संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ३५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ३५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि ततश्चोर्ध्वं प्राकट्यं मेऽप्सरोऽब्दके ।वेधसः पञ्चचत्वारिंशाऽब्दे कल्पे सहस्रके ॥१॥द्वितीये च मनौ सर्वाप्सरसां भक्तिभावनैः ।आकृष्टोऽहं मोक्षदाताऽनादिकृष्णनरायणः ॥२॥आविरासं पृथिव्यां वै शृणु तत्पद्मजे यथा ।स्वर्गे सत्ये महेन्द्रस्य सभायां देवकोटिषु ॥३॥तथाऽन्यत्र प्रशंसा वै सर्वत्र मम जायते ।रूपे गुणे स्वभावे चैश्वर्ये सुखे विलासने ॥४॥स्पर्शे शब्दे विहारे च शीले तृप्तौ रसे बले ।आनन्दे सहवासे च योगे हास्ये च नर्मणि ॥५॥शयने सेवने मोहे हावे भावे विकर्षणे ।मोदे प्रमोदे रमणे उत्सवे भोजने स्थितौ ॥६॥आसने वाहने याने गृहे पाने च नर्तने ।शृंगारे च सुगन्धे च वीर्ये पराक्रमे कृतौ ॥७॥रञ्जने च क्रियायां च प्रसन्नत्वे प्रभोगने ।अनादिश्रीकृष्णनारायणतुल्यो न चापरः ॥८॥एवं प्रशंसां श्रुत्वैवाऽप्सरसः कोटिशो दिवि ।स्पृहां चक्रुर्मम योगे भागे विलासने रतौ ॥९॥तास्तु भोगान् विहायैव मम प्राप्त्यर्थमुत्सुकाः ।व्रतानि चक्रुर्बहूनि मानव इव योषितः ॥१०॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।अस्मत्पतिर्भवेद्येन तृप्ताः स्याम हि सर्वथा ॥११॥इति संकल्प्य सर्वास्ताः पूजनं मम सव्यधुः ।मयाऽप्याकाशवाण्या वै ताभ्यस्ततो निवेदितम् ॥१२॥सर्वा भवन्तु मानुष्यो निजांशैः कन्यकाः शुभाः ।राजपुत्र्यो विप्रपुत्र्यो भक्तपुत्र्यश्च सर्वथा ॥१३॥अद्यारभ्य यथेष्टं वै गृह्णन्तु जन्म भूतले ।मेरोः पश्चिमतो भागे खण्डे हेमरथाह्वये ॥१४॥तत्राऽहं मानवो मिलिष्यामि वै क्षत्रपुंगवः ।वर्चिष्णुवंशमूर्धन्यः परब्रह्म स्वयं हरिः ॥१५॥इत्युक्तास्ता अप्सरसो दध्रुर्जन्मानि सर्वशः ।अहं साकं त्वया लक्ष्मि खण्डे हेमरथाभिधे ॥१६॥वर्चिष्णुक्षत्रियवंशे बृहदिन्द्रनृपालये ।प्रभास्वतीमहिष्यां वै प्रादुरासं द्रुतं तदा ॥१७॥शंखचक्रगदापद्मकौस्तुभादिविराजितः ।भक्तौ मे पितरौ धन्यं भाग्यं मेनात एव च ॥१८॥देवदुन्दुभयो नेदुर्महर्षयोऽपि मंगलम् ।स्मरणं पूजनं चक्रुर्वर्धयामासुरीश्वराः ॥१९॥पुष्पवृष्टिर्व्योममार्गादभवच्छुभशंसिका ।उत्सवं चक्रिरे राजा प्रजाः सुरा महर्षयः ॥२०॥अथ त्वं रुक्मचम्पाया राज्ञ्या गवेन्द्रभूपतेः ।कुक्षौ तदाऽभवः प्रादुः सर्वसौभाग्यसुन्दरी ॥२१॥शातकुंभाऽऽभदेहा च सर्वलक्ष्मसमन्विता ।प्राप्ते विवाहयोग्ये च काले मह्यं समर्पिता ॥२२॥तव पित्रा तथा मात्रा प्रदत्ता मम भामिनी ।मया च विधिना तत्र विवाहिताऽतिसुन्दरी ॥२३॥सम्राजस्तस्य राज्ञश्चोत्सवे वैवाहिके मम ।आदेशान्नृपवंशाश्च श्रेष्ठिवंशास्तथा परे ॥२४॥द्विजवंशाः क्षत्रवंशा वैश्यवंशाः समाययुः ।अप्सरसश्च याः कन्या मां स्वप्ने ददृशुर्निशि ॥२५॥विवाहो जायते नश्च हरिणा परमात्मना ।तव विवाहरात्रौ ता ददृशुर्मां पतिं प्रभुम् ॥२६॥अथ ता निर्णयं चक्रुर्मदर्थं वै स्वयंवरे ।पतिं स्वयं ग्रहीष्यामो वरमालाप्रदानतः ॥२७॥अथाऽह परमात्मा च महैश्वर्यसमन्वितः ।तासां मदर्थकन्यानां पितृभ्यां दर्शनं ददौ ॥२८॥स्वप्ने ताभ्यां निजा पुत्री मह्यं दत्तेति चोत्सवे ।तत उत्थाय पितरौ सर्वासां वै स्वभावतः ॥२९॥तां तां सुतां दत्तवन्तौ मह्यं श्रीपरमात्मने ।कोटिशोऽप्सरसो मां वै प्राप्य कान्तं यथेप्सितम् ॥३०॥आनन्दं परमं प्रापुः सुखं प्रापुरनुत्तमम्।एकमन्वन्तरं राजा चक्रवर्ती तदाऽभवम् ॥३१॥नाम्ना सम्राड्बृहद्ब्रह्मनारायणनृपेश्वरः ।मम पुत्रास्तदा कोट्यर्बुदाब्जाः पुत्रिकास्तथा ॥३२॥तथासंख्या अभवँश्च राजवंशेषु चार्पिताः ।मम पौत्राश्च दौहित्रा ब्रह्मक्षत्रविशात्मकाः ॥३३॥प्रजात्मकास्तथा जाता राजानोऽपि च भूतले ।मन्वन्तरान्ते पत्नीस्ता मोक्षयित्वा ततः परम् ॥३४॥अहं वनं जगामाऽपि साकं त्वया नरायणि! ।अरण्ये चाऽदृश्यभावं त्वया साकं गतोऽभवम् ॥३५॥एवं ममापि लोकेषु पूजा ततः प्रवर्तिता ।अनादिश्रीबृहद्ब्रह्मनारायणस्य सर्वदा ॥३६॥रुक्मवत्या त्वया सार्धं चाऽऽकल्पान्तं हि पद्मजे ।स्मर सर्वं शिवराज्ञि! प्राकट्यं ते च मेऽपि च ॥३७॥एवमन्येऽप्यवतारास्तत्कल्पे बहवोऽभवन् ।पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिः परा भवेत् ॥३८॥सर्वतीर्थफलं स्याच्च यावद्व्रतफलं तथा ।यावद्दानफलं चापि यावच्छ्रौतफलं भवेत् ॥३९॥सर्वपापविनाशः स्यात् सर्वाऽऽनन्दाप्तिरित्यपि ।सर्वप्रमोदभाक् स्याच्च मम प्राप्तिस्तथा भवेत् ॥४०॥अथाऽपरं प्रवक्ष्यामि प्राकट्यं मम तच्छृणु ।वेधसो वत्सरे षटचत्वारिंशे ब्रह्मसारसे ॥४१॥कल्पे नवशते षष्ठे मनौ चाद्ये कृते पुरा ।ब्रह्मणा निर्मिता विप्रा मेधावन्तो महर्षयः ॥४२॥ऊषुस्ते भूतले कर्मभूमौ त्वरव्यवासिनः ।प्रत्यक्षदर्शिनः सर्वे सर्वधर्मपरायणाः ॥४३॥ब्रह्मविद्याऽभवत् तेषां स्वाभाविकी प्रवर्तिका ।अथ त्रेतायुगे प्राप्ते सांऽशे ह्रासं गता तदा ॥४४॥तर्कवादा अभवँश्च महर्षयः परस्परम् ।विस्मृतयोऽभवँश्चापि कालेनाऽविद्यया हताः ॥४५॥ततश्चाराधयामासुर्मां श्रीशं पुरुषोत्तमम् ।अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ।अहमाविर्भवं तेषां मध्ये ज्ञानप्रदापकः ॥४६॥विद्यामध्यापयामास ब्राह्मीं परां तथाऽपराम् ।वेदविद्या तथा चात्मविद्यां धर्मक्रियात्मिकाः ॥४७॥विद्याश्चान्या महर्षिभ्योऽध्यापयामास त्रै तदा ।कुतर्कनाशिनीं पूजाभक्तिबोधभृतां शुभाम् ॥४८॥मोक्षदां स्वर्गदां विद्यामध्यापयं हितप्रदाम् ।महर्षीणां गुरुश्चाऽहं वेदविद्याप्रदोऽभवम् ॥४९॥ब्रह्मस्वरर्षिपुत्रः सन् गौरवे च पदे स्थितः ।विप्रो भूत्वाऽवर्तयं वै महर्षिगणसेवतः ॥५०॥आद्वापरान्तायुष्कोऽहं त्वया साकं सुविद्यया ।हृदन्तरर्षिसुतया नाम्ना सुविद्यया श्रिया ॥५१॥अनादिश्रीगुरुनारायणः श्रीपुरुषोत्तमः ।स्मर त्वं त्वां सर्वविद्याधिष्ठात्रीं तु तदा प्रिये ॥५२॥एवमन्येऽप्यवतारा बहवोऽपि तदाऽभवन् ।जानाम्येतानहं सर्वान् स्मर तान् परमेश्वरि! ॥५३॥पठनाच्छ्रवणाच्चास्य तमो लीयेत मूलतः ।ब्रह्मप्रकाशो जायेत तथाऽऽत्मदर्शितां व्रजेत् ॥५४॥इत्येवं मम कमले प्राकट्यं कथितं तव ।अथाऽन्यदपि कथये परब्रह्मण एव मे ॥५५॥स्वर्धूनीवत्सरे सप्तचत्वारिंशे तु वेधसः ।कल्पेऽष्टादशके त्रिंशच्छतोत्तरेऽष्टमे मनौ ॥५६॥राजाऽभवन्मम भक्तो बृहद्धर्मा जनेश्वरः ।स तु यज्ञं राजसूयं समारभत शोभनम् ॥५७॥राजधान्यां प्रसिद्धायाम् ओजस्वत्यां नृपः स्वयम् ।इष्टींश्च पशुयागौ च सोमयागान् व्यधापयत् ॥५८॥नवत्रिंशद्विशिष्टैकशतमिष्टीनकारयत् ।षट्सोमयज्ञकान् सप्त दर्वीहोमानकारयत् ॥५९॥फाल्गुने शुक्लपक्षस्य प्रथमे प्रतिपद्दिने ।समारभद्धि तज्यज्ञं वर्षमेकं तु तत्र च ॥६०॥चातुर्मास्याऽनुष्ठानं त्वकारयद्विधिना नृपः ।वैश्वानरस्य च पर्जन्यस्येष्टिं चाप्यकारयत् ॥६१॥आग्नेयं सौम्यं सावित्रं सारस्वतं ततः परम् ।पौष्णं च मारुतं वैश्वदेवं द्यावापृथिव्यकम् ॥६२॥यागानेतानष्टसंख्यान् वैश्वदेवाख्यपर्वणि ।अकारयत् स्वयं राजा तत्र क्रमाच्च देवताः ॥६३॥अग्नयेऽष्टाकपालं च पुरोडाशं समार्पयत् ।सोमाय च चरुं सवित्रे द्वादशकपालकम् ॥६४॥चरुं समार्पयत् सरस्वत्यै चरुं ददौ तथा ।पूष्णे पिष्टचरुं मरुते तु सप्तकपालकम् ॥६५॥पुरोडाशं ददौ विश्वेदेवेभ्य आमिक्षकां ददौ ।द्यावापृथिवीभ्यां ददावेककपालकं शुभम् ॥६६॥पुरोडाशं ततस्तत्र मधुं च माधवं तथा ।शुक्रं शुचिं घृतहोमैरतर्पयन्नृपः स्वयम् ॥६७॥एवं कृत्वा वैश्वदेवपर्व ततो द्वितीयकम् ।वरुणप्रघासपर्व चक्रे तु विधिना नृपः ॥६८॥आग्नेयं सौम्यं सावित्रं सारस्वतं च पौष्णकम् ।ऐन्द्राग्नं मारुतं चापि वारुणं कायमेव च ॥६९॥अकारयन्नवयागान् तत्राग्निं स्तोममित्यपि ।सवितारं तथा सरस्वतीं पूषाणमित्यपि ॥७०॥इन्द्राग्नी मरुतश्चापि वरुणं कं क्रमेण वै ।तत्तद्द्रव्यैर्नृपः सम्यगवर्तयत् हवादिभिः ॥७१॥नभं नभस्यम् इषं चोर्जं चेति हुत्वाऽप्यतर्पयत् ।अवभृथं चकाराऽपि नियमान् जगृहेऽपि च ॥७२॥ततश्च तृतीयं साकमेधपर्वाऽप्यकारयत् ।अनीकवत्यादीष्टीश्च महाहवींषि चेत्यपि ॥७३॥पितृयज्ञं त्र्यम्बकहवींषि चापि व्यधापयत् ।ऋषभं चाह्वयच्चापि क्रीडनेष्टिं ह्यकारयत् ॥७॥सहं सहस्यं तपसं तपस्यं चेत्यतर्पयत् ।ततश्च विधिना महापितृयज्ञे ह्यकारयत् ॥७५॥पितृमन्तं बर्हिषदोऽग्निष्वात्तानप्यतर्पयत् ।पिण्डान् ददौ च विधिना त्र्यम्बकहवींषि ददौ ॥७६॥रुद्राय होमं प्रददौ चकाराऽदितिदैवतम् ।यागं च चरुणा पश्चात् शुनासीरीयपर्वकम् ॥७७॥कारयामास नृपतिराग्नेयादीन् यथायथम् ।कारयामास च तथा ऐन्द्राग्नं वैश्वदैवकम् ॥७८॥शुनासीरीयकं वायव्यं सौर्यं यागमित्यपि ।अकारयत्तथा तत्तद्देवताश्चाप्यतर्पयत् ॥७९॥अधिकमासनाम्ना चैककपालं ददौ तथा ।ऐष्टिकानि समस्तानि सम्वत्सरेण चाऽकरोत् ॥८०॥ततो राजा पवित्रादीन् षट् सोमयागकानपि ।क्रमेणाऽऽकारयच्चापि सहस्रधेनुदक्षिणाः ॥८१॥ददौ चाप्यनुमत्यादीनष्टौ यागान् व्यधापयत् ।अनुमत्यै पुरोडाशमष्टाकपालकं ददौ ॥८१॥आदित्यं च चरुं चापि प्रददौ नृपतिस्तथा ।आग्नावैष्णवकं चैकादशकपालकं ददौ ॥८३॥अग्नीषोमीयकं चैकादशकपालकं ददौ ।ऐन्द्रं चैकादशकपालकं चाग्नेयकं ततः ॥८४॥अष्टाकपालकं चैन्द्रं दधि नृपो ददौ तया ।ऐन्द्राग्नं द्वादशकपालं चरुं वैश्वदैवतम् ॥८५॥सौम्यं श्यामाकं च चरुं सारस्वतं चरुं ददौ ।अष्टाकपालमाग्नेयं रौद्रं गावीधुकं चरुम् ॥८६॥ऐन्द्रं दधि यवमयं वारुणं च चरुं ददौ ।अपामार्गकृतान् होमान् नृपश्चाकारयत्ततः ॥८७॥धात्रे ददौ पुरोडाशं तद् द्वादशकपालकम् ।अनुमत्यै चरुं राकायै चरुं च ददौ नृपः ॥८८॥सिनीवाल्यै चरुं कुह्वै चरुं ददौ च दक्षिणाः ।गोवृषभौ ददौ चाथ ततोऽन्यहवनान्यपि ॥८९॥आग्नावैष्णवमेकादशकपालं ददौ नृपः ।पुरोडाशं तथेन्द्रावैष्णवं च तादृशं ददौ ॥९०॥वैष्णवं त्रिकपालं च प्रददौ नृपतिस्तथा ।अग्नीषोमीयकं चैकादशकपालकं तदा ॥९१॥पुरोडाशं ददाविन्द्रासोमीयकं च तादृशम् ।सौम्यं चरुं ददौ चापि सौमपौष्णं चरुं ददौ ॥९२॥ऐन्द्रापौष्णं चरुं पौष्णं च ददौ नृपस्तथा ।ततो वैश्वानरीयां द्वादशकपालिकां शुभाम् ॥९३॥इष्टिं चकार च वारुणं चरुं प्रददौ ततः ।बार्हस्पत्यं चरुमैन्द्रमैकादशकपालकम् ॥९४॥पुरोडाशं ददौ चाथाऽऽदित्यं चरु ददौ ततः ।नैऽर्ऋतं च चरुमष्टाकपालमग्निदैवतम् ॥९५॥पुरोडाशं ददौ दशकपालं वारुणं तथा ।पुरोडाशं ददौ सप्तकपालं मारुतं तथा ॥९६॥सावित्रं द्वादशकपालं पुरोडाशकं ददौ ।आश्विनं द्विकपालं च पुरोडाशं ददौ तथा ॥९७॥पौष्णं चरुं रौद्रमपि चरुं ददौ नृपस्ततः ।द्वादशेष्टीस्ततो राजा कारयामास भूसुरैः ॥९८॥चकार दीक्षणीयेष्टिं मित्रं बृहस्पतिं तथा ।अयजच्च ततश्चाग्नीषोमीयेऽष्टौ हवींषि च ॥९९॥ददौ यथाऽग्नये पुरोडाशमष्टाकपालकम् ।सोमाय श्यामाकचरुं ददौ स्वयं नृपस्ततः ॥१००॥सवित्रे द्वादशकपालं पुरोडाशकं ददौ ।गावीधुकं च रुद्राय चरुं ददौ नृपस्ततः ॥१०१॥चरुं नैवारकं बृहस्पतये च ददावपि ।इन्द्रायैकादशकपालं पुरोडाशकं ददौ ॥१०२॥मित्राय च चरुं वरुणाय यवमयं चरुम् ।एवं दत्वा सर्वयागान् कृत्वा राजा स्थितोऽभवत् ॥१०३॥ब्रह्मा राज्ञः करं स्पृष्ट्वा प्रजाभ्यः सन्न्यवेदयत् ।अयं राजा भवतीनाम् अङ्गीचक्रुः प्रजाः नृपे ॥१०७॥अभिषेकं जलैश्चक्रुः राजाषट्होममाचरत् ।सर्वद्रव्यादिसम्पन्नं देवताह्लादकारकम् ॥१०५॥पार्थहोमोत्तरं भूपौ रथं समारुरोह च ।रथमोचनहोमाँश्च कृत्वाऽसनस्थितो नृपः ॥१०६॥कथां शृण्वन् भूसुरेभ्यो दत्वा स्वर्णं ततः परम् ।वैश्वदेवं तथा माहेन्द्रयागं च व्यधात्ततः ॥१०७॥अवभृथेष्टिं कृत्वा च हवींषि दश चातनोत् ।अष्टाकपालमाग्नेयं पुरोडाशं ददौ ततः ॥१०८॥सारस्वतं चरुं चापि ददौ राजा ततः परम् ।सावित्रं द्वादशकपालं पुरोडाशकं ददौ ॥१०९॥पौष्णं चरुं तथा बार्हस्पत्यं चरुं ददावपि ।ऐन्द्रमेकादशकपालं ददौ च नृपस्ततः ॥११०॥वारुणं च दशकपालं सौम्यं च चरुं ददौ ।त्वाष्ट्रमष्टाकपालं च वैष्णवं त्रिकपालकम् ॥१११॥पुरोडाशं ददौ चैवं संसृपामप्यवर्तयत् ।दक्षिणाः प्रददौ श्रेष्ठां राजा स्वयं च मण्डपे ॥११२॥अध्वर्यवे स्वर्णमयौ दर्पणौ रत्नशोभितौ।उद्गात्रे मालिकां हिरण्मयीं होत्रे तु वर्तुलाम् ॥११३॥प्रस्तोत्रे प्रतिहर्त्रे च ददावश्वं सभूषणम् ।ब्रह्मणे बालगर्भिणीर्दश गाः सन्ददौ नृपः ॥११४॥मैत्रावरुणाय च वन्ध्यां गां ददौ नृपतिस्तदा ।ब्राह्मणाच्छंसिने बलीवर्दं ददौ नृपस्तदा ॥११५॥नेष्टे पोत्रे प्रददौ च धौताम्बरे शुभे तदा ।अच्छावाकाय शकटं यवपूर्णं ददौ तदा ॥११६॥अग्नीधे ऋषभं चापि ददौ नृपस्तथाविधिम् ।दशपेयं क्रतुं कृत्वा व्रतं जग्राह वै ततः ॥११७॥केशानामवपनाख्यं सम्वत्सरावधि नृपः ।ततश्चातिरात्रसंस्थात्मकं सोमक्रतुं व्यधात् ॥११८॥व्युष्टिद्विरात्रमेवापि क्षत्रधृतिं व्यधापयत् ।सौत्रामणिं चकारापि विधिना नृपतिस्ततः ॥११९॥ऐन्द्रं तथाऽऽश्विनं सारस्वतं चैन्द्रवायोधसम् ।पयोग्रहात्मकं होमं ददौ राजा ह्यवभृथम् ॥१२०॥चकारैवं च दानानि ददौ राजा बहून्यपि ।इयेष राज्यं दत्वैव दीक्षां च साधवीं शुभाम् ॥१२१॥ग्रहीतुं स्वेष्टदेवाद्वै विप्रेभ्यः स न्यवेदयत् ।सर्वां पृथिवीं विप्रेभ्यो ददौ दाने हि दक्षिणाम् ॥१२२॥व्रतं त्वनशनं चक्रे सपत्नीको मदर्थकः ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१२३॥स्वयमागत्य मां दीक्षयित्वा साधुं व्यधापयेत् ।राजसूयादियज्ञानां फलं हरौ तदाऽऽर्पयत् ॥१२४॥अहं तन्निश्चय ज्ञाच्वा विप्राणां प्रार्थनामपि।भक्तेच्छापूरणार्थं वै त्वया साकं हि पद्मजे ॥१२५॥आविर्बभूव सहसा कोटिभास्करसन्निभः ।स्वागतं मे च ते चक्रुः पूजनं च ततोऽप्यहम् ॥१२६॥ददौ राज्ञे महादीक्षां साधवीं मोक्षदां शुभाम् ।राज्ञ्यै दीक्षां ददौ चापि वीक्ष्य विप्रा महर्षयः ॥१२७॥लक्षमिता महादीक्षां जगृहुर्मत्त एव ते ।अहमाचार्यरूपश्च साधुधर्मानबोधयम् ॥१२८॥वैष्णव्यस्ताः प्रजा जाताः समस्ता मोक्षगाः प्रिये ।त्वं सतीनां महाचार्याणी तदा संव्यजायथाः ॥१२९॥अनादिश्रीमहाचार्यनारायणोऽभवं ततः ।अनादिश्रीमहाचार्याणीश्रीयुतो हरिः स्वयम् ॥१३०॥सद्भिः सम्प्रार्थितश्चाहं मन्वन्तरं भुवस्तले ।व्यचरं दिव्यरूपो वै मोक्षधर्मपरायणः ॥१३१॥स्मर त्वं त्वां च मां लक्ष्मि! महाचार्यस्वरूपिणौ ।एवमन्येऽप्यवतारा ममाऽभवन् सहस्रशः ॥१३२॥राजा नाम्नाऽभवत् राजसूयायनो हि दीक्षितः ।राज्ञी च राजसूयश्रीरभवत् साध्विका तदा ॥१३३॥पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेत् प्रिये ।स्वर्गो मोक्षो भवेच्चापि रागो विरागतां व्रजेत् ॥१३४॥अविद्या विलयं गच्छेदीयुर्बन्धा विलोपताम् ।दिव्यरूपो भवेत् पुण्यशालिसेव्यो भवेदिह ॥१३५॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चचत्वारिंशे वत्सरेऽप्सरसां मानुषीभूतानां मनोरथपूरणार्थम् अनादिश्रीबृहद्ब्रह्मनारायणस्य रुक्मवतीश्रीसहितस्य, षट्- चत्वारिंशे वत्सरे च महर्षिभ्यो ब्रह्मविद्यादिदानार्थम् अनादि- श्रीगुरुनारायणस्य सुविद्याश्रीसहितस्य, सप्तचत्वारिंशे वत्सरे च हरिभक्तस्य बृहद्धर्मनृपतेः राजसूययज्ञे सर्वस्वदानोत्तरं साध्वी- महादीक्षार्थं प्रार्थितस्याऽनादिश्रीमहाचार्यनारायणस्य आचार्याणीश्रीयुतस्य च प्राकट्यमित्यादि-निरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP