस्तु जम्बुकः ।द्वितीयो वानरीकर्णे धृत्वा नीत्वाऽतिगोऽभवत् ॥१३॥देश्यावनस्तदा त्यक्त्वा रंगं दुद्राव वानरीम् ।आनेतुं च शृगालां तु तावत् कीशोऽपि धावति ॥१४॥आनेतुं वानरीं तावज्जम्बुकोऽप्यनुधावति ।नकुली पृष्ठतस्तत्र वंशयोरधिरोहतः ॥१५॥प्रपश्यतो हि वानर्या हरणं क्रोष्टृणा कृतम् ।युद्धं तत्र पुनस्तावद् देश्यावनकृतावनम् ॥१६॥पुना रंगानयनं च शृगालस्य क्षमार्थनम् ।भिक्षां जनेभ्यः पुरिकानास्ती तत्स्त्री प्रयाचते ॥१७॥एवं देश्यावनो नित्यं नगरे खर्वटे पुरे ।गत्वा गत्वा हास्यनाट्यं कारयत्येव पाशवम् ॥१८॥तदुत्पन्नाऽन्नवस्त्राद्यैर्धनैः पिष्टादिभिः सदा ।निर्वहत्येव सततं पत्न्या साकं प्रतिष्ठति ॥१९॥पशूनां पोषणं चापि करोति दयया युतः ।नैसर्गिको भक्तधर्मा देश्यावनः प्रगेऽन्वहम् ॥२०॥स्नाति कृष्णं चित्रछविं नमति च प्रपश्यति ।जलं फलं च धरति भोजनं पुरिकाकृतम् ॥२१॥निवेद्य विष्णवे दत्वा पशुभ्यो निजयोषिते ।ततो भुंक्ते नान्यथैव नारायणं तु मां स्मरन् ॥२२॥लक्ष्मि सर्वत्र भक्ता मे संस्कृताश्चाप्यसंस्कृताः ।येऽपि केऽपि भजन्ते मां यथा तथापि चेश्वरम् ॥२३॥तेषां मनःप्रपूर्त्यर्थं प्रयते भक्तिकर्शितः ।पुरिकाऽपि तु शूद्राणी स्नात्वा मां सेवतेऽन्वहम् ॥२४॥शकट्यां मम मूर्तिं च रक्षत्येव छविं शुभाम् ।नान्यधर्मं प्रजानाति जानाति शरणागतिम् ॥२५॥छविस्थो भगवान् कृष्ण उद्धारं नः करिष्यति ।तदर्पणं विना नैव भोक्तव्यं जलमित्यपि ॥२६॥हरेर्भक्तिं विना वन्ध्यो नेतव्यो दिवसो न वै ।अन्तरात्मा हरिश्चास्ते कीशे नकुले क्रोष्टरि ॥२७॥नार्या नरे च सर्वत्र वृक्षे जडे च चेतने ।एवं तौ बुध्यतो लक्ष्मि कीशनकुलपालकौ ॥२८॥अतस्तौ पावनौ स्निग्धौ भक्तौ मे मम सम्मतौ ।दिने खेलं विरचय्योत्पाद्योपार्जनभोजने ॥२९॥यथालब्धे सुसन्तुष्टौ रात्रौ कुरुतः कीर्तनम् ।डमरूवाद्यसहितं कृष्ण राम रमापते ॥३०॥एवं नित्यं हि कुरुतो भजनं वै निशामुखे ।पूर्णिमायां तु मिष्टान्नं निवेदयतो मत्पुरः ॥३१॥पशुभ्यः सम्प्रदायैव ततस्तौ मत्प्रसादजम् ।भुञ्जाते प्रतिमासं तौ व्रतं त्वेतन्निरन्तरम् ॥३२॥तुलसीमिश्रितं वारि पिबतस्तौ सदा रमे ।नहि भक्तौ कारणं वै वनं स्थलं गृहं धनम् ॥३३॥स्नेहस्तु कारणं तत्र हृदयं भक्तिकारणम् ।श्रद्धा च कारणं तत्र पुण्यं च कारणं महत् ॥३४॥एवं गोमण्डलीतीरे वसतोश्चोभयोरपि ।एकदा साधुसंघो वै यात्रार्थी पार्श्वतोऽगमत् ॥३५॥तावुभौ सहसा गत्वा नेमतुः साधुपादयोः ।विश्रान्त्यर्थं घटिकां चार्थयामासतुरीश्वरान् ॥३६॥साधवोऽपि नदीतीरं वृक्षछायां विलोक्य तु ।क्षणं विश्रान्तिमापुस्ते पपुर्जलं तु शीतलम् ॥३७॥पूर्णिमाऽऽसीद् भाग्ययोगान्मिष्टमासीत् कृतं तदा ।संयावं श्रीहरये वै निवेदितं समस्तकम् ॥३८॥साधुभ्यो ददतुर्भक्त्या भुक्तवन्तश्च साधवः ।मम स्मृतियुता लक्ष्मि संयावो वृद्धिमाप्तवान् ॥३९॥मयाऽन्तर्यामिणा ज्ञात्वा संयावो वर्धितो ह्यति ।विंशतिः साधवः सर्वे तृप्तास्तावान् स चाऽभवत् ॥४०॥संयावः पूर्वमानो वै न्यूनतां नाऽव्रजन्मनाक् ।साधवोऽपि विविदुर्वै भक्तेः प्रतापमेव तम् ॥४१॥तन्मध्ये मण्डलीशो यः साधुर्नाम्ना सुधाऽमरः ।उपादिदेश वाक्यानि मत्वा भक्तं तु पात्रकम् ॥४२॥शृणु भक्त! सदा सेव्यो हरिश्च तस्य साधवः ।नारायणः सत्सु चास्ते कामसंकल्पपूरकः ॥४३॥न जातिर्न धनं राज्यं कृष्णप्रसादसाधनम् ।स्नेहभक्तिः साधुसेवा कृष्णप्रसादसाधनम् ॥४४॥साधवो भगवन्निष्ठा तथा श्रीभगवान् स्वयम् ।क्षेत्रं वै नैमिषारण्यं कुण्ठितं यत्र मानसम् ॥४५॥इन्द्रियाणि कुण्ठितानि निवृत्तानि स्थिराणि च ।विषयेभ्यः परावृत्य जायन्ते शान्तिदानि च ॥४६॥तत्र क्षेत्रे साघुरूपे तथा नारायणात्मके ।सत्संगसलिले स्नात्वा पुण्ययज्ञान् समाचरेत् ॥४७॥आशु सिद्धिर्भवेत्तत्र मोक्षधर्मस्य चोत्तमाम् ।ध्यानं सिद्धिस्तथा शीघ्रं मुमुक्षूणां प्रजायते ॥४८॥वानरा इन्द्रियाण्येव त्वहंमनसी जम्बुकौ ।पूर्वकर्माणि नकुलास्तान् वशान् सन्नयेत् सदा ॥४९॥धर्मे ज्ञाने च वैराग्ये भक्तौ साधुप्रसेवने ।हरेर्मूर्तौ च तिष्ठेयुस्तथा वशान् विधापयेत् ॥५०॥परोत्कर्षाऽसहिष्ण्वाख्यामिर्ष्यां त्यजेत् सदा सुधीः ।मानं त्याज्यं प्रयत्नेन सुधिया सर्वरोधकम् ॥५१॥सत्त्वेन भाव्यं सततं धर्मे रुचिर्यतो भवेत् ।सत्त्वं प्रोक्तं कृतयुगं यत्र ध्यानं भवेद्धरेः ॥५२॥रजोवेगान् रोधयेद्वै काम्यकर्मप्रपेरकान् ।रजस्त्रेतायुगो बोध्यः सेवा कार्याऽत्र दैहिकी ॥५३॥रजस्तमोभ्यां युक्तात्मा द्वापरात्मा प्रकथ्यते ।तत्र लोजाऽर्जनतृष्णा त्यजेत् सेवां चरेद्धरेः ॥५४॥तमोमयः कलिर्बोध्यो यत्र मायाऽनृतादिकम् ।तत्र समागमः कार्यः सतां च भजनं मुहुः ॥५५॥उच्चैः संकीर्तनं विष्णोः कलेर्वेगो निवर्तते ।पूर्वकर्मानुसारेण प्रवर्तन्ते युगा हृदि ॥५६॥अतो ध्यानं चात्मनिष्ठा माहात्म्यबुद्धिरुत्तमा ।साधनीया विशेषेण युगधर्मादिरोधिनी ॥५७॥श्रीकृष्णं भजतो भीतिर्नास्त्येव कालकर्मजा ।कृतार्थोऽस्मीति मत्वैव सेवेत साधुसत्तमान् ॥५८॥भक्तिं कुर्यान्नवधाऽपि सर्वस्वार्पणभावनाम् ।कृष्णसाध्वाश्रयेणैव कलिर्नश्यति वै हृदः ॥५९॥यत्र कृष्णनिवासोऽस्ति तत्र कलिर्न विद्यते ।यत्र सन्तः स्थिताः सन्ति तत्र माया न विद्यते ॥६०॥महाभागवतो धर्मो महावैष्णवतात्मक्ः ।सर्वनिवेदनात्मा स पालनीयः सदा शुभः ॥६१॥चौर्यं पिशुनता दम्भः कर्तव्या नैव सर्वथा ।सतां समागमः कार्यो विश्वासोऽपि सदा सताम् ॥६२॥मर्यादा च सतां पाल्या यथा कृष्णस्य सा तथा ।सेवा सतां सदा कार्या यथा कृष्णस्य सा तथा ॥६३॥येषु हिंसा मदश्चौर्यमनृतं कपटं तथा ।नास्तिकत्वं च माया च ते न विश्वासभूमयः ॥६४॥ते तु रुचिं न कुर्वन्ति सत्संगे सत्सु वा हरौ ।द्रुह्यन्त्येव ते सततं कलिप्रियास्तु पापिनः ॥६५॥अतो मुमुक्षुणा सेव्याः सन्तो नैव तु नास्तिकाः ।सतां योगेन सर्वेश भजित्वा मुक्तिमर्जयेत् ॥६६॥सत्संगे श्रद्धयाऽनन्यभावेन भजते तु यः ।देहान्ते स व्रजत्येव धामाक्षरं हरेः परम् ॥६७॥गोलोकं वापि वैकुण्ठं व्रजेन्नारायणाश्रमम् ।श्वेतद्वीपं व्रजेद्वापि श्रीपुरं चाऽमृतं व्रजेत् ॥६८॥दिव्यदृष्टिमतां तानि चान्तिके सन्ति सर्वथा ।बाह्यदृष्टिमतां तानि धामानि सन्ति दूरतः ॥६९॥देहे जीवो यथा तत्र जीवे श्रीपुरुषोत्तमः ।वर्तते तन्मयीदृष्ट्या पश्येद्धामानि चान्तिके ॥७०॥यत्र कृष्णोऽस्ति हृदये बहिर्वा तत्र सन्ति वै ।सर्वधामानि कृष्णस्यैश्वर्याणि निखिलान्यपि ॥७१॥एवंविज्ञास्तु ये भक्तास्ते श्रीकृष्णसमा मताः ।तेषां दर्शनजं पुण्यं कृष्णदर्शनसदृशम् ॥७२॥अन्यैः सर्वैरीदृशानां समागमेन मोक्षणम् ।प्राप्यते दुर्लभं यद्वै सुलभं सत्प्रसादतः ॥७३॥सत्सु स्नेहेन सन्तः स्वाश्रितान् नयन्ति चाऽक्षरम् ।वासनाः क्षपयित्वैव नयन्ति परमं पदम् ॥७४॥स्त्रीवर्गं नरवर्गं वा सकामं वापि देहिनम् ।सन्तो विशोध्य दिव्यं तं कृत्वा नयन्ति चाऽक्षरम् ॥७५॥शृणु देश्यावन! त्वं वै स्मर नाट्ये प्रभुं हरिम् ।वंशरज्ज्वा धाम दिव्यमक्षरं स्मर सर्वथा ॥७६॥रज्जुस्थे वानरे विष्णुं स्मर छत्रे तु छत्रकम् ।वंशे पूर्वे तु गोलोकं द्वितीये तु विकुण्ठकम् ॥७७॥स्मर दिव्यं रथं तं तु यत्र सा वानरी स्थिता ।ब्रह्मरथं स्मर तत्र मायां विष्णोस्तु वानरीम् ॥७८॥क्रोष्टारं चाप्यहंकारं द्वितीयं मानसं स्मर ।ताभ्यां सा सज्जते माया तां समर्पय विष्णवे ॥७९॥नकुलं तु गुरुं सर्वद्रष्टारं स्मर तत्र हि ।रज्ज्वक्षरस्थितो दिव्यो गुरुस्त्वां तारयिष्यति ॥८०॥डमरूत्थं महानादम् ओंनारायणमाधवम् ।विधेहि सततं सर्वजीवानां श्रवणाय वै ॥८१॥पश्य सेवात्मिकां भक्तिं रंगरक्षाकरीं नटीम् ।पश्य भिक्षां मोक्षयात्रां नित्यद्रव्यमयीं तथा ॥८२॥भिक्षाप्रदान् शरणे वै समायातान् शरीरिणः ।पश्य साधोः संगमेन पावनान् दत्तचित्तकान् ॥८३॥साधुं सुधामरं मां त्वं पश्याऽन्तर्यामिणं हरिम् ।ज्ञानदं मोक्षदं कृष्णनारायणं हितार्थिनम् ॥८४॥देश्यावनं निजात्मानं पश्य कीशादिपालकम् ।स्वामिनं च नियन्तारं रंगखेलविधायिनम् ॥८५॥रंगभूमिं पश्य जातिं देहं गेहं समस्तकम् ।खेलान्तं पश्य मरणं विसर्जनं तु कर्मणाम् ॥८६॥दर्शकानां मनोरञ्जनं तु पश्य शमादिकम् ।एवं कृत्वा तव तृप्तिं जातां पश्य तु शाश्वतीम् ॥८७॥इत्येवं नित्यमीक्षँस्त्वं परं पदं प्रयास्यसि ।हृदये ब्राह्मीमुपनिषदं प्राप्य भयं नहि ॥८८॥यावद्वै वासना चाऽस्ति तावत् खेलः प्रवर्तते ।उपनिषन्निवासेन खेलः खेलो भवेत् सदा ॥८९॥परा शान्तिः प्रवर्तेत देश्यावन तथाऽऽचर ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९०॥हरे कृष्ण बालकृष्ण श्रीपते पुरुषोत्तम ।भज नित्यं परमेशं त्वेवं समाहितो भव ॥९१॥इत्युक्त्वा कमले साधुः समण्डलः सुपूजितः ।प्रसन्नमानसो भूत्वा दत्वाऽऽशीर्वचनं ययौ ॥९२॥अथाऽयं देश्यवचनो विलोक्य पात्रके धृतम् ।प्रसादात्मकसंयावं सम्पूर्णं तु यथातथम् ॥९३॥चमत्कारं महाश्चर्यं मेने कृपां हरेरपि ।कुटुम्बयुग् बुभुजेऽपि प्रसादं तावदेव सः ॥९४॥दिव्यदृष्टिरभवद्वै कुटुम्बसहितः खलु ।अग्रे पार्श्वे पृष्ठतश्च हरिस्तस्याऽभितोऽभवत् ॥९५॥यत्र पश्यति तत्रैव विश्वात्मानं प्रपश्यति ।ऊर्ध्वेऽधो भूतले पात्रे वस्त्रे रथे च वानरे ॥९६॥जम्बुके नकुले नट्यां परात्मानं प्रपश्यति ।दिव्यभावोऽभवद्भक्तः कल्पितं लभते करे ॥९७॥नारायणस्य मे मूर्तिः सर्वतो गोचराऽभवत् ।कृपा सा मे गुरोः साधोश्चापि लक्ष्मि शुभा हि सा ॥९८॥यया सर्वमस्य जातं ब्रह्मदर्शनमुत्तमम् ।अथ वाक्सिद्धमाज्ञाय जनाश्चायान्ति संघशः ॥९९॥कृत्वा तु दर्शनं तस्य भवन्ति पावना अपि ।मन्त्रं गृह्णन्ति मे तस्माद् भक्ताद् वियन्ति वै ततः ॥१००॥कृतकृत्याः प्रजायन्ते महाभागवतेक्षणात् ।अथ काले समायाते त्वाविर्भूतोऽभवं पुरः ॥१०१॥विमानेन सहितश्च पार्षदैश्च समन्वितः ।त्वया साकं तथा लक्ष्मि दिव्यदेहानकारयम् ॥१०२॥कीशनकुलक्रोष्टॄँश्च कीशपं कीशपां तथा ।विमाने ताँश्चाधिरोहयित्वाऽनयं ममाऽक्षरम् ॥१०३॥एवं लक्ष्मि ददौ मुक्तिं मुक्तमण्डलमध्यगाम् ।मम प्रसादभोक्तृभ्यः सर्वेभ्यो भक्तियोगतः ॥१०४॥पठनाच्छ्रवणादस्य मननाद्वर्तनात्तथा ।भुक्तिं मुक्तिं लभेच्चापि दिव्यं स्वर्गं च शाश्वतम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने देश्यावनस्य कीशपालस्य सुधाऽमरसाधोः प्रसंगेन मोक्षणमित्यादिनिरूपणनामा सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥२२७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP