संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १६

द्वापरयुगसन्तानः - अध्यायः १६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं ब्रह्मणो वत्सरे ततः ।
साक्षात्कृन्नामके षष्टिकल्पे त्रयोदशे मनौ ॥१॥
कैलासवासो रुद्रो वै तीर्थार्थमगमत् क्षितौ ।
पर्यटन् चाटुलाद्रौ स विष्णुतीर्थमुपाययौ ॥२॥
तत्र वै पर्वते रम्या शारदाख्या सरिद्वरा ।
ब्रह्मपुत्र्यवहत् तस्यास्तटे श्रान्तः शुभं जलम् ॥३॥
पीत्वा प्रोक्ष्य निषसाद ध्यानमग्नोऽभवत् क्षणम् ।
विष्णुं नारायणं सर्वेश्वरं दध्यौ परेश्वरम् ॥४॥
तावद्वनात् समायातो वाराहो मत्तवेगवान् ।
मस्तकेन हरं शंभुं धावन् वल्ल्मीकवद्धि सः ॥५॥
उच्चखानाऽविलोक्यैवाऽस्पष्टं भस्मावृतं हरम् ।
ध्यानात्तूर्णं समुत्तस्थौ वाराहं वीक्ष्य शंकरः ॥६॥
रोषं चकार सहसा भ्रकुटिः रक्ततां गता ।
तस्या व्याघ्रानलो वह्निज्वालामालासमाकुलः ॥७॥
समुत्पन्नस्तामसो वै महाऽसुरोऽद्रिसदृशः ।
वाराहं क्षणमात्रेणाऽनाशयच्छंभुनोदितः ॥८॥
वाराहचर्म संगृह्य व्याघ्रानलो हराज्ञया ।
जाठरानलशान्त्यर्थं ययाचे भोजनं हरात् ॥९॥
शंभुस्त्वाह समुद्रान्तर्वर्तिनां यादसां कुलम् ।
भोजनं वै मया दत्तं तव याहि जलान्तिकम् ॥१०॥
व्याघ्रानलोऽतिबलवान् कामरूपधरो गणः ।
निर्भयः क्षुत्प्रशान्त्यर्थमब्धितीरमुपाययौ ॥११॥
भक्षयामास यादांसि मकरान् कच्छपान् तिमीन् ।
यथायथा भोजनं स चक्रे तथा तथाऽस्य ह ॥१२॥
जाठराग्निः प्रदीप्तश्च पाचकः सन् व्यवर्धत ।
शरीरं च तथा तस्य वृद्धिं जगाम शैलवत् ॥१३॥
दशयोजनविस्तारो भूत्वाऽब्धिं स विवेश ह ।
भक्षयामास बहुशो यादांसि प्रत्यहं स च ॥१४॥
मासान्ते च बभूवापि शतयोजनविस्तृतः ।
वर्षान्ते स बभूवापि सहस्रयोजनाऽऽयतः ॥१५॥
महासमुद्रमाविश्य जलं पिबति श्वासतः ।
झषाद्याः कोटिशो यान्ति तस्योदरे पचन्ति च ॥१६॥
जलं सर्वं चानलेन दग्धं प्रजायतेऽपि च ।
अथ काले व्यतीते सोऽयुतयोजनविस्तृतः ॥१७॥
व्याघ्रानलोऽभवद् वार्धौ पिबत्यपि दिवानिशम् ।
सहस्रयोजनं वार्धि शुष्कं करोति निर्जलम् ॥१८॥.
एवं सर्वे समुद्राश्च पीतास्तेन क्रमात् खलु ।
महाजलं क्रमात् सर्वं पीतं भूपरितोऽब्धिजम् ॥१९॥
विना जलं न वै मेघा प्रजायन्तेऽब्धिमण्डलात् ।
अब्धिष्वग्निस्तस्य व्याघ्रानलस्य प्रसृतोऽभवत् ॥२०॥
समुद्रविवराश्चाग्निमयाः पृथ्वी तथाऽभवत् ।
शुष्का जलेन हीना च गर्भजलमदह्यत ॥२१॥
शुष्कं च भूतलं सर्वं वृष्टिरोधो व्यजायत ।
मम्रुश्च देहिनः प्रायो योगिनस्तु त्रिलोक्य तत् ॥२२॥
समाधौ प्रविलीना वै ऋषयस्तु दिवं ययुः ।
अकालः प्रलयो भूमौ जातो व्याघ्रानलेन वै ॥२३॥
जलाऽलाभे कर्दमादीन् व्याघ्रानलोऽत्ति वै तलात् ।
सर्वतो जलहान्या च पृथ्वी रूक्षगतिं गता ॥२४॥
वार्धयस्तु मृतप्रायाः श्रीहरिं शरणं ययुः ।
रक्ष रक्ष कृपानाथ व्याघ्रानलान्महोल्बणात् ॥२५॥
भक्षयत्येव यादांसि कर्दमानि जलानि च ।
अकालप्रलयो जातो मृता इव वयं ततः ॥२६॥
रौद्रोऽयं वर्तते चाद्याऽयुतयोजनविस्तृतः ।
आयतौ वर्धमानोऽयं ब्रह्माण्डं निगलिष्यति ॥२७॥
तदन्तो भवता कार्यो भवतः शरणं गताः ।
क्षारः पीतो हि सर्वस्वश्चान्ये पीताश्च खण्डशः ॥२८॥
भवन्तमन्तरा नास्यासुरस्यान्तकरोऽपरः ।
भवता रक्ष्यते सर्वं चापत्यमिव सर्वदा ॥२९॥
वयं समुद्राः सर्वे वै राधापुत्रा जलात्मकाः ।
पिता नः श्रीकृष्ण एव भगवान राधिकापतिः ॥३०॥
अनादिश्रीकृष्णनारायणावतार एव यः ।
गोलोकाधिपतिर्गोपीपतिः श्रीपतिरीश्वरः ॥३१॥
ततः पुत्रा वयं ते स्मो रक्ष कः पुरुषोत्तम ।
इत्येवमर्थितश्चाऽहं समुद्रैः सप्तभिस्तदा ॥३२॥
त्वया साकं महालक्ष्मि! वार्धीनां गोचरोऽभवम् ।
शंखचक्रगदापद्मस्वस्तिकध्वजशूलवान् ॥३३॥
पूजितो वन्दितस्तैश्च मिष्टोदेनाभिवन्दितः ।
मिष्टोदस्यैव पत्न्यां पुष्करिण्यां तु तदाऽभवम् ॥३४॥
बालोऽहं जातमात्रोऽपि युवाऽब्धिपुत्र एव ह ।
त्वं तदा शिवसत्येश्रि! पुण्डरीकस्य पुत्रिका ॥३५॥
भूभृतश्चाऽभवः सर्वैश्वर्यसौन्दर्यलक्षिता ।
नाम्ना श्रीपुण्डरीकश्रीः सर्वकल्याणकारिणी ॥३६॥
अथाऽहं च प्रसस्मार वाहनं जलगाम्यपि ।
तदा मिष्टोदकात्प्राप्तो जलतुरंगमोऽद्भुतः ॥३७॥
सपक्षः शुण्ढवाँश्चापि सजालपादवानपि ।
कामरूपधरश्चापि श्वासरोधसमाधिमान् ॥३८॥
बलेऽब्धिसदृशश्चापि गत्या विद्युत्समोऽपि च ।
अधृष्यः पर्वतप्रायः श्वेतवर्णस्तुरंगमः ॥३९॥
भूवार्यम्बरगमनः स्थूलसूक्ष्मादिसिद्धिमान् ।
सर्वभाषाप्रवक्ता च दिव्यदेहोऽविभेद्यकः ॥४०॥
स्वम्बालिकायुतश्चापि युद्धकौशल्यशेवधिः ।
चिन्तामण्यभियुक्तश्च मणिमौक्तिकभूषणः ॥४१॥
जलान्तर्दीपकान्तिश्चाऽन्धकारे सुप्रकाशवान् ।
नैसर्गदृढवर्माढ्यः शस्त्रप्रसवतूणवान् ॥४२॥
सुधास्राविकेसराढ्यो मृत्युहृत्कल्गिशोभितः ।
पुष्टः सर्वांगताम्राढ्यश्चागप्य मां ननाम सः ॥४३॥
पत्खुरैर्हर्षणशब्दैः स्तवनैः पक्षविस्तरैः ।
उच्चाग्रैर्जवकम्पैश्च स्वागतं स ममाऽऽचरत् ॥४४॥
मया वाहनरूपोऽसौ निर्विध्नाय प्रपूजितः ।
विजयाय च तत्पृष्ठे दत्तो दक्षः करो मया ॥४५॥
अमृतं पायितश्चापि भाले तिलकितस्तथा ।
यात्रार्थं बोधितश्चापि संगरार्थं प्रह्रेषितः ॥४६॥
ह्रेषाशब्दोऽस्य वै लक्ष्मि! दिक्पालानां गृहान् ययौ ।
चकम्पे द्यौः समस्ता वै पृथिव्यास्तत्र का दशा ॥४७॥
पर्वताश्च समुद्राश्च जलदेवाश्च मातरः ।
वरुणश्च नदा नद्यो युद्धार्थं मिलिता मया ॥४८॥
स्वस्ववाहनसंयुक्ताश्चाकारिता मयाऽऽययुः ।
विष्णुहस्ततलोत्पन्नं श्वेतवर्णं महागजम् ॥४९॥
चाऽधिरुह्य देवराजस्तत्र लक्ष्मि! समाययौ ।
रुद्रौजःसंभवं कृष्णवर्णं च पौण्ड्रकाभिधम् ॥५०॥
महिषं धर्मराजश्च समारुह्याऽऽययौ तदा ।
ब्रह्मकर्णमलोद्भूतं श्यामं जलधिनामकम् ॥५१॥
शिशुमारमधिरुह्य वरुणस्तत्र चाययौ ।
तथा शकटचक्राक्षं शेलाकारं नरं शुभम् ॥५२॥
सपक्षं चाऽम्बिकापज्जमारुह्य धनदः स्थितः ।
गन्धर्वान् भुजगेन्द्राँश्चारुह्य श्वेतवृषाँस्तथा ॥५३॥
रुद्रा रौद्रासुरनाशार्थं तत्र समुपाययुः।
अर्धसहस्रहंसाढ्यरथमारुह्य चन्द्रमाः ॥५४॥
आययौ च तथाऽऽदित्या हयोष्ट्ररथवाहनाः ।
कुंजरस्था वसवश्च यक्षाश्च नरवाहनाः ॥५५॥
किन्नरा भुजगारूढा हयारूढौ तथाऽश्विनौ ।
सारंगाधिष्ठिताश्चापि मरुतश्चाययुर्बलाः ॥५६॥
गन्धर्वाश्च स्वरारूढा अग्निर्मेषस्य पृष्ठगः ।
समुद्रा मकरारूढा सुरा यानविमानगाः ॥५७॥
ब्रह्मा हंससमारूढो विष्णुर्गरुडवाहनः ।
ऋषयश्चासनस्थाश्च पितरः पुण्यवाहनाः ॥५८॥
पृथिवी शेषवाहा च शेषः कच्छपवाहनः ।
कच्छपा मेघवाहाश्च मेघाश्च वायुवाहनाः ॥५९॥
पर्वताः पक्षवाहाश्च विद्युतो मेघवाहिताः ।
नदा नद्यस्तरंगस्थाः सशस्त्राः समुपाययुः ॥६०॥
तदा वाद्यान्यवाद्यन्त देवानां तानरोहिणः ।
बलदा निनदाश्चाप्यश्रूयन्त द्युसदां तदा ॥६१॥
व्याघ्रानलः प्रशुश्राव निनादान् वै दिगन्तगान् ।
रुष्टश्चाप्यसहमानस्तूर्णमास्फोटयन् मुहुः ॥६२।
ऊरून् करतलैश्चाप्यमोचयच्चाट्टहासकान् ।
ऊर्ध्वे चोड्डीय संवीक्ष्य युद्धसन्नाहसंस्थितान् ॥६३॥
सुरान् शीघ्रं गदां गुर्वीमुद्गृह्य गर्वमोहितः ।
आकाशं पूरयन् तन्वा मां सुरान् प्रति चाययौ ॥६४॥
उच्छ्रये गमनस्पर्शी दीर्घश्चायुतयोजनः ।
विशालो वार्धिवद् व्याघ्रानलो युद्धार्थमाययौ ॥६५॥
इन्द्रेण धर्मराजेन समं युद्धं चकार सः ।
वरुणेन धनदेन समं युद्धं चकार सः ॥६६॥
चन्द्रमसा तथा रुद्रैरादित्यैर्युयुधेऽपि सः ।
मूर्छां प्राप्य पुनर्युद्धं चक्रे बली पुनः पुनः ॥६७॥
यक्षैश्च किन्नरैश्चापि मरुद्भिर्युयुधे बली ।
अग्निना ब्रह्मणा साकं विष्णुना युयुधे मुहुः ॥६८॥
पर्वतैश्चापि विद्युद्भिर्युयुधे चातिदारुणः ।
सहस्ररूपधृग्भूत्वा युयुधे च सुरैः सह ॥६९॥
प्रधावन् व्योममार्गेणाऽऽकर्षयन् ग्रहमण्डलम् ।
नक्षत्राणि पातयंश्च दुद्राव युयुधेऽपि च ॥७०॥
स्थिरं तदाऽम्बरं चापि सकम्पं वै व्यलक्ष्यत ।
वायुस्तरा व्यमुञ्चन्त धृतिशक्तीः प्रकम्पिताः ॥७१॥
पृथ्वी कम्पेन च तदा संस्थानानि व्यसर्जयन् ।
नक्षत्राणां च गतयोऽपि सव्याहतयोऽभवन् ॥७२॥
विजयस्यापि विश्वासश्चागाद् द्वयोर्हि संशयम् ।
प्रलयो मुमुदे चाति पुष्टिं वीक्ष्याऽऽयतौ निजाम् ॥७३॥
आयुधानि समस्तानि प्रविश्य वर्ष्म चासुरम् ।
विनिर्यान्ति परं पारं मार्गगानीव रोमतः ॥७४॥
नास्य देहे गर्भभागे स्पर्शोऽपि शस्त्रकृत्तदा ।
जायते तादृशश्चास्ते युद्ध्यत्यत्यन्तमोजसा ॥७५॥
प्राणान् ग्लहाँस्तदा कृत्वा पणं कृत्वा विनाशने ।
नाशे वा निश्चयं कृत्वा वृकानलः प्रयुद्ध्यति ॥७६॥
गदया तोमरेणापि शक्त्या पाशेन चासिना ।
खड्गेन क्षेपणैश्चापि पर्वतैश्चोपलादिभिः ॥७७॥
शूलेन चापि चक्रेण दण्डेन च शरैस्तथा ।
वक्षसा बाहुना चापि हस्त्यादिभिश्च ताडनैः ॥७८॥
एवं युद्धं चकाराऽसौ वृकानलोऽसुरस्तदा ।
देवाश्च बलवन्तोऽपि प्रापुर्महापरिश्रमम् ॥७९॥
अथाऽहं च तदा लक्ष्मि! विनिश्चित्य दुरासदम् ।
चक्रं सुदर्शनं चास्मै मुमोच लक्षधारवत् ॥८०॥
प्रलयाऽग्निसमं घोरं स्वर्गपातालदाहकम् ।
वर्धमानं महद्रूपं ददाहैनं समन्ततः ॥८१॥
व्याघ्रानलशरीराद्वै खण्डास्तदा तु कोटिशः ।
पृथग्भूताः कर्तिता ये तेऽपि व्याघ्रानलाः पुनः ॥८२॥
भवन्ति त्वसुरास्तेन तुल्यास्तत्र हि सङ्गरे ।
चक्रं तूर्णं मयाऽऽज्ञप्तं दह्यत्येव च तानपि ॥८३॥
अन्तरीक्षं समस्तं च तदा वह्न्यम्बरं ह्यभूत् ।
प्रलयाग्निसमाव्याप्तं ब्रह्मास्त्रमिव वा ह्यभूत् ॥८४॥
तदा मया त्वमाज्ञप्ता महामायास्वरूपिणी ।
मोहिनीरूपमास्थायाऽसुरस्य जडताप्तये ॥८५॥
सन्निधावम्बरे प्राप्ताऽसुरो मोहमुपागतः ।
युद्धं चाऽसंख्यरूपाणि त्यक्त्वा त्वां धर्तुमागतः ॥८६॥
समाश्लिक्षच्च यावत् त्वां तावत् त्वया स्ववह्निना ।
व्याघ्रानलस्य वह्निर्वै समस्तोऽपि हृतोऽन्तरात् ॥८७॥
व्याघ्रानलो विना भानं विनाऽनलं च तैजसम् ।
जडीभूतोऽभवत्तावत् सुदर्शनेन भेदितः ॥८८॥
पपात शतधा चापि सहस्रधा महार्णवे ।
खङ्कशृंगाणि जातानि वार्धौ तद्देहखण्डकाः ॥८९॥
निर्जीवाश्च जलमध्ये पर्वता इव तेऽभवन् ।
एवं व्याघ्रानले लक्ष्मि! नाशिते मेघगर्जनाः ॥९०॥
आकाशे चाऽभवँस्तत्र समुद्राश्चार्द्रतां ययुः ।
मम देहात्तदा धारा जलानां च परिश्रमात् ॥९१॥
अभवन् वर्धमानास्ताः समुद्रानभ्यपूरयन् ।
आकाशादभवद् वृष्टिर्जयपुष्पाक्षतात्मिका ॥९२॥
सुरा मुदं ययुश्चापि पुपूजुर्मां श्रियाः पतिम् ।
मयाऽपि सत्कृता देवाः कृतकार्या निजालयम् ॥९३॥
ययुर्लक्ष्मि! तदा त्वं चादृश्यभावमुपागता ।
ममापि वाहनं चाश्वस्त्वया साकं पितुस्तव ॥९४॥
गृहं प्रापय्य च त्वां तु मिष्टोदं समुपागतः ।
अहं सुरान्नमस्कृत्य मिष्टोदं समुपागतः ॥९५॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अनादिश्रीवार्धिनारायणनाम्ना क्षितौ ततः ॥९६॥
प्रसिद्धश्चाऽभवं मह्यं पुण्डरीकः पिता तव ।
ददौ पुत्रीं तु विधिना योग्याय मेऽन्तरात्मने ॥९७॥
सुरादिवन्दितायेशेश्वराय परमात्मने ।
त्वां समुद्वाह्य विधिना पुण्डरीकश्रियं ततः ॥९८॥
अश्वं च वाह्नं लब्ध्वाऽविचरं भुवनत्रये ।
आकल्पान्तमतिष्ठँश्च धर्मरक्षणहेतवे ॥९९॥
अनादिश्रीहरिः सोऽहं परब्रह्म सनातनः ।
वेद्म्यहं सर्वमेवैतत् मम प्राकट्यमुत्तमम् ॥१००॥
एवं जाता ह्यवतारा मम तत्राऽप्यसंख्यकाः ।
पठनाच्छ्रवणाद्वापि कीर्तनात्स्मरणादपि ॥१०१॥
भुक्तिमुक्तिप्रदाः सर्वे चमत्कारपरायणाः ।
स्मर नारायणीश्रि! त्वं शिवपुत्रि! चमत्कृतिम् ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः एकोनविंशे वत्सरे रौद्रस्य व्याघ्रानलासुरस्य नाशनार्थम् अनादिश्रीवार्धिनारायणस्य प्राकट्यमिति-
निरूपणनामा षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP