संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-.शृणु नारायणीश्रि त्वं पापोद्धारकरान् सुतान् ।धर्मस्य बलयुक्तान् वै यदाश्रयेन मोक्षणम् ॥१॥धर्मदेवात्तु कामं वै श्रद्धा तु सुषुवे सुतम् ।मदर्थं योजितः कामो मोक्षाय परिकल्पते ॥२॥धर्मदेवात्तु दर्पं वै श्रीः पुत्रं सुषुवे शुभम् ।मदर्थं योजितो दर्पो मोक्षाय परिकल्पते ॥३॥धर्मदेवात्तु नियमं धृतिस्तु सुषुवे सुतम् ।मदर्थं योजितश्चायं मोक्षाय परिकल्पते ॥४॥धर्मदेवात्तथा तुष्टिः सन्तोषं सुषुवे सुतम् ।मदर्थं योजितश्चाऽयं मोक्षाय परिकल्पते ॥५॥धर्मदेवात्तथा पुष्टिर्लोभं तु सुषुवे सुतम् ।मदर्थं योजितो लोभो मोक्षाय परिकल्पते ॥६॥धर्मदेवात्तथा मेधा श्रुतं तु सुषुवे सुतम् ।मदर्थं योजितश्चायं मोक्षाय परिकल्पते ॥७॥धर्मदेवात्तथा पुत्रं दण्डं तु सुषुवे क्रिया ।मदर्थं योजितो दण्डो मोक्षाय परिकल्पते ॥८॥दण्डानुजं नयं चापि विनयं च नयाऽनुजम् ।त्रयस्ते योजिता मत्तो मोक्षायैते भवन्ति वै ॥९॥धर्मदेवात्तथा बुद्धिर्बोधं तु सुषुवे सुतम् ।मदर्थं योजितो बोधो मोक्षाय परिकल्पते ॥१०॥धर्मदेवात्तथा लज्जा सुनयं सुषुवे सुतम् ।सुनयो योजितः कृष्णे मोक्षाय परिकल्पते ॥११॥धर्मदेवात्तथा वपुर्व्यवसायमसूयत ।मदर्थं व्यवसायश्च योजितो मोक्षदो भवेत् ॥१२॥धर्मदेवात्तथा शान्तिः क्षेमं तु सुषुवे सुतम् ।मदर्थं योजितः क्षेमो मोक्षाय परिकल्पते ॥१३॥धर्मदेवात्तथा सिद्धिः सुखं तु सुषुवे सुतम् ।सुखस्तु योजितः कृष्णे मोक्षाय परिकल्पते ॥१४॥धर्मदेवात्तथा कीर्तिः सुषुवे च यशः सुतम् ।यशः संयोजितं कृष्णे मोक्षाय परिकल्पते ॥१५॥धर्मपौत्राश्च वै सर्वे मदर्थं यदि योजिताः ।ते सर्वेऽपि तु मोक्षाय भवन्ति पापनाशकाः ॥१६॥कामपुत्रो महानन्दो हर्षपुत्रोऽतिमानकः ।नियमस्य विरामस्तु सन्तोषस्य तु तर्पणः ॥१७॥लोभस्य सञ्चयः पुत्रः श्रुतस्य निर्णयः सुतः ।दण्डस्य कृच्छ्रसंज्ञश्च नयस्य वर्धनः सुतः ॥१८॥विनयस्य सुतश्चाभ्युदयो बोधस्य शन्तनुः ।सुनयस्य सुतस्तेजो व्यवसायस्य आयकः ॥१९॥क्षेमस्य रक्षणं पुत्रः सुखस्य मोदसंज्ञकः ।यशसश्चोत्सवः पुत्रः पौत्रा धर्मस्य वै मयि ॥२०॥योजिता मोक्षदाः सर्वे पापानां नाशका रमे ।सतां योगेन योक्तव्या दिव्यास्ते तारयन्ति वै ॥२१॥शृणु लक्ष्मि पापदान् वै पुण्यक्षयकरानपि ।अधर्मस्य सुतान् दुष्टक्रियाचारप्रवर्तकान् ॥२२॥हिंसा पत्नी त्वधर्मस्य तस्यां जज्ञेऽनृतं सुतः ।असत्यमनृतं प्रोक्तं दुःखदं पापकारि तत् ॥२३॥तस्य स्वसा निर्ऋतिश्च तत्सुतौ नरकं भयम् ।माया च वेदना चेति कन्यके द्वे तथा मते ॥२४॥मायासुतस्तथा मृत्युः सर्वभूतापहारकः ।वेदनायाः सुतश्चापि दुःखाख्यः समजायत ॥२५॥मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ।निर्ऋतिः संप्रजज्ञे च विनाशं दुःसहं सुतम् ॥२६॥ब्रह्मा तु निर्ऋतेः पुत्रं दुःसहं क्षुधितं कृशम् ।काकस्वनं निम्नमुखं समुवाच वचो हितम् ॥२७॥मा त्वं खाद जगच्चेदं वृत्तिं ददामि ते सुत ।अधार्मिकस्य वासस्ते वासो भवतु सर्वदा ॥२८॥पर्युषितं सकीटं च तथा श्वभिरवेक्षितम् ।भग्नभाण्डगतं चापि मुखवातोपसंहतम् ॥२९॥उच्छिष्टं स्विन्नमेवापि चाऽवलीढमसंस्कृतम् ।उदक्योपहतं भुक्तमुदक्या तव तद् भवेत् ॥३०॥अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया ।त्यक्तं दुष्टं च सर्वं ते मया यक्ष समर्पितम् ॥३१॥पंक्तिभेदे च कपटे पाकभेदे प्रतारणे ।कलहे च कुमेले च भविता वसतिस्तव ॥३२॥अपोष्यमाणे वृद्धे च बद्धे गवि ह्यपोषिते ।बालानां पोषणहीने गृहे वासः सदा तव ॥३३॥वृथोपवासिनो मर्त्यान् द्यूतस्त्रीव्यसनस्थितान् ।बैडालवृत्तिकाँश्चापि शठानभिभविष्यसि ॥३४॥दुःखदानां तु पापानां तथा विश्वासघातिनाम् ।शरणार्थिविरुद्धानां गृहे वासः सदा तव ॥३५॥त्वया गेहे निर्दये वै सदा स्थेयं हि दुःसह ।न स्थेयं धार्मिके गेहे देवगेहे कदाचन ॥३६॥यः संस्कृतादो विधिना शुचिरन्तस्तथा बहिः ।अलोलुपो जितकामस्तद्गेहं चापवर्जय ॥३७॥यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च ।तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय ॥३८॥योषितोऽभिरता यत्र न बहिर्गमनोत्सुकाः ।लज्जान्विताः सदा गेहं यक्ष! तत्परिवर्जय ॥३९॥वयःसम्बन्धयोग्यानि शयनान्यशनानि च ।यत्र गेहे सतां सेवा तद्गृहं त्वं विवर्जय ॥४०॥यत्र कारुणिका नित्यं साधुकर्मस्ववस्थिताः ।सामान्योपस्करैर्युक्तास्तद्गृहं संविवर्जय ॥४१॥यत्रासनस्थाः सहसोत्तिष्ठन्ति गुरुसन्निधौ ।वृद्धानां सन्निधौ चापि तद्गृहं संविवर्जय ॥४२॥तरुगुल्मादिभिर्द्वारं न विद्धं यस्य वेश्मनः ।उद्यानशोभं भवनं श्रेयस्तत्परिवर्जय ॥४३॥यत्र पुंसां मर्मभेदो जायते न ध्वनिर्गृहे ।वाणी वा तादृशी नास्ति तद्गृहं परिवर्जय ॥४४॥देवतापितृमर्त्यानामतिथीनां च पूजनम् ।तत्प्रसादाशनं यत्र तद्गृहं परिवर्जय ॥४५॥सत्यवाक्यान् क्षमाशीलानहिंस्रान्नानुतापिनः ।पुरुषान्प्रमदाश्चापि त्यजेथाश्चाऽनसूयकान् ॥४६॥भर्तृशुश्रूषणे युक्तामसत्स्त्रीसंगवर्जिताम् ।कुटुम्बभर्तृशेषान्नपुष्टां च त्यज योषितम् ॥४७॥ब्राह्मणं वेदविज्ञानं सात्त्विकं देवपूजकम् ।अध्वरादिपरं तुष्टं शान्तं त्यज सदा शुभम् ॥४८॥क्षत्रियं रक्षकं चापि दातारं धर्ममार्गगम् ।न्यायमात्रपरं भक्तं त्यज दुःसह! सद्बलम् ॥४९॥वैश्यं तु व्यवसायस्थं सत्यधर्मपरायणम् ।अहिंसकं दानपरं भक्तं गोसेवकं त्यज ॥५०॥शूद्रं सेवापरं भक्तं शान्तिं निष्कपटं त्यज ।पत्नी पतिर्यत्र रतौ परस्परसहायिनौ ॥५१॥धर्मपरौ मोक्षपरौ तद्गृहं सर्वथा त्यज ।यत्र पुत्रो गुरोः पूजां देवानां च तथा पितुः ॥५२॥पत्नी च भर्तुः कुरुते तत्र दुःसह मा वस ।प्रातः सायं कृतलेपं देवपूजाभिसंस्कृतम् ॥५३॥गृहं सतां पादपूतं न त्वं शक्नोषि वीक्षितुम् ।भास्कराऽदृष्टशय्यानि नित्याग्निसलिलानि च ॥५४॥सूर्यावलोकदीपानि दानद्वारर्द्धिमन्ति च ।सतां प्रसादपात्राणि लक्ष्म्या गेहानि भाजनम् ॥५५॥यत्र नारायणश्चापि लक्ष्मीश्चापि प्रपूज्यते ।यत्र वै साधवः साध्व्यस्तत्राऽलक्ष्मीभयं कुतः ॥५६॥यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी ।मिष्टाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः ॥५७॥यत्र कण्टकिनो वृक्षा यत्र मादकवल्लिकाः ।भार्या विवाहशून्या च वल्मीक! तत्र संवस ॥५८॥यत्र गृहे नराः पञ्च स्त्रीत्रयं गोत्रयं तथा ।अन्धकारो निरग्निश्च तद्ग्रहं वसतिस्तव ॥५९॥एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् ।षडश्वं सप्तमातंगं गृहं शोषय दुःसह ॥६०॥कुद्दालदात्रपितकं तद्वत् स्थाल्यादि भाजनम् ।सर्वाण्युपकरणानि मुसलोलूखलौ तथा ॥६१॥स्त्रीणां खट्वी तथा चान्यत् क्षिप्तं यत्र च तत्र च ।अमार्जितं च मलिनं गृहं तव प्रतिश्रयम् ॥६२॥मुसलोलूखले स्त्रीणामासनं चाप्युदुम्बरे ।अवस्करे मन्त्रणं च तद्गृहे वस दुःसह ॥६३॥लंघ्यन्ते यत्र धान्यानि पक्वाऽपक्वानि वेश्मनि ।तद्वच्छात्राणि तत्र त्वं यथेष्टं चर दुःसह ॥६४॥स्थालीपिधाने यत्राग्निर्दत्तो दर्वीफलेन वा ।गृहे तत्र हि रिष्टानामशेषाणां समाश्रयः ॥६५॥मानुषास्थि गृहे यस्य दिवारात्रं मृतस्थितिः ।तत्र दुःसह वासस्ते तथाऽन्येषां च रक्षसाम् ॥६६॥यत्र पद्ममहापद्मौ युवती मोदकाशिनी ।वृषभैरावतौ यत्र तद्गृहं त्यज सर्वथा ॥६७॥अशस्त्रा देवता यत्र सशस्त्रश्चाऽहवं विना ।कल्प्यन्ते मनुजैरर्च्यास्तत् परित्यज मन्दिरम् ॥६८॥पौरजानपदा यत्र प्राक्प्रसिद्धमहोत्सवाः ।क्रियन्ते पूर्ववद्गेहे तत्र गृहे न संवस ॥६९॥शूर्पवातघटोऽम्भोभिः स्नानं वस्त्राम्बुविप्रुषैः ।नखाग्रसलिलैश्चापि तान् याहि हतलक्षणान् ॥७०॥देशाचारयुतं ज्ञातिधर्मयुतं च सोत्सवम् ।जपहोमपरं देवमंगलेष्टियुतं गृहम् ॥७१॥शौचाचारयुते लोकशस्यं पूज्यं सदाश्रयम् ।गृहं मा स्पृश तत्रत्यान् मा विलोकय दुःसह ॥७२॥इत्येवं दुःसहस्यादौ लक्ष्मि ब्रह्मा ददौ गृहम् ।निवासार्थं ह्यधर्मस्य सहयुग् दुःसहोऽभवत् ॥७३॥दुःसहस्याऽभवद्भार्या मलिनीनाम नामतः ।कलिपुत्री कलहज्ञा क्लेशधर्मावलम्बिनी ॥७४॥तस्याः पुत्रा अष्टसंख्याः कन्याश्चाष्टौ भयप्रदाः ।दन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तृतीयकः ॥७५॥अङ्गधृक् शकुनिश्चापि गण्डप्रान्तरतिस्तथा ।गर्भहा सस्यहा चेति कन्यानामान्यपि शृणु ॥७६॥नियोजिका तु प्रथमा द्वितीया तु विरोधिनी ।स्वयंहारकरी चापि भ्रामणी ऋतुहारिणी ॥७७॥स्मृतिहन्त्री बीजहन्त्री विद्वेषिणी तथाऽष्टमी ।भयदास्तास्तदेतेषां तासां कार्याणि मे शृणु ॥७८॥दन्ताकृष्टिः प्रसूतानां बालानां दशनस्थितः ।करोति स ज्वरोत्पादं तच्छान्तिः सितसर्षपैः ।शयनस्योपरिक्षिप्तैः क्षौमवस्त्रविधारणात् ॥७९॥तथोक्तिनामको वक्ति दुःसहस्याऽस्तु संस्थितिः ।तच्छान्त्यर्थं तु मांगल्यं कीर्तनीयो जनार्दनः ॥८०॥परिवर्तः करोत्येव गर्भाणां परिवर्तनम् ।रक्षां कुर्वीत रक्षोघ्नमन्त्रैश्च सितसर्षपैः ॥८१॥अङ्गधृक् स्फुरणं दुष्टं चांगानां प्रकरोति वै ।कुशैस्तस्यांकसंस्पर्शान्निवृत्तिर्जायते तदा ॥८२॥काकादिपक्षिसंस्थश्च शकुनिः शकुनं सदा ।करोति दुष्टमेवाऽत्र कार्यत्यागो निवर्तनम् ॥८३॥गण्डकालक्षणान्ते च गण्डप्रान्तो वसत्यपि ।सर्वारम्भान् प्रहन्त्येव देवस्तुत्या निवारणम् ॥८४॥गोमूत्रसर्षपस्नानैस्तदृक्षग्रहपूजनैः ।धमोत्सवादिकरणैर्गण्डवान् याति वै लयम् ॥८५॥गर्भहा गर्भनाशी वै नित्यं शौचाद् विनश्यति ।दैवमाल्यादिरक्षादिमन्त्रेभ्यः स तु नश्यति ॥८६॥सस्यहा क्षेत्रभूभागे सस्यर्द्धिमुपहन्ति च ।तस्माद् रक्षां प्रकुर्वीत जीर्णोपानद्विधारणात् ॥८७॥तथाऽपसव्यगमनाच्चाण्डालस्य प्रवेशनात् ।बहिर्बलिप्रदानाच्च सतां चरणवासनात् ॥८८॥चौर्यव्यवायमद्यादौ नियोजिका तु मानवान् ।नियोजयति तच्छान्तिं कुर्यात् साधुसमागमात्। ॥८९॥दीक्षादिग्रहणाद्धर्माद् व्रतात्तीर्थनिषेवणात् ।विरोधिनी कुरुते वै दम्पत्योश्च विरोधनम् ॥९०॥बन्धूनां सुहृदां पित्रोः पुत्रैः परस्परं सदा ।तस्याः शान्तिं प्रकुर्वीत शास्त्राचारनिषेवणात् ॥९१॥स्वयंहारकरी कन्या धान्यं खलाद्धरत्यपि ।गोभ्यः पयस्तथा सर्पिः पयसोऽपि हरत्यपि ॥९२॥समृद्धिमृद्धिमद्द्रव्यादपहन्ति महानसात् ।अर्धसिद्धं तथाऽन्नं च यदन्नागारसंस्थितम् ॥९३॥संपरिवेषितं चान्नं साऽर्ध भुंक्ते च भुंजता ।उच्छेषण मनुष्याणां हरत्यन्नं हि सा तथा ॥९४॥कर्मान्तागारशालाभ्यः सिद्धर्द्धिं सा हरत्यपि ।गोस्त्रीस्तनेभ्यश्च पयः क्षीरहर्त्री तदैव सा ॥९५॥दध्नो घृतं तिलात्तैलं सुरागारात् तथा सुराम् ।रागं कुसुंभकादीनां कार्पासात् सूत्रमित्यपि ॥९६॥तच्छान्त्यर्थं प्रकुर्याच्च द्वन्द्वं शिखण्डिनोः शुभम् ।कृत्रिमां च स्त्रियं तत्र गृहे न्यसेत् स्थलेऽपि च ॥९७॥रक्षामन्त्रं तथा लक्ष्म्या रक्षामन्त्रं समुच्चरेत् ।'लक्ष्मि लक्ष्मि महालक्ष्मि ललिते कम्भरे सति ।हारिकां हन दुष्टां त्वं हारिका नाशमेतु च ॥९८॥इति प्रार्थ्य गृहे भस्म स्थले गोष्ठे निधापयेत् ।होमाग्निदेवताधूपभस्मादिभिर्विनश्यति ॥९९॥उद्वेगं जनयत्यन्या ह्येकस्थाननिवासिनः ।पुरुषस्य तु दुःखदा भ्रामणी सा भवत्यपि ॥१००॥तस्याथ रक्षां कुर्वीत विक्षिप्तैः सितसर्षपैः ।आसने शयने चोर्व्यां यत्रास्ते स तु मानवः ॥१०१॥अथ पुष्पं हरत्यन्या स्त्रीणां सा ऋणहारिणी ।कुर्वीत तीर्थदेवौकश्चैत्यपर्वतसानुषु ॥१०२॥नदीसंगमखातेषु स्नपनं तत्प्रशान्तये ।चिकित्साशः प्रयुञ्जीत वरौषधमृतुप्रदम् ॥१०३॥स्मृतिं हरति नारीणां नराणां स्मृतिहा हि सा ।विविक्तदेशसेवित्वाच्छ्रीहरेर्भजनात्तथा ॥१०४॥स्निग्धभोजनपानाञ्च तस्याश्चोपशमो भवेत् ।बीजाहापरिणी चाऽन्या वीर्यं रजो हरत्यपि ॥१०५॥हरेः प्रसादमेध्यान्नभोजनैस्तीर्थयात्रया ।तस्याश्चोपशमः प्रोक्तो हस्ते कामफलधृतेः ॥१०६॥द्वेषिणी द्वेषमादध्याच्छान्त्यर्थं जुहुयात्तिलान् ।मधुक्षीरवृताक्तांश्च मित्रविन्देष्टिमाचरेत् ॥१०७॥एतेषां तु कुमाराणां कन्यकानां च पद्मजे ।अन्यान्यपि ह्यपत्यानि वच्मि नामक्रियादिकम् ॥१०८॥दन्ताकृष्टेः कन्यके द्वे विजल्पा कलहा तथा ।उभे क्लेशप्रदे शान्तिः कर्तव्या होमकर्मणा ॥१०९॥दूर्वांकुरान्मधुघृतक्षीराक्तान् बलिकर्मणि ।विक्षिपेज्जुहुयाच्चैवानलं मित्रं च कीर्तयेत् ॥११०॥तथोक्तेः कालजिहाख्यः पुत्रोऽसाधून् प्रबाधते ।परिवर्तसुतौ द्वौ तु विरूपविकृतौ रमे ॥१११॥तौ तु वृक्षाग्रपरिखाप्राकारांऽभोधिसश्रयौ ।गर्भहानिकरौ तस्माद् गर्भिणी नाऽभिरोहयेत् ॥११२॥वृक्षमट्टं परिखां च प्राकारं च महोदधिम् ।अङ्गधृगः सुतो लक्ष्मि पिशुनो नाम नामतः ॥११३॥सोऽस्थिमज्जागतः पुंसां बलमर्त्त्यजितात्मनाम् ।शकुनेः पञ्चपुत्राश्च श्येनः काकः कपोतकः ॥११४॥गृध्रश्चोलूक इत्येते श्येनो मृत्युप्रदो मतः ।कः कालकरश्चापि ह्युलूको राक्षसप्रदः ॥११५॥गृद्धो व्याधिप्रदश्चापि कपोतो यममार्गदः ।तस्य श्येनादयो यस्य निलीयेयुः शिरस्यथ ॥११६॥नरस्तद्वर्जयेद् गेहं कपोताक्रान्तमस्तकम् ।श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे रमे! ॥११७॥प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि ।स्वप्नेऽपि हि कपोतादेर्दर्शनं नहि शस्यते ॥११८॥गण्डप्रान्तरतेः पुत्रा राजस्वल्यनिवासिनः ।श्राद्धपर्वनिवासाश्च नाभिगच्छेत्तदा स्त्रियम् ॥११९॥गर्भहस्य सुतो निघ्नो मेहिनी चापि कन्यका ।प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा ॥१२०॥जायन्ते बालकास्तस्मान्मण्डुकाः कच्छपाः सृपाः ।पुरीषं वा भवत्येव तस्माद् गर्भवती सती ॥१२१॥श्मशानकटभूमिं चतुष्पथं वर्जयेन्निशि ।वृक्षच्छायां वर्जयेच्चोत्तरीयं न परित्यजेत् ॥१२२॥शस्यहस्य सुतश्चैकः क्षुद्रको हन्ति ऋद्धिकाम् ।अमंगल्यदिने वप्तुः क्षेत्रं फलति नैव ह ॥१२३॥नियोजिकायाः कन्याश्च मत्तोन्मत्ता प्रमत्तिका ।नवा चेति विशन्त्येता नाशाय सर्वदेहिनाम् ॥१२४॥अधर्माद्यैर्योजयन्ति परस्त्रीनरसंगमे ।विरोधिन्यास्त्रयः पुत्रा नोदको ग्राहकस्तथा ॥१२५॥तमःप्रच्छादकश्चेति ह्याचारवर्जिते गृहे ।पैशुन्यं कुरुते त्वाद्यो गृह्णाति ग्राहको हि तत् ॥१२६॥तृतीयस्तमसा क्रोधं जनयन्त्यतिदुःखदाः ।स्वयंहार्यास्त्रयः पुत्राश्चौर्येण जनिता रमे! ॥१२७॥सर्वहार्यर्धहारी च वीर्यहारी तथैव च ।अनाचारगृहे क्लेशगृहे वसन्ति ते सदा ॥१२८॥भ्रामण्याः काकजंघाख्यः पुत्रो धर्मविवर्जिते ।रमते गायति चापि भुनक्ति हास्यमेति च ॥१२९॥कन्यात्रयं च कुचहा व्यंजनहा च जातहा ।यस्या न क्रियते लोकः सम्यग् वैवाहिको विधिः ॥१३०॥कालातीतोऽथवा तस्या हरत्येका कुचद्वयम् ।वृद्धिश्राद्धमदत्वा च तथाऽनर्च्य च मातरम् ॥१३१॥विवाहितायाः कन्याया हरति व्यंजनं परा ।तृतीया त्वम्वग्निमध्ये विधूपे सूतिकागृहे ॥१३२॥अदीपशस्त्रमुसलेभूतिसर्षपवर्जिते ।प्रविश्य जातमपत्यं हरते तद्विनश्यति ॥१३३॥सा जातहारिणी नाम सुघोरा पिशिताशना ।तस्मात् सुरक्षणं कार्यं यत्नतः सूतिकागृहे ॥१३४॥स्मृतिहापुत्रको नाम्ना प्रचण्डश्चाऽत्तुकामनः ।लीकाश्च चण्डपुत्रास्ते सर्वे चाण्डालयोनयः ॥१३५॥लीकास्त्वधर्मवंशं वै वासयन्ति हरन्ति च ।बीजहा बीजनाशार्थं यतते शुद्धिवर्जिते ॥१३६॥विद्वेषिणीसुतौ पुंसामपकारप्रकाशकौ ।एकस्तु स्वगुणान् लोके प्रकाशयति पाप्यपि ॥१३७॥द्वितीयस्तु गुणान् मैत्रीं लोकस्थामपकर्षति ।इत्येते दौसहाः सर्वे यैः प्रजाः कष्टमाप्नुयुः ॥१३८॥तेषां शान्तिः प्रकर्तव्या तत्तद्बलिक्रियाऽर्हणैः ।मखै रौद्रैर्वैष्णवैश्च दैवैर्भौतैश्च चाण्डिकैः ॥१३०१॥हरेः सम्पूजनैर्भक्त्या व्रतैराराधनैरपि ।सतां सेवाविशेषैश्च चमत्कारिसदर्हणैः ॥१४०॥इत्येवं कथितं लक्ष्मि पाषानां पापनाशनम् ।शान्त्यादिकर्मभिश्चापि प्रसंगाद् रिष्टकानि च ॥१४१॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने धर्मवंशवर्णनमधर्मवंशवर्णनं दुःसहस्य निवासस्थानानि दुःसहवंशानामुपद्रवादिवर्णनमित्यादिनिरूपणनामा द्वापञ्चाशदधिकशततमोऽध्यायः ॥१५२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP