संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३१ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु श्रीशिवराज्ञीश्रि महादानमनुत्तमम् ।महाकल्पलताख्यं च दानं सुवर्णवल्लिकम् ॥१॥पुण्यां तिथिं समासाद्य कारयेन्मण्डपं शुभम् ।वेदिं कुण्डं कारयेच्च स्थापयेद्धवनार्थकम् ॥२॥वस्तुघ्रातं ब्राह्मणैश्च कारयेत् स्वस्तिवाचनम् ।दानवस्तून्युपादाय मण्डपे तत्र सन्न्यसेत् ॥३॥ऋत्विज_ सर्वसंभारभूषणाच्छादनादिकम्।आसनेषु च देवानां नारायणस्य मे श्रियः ॥४॥देवीनां च तथा कुर्यादावाहनं प्रपूजयेत् ।मण्डपे तत्र सौवर्णीर्दश कल्पाख्यवल्लिकाः ॥५॥दशोत्तरसुवर्णोत्थाः स्थापयेत् फलपुष्पिताः ।रत्नांशुकादिसंयुक्ता भूषिताः शोभितास्तथा ॥६॥विद्याधरीभिः संयुक्ताः सुपर्णैः शोभितास्तथा ।प्रतिवल्लि प्रकुर्याच्च दिक्पालाष्टकयोषितः ॥७॥शर्करापर्वते वल्ली सर्वाश्चाभ्यधिरोहयेत् ।ऐन्द्रीं हस्तिस्थितां शक्तिमाग्नेयीं मेषसंस्थिताम् ॥८॥याम्यां महिषीनिष्ठां च नैर्ऋतिं गर्दभीस्थिताम् ।वारुणीं मकरस्थां च वायवीं हरिणीस्थिताम् ॥९॥कौबेरीं स्वर्णयानस्थामीशानीं वृषभस्थिताम् ।तथा षोडशधान्यानि स्थापयेत् तत्र मण्डपे ॥१०॥लक्ष्मीं शिवां च सावित्रीं माणिक्यां दुःखहात्माम् ।कम्भराश्रीमहालक्ष्मीं सन्तुष्टा भगिनीं हरेः ॥११॥रसान् गन्धान् मिष्टरसान घृतकुंभान् न्यसेत्तथा ।आसहस्रमितस्वर्णैः कृत्वा न्यसेद्धि मण्डपे ॥१२॥अष्टधेनूश्चाऽष्टकुंभान् रत्नसलिलपूरितान् ।वस्त्रतण्डुलपत्राद्यैः शोभितान् स्थापयेदपि ॥१३॥पूजयेत्तान् विधानेन वल्लिकाः पूजयेत्तथा ।वेदघोषैः पूजयित्वा कृत्वा प्रदक्षिणत्रयम् ॥१४॥प्रार्थयेत्ता वल्लिकाश्च कृष्णनारायणाऽन्विताः ।विनाशिनीभ्यः पापानां पालिनीभ्यः स्वसञ्जुषाम् ॥१५॥नमोऽस्तु फलदाभ्यश्च कल्पाभ्यो वै नमो नमः ।सर्वसम्पत्प्रदाभ्यश्च सर्वर्द्धिभ्यो नमो नमः ॥१६॥महालक्ष्मीस्वरूपाभ्यः सर्वात्मिकाभ्यो वै नमः ।स्वर्गामृतं श्रीपुरं च वैराजं च गवायनम् ॥१७॥वैकुण्ठं चाक्षरं धाम वितरन्तु च नः सदा ।भवत्यो दानरूपाश्च दत्ता रक्षन्तु नः सदा ॥१८॥इति प्रार्थ्य पुनः कृत्वा प्रदक्षिणं समर्पयेत् ।गुरवे साधवे चार्धमर्धाश्चान्येभ्य एव तु ॥१९॥रत्नहीरकरूप्याणि गा वस्त्राणि च यानि च ।तद्धि दद्याद् भिक्षुकेभ्योऽनाथहीनेभ्य इत्यपि ॥२०॥हवनं विधिवत् कुर्याद् भोजयेत् साधुभूसुरान् ।बालोश्च बालिकाश्चापि भोजयेच्चार्पयेद्धनम् ॥२१॥परिहारं ततः कुर्याद् विसृजेत्प्रणमेत् प्रिये ।एवं कल्पलतादानं कुर्यात्तस्य फलं बहु ॥२२॥साम्राज्यं जायते पित्रुद्धारो भवत्यपि ।क्षितिः सस्यादिसम्पूर्णा सदा तस्योपतिष्ठते ॥२३॥सिद्धयश्चाणिमाद्याश्च लतादातुर्भवन्ति हि ।स्वर्गे कल्पलतास्ताश्चाऽप्सरसोऽस्य भवन्ति च ॥२४॥एवं लक्ष्मि महादानं संकल्पपूरकं हि ते ।कथितं सर्वलोकेषु महाराज्यप्रदं शुभम् ॥२५॥तथा कल्पप्रियादानं कर्तव्यं शृणु तद्विधिम् ।स्वर्णभारसहस्रैस्तु कर्तव्या पुत्तली शुभा ॥२६॥वस्त्रालंकारसंयुक्ता सर्वशृंगारशोभिता ।रूपवती युवती च पुत्रपुत्र्यादिशोभिता ॥२७॥गोमहिषीगजवाजियुक्ता शय्यादिशोभिता ।धनधान्यादियुक्ता च रसभोज्यफलान्विता ॥२८॥मण्डपे न्यस्य तां पत्नीरूपां तत्र महारमाम् ।आवाहयेद् वेदिकाऽग्रे पूजयेत् सर्ववस्तुभिः ॥२९॥आरार्त्रिकं प्रकुर्याच्च सुनैवेद्यं जलं दिशेत् ।यादृशी चेष्यते पत्नी यथासामग्रिकान्विता ॥३०॥तादृशी सा तु कर्तव्या शृंगारद्रव्यशोभिता ।दासदासीसखीयुक्ता गृहसौभाग्यशोभिता ॥३१॥तां प्रपूज्य च हवनं कुर्याद् वह्नौ शतोत्तरम् ।दद्यात् सा स्वकरे धृत्वा कृत्वाऽनलं प्रदक्षिणम् ॥३२॥गुरवे चापि विप्राय साधवे हरयेऽथवा ।कुमाराय सते वापि प्रार्थयेच्च ततः परम् ॥३३॥एषा दत्ता मया पत्नीरूपा दाने द्विजातये ।सर्वगार्हस्थ्योपकरणादियुक्ता विभूषिता ॥३४॥नारायणी महालक्ष्मीस्त्वमेव परमेश्वरी ।दानफलं च दाम्पत्यं मम देहि सदा रमे ॥३५॥स्वर्गे सत्ये च वैराजे वैकुण्ठे पत्निका मम ।संयुक्ता सहगा स्याच्च तथा देहि फलं मम ॥३६॥एवमाभाष्य विप्रस्य गुरोर्हस्ते न्यसेत् प्रियाम् ।भुक्तिदा मुक्तिदा सा स्यात् स्वर्णपुत्तलिका प्रिया ॥३७॥जन्मान्तरसहस्रेषु दाम्पत्यं स्यादखण्डितम् ।सर्वस्मृद्धिप्रदं लक्ष्मि शाश्वतानन्ददायकम् ॥३८॥सर्वभोगप्रदं पुत्रपौत्रवंशविवर्धनम् ।कल्पपत्नीमहादानमिदं प्रोक्तं मया तव ॥३९॥यथासंख्या योषितश्चेष्यन्ते दिवि क्षितौ च वा ।तथासंख्याः प्रदातव्याः पुत्तल्यः पत्निका निजाः ॥४०॥मण्डपे ता निधायैव वह्नेः समीपतः खलु ।विवाहविधिना सर्वा विवाहयेद् द्विजैः पुरा ॥४१॥वरमालाभिसन्नद्धा हस्तकृतपरिग्रहाः ।सर्वाभरणशोभाश्च सर्वालंकारसंभृताः ॥४२॥निजपत्नीकृताः सर्वास्ततो दानेऽर्पयेद् बुधः ।एवं दत्ता हि विधिना चेह परत्र ताः स्त्रियः ॥४३॥भवन्त्येव न सन्देहो महादानमिदं परम् ।स्वर्णस्त्रीदानमेवैतत् स्वस्त्रीप्रतिनिधिप्रखम् ॥४४॥नारी दाने न वै देया देया सौवर्णपुत्तली ।नारीदानं महादानं तदेवोक्तं हि वेधसा ॥४५॥एवं लक्ष्मि सुवर्णस्य पतिं दानेऽपि चार्पयेत् ।सर्वालंकारसंयुक्तं सर्वस्मृद्धिसुशोभितम् ॥४६॥स्वर्णकान्तमहादानं पतिसौभाग्यदं हि तत् ।विधिं ते कथयाम्यत्र यत्कृतेन कदापि वै ॥४७॥वैधव्यं जायते नैव पतिसौभाग्यमेति सा ।सुवर्णपुत्तलं कृत्वा मण्डपे तत्र पूजयेत् ॥४८॥आवाहयेत्तत्र नारायणं श्रीपतिमीश्वरम् ।स्थापयेन्मण्डपे चापि विवाहविधिना ततः ॥४९॥तं स्त्री परिणयेन्मत्वा पतिं नैजं तु कानकम् ।वरमालायुता हस्तग्राहोत्तरं पतिप्रखम् ॥५०॥प्रदक्षिणकृतस्वात्मपतिं दानेऽर्पयेत्ततः ।अन्यान्यपि समस्तानि वस्तून्यपि तदाऽर्पयेत् ॥५१॥यादृशः स्वपतिश्चेष्टो जन्मजन्मान्तरेऽपि च ।तादृशः सर्वसम्पन्नो दातव्यो विप्रयोषिते ॥५२॥एतद्दानं महादानं पतिदानं प्रकीर्तितम् ।सर्वसौभाग्यदं नित्यगार्हस्थ्यसम्प्रदं शुभम् ॥५३॥स्वर्गमोक्षप्रदं चापि शाश्वतानन्दसम्प्रदम् ।पुत्रदानं भ्रातृदानं स्वर्णपुत्तलिकोद्भवम् ॥५४॥एवमेव विधातव्यं चावाह्य मां परेश्वरम् ।विधिवद् दीयमानं तत् पुत्ररूपं फलत्यपि ॥५५॥भ्रातृरूपं फलत्येव यद् दत्तं तत्प्रजायते ।हरेर्मूर्तेः प्रदानेन हरिर्मिलति माधवः ॥५६॥कान्तदानप्रदानेन कृष्णः कान्तो भवत्यपि ।एवमेतानि दानानि देयानि विधिना ततः ॥५७॥दासीदासप्रदानेन दासीदासा मिलन्ति च ।नाऽदत्तं प्राप्यते किञ्चित् तस्माद् देयं हि भूतले ॥५८॥अत्र वापि परत्रापि दत्तमत्रोपतिष्ठते ।सुखदः सुखवान् स्याच्च दुःखदो दुःखवान् भवेत् ॥५९॥पुण्यदानं प्रदातव्यं जलं मुक्त्वा कुटुम्बिने ।रोगिणे च दरिद्राय परलोकविदायिने ॥६०॥मरणोन्मुखजीवाय पुण्यं देयं व्रतादिजम् ।एवमन्यानि पुण्यानि यानि तपोमयानि तु ॥६१॥मखात्मकानि पुण्यानि महोत्सवोद्भवान्यपि ।पारायणादिपुण्यानि जपपुण्यानि यानि च ॥६२॥दानपुण्यानि सर्वाणि सत्रप्रपोद्भवानि च ।देवपूजोत्थपुण्यानि गुरुसेवोद्भवानि च ॥६३॥दाने देयानि विधिना पतिसेवोद्भवानि च ।पातिव्रत्यादिधर्माश्च देया दाने सुखप्रदाः ॥६४॥पत्नीव्रतादिधर्माश्च साधुधर्माः सुखावहाः ।परोपकारधर्माश्च देया दाने विधानतः ॥६५॥विद्यापुण्यं खातपुण्यं चेष्टापूर्तादिपुण्यकम् ।ओषधाद्युपकारोत्थं दाने पुण्यं सुखप्रदम् ॥६६॥शरण्यपुण्यं सत्योत्थं तथा दयोद्भव शुभम् ।अहिंसोत्थं महापुण्यं दाने देयं विशेषतः ॥६७॥कण्ठदानोद्भवं पुण्यं कटिदानोद्भवं तथा ।हार्ददानोद्भवं पुण्यं दाने देयं विशेषतः ॥६८॥शरणागतरक्षोत्थं निराश्रिताश्रयोद्भवम् ।जीवदानमहापुण्यं देयं दाने विशेषतः ॥६९॥सर्वदानमहादानं ब्रह्मदानं परात्परम् ।ज्ञानदानं हरेर्दानं मोक्षदानं ततोऽधिकम् ॥७०॥अभयस्य प्रदानं वै सर्वदानोत्तमोत्तमम् ।प्रदेयं सर्वतोभावैर्यस्मात्परं न विद्यते ॥७१॥चन्द्रसूर्यप्रदानं वै नेत्रयोस्तेजसा प्रदम् ।विज्ञानस्य प्रदानं वै हृदयस्य प्रभाप्रदम् ॥७२॥मुक्तिदानं चात्मनस्तु शाश्वतानन्ददायकम् ।अभीतिदानमेवैतद् देयं मुक्तिमभीप्सता ॥७३॥देहदानं प्रकर्तव्यं शुभदेहादिलब्धये ।गेहदानं प्रकर्तव्यं भवनादिसुलब्धये ॥७४॥घृतदानं प्रकर्तव्यं देहपुष्टिसुलब्धये ।बीजदानं प्रकर्तव्यं धर्मवशादिवृद्धये ॥७५॥जलदानं प्रकर्तव्यं पितॄणां स्वस्य तृप्तये ।गुरुदानं विधातव्यं गुरोर्मूर्तिं तु कानकीम् ॥७६॥विधाप्य विधिनाऽभ्यर्च्य शृंगारसहितां च ताम् ।गुरुमावाह्य सम्प्रार्थ्य स्वात्मतारणहेतवे ॥७७॥प्रदद्यात्तां धार्मिकाय साधवे पूजकाय च ।यस्याः पूजां नित्यमेव कर्तुं यः शक्त एव ह ॥७८॥तस्मै देया गुरोर्मूर्तिः पूजाफलं हि लभ्यते ।अपूज्यायाः प्रत्यवायभागिता स्यात् प्रदातरि ॥७९॥देवानां मूर्तयश्चापि स्वर्णराजतसंभवाः ।मणिरत्नादिजन्या वा तरुचित्रादिनिर्मिताः ॥८०॥प्रदातव्या विधिनैव प्रतिष्ठापूर्विका हि ताः ।सर्वाभरणशोभाढ्याः सर्ववेषोपसंयुताः ॥८१॥सर्वशृंगारसहिताः सौम्या रूपाभिरूपिकाः ।प्रदातव्याः पात्रयुता गन्धार्हणोपवस्तुभिः ॥८२॥सहिता हारहारालीभूषोत्सवार्हहेतिभिः ।गणेशस्य हनूमतो विष्णोः शंभोः रवेस्तथा ॥८३॥वास्तोश्च लोकपालानां गणानां स्वामिनां तथा ।पार्षदानां सतां देयाः प्रतिमाः शोभनाः शुभाः ॥८४॥सर्वाभरणयुक्ताश्च सर्वशृंगारशोभनाः ।योग्यवेषाभिसम्पन्ना योग्यायुधसमन्विताः ॥८५॥योग्यवाहनयुक्ताश्च योग्यभृत्यसमन्विताः ।निजशक्तियुताश्चापि दाने देयाः सुखप्रदाः ॥८६॥महानारायणी ब्राह्मी महालक्ष्मीः रमाऽमृता ।कमला श्रीः प्रभा देया कानकी माणिकी तथा ॥८७॥सौवर्णा कंभरालक्ष्मीर्ललिताश्रीः शुभानना ।गजानना महालक्ष्मीर्देया शोभाभिशोभिता ॥८८॥गंगा दुर्गा पाशवती सती कन्याकुमारिका ।सन्तुषा जानकी देया रमा जया च पद्मिनी ॥८९॥सावित्री विजया देया दुःखहा वेदमातृका ।संज्ञा स्वाहा वह्नियुक्ता चण्डी देया विभूषिता ॥९०॥कात्यायनी महाकाली देया तद्वेशशोभिता ।गौरी देया च तुलसी वृन्दा विवाहशोभिता ॥९१॥एवमाद्याः सुराण्यश्च तथेशान्यश्च मातरः ।योगिन्यश्चापि मुक्तान्यो देया दाने जनार्दने ॥९२॥पूजार्थं साधवे देया भक्ताय च द्विजातये ।महोत्साहेन देयास्ता मूर्तयः सुप्रतिष्ठिताः ॥९३॥वेषालंकारनैवेद्यपात्राम्बरादिशोभिताः ।तासां निवासयोग्यानि देयानि मन्दिराण्यपि ॥९४॥उद्यानाश्च महास्मृद्धाः फलमाल्यमधुभृताः ।वाटिका सस्ययुक्ताश्च क्षेत्राणि चेक्षुवन्ति हि ॥९५॥शाकपत्रादियुक्तानि देयानि विविधानि च ।अरण्यानि प्रदेयानि कूपा वाप्यः सरांसि च ॥९६॥उपभोग्यानि सर्वाणि गन्धरसाऽदनानि च ।धान्यानि धनकोशाश्च देया दासाश्च दासिकाः ॥९७॥यद् दीयते लभ्यते तन्नाऽदत्तं लभ्यते क्वचित् ।तस्माद् देयाः प्रतिमाश्च कृत्वापि दारदासिकाः ॥९८॥एवं दत्वा लभेतापि परं सौख्यं गृहाश्रमे ।इह लोके सुखी भूत्वा साम्राज्यं विन्दते पुनः ॥९९॥स्वर्गे सत्ये च वैराज्ये वैकुण्ठे श्रीपुरेऽक्षरे ।गोलोके जायते धामेश्वरनारायणप्रभः ॥१००॥सर्वविलाससम्पन्नः सर्वभोगाभिभोगवान् ।सर्वानन्दमहानन्दप्लुतो भवति शाश्वतः ॥१०१॥पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।दाने प्रपेरणाच्चापि तुल्यपुण्याश्रयो भवेत्। ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महाकल्पलतासुवर्णवल्लीदानस्य कल्पप्रियादानस्य स्वर्णकान्तदानस्य पुण्यदानस्याऽभयादिदानानां गुरुदेवदेवी-महादानानां मन्दिरक्षेत्रवाट्यलंकारादिमहादानानां च विधिनिरूपणनामैकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP