संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १३१

द्वापरयुगसन्तानः - अध्यायः १३१

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु श्रीशिवराज्ञीश्रि महादानमनुत्तमम् ।
महाकल्पलताख्यं च दानं सुवर्णवल्लिकम् ॥१॥
पुण्यां तिथिं समासाद्य कारयेन्मण्डपं शुभम् ।
वेदिं कुण्डं कारयेच्च स्थापयेद्धवनार्थकम् ॥२॥
वस्तुघ्रातं ब्राह्मणैश्च कारयेत् स्वस्तिवाचनम् ।
दानवस्तून्युपादाय मण्डपे तत्र सन्न्यसेत् ॥३॥
ऋत्विज_ सर्वसंभारभूषणाच्छादनादिकम्।
आसनेषु च देवानां नारायणस्य मे श्रियः ॥४॥
देवीनां च तथा कुर्यादावाहनं प्रपूजयेत् ।
मण्डपे तत्र सौवर्णीर्दश कल्पाख्यवल्लिकाः ॥५॥
दशोत्तरसुवर्णोत्थाः स्थापयेत् फलपुष्पिताः ।
रत्नांशुकादिसंयुक्ता भूषिताः शोभितास्तथा ॥६॥
विद्याधरीभिः संयुक्ताः सुपर्णैः शोभितास्तथा ।
प्रतिवल्लि प्रकुर्याच्च दिक्पालाष्टकयोषितः ॥७॥
शर्करापर्वते वल्ली सर्वाश्चाभ्यधिरोहयेत् ।
ऐन्द्रीं हस्तिस्थितां शक्तिमाग्नेयीं मेषसंस्थिताम् ॥८॥
याम्यां महिषीनिष्ठां च नैर्ऋतिं गर्दभीस्थिताम् ।
वारुणीं मकरस्थां च वायवीं हरिणीस्थिताम् ॥९॥
कौबेरीं स्वर्णयानस्थामीशानीं वृषभस्थिताम् ।
तथा षोडशधान्यानि स्थापयेत् तत्र मण्डपे ॥१०॥
लक्ष्मीं शिवां च सावित्रीं माणिक्यां दुःखहात्माम् ।
कम्भराश्रीमहालक्ष्मीं सन्तुष्टा भगिनीं हरेः ॥११॥
रसान् गन्धान् मिष्टरसान घृतकुंभान् न्यसेत्तथा ।
आसहस्रमितस्वर्णैः कृत्वा न्यसेद्धि मण्डपे ॥१२॥
अष्टधेनूश्चाऽष्टकुंभान् रत्नसलिलपूरितान् ।
वस्त्रतण्डुलपत्राद्यैः शोभितान् स्थापयेदपि ॥१३॥
पूजयेत्तान् विधानेन वल्लिकाः पूजयेत्तथा ।
वेदघोषैः पूजयित्वा कृत्वा प्रदक्षिणत्रयम् ॥१४॥
प्रार्थयेत्ता वल्लिकाश्च कृष्णनारायणाऽन्विताः ।
विनाशिनीभ्यः पापानां पालिनीभ्यः स्वसञ्जुषाम् ॥१५॥
नमोऽस्तु फलदाभ्यश्च कल्पाभ्यो वै नमो नमः ।
सर्वसम्पत्प्रदाभ्यश्च सर्वर्द्धिभ्यो नमो नमः ॥१६॥
महालक्ष्मीस्वरूपाभ्यः सर्वात्मिकाभ्यो वै नमः ।
स्वर्गामृतं श्रीपुरं च वैराजं च गवायनम् ॥१७॥
वैकुण्ठं चाक्षरं धाम वितरन्तु च नः सदा ।
भवत्यो दानरूपाश्च दत्ता रक्षन्तु नः सदा ॥१८॥
इति प्रार्थ्य पुनः कृत्वा प्रदक्षिणं समर्पयेत् ।
गुरवे साधवे चार्धमर्धाश्चान्येभ्य एव तु ॥१९॥
रत्नहीरकरूप्याणि गा वस्त्राणि च यानि च ।
तद्धि दद्याद् भिक्षुकेभ्योऽनाथहीनेभ्य इत्यपि ॥२०॥
हवनं विधिवत् कुर्याद् भोजयेत् साधुभूसुरान् ।
बालोश्च बालिकाश्चापि भोजयेच्चार्पयेद्धनम् ॥२१॥
परिहारं ततः कुर्याद् विसृजेत्प्रणमेत् प्रिये ।
एवं कल्पलतादानं कुर्यात्तस्य फलं बहु ॥२२॥
साम्राज्यं जायते पित्रुद्धारो भवत्यपि ।
क्षितिः सस्यादिसम्पूर्णा सदा तस्योपतिष्ठते ॥२३॥
सिद्धयश्चाणिमाद्याश्च लतादातुर्भवन्ति हि ।
स्वर्गे कल्पलतास्ताश्चाऽप्सरसोऽस्य भवन्ति च ॥२४॥
एवं लक्ष्मि महादानं संकल्पपूरकं हि ते ।
कथितं सर्वलोकेषु महाराज्यप्रदं शुभम् ॥२५॥
तथा कल्पप्रियादानं कर्तव्यं शृणु तद्विधिम् ।
स्वर्णभारसहस्रैस्तु कर्तव्या पुत्तली शुभा ॥२६॥
वस्त्रालंकारसंयुक्ता सर्वशृंगारशोभिता ।
रूपवती युवती च पुत्रपुत्र्यादिशोभिता ॥२७॥
गोमहिषीगजवाजियुक्ता शय्यादिशोभिता ।
धनधान्यादियुक्ता च रसभोज्यफलान्विता ॥२८॥
मण्डपे न्यस्य तां पत्नीरूपां तत्र महारमाम् ।
आवाहयेद् वेदिकाऽग्रे पूजयेत् सर्ववस्तुभिः ॥२९॥
आरार्त्रिकं प्रकुर्याच्च सुनैवेद्यं जलं दिशेत् ।
यादृशी चेष्यते पत्नी यथासामग्रिकान्विता ॥३०॥
तादृशी सा तु कर्तव्या शृंगारद्रव्यशोभिता ।
दासदासीसखीयुक्ता गृहसौभाग्यशोभिता ॥३१॥
तां प्रपूज्य च हवनं कुर्याद् वह्नौ शतोत्तरम् ।
दद्यात् सा स्वकरे धृत्वा कृत्वाऽनलं प्रदक्षिणम् ॥३२॥
गुरवे चापि विप्राय साधवे हरयेऽथवा ।
कुमाराय सते वापि प्रार्थयेच्च ततः परम् ॥३३॥
एषा दत्ता मया पत्नीरूपा दाने द्विजातये ।
सर्वगार्हस्थ्योपकरणादियुक्ता विभूषिता ॥३४॥
नारायणी महालक्ष्मीस्त्वमेव परमेश्वरी ।
दानफलं च दाम्पत्यं मम देहि सदा रमे ॥३५॥
स्वर्गे सत्ये च वैराजे वैकुण्ठे पत्निका मम ।
संयुक्ता सहगा स्याच्च तथा देहि फलं मम ॥३६॥
एवमाभाष्य विप्रस्य गुरोर्हस्ते न्यसेत् प्रियाम् ।
भुक्तिदा मुक्तिदा सा स्यात् स्वर्णपुत्तलिका प्रिया ॥३७॥
जन्मान्तरसहस्रेषु दाम्पत्यं स्यादखण्डितम् ।
सर्वस्मृद्धिप्रदं लक्ष्मि शाश्वतानन्ददायकम् ॥३८॥
सर्वभोगप्रदं पुत्रपौत्रवंशविवर्धनम् ।
कल्पपत्नीमहादानमिदं प्रोक्तं मया तव ॥३९॥
यथासंख्या योषितश्चेष्यन्ते दिवि क्षितौ च वा ।
तथासंख्याः प्रदातव्याः पुत्तल्यः पत्निका निजाः ॥४०॥
मण्डपे ता निधायैव वह्नेः समीपतः खलु ।
विवाहविधिना सर्वा विवाहयेद् द्विजैः पुरा ॥४१॥
वरमालाभिसन्नद्धा हस्तकृतपरिग्रहाः ।
सर्वाभरणशोभाश्च सर्वालंकारसंभृताः ॥४२॥
निजपत्नीकृताः सर्वास्ततो दानेऽर्पयेद् बुधः ।
एवं दत्ता हि विधिना चेह परत्र ताः स्त्रियः ॥४३॥
भवन्त्येव न सन्देहो महादानमिदं परम् ।
स्वर्णस्त्रीदानमेवैतत् स्वस्त्रीप्रतिनिधिप्रखम् ॥४४॥
नारी दाने न वै देया देया सौवर्णपुत्तली ।
नारीदानं महादानं तदेवोक्तं हि वेधसा ॥४५॥
एवं लक्ष्मि सुवर्णस्य पतिं दानेऽपि चार्पयेत् ।
सर्वालंकारसंयुक्तं सर्वस्मृद्धिसुशोभितम् ॥४६॥
स्वर्णकान्तमहादानं पतिसौभाग्यदं हि तत् ।
विधिं ते कथयाम्यत्र यत्कृतेन कदापि वै ॥४७॥
वैधव्यं जायते नैव पतिसौभाग्यमेति सा ।
सुवर्णपुत्तलं कृत्वा मण्डपे तत्र पूजयेत् ॥४८॥
आवाहयेत्तत्र नारायणं श्रीपतिमीश्वरम् ।
स्थापयेन्मण्डपे चापि विवाहविधिना ततः ॥४९॥
तं स्त्री परिणयेन्मत्वा पतिं नैजं तु कानकम् ।
वरमालायुता हस्तग्राहोत्तरं पतिप्रखम् ॥५०॥
प्रदक्षिणकृतस्वात्मपतिं दानेऽर्पयेत्ततः ।
अन्यान्यपि समस्तानि वस्तून्यपि तदाऽर्पयेत् ॥५१॥
यादृशः स्वपतिश्चेष्टो जन्मजन्मान्तरेऽपि च ।
तादृशः सर्वसम्पन्नो दातव्यो विप्रयोषिते ॥५२॥
एतद्दानं महादानं पतिदानं प्रकीर्तितम् ।
सर्वसौभाग्यदं नित्यगार्हस्थ्यसम्प्रदं शुभम् ॥५३॥
स्वर्गमोक्षप्रदं चापि शाश्वतानन्दसम्प्रदम् ।
पुत्रदानं भ्रातृदानं स्वर्णपुत्तलिकोद्भवम् ॥५४॥
एवमेव विधातव्यं चावाह्य मां परेश्वरम् ।
विधिवद् दीयमानं तत् पुत्ररूपं फलत्यपि ॥५५॥
भ्रातृरूपं फलत्येव यद् दत्तं तत्प्रजायते ।
हरेर्मूर्तेः प्रदानेन हरिर्मिलति माधवः ॥५६॥
कान्तदानप्रदानेन कृष्णः कान्तो भवत्यपि ।
एवमेतानि दानानि देयानि विधिना ततः ॥५७॥
दासीदासप्रदानेन दासीदासा मिलन्ति च ।
नाऽदत्तं प्राप्यते किञ्चित् तस्माद् देयं हि भूतले ॥५८॥
अत्र वापि परत्रापि दत्तमत्रोपतिष्ठते ।
सुखदः सुखवान् स्याच्च दुःखदो दुःखवान् भवेत् ॥५९॥
पुण्यदानं प्रदातव्यं जलं मुक्त्वा कुटुम्बिने ।
रोगिणे च दरिद्राय परलोकविदायिने ॥६०॥
मरणोन्मुखजीवाय पुण्यं देयं व्रतादिजम् ।
एवमन्यानि पुण्यानि यानि तपोमयानि तु ॥६१॥
मखात्मकानि पुण्यानि महोत्सवोद्भवान्यपि ।
पारायणादिपुण्यानि जपपुण्यानि यानि च ॥६२॥
दानपुण्यानि सर्वाणि सत्रप्रपोद्भवानि च ।
देवपूजोत्थपुण्यानि गुरुसेवोद्भवानि च ॥६३॥
दाने देयानि विधिना पतिसेवोद्भवानि च ।
पातिव्रत्यादिधर्माश्च देया दाने सुखप्रदाः ॥६४॥
पत्नीव्रतादिधर्माश्च साधुधर्माः सुखावहाः ।
परोपकारधर्माश्च देया दाने विधानतः ॥६५॥
विद्यापुण्यं खातपुण्यं चेष्टापूर्तादिपुण्यकम् ।
ओषधाद्युपकारोत्थं दाने पुण्यं सुखप्रदम् ॥६६॥
शरण्यपुण्यं सत्योत्थं तथा दयोद्भव शुभम् ।
अहिंसोत्थं महापुण्यं दाने देयं विशेषतः ॥६७॥
कण्ठदानोद्भवं पुण्यं कटिदानोद्भवं तथा ।
हार्ददानोद्भवं पुण्यं दाने देयं विशेषतः ॥६८॥
शरणागतरक्षोत्थं निराश्रिताश्रयोद्भवम् ।
जीवदानमहापुण्यं देयं दाने विशेषतः ॥६९॥
सर्वदानमहादानं ब्रह्मदानं परात्परम् ।
ज्ञानदानं हरेर्दानं मोक्षदानं ततोऽधिकम् ॥७०॥
अभयस्य प्रदानं वै सर्वदानोत्तमोत्तमम् ।
प्रदेयं सर्वतोभावैर्यस्मात्परं न विद्यते ॥७१॥
चन्द्रसूर्यप्रदानं वै नेत्रयोस्तेजसा प्रदम् ।
विज्ञानस्य प्रदानं वै हृदयस्य प्रभाप्रदम् ॥७२॥
मुक्तिदानं चात्मनस्तु शाश्वतानन्ददायकम् ।
अभीतिदानमेवैतद् देयं मुक्तिमभीप्सता ॥७३॥
देहदानं प्रकर्तव्यं शुभदेहादिलब्धये ।
गेहदानं प्रकर्तव्यं भवनादिसुलब्धये ॥७४॥
घृतदानं प्रकर्तव्यं देहपुष्टिसुलब्धये ।
बीजदानं प्रकर्तव्यं धर्मवशादिवृद्धये ॥७५॥
जलदानं प्रकर्तव्यं पितॄणां स्वस्य तृप्तये ।
गुरुदानं विधातव्यं गुरोर्मूर्तिं तु कानकीम् ॥७६॥
विधाप्य विधिनाऽभ्यर्च्य शृंगारसहितां च ताम् ।
गुरुमावाह्य सम्प्रार्थ्य स्वात्मतारणहेतवे ॥७७॥
प्रदद्यात्तां धार्मिकाय साधवे पूजकाय च ।
यस्याः पूजां नित्यमेव कर्तुं यः शक्त एव ह ॥७८॥
तस्मै देया गुरोर्मूर्तिः पूजाफलं हि लभ्यते ।
अपूज्यायाः प्रत्यवायभागिता स्यात् प्रदातरि ॥७९॥
देवानां मूर्तयश्चापि स्वर्णराजतसंभवाः ।
मणिरत्नादिजन्या वा तरुचित्रादिनिर्मिताः ॥८०॥
प्रदातव्या विधिनैव प्रतिष्ठापूर्विका हि ताः ।
सर्वाभरणशोभाढ्याः सर्ववेषोपसंयुताः ॥८१॥
सर्वशृंगारसहिताः सौम्या रूपाभिरूपिकाः ।
प्रदातव्याः पात्रयुता गन्धार्हणोपवस्तुभिः ॥८२॥
सहिता हारहारालीभूषोत्सवार्हहेतिभिः ।
गणेशस्य हनूमतो विष्णोः शंभोः रवेस्तथा ॥८३॥
वास्तोश्च लोकपालानां गणानां स्वामिनां तथा ।
पार्षदानां सतां देयाः प्रतिमाः शोभनाः शुभाः ॥८४॥
सर्वाभरणयुक्ताश्च सर्वशृंगारशोभनाः ।
योग्यवेषाभिसम्पन्ना योग्यायुधसमन्विताः ॥८५॥
योग्यवाहनयुक्ताश्च योग्यभृत्यसमन्विताः ।
निजशक्तियुताश्चापि दाने देयाः सुखप्रदाः ॥८६॥
महानारायणी ब्राह्मी महालक्ष्मीः रमाऽमृता ।
कमला श्रीः प्रभा देया कानकी माणिकी तथा ॥८७॥
सौवर्णा कंभरालक्ष्मीर्ललिताश्रीः शुभानना ।
गजानना महालक्ष्मीर्देया शोभाभिशोभिता ॥८८॥
गंगा दुर्गा पाशवती सती कन्याकुमारिका ।
सन्तुषा जानकी देया रमा जया च पद्मिनी ॥८९॥
सावित्री विजया देया दुःखहा वेदमातृका ।
संज्ञा स्वाहा वह्नियुक्ता चण्डी देया विभूषिता ॥९०॥
कात्यायनी महाकाली देया तद्वेशशोभिता ।
गौरी देया च तुलसी वृन्दा विवाहशोभिता ॥९१॥
एवमाद्याः सुराण्यश्च तथेशान्यश्च मातरः ।
योगिन्यश्चापि मुक्तान्यो देया दाने जनार्दने ॥९२॥
पूजार्थं साधवे देया भक्ताय च द्विजातये ।
महोत्साहेन देयास्ता मूर्तयः सुप्रतिष्ठिताः ॥९३॥
वेषालंकारनैवेद्यपात्राम्बरादिशोभिताः ।
तासां निवासयोग्यानि देयानि मन्दिराण्यपि ॥९४॥
उद्यानाश्च महास्मृद्धाः फलमाल्यमधुभृताः ।
वाटिका सस्ययुक्ताश्च क्षेत्राणि चेक्षुवन्ति हि ॥९५॥
शाकपत्रादियुक्तानि देयानि विविधानि च ।
अरण्यानि प्रदेयानि कूपा वाप्यः सरांसि च ॥९६॥
उपभोग्यानि सर्वाणि गन्धरसाऽदनानि च ।
धान्यानि धनकोशाश्च देया दासाश्च दासिकाः ॥९७॥
यद् दीयते लभ्यते तन्नाऽदत्तं लभ्यते क्वचित् ।
तस्माद् देयाः प्रतिमाश्च कृत्वापि दारदासिकाः ॥९८॥
एवं दत्वा लभेतापि परं सौख्यं गृहाश्रमे ।
इह लोके सुखी भूत्वा साम्राज्यं विन्दते पुनः ॥९९॥
स्वर्गे सत्ये च वैराज्ये वैकुण्ठे श्रीपुरेऽक्षरे ।
गोलोके जायते धामेश्वरनारायणप्रभः ॥१००॥
सर्वविलाससम्पन्नः सर्वभोगाभिभोगवान् ।
सर्वानन्दमहानन्दप्लुतो भवति शाश्वतः ॥१०१॥
पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।
दाने प्रपेरणाच्चापि तुल्यपुण्याश्रयो भवेत्। ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महाकल्पलतासुवर्णवल्लीदानस्य कल्पप्रियादानस्य स्वर्णकान्तदानस्य पुण्यदानस्याऽभयादिदानानां गुरुदेवदेवी-
महादानानां मन्दिरक्षेत्रवाट्यलंकारादिमहादानानां च विधिनिरूपणनामैकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP