द्वापरयुगसन्तानः - अध्यायः १८८
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं स्तेनस्य मोक्षणं शुभम् ।
आसीत् शंकुधराख्यो वै स्तेनो मालव्यपत्तने ॥१॥
स्तेनावासे कृतावासः स्तेनमण्डलपुष्टिकृत् ।
स्तैन्ययात्रापरश्चास्ते रात्रौ शस्त्रादिधारकः ॥२॥
भिन्नवेषधरश्चापि भिन्नकर्मा भवत्यपि ।
भेदं ज्ञात्वा प्रवेशस्य यथा यत्नेन सर्वथा ॥३॥
रात्रौ कृत्वा च संकेतं धनचौर्यं करोति हि ।
क्वचिदश्वे क्वचिदुष्ट्रे क्वचित्तु दीर्घगर्दभे ॥४॥
धनभारं निधायैव दूरं याति द्रवन् हि सः ।
एवं देशान्तरे गत्वा चोरयित्वा धनानि वै ॥५॥
आनाय्य स्वगृहं चौरैर्विभज्य स्वं प्ररक्षति ।
उत्सवं कुरुते चापि भुंक्ते खादति मोदते ॥६॥
चौर्यं तु सर्वथा कार्यं चान्यत् कार्यं न विद्यते ।
स्तैन्योद्यमः स्तैन्यचिन्तः स्तैन्यध्यानपरोऽस्ति सः ॥७॥
स्तैन्योदरभरश्चास्ते कुटुम्बोदरपूरकः ।
कदाचिद् यत्र देवानामुत्सवो वा महान् भवेत् ॥८॥
पारेसहस्रं जनता मिलन्ति यत्र तीर्थके ।
चैत्ये वा मन्दिरे चाद्रौ ग्रामान्ते वा नदीतटे ॥९॥
देवालये च वा तत्र यात्ययं चौरमण्डलः ।
मार्गयत्येव सर्वत्र द्रव्याणि कुत्र सन्ति हि ॥१०॥
निर्जनं वा कदा कुत्र जायते धनिनो गृहम् ।
क्व मार्गो वा प्रवेशस्य निःसृतिर्वा क्व वा कथम् ॥११॥
कथं लब्धिः कथं स्वस्य रक्षा प्रच्छन्नता कथम् ।
एवं स्वध्याननिरतः ससार्थः शंकुधारकः ॥१२॥
अन्यान्यपत्तने चौर्यं कृत्वा चाहरते धनम् ।
एवंविधस्य तस्यैवैकदा स्वप्नं निशोत्तरे ॥१३॥
अभवत् स्वर्णरत्नानां लब्ध्यात्मकमसीमकम् ।
अरण्ये पूर्वमेवाऽऽसीद् राजधानीत्यलोकयत् ॥१४॥
स्वप्ने तत्र वने दूरे निर्जने कोषमुत्तमम् ।
सुवर्णरत्नखचितं पुरा राज्यप्ररक्षितम् ॥१५॥
गुप्तं कोषं न जानाति कश्चिदन्यो यथा तथा ।
प्रातरुत्थाय भुक्त्वाऽयं विहारव्याजतो ययौ ॥१६॥
स्वप्ने यथा ददर्शाऽयं वनं मार्गं पुराणकम् ।
वृक्षघटां च पाषाणान् पृथ्वीं प्राच्यस्तरान्विताम् ॥१७॥
प्राचीनवसतिं तत्र दर्शयित्रीं पुराऽङ्कनैः ।
तथा सर्वं ददर्शाऽयं स्तेनो विश्वासमाप्तवान् ॥१८॥
पूर्वजन्मनि ये चोप्ताः संस्काराश्चिरकालिनः ।
अंकुरयन्ति कमले जन्मान्तरे न संशयः ॥१९॥
चौरोऽयं पूर्वकाले तु सहस्रवर्षपूर्वगे ।
राज्ञः कोषाध्यक्ष आसीत् सुहोत्रस्य तु भूभृतः ॥२०॥
सुहोत्रस्य तदा तत्र नगरी पितृनामतः ।
कांचनेन जनकेन कृताऽऽसीत् काञ्चनी पुरी ॥२१॥
चन्द्रवंशीयराज्ञः सा कोषरक्षामयी ह्यभूत् ।
अथ कालान्तरे कोषा निष्कासिताः स्थलान्तरे ॥२२॥
नीताश्च निहिताः सर्वे तथापि कपटेन वै ।
अपजापकनाम्ना वै कोषाध्यक्षेण सर्वथा ॥२३॥
अन्ये यथा न जानीयुस्तथा कोषस्तु वै मनाक् ।
सुवर्णानां च रत्नानां पृथक्त्वस्य निगर्तितः ॥२४॥
तत्रैव शेषितो नैजस्वार्थार्थं कपटेन ह ।
अथ कालान्तरे याते चिरं काले गतेऽपि वै ॥२५॥
अपजापो न वै नेतुं शशाक गुप्तकोषकम् ।
एवमेव मृतस्तत्र मालव्यपत्तने नवे ॥२६॥
चौर्यदोषेण याम्यां वै नगरीं प्रापितो यमैः ।
लोहदण्डैस्ताडितः स दुःखायितश्च कुण्डके ॥२७॥
पाशैश्च मुद्गरैर्दण्डैर्दण्डायितो मुहुर्मुहुः ।
पापभोगोत्तरं मुक्तो वने तत्र हि निर्जने ॥२८॥
प्रेतरूपोऽभवन्नान्यं गन्तुं ददाति तत्स्थलम् ।
अरण्ये रमते नित्यं कोषं पश्यति केवलम् ॥२९॥
भुंक्ते वन्यं समस्तं च कोषद्रुमे वसत्यपि ।
एवं त्वष्टशतान्यस्य वर्षाणां विगतानि वै ॥३०॥
प्रेतस्य निर्जने तत्र तदा प्राचीनभूतले ।
तपस्तप्तुं समायतो विप्रो नाम्ना सुमन्तुकः ॥३१॥
वने विज्ञाय रमणीं तपोयोग्यां शुभस्थलीम् ।
निर्विघ्नां वृक्षवल्ल्यादिस्तम्बाढ्यां सुजलापगाम् ॥३२॥
नातिदूरे वटवृक्षच्छायामाश्रित्य तापसः ।
तपश्चक्रे भजन् कृष्णं श्रीपतिं पुरुषोत्तमम् ॥३३॥
अथ सम्वत्सरे याते प्रेतोऽयं पुण्यशालिनम् ।
मत्वा चोद्धारकर्त्तारं निजस्येति तु तापसम् ॥३४॥
किरातरूपमास्थाय वटच्छायां तु तत्पुरः ।
ययौ नमन् प्रशंसँश्च तपस्तस्य महात्मनः ॥३५॥
सुमन्तुस्तपसा त्वेनं जानाति प्रेतरूपिणम् ।
तथापि तं स्वागतं वै चक्रे वटगृहागतम् ॥३६॥
वनिनं कृष्णवर्णं च कृशं च दुःखिनं तु तम् ।
पप्रच्छ मुनिराड् देहिन् कुशलं ते वनिन् त्विह ॥३७॥
प्रेतो जगाद कुशलं तापसस्य प्रतापतः ।
मुनिः पप्रच्छ वासं च ग्रामं धर्मं च कर्म च ॥३८॥
प्रेतो निष्कपटो भूत्वा वृत्तान्तमाह चादितः ।
पूर्वमासं त्विह कोषाध्यक्षः कपटपापवान् ॥३९॥
मृत्वा याप्यपुरीं गत्वा भुक्त्वा दुःखानि यातनाः ।
प्रतारणफलं किंचिदवशिष्टं प्रलभ्य च ॥४०॥
जातोऽस्म्यत्र वने प्रेतो दयया मां विमोचय ।
एवं स उपवाँस्तस्मै कोषं नाऽदर्शयत्तदा ॥४१॥
दयालुः स ऋषिस्तस्मै गायत्रीं प्रजपन् जलम् ।
ददौ प्रेतस्य मुक्त्यर्थं प्रेतता विगताऽस्य च ॥४२॥
किन्तु चौर्यस्वभावेन कापट्येन तु मानवे ।
मालव्यपत्तने चाऽयं चौरः शंकुधरोऽभवत् ॥४३॥
पूर्वसंस्कारसहितश्चौर्यनिष्णात एव सः ।
एवं स्तैन्यपरस्याऽस्य लक्ष्मि संस्कारसद्बलात् ॥४४॥
स्वप्नेऽस्य स्मरणं जातं कोषस्य पूर्वजन्मनः ।
तं कोषं वै ततो द्रष्टुं ययौ तु निर्जने वने ॥४५॥
सर्वं विलोकयामास सचिह्नं स्वप्नभालितम् ।
प्रसन्नोऽभूत्तदा चाऽसौ मानवो लोभपुष्कलः ॥४६॥
वटं ददर्श तत्रैव तापसस्य पुरा स्थलम् ।
तपस्वी तत्र नास्त्येव वटस्तु विद्यते शुभः ॥४७॥
सुमन्तुकस्तु तपसा दिव्यदेहो यतोऽभवत् ।
वटे तिरोभवन्नास्ते तपस्वी दिव्यविग्रहः ॥४८॥
शंकुधरस्ततो नैव ददर्श तं तपस्विनम् ।
वटमात्रं ददर्शैव नेमे वटं पुरा स्मरन् ॥४९॥
ययौ स्थलं तु कोषस्य तृप्तिं मत्वा सुवर्णजाम् ।
आययौ सुप्रसन्नश्च स्वगृहं सायमेव ह ॥५०॥
अथैकलः स्वहृदये चिन्तयामास वै मुहुः ।
कथंकारं धनं तस्मादानेयमत्र वै मया ॥५१॥
यथा चान्ये न जानीयुस्तथा चाहार्यमेव तत् ।
वने तत्र निवासं वै कृत्वा शनैः शनैरिह ॥५२॥
मया त्वेकाकिना चानेतव्यं वै छद्मना सदा ।
इत्येवं सम्विचार्यैव चौर्यमिषेण चैकलः ॥२३॥
उक्त्वा गृहजनान् शस्त्राण्यादाय तद्वनं ययौ ।
यावत् खनति चौर्यैण शनैः शनैस्तमस्यपि ॥५४॥
आप्रातः खननं कृत्वा वटस्याऽधो ययौ क्षणम् ।
विश्रामार्थं पुनस्तत्राऽऽगत्याऽखनच्छनैः शनैः ॥५५॥
निर्भयो वनमध्ये वै ह्येकाकी चाऽविशंकितः ।
तावद्वटात्तत्र शब्दश्चायातो मानवो यथा ॥५६॥
श्रुत्वा पश्यत्यभितः स शंकितश्च द्रुतं तदा
नाऽपश्यन्मानवं कंचित् पुनः पुनः सुशंकितः ॥५७॥
खनयामास शनकैस्तावत्पाषाणभारिता ।
शिला तत्रागता त्वेका तामुत्थाप्य शिलातले ॥५८॥
व्यलोकयत्ताम्रपात्राण्यष्ट भूतानि सर्वथा ।
सुवर्णं रजतं भूषा मुद्रा रत्नानि हीरकान् ॥५९॥
स्वप्नदृष्टान् समस्ताँश्च विशेषान् द्रव्यसंज्ञितान् ।
विलोक्य सर्वथा सर्वान् शान्तिं जगाम चोत्तमाम् ॥६०॥
अथैतानि तु पात्राणि पिधाय च यथायथम् ।
तृणपत्रादिपुञ्जं चोपरि न्यस्यत्ततः स च ॥६१॥
कण्टकद्रुमशाखाश्च चिक्षेप चोपरि द्रुतम् ।
अथ वटं पुनर्गत्वा विश्रान्तिमाप वै क्षणम् ॥६२॥
स्मरन् रात्रौ प्रकर्तव्यं द्रव्यस्य हरणं यथा ।
चिन्तयन् क्लृप्तनां सर्वां सुष्वाप क्षणमेव सः ॥६३॥
उत्थितः स घटिकान्ते तावत्तु पुरतोऽभवत् ।
योगिराट् मूर्तिमान् साक्षात् सुमन्तुको हसन् मुहुः ॥६४॥
स्तब्धो भूत्वा क्षणं मत्वा महर्षिं तापसं तु तम् ।
पुरा दृष्टं द्रुतं प्रत्यभिज्ञाय प्रणनाम तम् ॥६५॥
प्रसन्नवदनो भूत्वोद्धारकं तं मुनीश्वरम् ।
जातिस्मरो द्रुतं प्राह प्रेतोऽभवं गुरो पुरा ॥६६॥
अत्राऽहं भवता चाप्युद्धृतोऽहं मानवोऽस्मि च ।
शंकुधराख्यश्चौरोऽहं चौर्यकर्मपरायणः ॥६७॥
चौर्येण कृतनिर्वाहो विचरामि तु पापवान् ।
उद्धारं कुरु विप्रेन्द्र पूर्वगुरो दयानिधे ॥६८॥
यथा मे स्यादभ्युदयो मोक्षणं च तथा कुरु ।
श्रुत्वैवं शरणस्थस्य पुराभक्तस्य वै मुनिः ॥६९॥
सुमन्तुर्दयया प्राह तदुद्धारं विचिन्तयन् ।
करिष्ये तव परमं श्रेयो नास्त्यत्र संशयः ॥७०॥
प्रवदामि यथा शिष्य तथा विधेहि सादरम् ।
शृणु स्वल्पमुपदेशं तव योग्यं वदामि ते ॥७१॥
चन्द्रवंशो भवानासीन्महाकोषपतिः पुरा ।
ततो याम्यपुरे गत्वा भुक्त्वा च यातनास्ततः ॥७२॥
प्रेतो जातस्ततो मेऽपि कृपया मानवोऽसि वै ।
तथापि चौरभावस्ते न नष्टोऽत्र वदामि ते ॥७३॥
त्वया यत् खनितं खातं द्रव्यं तत्र च यद् भवेत् ।
तेन यज्ञं कुरु त्वत्र सुमन्तुहस्तकारितम् ॥७४॥
सुमन्तुश्चाहमेवात्र वटाऽधस्ताद् वसामि तु ।
सर्वे जानन्ति लोका मां तापसं सिद्धयोगिनम् ॥७५॥
सुमन्तुना मखश्चापि क्रियते वद चेत्यपि ।
प्रजासु त्वं समस्तासु विश्वासं सम्प्रदापय ॥७६॥
आगमिष्यन्ति ऋषयो मुनयो देवतास्तथा ।
भूसुरा मानवाः सन्तः साध्व्यश्चात्र मखे ततः ॥७७॥
द्रव्यव्ययं करिष्येऽहं करिष्ये मखमुत्तमम् ।
एवं कृते तव पुण्यं परं श्रेयो भविष्यति ॥७८॥
गृहाण मन्त्रं कृष्णस्य पावनं पंक्तिपावनम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७९॥
'हरेकृष्ण हरेविष्णो बालकृष्ण श्रियःपते ।
परमेश कृपासिन्धो लक्ष्मीपते रमापते' ॥८०॥
एवं संकीर्तनं चापि कुरु रात्रिन्दिवं सदा ।
तव पापानि सर्वाणि नाशमेष्यन्ति सर्वथा ॥८१॥
यज्ञपुण्यं तवैव स्यान्ममाशीर्वादतः प्रिय ।
आत्मशुद्धिस्तथा ते स्याद् भक्तिश्च श्रीहरौ मयि ॥८२॥
भविष्यतीति मे वाचः फलिष्यन्ति न संशयः ।
भुक्तिर्मुक्तिश्च ते कुटुम्बिनां चापि भविष्यतः ॥८३॥
इत्युक्त्वा तन्मनो ज्ञात्वा ऋषिर्मन्त्रं ददौ ततः ।
प्रेषयामास ऋषिराट् सुमन्तुकस्तमाश्रमान् ॥८४॥
विप्राश्रमान् मुन्याश्रमान् साधून् सतीः प्रति द्रुतम् ।
विद्वांसः सुसमाकर्ण्य यज्ञं तत्र समाययुः ॥८५॥
लक्ष्मि सुमन्तुमुनिराट् तदा संकल्पमात्रतः ।
चक्रे समग्रवस्तूनां सञ्चयान् पर्वतान् नदीः ॥८६॥
ब्रह्माद्या देवतास्तत्र प्रत्यक्षं त्वाययुस्तदा ।
महर्षयः पितरश्च सन्तः साध्व्यः समाययुः ॥८७॥
विष्णुयागस्तु ऋषिणा सप्ताहेन कृतस्तदा ।
सुमन्तोर्वाञ्च्छया विष्णुस्तत्र साक्षात् स्थितोऽभवत् ॥८८॥
अग्नयस्तु तदा साक्षाद् जगृहुर्हव्यभोजनम् ।
पूर्णाहुतौ सुमन्तुकः सस्मार मां परेश्वरम् ॥८९॥
भक्तकल्याणकार्यार्थं तदाऽहं प्रगतोऽभवम् ।
बुभुजे हव्यमेवापि सुमन्त्वाद्यैः सुसत्कृतः ॥९०॥
अथ खातजद्रव्याणां दानानि तु सुमन्तुकः ।
अदापयच्छंकुधरहस्तेन स्वर्णकोटिकम् ॥९१॥
रूप्यकाणां कोटिकाश्च रत्नानां कोटिकास्तथा ।
हीरकाणां कोटिकाश्च चमत्कारैरदापयत् ॥९२॥
धनं कस्मात् समायातं विविदुर्नैव केचन ।
चमत्कारं हि मन्यन्ते सुमन्तोः सर्वमेव ते ॥९३॥
जयकारो महान् जातो दानैश्च दक्षिणादिभिः ।
तृप्ता देवाश्च पितरो मानवाः ऋषयः परे ॥९४॥
देहिनोऽपि समस्ताश्च तृप्तास्तत्र महाध्वरे ।
अवभृथे सुमन्तुश्च स्नापयामास शिष्यकम् ॥९५॥
प्रार्थयामास मां तत्र दातुं भक्तस्य दर्शनम् ।
अहं शंकुधरायाऽपि कुटुम्बसहिताय वै ॥९६॥
शंखचक्रगदापद्मधरं स्वं दर्शनं ददौ ।
पावयामास सर्वांस्तान् सुमन्तोर्वचनात् खलु ॥९७॥
सर्वपापानि भक्तस्य विधूय पुण्यशेवधिम् ।
दत्वा तस्मै स्वर्गयाने चाधिगृह्य दिवि ध्रुवे ॥९८॥
तारके तु महत् स्वर्गं प्रददौ शंकुधारिणे ।
सकुटुम्बः शंकुधरो ययौ वै पश्यतां सताम् ॥९९॥
दिव्यदेहः प्रभूत्वैव द्रुत ध्रुवालयं ययौ ।
वैष्णवस्य हि यागस्य फलं भुक्त्वा ध्रुवालये ॥१००॥
ततो यास्यति वैकुण्ठं कुटुम्बसहितो हि सः ।
एवं लक्ष्मि सुमन्तोर्वै प्रतापेन तु भक्तराट् ॥१०१॥
चौरोऽपि स्तैन्यरहितो भूत्वा कृत्वा मखं शुभम् ।
साधोस्तु कृपया मे च प्रसादेन सुरोत्तमः ॥१०२॥
सर्वलोकैर्वन्दितः सन् ख्यातो ध्रुवपदं ययौ ।
एवं साधोः प्रसंगेन पापिनोऽपि खला अपि ॥१०३॥
पापहीनाः प्रजायन्ते यान्ति वै परमं पदम् ।
पठनाछ्रवणाच्चास्य भुक्तिं मुक्तिं व्रजेदपि ॥१०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने शंकुधरनाम्नश्चौरस्य सुमन्तुकर्षेर्योगेन पापनाशो यज्ञकरणं मोक्षश्चेत्यादिनिरूपणनामाऽष्टाशीत्यधिकशततमोऽध्यायः ॥१८८॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP