संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ६४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ६४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६४ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-हरे नारायण कृष्ण परमेश सनातन ।कस्यां तिथौ किंस्वरूपो भवान् पूज्यः प्रवेदय ॥१॥श्रीपुरुषोत्तम उवाच-प्रतिपद्धनदस्योक्ता तत्र पूज्योऽहमेव ह ।कुबेरमूर्तिरूपो वै धनदोऽहं भवामि हि ॥२॥लक्ष्म्यास्ते वै द्वितीयाऽस्ति त्वं पूज्या पुरुषोत्तमी ।सर्वलक्ष्मीप्रदा त्वं स्या मदात्मिका नरायणी ॥३॥तृतीया पार्वतीदेव्यास्तिथिः प्रोक्ता शुभा प्रिये ।तत्र पूज्या पार्वती तु सौभाग्यदा हि सा मता ॥४॥गणेशस्य चतुर्थी वै पूज्यो विघ्नहरो हि सः ।कृष्णनारायणरूपो लाभादिसम्प्रदोऽपि सः ॥५॥चन्द्रस्य पञ्चमी प्रोक्ता पूजनीयः शशी ह्यहम् ॥गोवृषवाटिकादाता भवामि चामृतान्नदः ॥६॥कार्तिकस्य तिथिः षष्ठी कार्तिकं पूजयेत्तदा ।जयप्रदो ग्रहहर्ता भवामि कार्तिकाऽऽत्मकः ॥७॥सप्तमी तु रवेर्बोध्या सूर्यः पूज्यस्तदा प्रिये ।सूर्यनारायणश्चाऽहं तेजो ददामि नैकधा ॥८॥दुर्गायास्त्वष्टमी बोध्या दुर्गा पूज्या शुभप्रदा ।सर्वकष्टहरा सा च मम शक्तिः सनातनी ॥९॥नवमी चैव मातॄणां पूज्या वै मातरः शुभाः ।रक्षाकर्यो भवन्त्येव क्षेमंकर्यो हि वंशिनाम् ॥१०॥यमस्य दशमी बोध्या यमः पूज्यस्तदा शुभः ।पापनिरयदुःखघ्नो यमोऽहं संभवामि वै ॥११॥एकादशी कमलायाः श्रीः पूज्या तत्र सर्वथा ।श्रेयसां पदमाप्नोति ददामि श्रीं समर्चिने ॥१२॥द्वादशी मे माधवस्य पूजितोऽहं तदा प्रिये ।मधु सर्वविधं श्रेष्ठं ददामि रससंभृतम् ॥१३॥त्रयोदशी च कामस्य पूज्योऽहं तत्र सर्वदा ।कामान् ददामि सम्पूर्णान् सर्वकामप्रपूरकः ॥१४॥चतुर्दशी हरस्याऽस्ति महादेवमयो ह्यहम् ।पूजनीयः स्मृद्धिदश्चैश्वर्यप्रदो हि शंकरः ॥ १५॥पंचदशी वेधसोऽस्ति वेधाः पूज्यः शुभप्रदः ।वंशवृद्धिप्रदश्चापि पितृवच्छ्रेयसांप्रदः ॥१६॥अधिका तिथिराच्युती पुरुषोत्तमसंज्ञिका ।अनादिश्रीकृष्णनारायणः पूज्योऽहमेव च ॥१७॥सर्वेष्टसम्प्रदश्चास्मि परमेशः पुरातनः ।अमावास्या तु देवानां तिथिः पूज्या हि देवताः ॥१८॥आवाहनं समारभ्य विसर्जनावधि ध्रुवम् ।सर्वोपचारशोभाढ्यं पूजनं सर्वदा मतम् ॥१९॥स्नानमम्बरमाभूषा मन्त्रमालाऽऽर्द्रचन्दनम् ।धूपदीपसुनैवेद्यवारिताम्बूलतोषणम् ॥२०॥नमः क्षमा दक्षिणा चेत्यावश्यकं हि पूजने ।अष्टोत्तरशतवस्तुकृतं प्रपूजनं भवेत् ॥२१॥सर्वसम्पत्प्रदं लक्ष्मि सर्वसिद्धिप्रदं तथा ।सर्वकामप्रदं चापि भुक्तिमुक्तिप्रदं भवेत् ॥२२॥एवं मे महतीं पूजां कुर्याद् भक्ता प्रसादिनीम् ।यया कृतया श्रीकृष्णः प्रसीदामि प्रियंकरः ॥२३॥दीपमाला प्रदातव्या मम सौधे च मन्दिरे ।चतुर्विधं च नैवेद्यमन्नं दद्यात् सुमिष्टकम् ॥२४॥वस्त्राऽलंकारविधिनाऽभ्यर्च्य मां पूजयेद् गुरुम् ।मन्त्रभक्तिविधिहीनं पूजितं पूर्णमस्तु ते ॥२५॥धन्याऽहं कृतकृत्याऽहं सौभाग्या धरणिस्थिता ।यां मामङ्गीकृत्य नाथः श्रीकृष्णो मुक्तिदोऽस्ति मे ॥२६॥सर्ववासनानिर्मुक्ता दिव्या राघासमाऽद्य वै ।जाताऽस्मि गौरवं प्राप्ता गुरोः प्रतापतो भुवि ॥२७॥नमस्ते गुरवे कृष्णात्मकाय परमात्मने ।प्रतिष्ठादिव्यमूर्तिस्त्वं गुरुः कृष्णो हि तारकः ॥२८॥सर्वानन्दप्रदो मुक्तिप्रदस्त्वं मे गुरुर्हरिः ।सर्वबन्धप्रहर्ता च पापतापविनाशकः ॥२९॥ब्रह्मकैवल्यदाता मे परमाक्षरधामदः ।परमात्मस्वरूपस्त्वं नमस्ते परमात्मने ॥३०॥धन्याऽस्मि कृतकृत्याऽस्मि सफलं जीवितं च मे ।मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ॥३१॥यन्मयाऽनादिभगवान् वल्लभः समुपार्जितः ।त्वया कृष्ण वियुक्ताऽहं यथा न स्यां तथा कुरु ॥३२॥दानं तपो व्रतं भक्तिः सेवा पूर्वं कृता मया ।ययाऽहं कृष्णकान्तं वै लब्धवत्यद्य भूतले ॥३३॥बहुपुण्यप्रतापेन लब्धवती हरिं गुरुम् ।गुरौ सन्निहितो विष्णुः स्वभक्तेष्वेव सर्वथा ॥३४॥गुरावास्ते हरिश्चेति महिमानं विभावयेत् ।गुरुर्दृष्टः प्रणमितः स्नापितः पूजितस्तथा ॥३५॥यज्ञकोटिसमं पुण्यं ददाति गुरुसेविने ।दोषयुक्ताऽपि या नित्यं भक्तिभावान्विता सती ॥३६॥गुर्वीमूर्तिं पूजयेत् साऽच्युता भवति धामनि ।गुर्वीमूर्तिर्महाहत्यापापातिपातनाशिनी ॥३७॥स्मृता संकीर्तिता ध्याता पूजिता च नमस्कृता ।गुर्वीदेवीप्रतिमा सा धामाऽक्षरप्रदायिनी ॥३८॥आचार्याणीं सतीं गुर्वीं साध्वीं ब्राह्मीं पतिव्रताम् ।हरिव्रतां योगिनीं च प्राप्याऽऽसेव्य प्रमुच्यते ॥३९॥सिंहीं वीक्ष्य यथा यान्ति मृग्यो भयात्तथा त्विह ।मायाः सर्वाः पापमय्यो गुर्वीप्राप्त्या वियन्ति हि ॥४०॥नमस्करोति या शिष्या गुरुस्त्रीं पावनीं सतीम् ।भक्त्या वा यदि वाऽभक्त्या सा पुण्या मुक्तिगामिनी ॥४१॥वैवस्वतभयं नास्ति तस्या मरणजन्मनोः ।या करोति सती सेवां पूजनं गुरुयोषितः ॥४२॥गन्धपाद्याऽर्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः ।गीतैर्वाद्यैस्तथा स्तोत्रैर्गुवींं देवीं प्ररञ्जयेत् ॥४३॥अर्चयते मानवी मां सतीभक्तिपरायणा ।कल्पकोट्ययुतान्येषा रमते मम सद्मनि ॥४४॥गुरुदेवनमस्कारो भावेनाऽपि यया कृतः ।सा देवी मानुषे लोके ममाऽनुग्रहपात्रिका ॥४५॥मद्भक्तिबलदर्पस्था मम साधुपरायणा ।गुर्वीसेवापरा साध्वी मोदते मम धामनि ॥४६॥गुरुदेवप्रतिमायां लक्ष्मि सदा वसाम्यहम् ।पद्मकोटिसहस्रैस्तु विष्णुपूजाफलं तु यत् ॥४७॥गुरुदेवस्य पूजायां फलं तल्लभते सती ।न कृतं मर्त्यलोके यैर्गुरुदेवार्चनं जनैः ॥४८॥ते मृता एव च मुहुर्जायन्ते कर्मभागिनः ।गुरुदेवस्य निकटे सर्वं याति पवित्रताम् ॥४९॥भुक्त्वा गुरोः प्रसादं च यज्ञकोटिफलं भवेत् ।गुरोः पादोदकैः पीतैर्हत्याकोटिर्विनश्यति ॥५०॥काशीवासो युगान्यष्टौ दिनैकगुरुसेवनात् ।तस्माद् गुरोः पूजनं वै कर्तव्यं मोक्षकाम्यया ॥५१॥गुरुदेवस्वरूपः श्रीपतिर्यत्र हि तिष्ठति ।तत्र देवाः सुराः साध्व्यश्चेश्वराश्च वसन्ति वै ॥५२॥सुराणां कीर्तनैः सर्वैः कोटिभिर्यत् फलं भवेत् ।तत्फलं श्रीहरेश्चापि गुरोश्च कीर्तनाद् भवेत् ॥५३॥गुरुदेवमुखे हुत्वा सकृत् पिण्डेन तर्पिताः ।पितरस्तृप्तिमायान्ति शाश्वतीं चाऽमृतान्विताम् ॥५४॥ये पिबन्ति जना वारि गुरोश्चरणपावितम् ।पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥५५॥प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।चान्द्रायणैश्च वा किं वै पीत्वा पादोदकं गुरोः ॥५६॥यो ददाति गुरवेऽत्र घृतं दुग्धं च शर्कराम् ।तेनेष्टं सर्वमिष्टान्नैस्तेनेष्टं क्रतुभिः शतैः ॥१७॥गृहेऽपि वसतस्तस्य तीर्थस्नानं दिने दिने ।दीक्षाऽस्य सर्वयज्ञेषु येन सन्तोषितो गुरुः ॥५८॥स्वर्गे मर्त्ये च पाताले गुरवः सन्ति तारकाः ।गुरुदेवसमं नास्ति त्रैलोक्ये पावनं परम् ॥५९॥मानुषे सुभगे लोके सफलं जीवितं यतः ।गुरोः प्राप्तिः कृता येन यया वा सेवनं गुरोः ॥६०॥पत्रं पुष्पं फलं तोयं वस्त्रं द्रव्यं च भोजनम् ।जायते मेरुणा तुल्यं गुरुदेवसमर्पणात् ॥६१॥विधिहीनाऽपि या नारी क्रियामन्त्रादिवर्जिता ।गुरुभक्ताऽर्चयेद् भक्त्या तस्याः शास्त्रोदितं फलम् ॥६२॥निवसामि सदा तत्र देहे गुरोर्गुरौ सदा ।स्कन्धे याने गुरुं कृत्वा योऽध्वानं वहते जनः ॥६३॥तस्य मार्गो ह्यनिरुद्धो मम धाम्नोऽस्ति सर्वदा ।गुरुदेवस्थितिर्यत्र तत्र सन्निहितो हरिः ॥६४॥तत्र तीर्थं महादानं कुरुक्षेत्रं च नैमिषम् ।पुष्करं च प्रयागं चाप्यश्वपट्टसरस्तथा ॥६५॥बालकृष्णसरश्चापि विषतुर्यसरस्तथा ।तत्र नारायणी चापि तत्रेरावतिका नदी ॥६६॥मेनकांगा च तत्रैव ब्रह्मपुत्राऽपि तत्र च ।यत्र गुरोर्निवासोऽस्ति सर्वतीर्थानि तत्र वै ॥६७॥ब्रह्महत्यादिकं पापं यत्किंचिज्जायते जने ।तत्सर्वं निर्दहत्याशु गुरुदेवप्रसेवनम् ॥६८॥गुरोर्मूर्तिर्हरेर्मूतिर्यत्रोभयोर्हि संगमः ।तत्र द्वारवती बोध्या मुक्तिदा भक्तिराच्युती ॥६९॥गुर्वर्चने न मन्त्राश्च न जपो न च भावना ।न द्रव्यं न हीरकादि नोपदा नेतरत्त्वपि ॥७०॥न स्तुतिर्नापि दैन्यं च प्रेममात्रमपेक्षते ।अकृत्यस्याऽप्यभक्ष्यस्याऽपेयस्य ग्रहणे कृते ॥७१॥यत्पापं तद् विनश्येद्वै सन्तुष्टे श्रीगुरौ हरौ ।पूजनं कुरुते गुर्व्या नित्यं शिष्या तु या सती ॥७२॥सेवनं कुरुते गुर्व्याः पादसंवाहनादिकम् ।अनन्तोत्तरकालं सा वैधव्यं विन्दते न वै ॥७३॥कृष्णसौभाग्यमापन्ना पद्मिनी जायते रमा ।गुरोः छायां समाश्रित्य दद्याद् दानानि वै सदा ॥७४॥न जह्याच्च गुरोः पार्श्वं याम्यभीतो जनस्त्विह ।गुरोरग्रे यमदूता न चाऽऽयान्ति कदाचन ॥७५॥गुरोः सेवा हरेः सेवा पत्युः सेवा यया कृता ।सफलं जीवितं तस्या यस्या गेहे त्रयं सदा ॥७६॥सन्नियम्याऽन्यतो वृत्तीर्गुरुदेवस्य तोषणम् ।या कुर्यान्मानवी साध्वी भक्त्या सेवां च पूजनम् ॥७७॥यथायोग्यं वस्तूनामर्पणं निवेदनं जलम् ।श्रद्धया गुरवे दत्ते पुष्पे पुष्पेऽश्वमेधजम् ॥७८॥फलं सा विन्दते शिष्या साक्षाद् गुरुहरिश्रिता ।जन्मदुःखजरारोगैर्मुक्ता सा मोक्षगा मता ॥७९॥गवामयुतदानेन यत्फलं प्राप्यते त्विह ।गुरवे पद्ममालां वै समर्प्येयाद्धि तत्फलम् ॥८०॥दुर्लभं चापि दुष्प्रापं त्रैलोक्ये सचराचरे ।तदपि प्रार्थितं लक्ष्मि गुरुसेवा ददाति वै ॥८१॥ऐश्वर्यं सन्ततिं ज्ञानं राज्यं च सुखसम्पदः ।गुरुकृपा ददात्येव सेवालभ्या हि सा मता ॥८२॥मेरुमन्दरतुल्यानि पापानि सर्वथा लयम् ।यान्ति गुरोः सेवनाद्धि साक्षाद्धरिर्गुरुर्हि सः ॥८३॥नमो नारायणायेति नमः श्रीगुरवे तथा ।उक्त्वा नित्यं नमेद्देवं गुरुं हरिं पतिं प्रभुम् ॥८४॥व्रजेत् सा परमात्मानं धामाऽक्षरनिवासिनम् ।शाश्वताऽऽनन्ददातारं ह्यनामयपदस्थितम् ॥८५॥गुरोर्नाम हरेर्नाम पठते या मुहुर्मुहुः ।याति सा परमं धाम पुनर्जन्म न विन्दति ॥८६॥कुले तस्याश्च ये जाताः शतशोऽथ सहस्रशः ।तेऽपि यान्ति परं धाम यया सन्तोषितो गुरुः ॥८७॥महोत्सवेषु सर्वेषु गुरुं सम्पूजयेत् सती ।पूजयित्र्या गृहे नित्यं भवेयुर्वै महोत्सवाः ॥८८॥आषाढे भावनाऽभिज्ञा पूर्णायां पूजयेद् गुरुम् ।तत्फलं लभते नारी सौभाग्यं शाश्वतं सती ॥८९॥स्नापयेदुष्णसलिलैर्गन्धद्रव्यैर्विलेपयेत् ।मर्दयेद् गन्धतैलैश्च स्वच्छद्रव्यैः प्रमार्जयेत् ॥९०॥अभिषेकं कारयेच्च धारयेदम्बराणि च ।शृंगारयेच्च शृंगारैरर्चयेदक्षतादिभिः ॥९१॥पुष्पचन्दनमाल्यैश्च समर्चयेद् गुरुं सती ।विभूषा धारयेच्चापि धूपदीपादि कारयेत् ॥९२॥फलामिष्टान्नपानादि दद्याच्छ्रीगुरवे ततः ।दक्षिणां प्राऽर्पयेच्चापि यथावैभवमुत्तमम् ॥९३॥पादामृतं पिबेच्चापि पादसंवाहनं चरेत् ।गुर्व्याः सदाऽङ्गमर्दादि कुर्याच्छिष्या सती शुभम् ॥९४॥याने कृत्वा वाटिकायां महोद्याने गृहे तथा ।गुरुं गुर्वीं नयेद्वापि तोषयेद् भक्तिसंभृता ॥९५॥अनादिश्रीकृष्णनारायणं मां परमं गुरुम् ।एवं प्रसादयेत् साध्वी वधूर्या श्रीनरायणि! ॥९६॥अन्या वा स्वपतिं कृष्णं प्रसादयेद्धि भावतः ।तथा या स्वगुरुं प्रसादयेद्वै सेवया सती ॥९७॥सर्वास्ता ब्रह्मरूपा वै मोक्षगाः सन्ति पद्मजे ।दिव्या दिव्यस्वरूपाश्च पराया दिव्यताप्रदाः ॥९८॥स्वस्याः समागमं प्राप्ता या या भवन्ति योषितः ।तास्ता दिव्यास्तथा भूत्वा प्रयास्यन्ति परं पदम् ॥९९॥हरिश्चाहं सदा दिव्यः शक्तिर्दिव्या च मे सदा ।सा च त्वं श्रीस्तथा राधा रमा प्रज्ञा च माणिकी ॥१००॥लक्ष्मीर्गंगा च विरजा पद्मावती च माधवी ।एवमाद्याः शक्तयो मे दिव्या ब्रह्मप्रिया हि ताः ॥१०१॥हरिप्रिया न मे भिन्ना अभिन्नास्ताः सदा मम ।वसन्ति शक्तयः सर्वा गुर्व्यां गुरौ सदा प्रियाः ॥१०२॥अहं शक्तिसहितो वै निवसामि वधूजने ।स्वामिजने निवसामि साधौ पत्यौ वसामि च ॥१०३॥पूरयामि मनःकामान् तत्तद्गुरुत्वमास्थितः ।एवं श्रीशिवराज्ञीश्रि मां प्रसेवय माधवम् ॥१०४॥पठनाछ्रवणादस्य स्मरणाद् वन्दनादपि ।भावग्राहादपि मुक्तिर्भवेदेव न संशयः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां सर्वतिथिषु हरेर्भिन्नरूपस्य पूजा गुरुरूपस्य सदा पूजा चेत्यादिनिरूपणनामा चतुष्षष्टितमोऽध्यायः ॥६४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP