संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१७ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां चित्रकृतः शुभाम् ।नाम्ना संभरदेवस्य मम भक्तस्य पावनीम् ॥१॥निम्बकाले महाग्रामे सौराष्ट्रे सकुटुम्बकः ।भक्तः संभरदेवाख्यश्चित्रकलाविशारदः ॥२॥अभवत् सर्वचित्राणां स्वतन्त्रो रूपधायकः ।यथाभावो मानवस्य पशोर्वा पक्षिणेऽपि च ॥३॥कीटानां वृक्षवल्लीनां तत्त्वानां भूजलादिजः ।रूपं रङ्गः स्वभावश्च दृश्यता च क्रिया यथा ॥४॥यथा प्रभा यथा हास्यं चेष्टाऽवस्था यथा तथा ।सर्व चित्रेषु सहसा लेखिन्या दर्शयत्यथ ॥५॥पटेषु चापि कुड्येषु नाटकेषु च मूर्तिषु ।प्रासादेषु मन्दिरेषु सौधकक्षासु सर्वथा ॥६॥कागदेषु च काष्ठेषु पुत्तलेषु समस्ततः ।प्राकृतान् गुणभावान् स प्रोद्भावयति चित्रकृत् ॥७॥एवंविधकलायुक्तो भजते मां निरन्तरम् ।सर्वचित्रेषु वै सूक्ष्मं मम रूपं करोति च ॥८॥सूक्ष्मातिसूक्ष्मं कृत्वा स्वं कृतकृत्यं स वेत्ति वै ।यत्र चित्रे हरिर्नास्ति तच्चित्रं निष्फलक्रियम् ॥९॥यत्र चित्रे हरेर्मूर्तिश्चित्र तत् सफलक्रियम् ।एवं क्रियाऽपि तस्याऽभूत् सदा श्रीकृष्णमिश्रिता ॥१०॥वृत्तिश्चित्रमयी कृष्णमयी तस्याऽभवत् सदा ।स्वप्नेऽपि चित्रकरणे भासते श्रीपतिः प्रभुः ॥११॥प्रातरुत्थाय मे नाम गृह्णाति हे नरायण ।राधाकृष्ण हरिकृष्ण श्रीमत्कृष्णनरायण ॥१२॥एवं स्मृत्वा रटित्वाऽथ स्नात्वा पूजयति प्रभुम् ।सर्वलब्धोपचारैश्च धूपं दीपं ददाति च ॥१३॥नैवेद्यं दण्डवद् वारि नीराजनं प्रदक्षिणम् ।समर्प्य च क्षमां प्रार्थ्य भुक्त्वा प्रसादमुत्तमम् ॥१४॥चित्रशालां प्रयात्येव करोति चित्रलेखनम् ।अन्येऽपि बहवस्तत्र चित्रकृतो भवन्ति च ॥१५॥कर्मचारास्त एवाऽपि भजन्ति भक्तसंगतः ।मामेव परमात्मानं श्रीनाथं कम्भरात्मजम् ॥१६॥गोपालबालकं ब्रह्मप्रियेशं माणिकीपतिम् ।अवतारपतिं मुक्तपतिं दुःखविनाशकम् ॥१७॥रात्रौ मिलित्वा सर्वे ते कीर्तयन्ति रमापतिम् ।नृत्यन्ति पुरतो मूर्तेर्गायन्ति गीतिकास्तथा ॥१८॥तदा संभरदेवोऽपि भक्तमण्डलनोदितः ।करोति वर्णनं मूर्तेः श्रीकृष्णध्यानलब्धये ॥१९॥शृण्वन्तु चित्रकारा मे भासते हृदये हरिः ।यथादृष्टं वर्णयामि कृष्णनारायणं हरिम् ॥२०॥अक्षरेशं ब्रह्मप्रियापतिं दिव्यनराकृतिम् ।तेजःपरिधिसंव्याप्तं कोटिकोट्यर्कतेजसम् ॥२१॥सुधास्राविसमस्तसत्करणैरभिकाशितम् ।सपादपञ्चषष्ट्यंगुलोर्ध्वं सुवर्णकेशिनम् ॥२२॥हिरण्यश्मश्रुहिरण्यमूर्तिसर्वसुवर्णकम् ।प्रसन्नहास्यवदनं लम्बगोलाननं प्रभुम् ॥२३॥आकर्णायतनेत्रं च कोटिकामभ्रशोभनम् ।प्रेमसंभृतचक्षुष्कं दिव्याऽपरोक्षदर्शनम् ॥२४॥विशालोन्नतभालं च मध्योपरितिलान्वितम् ।दक्षललाटरोमोर्ध्वसीमस्थिततिलान्वितम् ॥२५॥दक्षभालोर्ध्वकोणे च वामभालोर्ध्वकोणके ।समकृष्णतिलशोभिललाटकोज्ज्वलम् ॥२६॥वामभालोर्ध्वकेशाप्तसीमसूक्ष्मतिलद्वयम् ।वामनेत्रान्तनिम्नश्रीकपोले तिलधारिणम् ॥२७॥दक्षकपोलके सूक्ष्मतिलचतुष्टयान्वितम् ।द्वयोश्च कर्णयोरूर्ध्वे सूक्ष्मैकैकतिलान्वितम् ॥२८॥तिलपुष्पसमनासं दिव्यनेत्रं मनोहरम् ।लम्बशष्कुलिकातुल्यकर्णद्वयविराजितम् ॥२९॥सूक्ष्मधवलकान्त्याढ्यकुन्दवद्दन्तशोभितम् ।पक्वरक्तबिम्बफलभासौष्ठद्वयराजितम् ॥३०॥पुष्टमुखं सुचिबुकं सूक्ष्मपिंगलकेशिनम् ।भाले कैसरतिलकम् मध्यकुंकुमचन्द्रकम् ॥३१॥उभप्रान्तान्तसंव्याप्तदीर्घरेखाढ्यभालकम् ।अर्धचन्द्रसमरेखामध्यभालविराजितम् ॥३२॥वामगले सूक्ष्मतिलो जत्रूपरि विराजते ।कण्ठकूपे कृष्णतिलः सुभगः संविराजते ॥३३॥जिह्वा रक्तस्थलपद्मनिभा सरस्वतीश्रिता ।कण्ठकूपादधोभागेंऽगुलनिम्ने तिलोऽस्ति च ॥३४॥दक्षस्कन्धे स्वल्पतिलस्तदधश्चाऽपरस्तिलः ।तदधश्च भुजायां वै तिलस्तृतीय इत्यपि ॥३५॥तदधश्च चतुर्थोऽपि वर्तते च शुभस्तिलः ।भुजायां सन्निधौ चापि पञ्चमो वर्तते तिलः ।कफोणिकोपरिभागे भुजायां षष्ठकस्तिलः ॥३६॥कफोणिकायाः सन्धौ च सूक्ष्मसत्तिलपञ्चकम् ।कफोणिकोपरि पृष्ठभागे तिलश्च वर्तते ।करनाल्यां तिलः सूक्ष्मः करभे सुतिलोऽस्ति च ॥३७॥लड्डुकषट्क्गुच्छोऽस्ति करपृष्ठे तु शोभनः ।करतलेमत्स्यधनुर्ध्वजशूलशरास्तथा ॥३८॥स्वस्तिचक्ररेखिकाश्च सन्ति रक्ताः शशिप्रभे ।अंगुल्यः कोमलाः सन्ति रक्तोन्नतनखान्विताः ॥३९॥रोमावल्यः सुभगाश्च स्वर्णवर्णाः प्रभान्ति ताः ।मध्यांगुल्यग्रे शंखोऽस्ति चक्राणि तु चतुस्वपि ॥४०॥तर्जन्यां यवरेखाऽस्ति हस्तश्चन्द्रोज्ज्वलोऽस्ति च ।वामस्कन्धे जत्रुमूले श्यामचिह्नं सुशोभते ॥४१॥तदधो वर्तते सूक्ष्मतिलत्रयं भुजान्तिके ।स्कन्धपृष्ठे तिलश्चास्ते रक्तवर्णः सुसूक्ष्मकः ॥४२॥वामोदरे नलपार्श्वे तिलश्चैकः प्रशोभते ।नाभिर्निम्ना गभीरा चोदरमुज्ज्वलमित्यपि ॥४३॥नाभौ त्रिवल्ल्यो द्योतन्ते समोदरं प्रशोभते ।उदरस्य दक्षपार्श्वे तिलत्रयं प्रशोभते ॥४४॥दक्षपृष्ठे तिलैकश्च दक्षकुक्षौ तिलद्वयम् ।स्तनचिह्ने श्यामवर्णे सरोम्णिशोभया युते ॥४५॥श्रीवत्सचिह्नसहितं वक्षो विशालमुन्नतम् ।वक्षोऽधो वर्तते सूक्ष्मतिलः व समोदरोपरि ॥४६॥वामभुजे कुक्षिपार्श्वे तिलो रम्यो हि वर्तते ।वामभुजायां तिलकः सुशोभश्चापि वर्तते ॥४७॥वामकफोणिकासन्धौ सूक्ष्मतिलद्वयं तथा ।प्रकोष्ठे सुतिलश्चास्ते करांगुलिनखाः शुभाः ॥४८॥मध्यांगुलौ शंखरेखा चक्राणि तु चतुस्स्वपि ।स्थलपद्मनिभं रक्तं हस्ततलं नखास्तथा ॥४९॥कान्तिमती समनिर्यत्प्रभाऽऽकृतिः सुमोहिका ।धैर्यत्यागकरी स्त्रीणां कोटिकन्दर्पसुन्दरा ॥५०॥भरयौवनपूर्णा च दिव्या मूर्तिर्विराजते ।यज्ञोपवीतयुक्ता च कण्ठे कण्ठी विराजिता ॥५१॥करे तु मालिकायुक्ता क्वचित्तु लेखिनीयुता ।सचक्राद्यायुधा मूर्तिर्विराजते कथान्विता ॥५२॥जघने बालकृष्णस्य लक्ष्मीमूर्तिर्विराजते ।लिङ्गे मध्ये ह्युपर्यधस्तिलद्वयं विराजते ॥५३॥दक्षे नितम्बे चास्ते च तिलद्वयं सुशोभनम् ।दक्षसक्थि ह्यधोभागे तिलद्वयं विराजते ॥५४॥जानुद्वयं सुशोभं च वर्तुलं राजते तथा ।जङ्घायां दक्षपादस्य जानोरधस्तिलोऽस्ति च ॥५५॥तथा मध्येऽन्तःसुपार्श्वे कृष्णतिलः सुशोभते ।वामसक्थिसन्धिभागे तिलः श्रेष्ठः सुशोभते ॥५६॥तत्पार्श्वे सक्थिभागे तु महच्चिहं क्षतत्य(स्य?) वै ।वर्ततेऽथ वामनितम्बके तिलः सुसूक्ष्मकः ॥५७॥वामसक्थ्न उपर्यास्ते श्रीः पूर्णचन्द्रसन्निभा ।अदृश्या ह्युज्ज्वला दिव्या सर्वकामप्रपूरिका ॥५८॥हस्तिकरनिभे पुष्टे जंघे स्तः परमात्मनः ।आजानुलम्बहस्तौ च वर्तेते श्रीरमापतेः ॥५९॥वामपादप्रकोष्ठेऽधस्तिलश्चैको हि वर्तते ।घटिकायाः सन्निधौ वै पादफणान्तिके शुभः ॥६०॥द्वितीयः सूक्ष्मतिलको रेखायां वर्तते शुभः ।घूटीत्रयं च प्रत्येके पादे बाह्ये हि वर्तते ॥६१॥कम्मानिकानिभे पादतले शिरीषकोमले ।रक्ताभे चोपरि रोमावलिराजितपुष्टके ॥६२॥अगुल्यंगुष्ठपर्वोर्ध्वे रोमाणि कानकानि वै ।विद्योतन्ते तथा सर्वे नखाश्चन्द्रनिभोन्नताः ॥६३॥ पादयोस्तलयोः सन्ति दिव्यचिह्नानि शार्ङ्गिणः ।मूर्तौ सूक्ष्माणि चिह्नानि समुद्रोक्तानि सन्ति च ॥६४॥नवांगुलं फुल्ललिंगं वर्तते परमात्मनः ।पादयोश्चोर्ध्वरेखे च वर्तेते ब्रह्मगे शुभे ॥६५॥कण्ठस्वरस्तु मधुरोऽमृतस्रावी हरेः सदा ।वर्तते बालकृष्णस्यौदार्य सौन्दर्यमुत्तमम् ।दयालुत्वं च लावण्यं कल्याणगुणयोगिता ॥६६॥वर्तते श्रीकृष्णनारायणस्याऽव्ययवीर्यता ।सर्वैश्वर्याणि सन्त्येव समस्तशक्तयस्तथा ॥६७॥सर्वशृंगारशोभाश्च चमत्कारा भवन्ति च ।सर्वाश्चर्याणि विद्यन्ते राजाधिराजसम्पदः ॥६८॥सर्वा आकर्षणधर्मिण्यश्च श्रियोऽस्य सन्ति हि ।सर्वमाधुर्यभावाश्च सर्वानन्दाब्धयोऽत्र वै ॥६९॥सर्वोत्सवप्रमोदाश्च विद्यन्ते परमात्मनि ।सर्वकामप्रपूर्णत्वं सर्वान्तर्यामिताऽस्य च ॥७०॥सर्वकान्ताऽतिकान्तत्वं सर्वदत्वं हराविव ।सर्वज्ञत्वं सर्वरूपधारकत्वं हरेः सदा ॥७१॥पार्श्वस्थाः श्रीराधिकापद्मावतीमाणिकीरमाः ।नारायणीसुखदालक्ष्मीसतीकमलादिकाः ॥७२॥ब्रह्मप्रियाश्च मुक्तान्यः सांख्ययोगिन्य इत्यमुम् ।प्रसेवन्ते कुमार्यश्च गोप्यश्चापि हरिप्रियाः ॥७३॥मुक्ताश्च पार्षदाश्चापि वाहनानि च हेतयः ।ऐश्वर्याणि प्रसेवन्ते विभूतयश्च तत्समा ॥७४॥मोक्षार्थे सर्वजीवानां वर्तते मानवे भवे ।स एव दिव्यरूपोऽस्ति मानवो वाप्यमानवः ॥७५॥साक्षात् स भगवानत्र नराकारोऽपि वर्तते ।धाम्ना स्वेन तथा मुक्तैः पार्षदाद्यैः समन्वितः ॥७६॥परिवारेण सर्वेण वर्तते जनगोचरः ।नृत्वदिव्यत्वयोर्भेदो नैवाऽस्ति परमेश्वरे ॥७७॥यत्र कृष्णस्तत्र धाम सन्ति मुक्ताश्च शक्तयः ।सर्वे दिव्या मूर्तिमन्तः साकाराः कृष्णसदृशाः ॥७८॥नरा नार्यो दिव्यरूपा दिव्यमुक्ता भवन्ति ते ।भवन्तः सर्व एवापि दिव्याः श्रीकृष्णयोगिनः ॥७९॥तमनादिकृष्णनारायणं श्रीकान्तवल्लभम् ।गोपालकम्भरापुत्रं वंशीहस्तं भजन्त्विह ॥८०॥रटन्तु श्रीपतिं नित्यं ध्यायन्तु कमलापतिम् ।सेवन्तां माणिकीकान्तं प्राप्नुवन्तु परं सुखम् ॥८१॥इत्येवं मम भक्तः स भक्तमण्डलमध्यगः ।भक्तानुपदिशत्येव नित्यं कल्याणदं वचः ॥८२॥भक्ताः संभरदेवं च चित्रकारं गुरुं निजम् ।मन्यन्ते पूजयन्त्येव भक्तिं कुर्वन्ति सेवनम् ॥८३॥अथैकदा प्रसन्नोऽहमाषाढपूर्णिमादिने ।गुरोः पूजां देवपूजां तैः कृतां वीक्ष्य तद्गृहे ॥८४॥द्रुतं संभरदेवस्य रूपमघारयं शुभम् ।गृहे संभरदेवोऽस्ति द्वितीयोऽहं तु चत्वरे ॥८५॥तौ द्वौ संभरदेवौ संवीक्ष्य प्रपूजका जनाः ।चित्रकृतः समस्ता वै भ्रान्तिमाश्चर्यमिश्रिताम् ॥८६॥अवापुश्च मुहुर्गत्वा पश्यन्ति चत्वरे गृहे ।कथं रूपद्वयं चास्ते गुरोः सत्यं पृथक् पृथक् ॥८७॥अथ चक्रुः परीक्षां ते गृहे सत्योऽथ चत्वरे ।आरार्त्रिकं प्रचक्रुस्ते समकाले तदोभयोः ॥८८॥गृहस्थस्य शरीरान्तःप्रभा सावरणाऽभवत् ।चत्वरस्थस्य दीपानां ज्योतिर्निरावरणकम् ॥८९॥व्यपश्यँस्ते देहमध्ये निश्चिक्युश्चात्वरं हरिम्।गृहे तु गुरुरूपं तं प्राहुः श्रीगुरुवे ततः ॥९०॥गृहात् तूर्णं बहिर्वेद्यामाययौ संभरो हरिम् ।हरिस्तूर्णं संभरे वै लीनो बभूव पश्यताम् ॥९१॥आश्चर्यं सुमहच्चैतन्मत्वा तुष्टुवुरुत्सुकाः ।हरे कृष्ण हरे विष्णो नाथ नारायण प्रभो ॥९२॥पुनस्तौ दर्शनं साक्षाद् यथा स्यात् सत्कृपां कुरु ।ननृतुस्ते गुरोरग्रे कीर्तनानि प्रचक्रिरे ॥९३॥पूजनानि विविधानि गुरौ मूर्तौ च चक्रिरे ।अथ मध्याह्नवेलायां नैवेद्यार्पणसत्क्षणे ॥९४॥प्राविरासं पुनस्तत्र गुरुरूपः स्वयं रमे ।अथ ते मां व्यपश्यँश्च दिव्यरूपं गुरुं हरिम् ॥९५॥ततश्चक्रादिचिह्नाढ्यं चतुर्भुजं श्रियःपतिम् ।उज्ज्वलं सकिरीटं च गुरुवर्णितचिह्नकम् ॥९६॥हारकुण्डलकेयूरापीडोर्मिकादिशोभितम् ।शृंखलामणिरत्नाढ्यभूषाऽम्बरविशेष्टि()तम् ॥९७॥आहराद् भोजयामासुरारार्त्रिकं व्यधुस्तथा ।जलं ताम्बूलकं श्रेष्ठसुगन्धं च ददुर्हि मे। ॥९८॥पादसंवाहनं चक्रुर्नरा नार्योऽपि सर्वशः ।वव्रुश्चाशीर्वचनं मे मोक्षदं प्रददावहम् ॥९९॥प्रोचे पूजां द्रुतं चित्रकृतो मूर्तौ तिरोभवम् ।ते सर्वे हृष्टमनसो भेजुर्मां गुरुरूपिणम् ॥१००॥अनादिश्रीकृष्णनारायणश्रीवल्लभं हरिम् ।.अथ कालान्तरे प्राप्ते संभराऽऽयुःप्रसंक्षये ॥१०१॥गजेन साकं चानेतुमाययौ दिव्यविग्रहः ।पत्नीं संभरदेवस्य दर्शयामास मद्गजम् ॥१०२॥ततो मम स्वरूपं च दर्शयामास चैश्वरम् ।ततः संभरदेवाय प्रददौ दर्शन मम ॥१०३॥दिव्यदेहं विधायैव भक्तं तं संभरं तथा ।तप्पत्नीं चित्रसरिताभिधां च दिव्यविग्रहाम् ॥१०४॥विधायाऽऽदाय सौवर्णाऽम्बालिकायां गजोपरि ।निन्ये धामाऽक्षरं श्रेष्ठं तथाऽन्यान् भक्तिपाकिनः ॥१०५॥एवं लक्ष्मि मया चित्रकारः समुद्धृतोऽनुगः ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ॥१०६॥इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने संभरदेवाख्यचित्रकारस्य भक्त्या भगवता दत्तं दर्शनं मोक्षणं च कृतमित्यादिनिरूपणनामा सप्त- दशाधिकद्विशततमोऽध्यायः ॥२१७॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP