संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः १

द्वापरयुगसन्तानः - अध्यायः १

द्वापरयुगसन्तानः

अनादिश्रीकृष्णनारायणाय नमः

श्रीगणेशाय नमः

ॐ श्रीलक्ष्मीनारायणसंहिता

तृतीयः द्वापरयुगसन्तानः

श्रीनारायणीश्रीरुवाच-
ओं नमः श्रीपरब्रह्माऽक्षरातीताय चक्रिणे ।
परेशाय ध्वजशूलधनुश्चिह्नाय शार्ङ्गिणे ॥१॥
सर्वकान्ताय कान्ताय सर्वान्तर्यामिणे नमः ।
मुक्तबन्धाय हृद्याय नमः सर्वावतारिणे ॥२॥
यस्मात् सर्वमिदं जातं येन पुष्टिं प्रयाति च ।
यत्र स्थितं भवेदन्ते तस्मै कान्ताय ते नमः ॥३॥
यस्मात् सर्वे ह्यवताराः श्रीकृष्णाद्या भवन्त्यपि ।
कालो माया यदंशाश्च तस्मै कान्ताय ते नमः ॥४॥
याऽह वै सुखदालक्ष्मीः विश्वेश्वरसुता तव ।
प्रिया भूत्वाऽभवं नारायणीश्रीस्ते नमो नमः ॥५॥
अनन्ताः कन्यका जाता नारायण्यो हरेः प्रियाः ।
अनादिश्रीकृष्णनारायणाय ते नमो नमः ॥६॥
लक्ष्मीकान्ताय कान्ताय राधाकान्ताय ते नमः ।
माणिक्यावाहिने रमापतये ते नमो नमः ॥७॥
श्रीशायते पद्मावतीपतये च नमो नमः ।
ब्रह्मप्रियाशनाद्यानां पतये ते नमो नमः ॥८॥
षष्ठी या मनसा देवी तद्धवाय च ते नमः ।
दीपावलीनां पतये तलाजापतये नमः ॥९॥
कामधेनुप्रगोपायाऽऽर्जन्तीनां पतये नमः ।
क्रोधनेशाय च धरापुत्रीणां पतये नमः ॥१०॥
सूचीकान्ताय च वनदेवीजेशाय ते नमः ।
दामनीपतये कंकतालिकेशाय ते नमः ॥११॥
पितृकन्याप्रकान्ताय जनपितृसुतेशिने ।
पितृदासीश्वरायाऽपि बालकृष्णाय ते नमः ॥१२॥
रासातलीनां कान्ताय वासन्तिकेश ते नमः ।
सालमालीयनारीणामीश्वराय च ते नमः ॥१३॥
स्वस्तिकीनागकन्यानां पतये ते नमो नमः ।
नागिनीनां च पतये परमेशाय ते नमः ॥१४॥
शावदीनोप्रकान्ताय परेशाय च ते नमः ।
ऐन्द्रजालिककान्तानां पतये ते नमो नमः ॥१५॥
विद्यानाथाय च सरस्वतीशाय च ते नमः ।
लाक्ष्मणीशाय देवाय नाडिकेशाय ते नमः ॥१६॥
गान्धर्वीणां च पतये जुम्मसेम्लीश ते नमः ।
सान्तपनीवरायाऽपि सौरतीपतये नमः ॥१७॥
महाबालेश्वरीशाय चैलबीलेश ते नमः ।
दाक्षजावंगरीशाय चौष्णीशाय च ते नमः ॥१८॥
प्राचीनीनां पतये ते पिशंगीपतये नमः ।
सान्ताणरीश्वर कृष्ण शैबीनां पतये नमः ॥१९॥
थार्कूटस्थीप्रमदेश वीरजारीश ते नमः ।
शाक्त्यक्षीप्रमदानाथ पिशाचीश्वर ते नमः ॥२०॥
कालिमाशीश्वर कृष्ण दीनबन्धो च ते नमः ।
औरलकैतवीशाय क्राथकीपतये नमः ॥२१॥
पृथुपुत्रीस्वामिने ते चोष्ट्रालीपतये नमः ।
हांकारीस्वामिने जयकाष्ठजेशाय ते नमः ॥२२॥
तीराणीपतये नाथ चाल्वीनारीश ते नमः ।
जीनवर्द्धिसुतेशायाऽनाथानाथाय ते नमः ॥२३॥
प्रकीर्णप्रमदेशाय परमेशाय ते नमः ।
आल्पकैतवीकान्ताय पारीशानीश ते नमः ॥२४॥
इन्दुरायसुतेशाय मुद्राण्डीपतये नमः ।
गण्डभूपसुतेशाय लीनोर्णापतये नमः ॥२५॥
बार्हच्छारीस्वामिने ते बाललीनीश ते नमः ।
वारसिंहीस्वामिने ते रायगामीश ते नमः ॥२६॥
फैनतान्तवीकान्ताय स्तोकहोमीश ते नमः ।
काष्ठयानीस्वामिने ते कोलकीपतये नमः ॥२७॥
दैनमानीस्वामिने ते मम कान्ताय ते नमः ।
परेशाय नमो रायकिन्नटीपतये नमः ॥२८॥
रायकोटीस्वरीशाय नमस्ते परमात्मने ।
रायरणजित्पुत्रीश नमस्ते हरये नमः ॥२९॥
रायवाकक्षिकेशाय रायमारीशकेशिने ।
रायबालेश्वरीशाय रायलम्बारिकेशिने ॥३०॥
नमस्ते रायनवारिकेश श्रीपरमात्मने ।
रायहूण्डेशिकेशाय रायकूपेशिकेशिने ॥३१॥
कालीमण्डीस्वामिने ते वनजेलेशिकेशिने ।
पारावारपिबीशाय कोटिशेशाय ते नमः ॥३२॥
सतीशीशाय देवाय त्रेताकर्कशिकेशिने ।
आण्डजरास्वामिने ते बाल्यराजसीस्वामिने ॥३३॥
रायसोमनीस्वामिने ते सर्वेशाय नमो नमः ।
उरुगवाक्षिकेशाय पराङ्व्रतनिकेशिने ॥३४॥
रायस्वस्त्रीश ते कृष्णनारायण प्रभो नमः ।
ऐशानपानीश कान्त राजारायीश ते नमः ॥३५॥
मंगलादिप्रकान्ताय चाजनाभीश्वराय च ।
नमः कौबेरिकेशाय माहेन्द्रीपतये नमः ॥३६॥
यमीनां स्वामिने कृष्ण वायवीशाय ते नमः ।
वैश्वकर्मीस्वामिने ते वार्क्षीणां पतये नमः ॥३७॥
रौद्रीणां पतये वह्निपुत्रीणां पतये नमः ।
श्रावणीनां च पतये खानिजीशाय ते नमः ॥३८॥
सांवत्सरीस्वामिने ते गोपीनां पतये नमः ।
प्राचीनीनां स्वामिने ते पिशंगीस्वामिने नमः ॥३९॥
राशियानीश्वर रोमायनीश्वर च ते नमः ।
पारशीपतये कृष्ण धीवरीपतये नमः ॥४०॥
किन्नरीपतये कृष्णाऽमरीणां पतये नमः ।
गौरीणां पतये परीपतये ते नमो नमः ॥४१॥
आब्रिक्तीस्वामिने हारितीशाय ते नमो नमः ।
पातालीपतये स्वर्गीपतये ते नमो नमः ॥४२॥
अप्सरसां दिनेशाय ब्रह्मसरोऽधिशासिने ।
गान्धर्वीणां पतये ते कुशलेशाय ते नमः ॥४३॥
विद्यन्मणिस्वामिने ते भौमीनां पतये नमः ।
दानवीनां पतये ते शक्तीनां पतये नमः ॥४४॥
काशिकाकन्याकानाथ धेनुपालीश ते नमः ।
कान्ताकान्तेश सर्वेश मम प्राणेश ते नमः ॥४५॥
नमः श्रीकंभरापुत्र सन्तुष्टाऽनुज ते नमः ।
त्वया व्याप्तमिदं सर्वं सर्वान्तर्यामिणे नमः ॥४६॥
श्रीकृष्णायविष्णवेस्वामिने मत्पतये नमः ।
लक्ष्मीशेशस्त्वमेवर्षिसत्तमस्त्वं नृपोत्तमः ॥४७॥
त्वं यज्ञस्त्वं जाठरश्च तृप्तिदस्त्वं परेश्वर ।
प्राप्य त्वां त्वर्बुदाद्याश्च नार्यो मुक्तिं गतास्त्विह ॥४८॥
मुक्ताश्च मुक्तिमापन्ना नरा जाताः परार्धगाः ।
त्वां भजित्वा स्वः प्रयान्ति जनं सत्यं प्रयान्ति च ॥४९॥
त्वां भजित्वा च वैकुण्ठं वैराजक्ष्मां प्रयान्ति च ।
त्वां भजित्वाऽमृतलोकं गोलोकं च प्रयान्ति वै ।
अक्षरं परमं धाम त्वां भजित्वा प्रयान्ति हि ॥५०॥
भवता भगवन् सर्वं समाधौ दर्शितं हि नः ।
मे तदारभ्य जिज्ञासा वर्तते कालगोचरा ॥५१॥
आत्यन्तिके लये मुक्तमण्डलेषु विराजसे ।
प्राकृते पुनरारब्धे सर्गे कालेन नोदिते ॥५२॥
प्रधानपुरुषे जाते महाविष्णौ तथोद्गते ।
वैराजे च ततो जाते तथा जाते च वेधसि ॥५३॥
इदानींपरिपर्यन्तं कालः कियान् गतो वद ।
ज्ञातव्यं चाप्यधिकं चेद् विद्येत वद मे हरे ॥५४॥
यद्यहं ज्ञानपात्रं चेद् वद मे प्राणरक्षक ।
पृथ्व्यामिदानीं कालोऽपि कियानस्तीति मे वद ॥५५॥
पुरुषोत्तम एवाऽसि सर्वज्ञः साक्षगोचरः ।
त्वां विनाऽन्यो न वै शक्तो वक्तं भवेन्नरायण ॥५६॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कालसंख्यानमादरात् ।
वक्तुमशक्यमन्येन ज्ञातुं चाऽशक्यमित्यपि ॥५७॥
यदा नासीन्महामाया सृष्टिरूपा गुणत्रया ।
लीना मदिच्छारूपा सा यदासीदक्षरे पदे ॥५८॥
यदा नासीन्महाकालः पुरुषस्तत्प्रयोजनः ।
लीनश्चासीन्मदैश्वर्यरूपो मुक्तः स चाऽक्षरे ॥५९॥
तदाऽक्षरं परं धाम ममैवाऽसीन्न चेतरत् ।
ब्रह्मसृष्टिः केवला सा नैश्वरी जीवनी कुतः ॥६०॥
महाप्रलय एवाऽसौ बोध्यस्त्वया नरायणि! ।
मया चेक्षा कृता ह्येको बहु स्यां माययान्वितः ॥६१॥
तदा त्विच्छास्वरूपा सा माया प्रकाशमागता ।
दिव्या मुक्तानिका शक्तिर्मम सा तु गुणात्मिका ॥६२॥
कालाख्यः पुरुषश्चापि मया प्रकाशितस्ततः ।
ममैश्वर्यस्वरूपः स मुक्तो तयाऽन्वयं गतः ॥६३॥
युगलं तत्तु प्रकृतिपुरुषौ मदपत्यकौ ।
जातौ ताभ्यां मया त्वाज्ञा दत्ता सृष्ट्यर्थमेव ह ॥६४॥
ताभ्यां च जातमात्राभ्यां सृष्ट्यारंभः कृतः प्रगे ।
एकं सुयुगलं सृष्टं प्रधानपुरुषात्मकम् ॥६५॥
तेन सृष्टिः कृता महाविष्णुकोट्यर्बुदात्मिका ।
प्रधानपुरुषः सोऽयं सायं च व्यशनत्ततः ॥६६॥
रात्र्यन्ते च प्रगे कालप्रकृतिभ्यां पुनर्नवम् ।
युगलं सृष्टमेवाऽन्यत् प्रधानपुरुषात्मकम् ॥६७॥
सृष्टिं कृत्वा च सायं तद्विनष्टं पुनरेव ह ।
दिवसोऽयं महाकालकल्पः संप्रोच्यतेऽक्षरे ॥६८॥
सहस्रं तु महाकालकल्पानां वर्षमेककम् ।
प्रकृतेश्चापि कालस्य विद्यते तत्र सर्वथा ॥६९॥
एतादृशानि वर्षाणि पञ्चाशद् विगतानि वै ।
प्रकृतिपुरुषस्यैवैकपञ्चाशत्तु वत्सरम् ॥७०॥
वर्ततेऽद्याऽद्यदिवसं तावत्यः सृष्टयो गताः ।
ते पञ्चाशत्सहस्राणि प्रधानपुरुषा मृताः ॥७१॥
एकपञ्चाशत्सहस्राऽऽद्यः प्रधानपुरुषोऽस्ति वै ।
शृणु चाग्रेऽपि कालं वै नारायणीश्रि सर्जनम् ॥७२॥
अयं प्रधानपुरुषः प्रातरेव नवं नवम् ।
महाविष्णुं जनयति वैराजीसृष्टिकारकम् ॥७३॥
महाविष्णुः स वै सायं नश्यत्येव दिनान्तके ।
एवं सहस्रदिवसात्मकं वर्षं प्रधानकृत्। ॥७४॥
प्रधानपुरुषस्याऽस्य वै पञ्चाशत्समा गताः ।
तत् पञ्चाशत्सहस्राणि ते महाविष्णवो मृताः ॥७५॥
एकपञ्चाशत्तमेऽब्दे चाद्यस्य दिवसस्य वै ।
एकपञ्चाशत्सहस्राऽऽद्यो महाविष्णू राजते ॥७६॥
शृणु चाग्रेऽपि कालं वै नारायणीश्रि! सर्जनम् ।
महाविष्णुश्चाऽयमत्र प्रातरेव नवं नवम् ॥७७॥
वैराजं जनयत्येव वैधसीसृष्टिकारणम् ।
वैराजश्च स वै सायं नश्यत्येव दिनान्तके ॥७८॥
एवं सहस्रदिवसात्मकं वर्षं प्रविद्यते ।
महाविष्णोर्मम पितुर्गोपालकृष्णकस्य वै ॥७९॥
महाविष्णोश्चास्य तत्र वै पञ्चाशत्समा गताः ।
वै पञ्चाशत्सहस्राणि वैराजास्तत्सुता मृताः ॥८०॥
एकपञ्चाशत्तमेऽब्दे चाद्यस्य दिवसस्य वै ।
एकपञ्चाशत्सहस्राद्यो वैराजो विराजते ॥८१॥
शृणु चाग्रेऽपि कालं वै नारायणीश्रि! सर्जनम् ।
वैराजश्चाऽप्ययमत्र प्रातरेव नवं नवम् ॥८२॥
ब्रह्माणं जनयत्येव विष्णुरुद्रसमन्वितम् ।
स ब्रह्माऽपि सदा सायं नश्यत्येव दिनान्तके ॥८३॥
एवं सहस्रदिवसात्मकं वर्षं विराट्कृतम् ।
अस्य वैराजपुंसश्च पंचाशद्वै समा गताः ॥८४॥
ते पञ्चाशत्सहस्राणि ब्रह्माणस्तत्सुता मृताः ।
एकपञ्चाशत्तमेऽब्दे चाद्यस्य दिवसस्य वै ॥८५॥
एकपंचाशत्सहस्राद्यो वेधाश्च विराजते ।
शृणु चाग्रेऽपि कालं वै नारायणीश्रि! सर्जनम् ॥८६॥
वेधाश्चाप्ययमेवाऽत्र प्रातरेव नवं नवम् ।
आस्वर्गान्तं सृजत्येव सुरर्षिमानवादिकम् ॥८७॥
आस्वर्गान्तं च सायं वै नित्यं नश्यति तत्तथा ।
एवं सहस्रदिवसात्मकं वर्षं हि वैधसम् ॥८८॥
एकं कल्पसहस्रं तद् ब्रह्मणोऽब्दः प्रकीर्तितः ।
वेधसोऽस्य गताश्चापि तत्पञ्चाशत्प्रवत्सराः ॥८९॥
तत्पञ्चाशत्सहस्राणि त्रैलोक्यानि मृतानि वै ।
एकपञ्चाशत्तमेऽब्दे त्वाद्यस्य दिवसस्य वै ॥९०॥
एकपञ्चाशत्सहस्राद्यः कल्पो वाराहसंज्ञकः ।
वर्तते दिवसः सोऽयं चाद्यं युगचतुष्टयम् ॥९१॥
अयं चतुर्मुखश्चास्ते ब्रह्मा लोकपितामहः ।
ब्रह्मणो दिवसः कल्प इति नाम्ना कृतो मया ॥९२॥
वैराजस्य तु दिवसो महाकल्पः कृतो मया ।
महाविष्णोस्तु दिवसो महामहाख्यकल्पकः ॥९३॥
प्रधानपुंसो दिवसः कृतः प्राकृतकल्पकः ।
मायाकालस्य दिवसो महाकालाख्यकल्पकः ॥९४॥
तन्नाशे च महान् प्रोक्तो महाप्रलय एव ह ।
ब्रह्मा वर्षशतं चास्ते विराजोऽपि तथा निजम् ॥९५॥
महाविष्णुर्निजं वर्षशतं जीवति चेश्वरः ।
प्रधानपुरुषश्चापि निजं वर्षशतं तथा ॥९६॥
प्रकृतिपुरुषश्चापि निजं वर्षशतं ततः ।
तादृग्वर्षशतं महाप्रलयो वै निशात्मकः ॥९७॥
पुनः सृष्टिः पुनर्महाप्रलयश्चैवमेव ह ।
कृतं तन्त्रं मया श्रीनारायणीश्रि! प्रशाश्वतम् ॥९८॥
पुनर्महासृष्टिरेव महाप्रलयकः पुनः ।
ब्रह्मणो दिवसे चैके मनवश्च चतुर्दश ॥९९॥
उत्पद्यन्ते विलीयन्ते का तेषां गणना प्रिये! ।
एकं कल्पसहस्रं तु ब्रह्मणोऽब्दश्च यो मतः ॥१००॥
तदब्दाष्टसहस्रं तु ब्रह्मणस्तद्युगं स्मृतम् ।
एकं युगसहस्रं तु सवनं ब्रह्मणो मतम् ॥१०१॥
लक्षैकवारं त्रैलोक्यनाशे ब्रह्मा विनश्यति ।
लक्षैकवारं चाजस्य नाशे विराड् विनश्यति ॥१०२॥
लक्षवैराजनाशे च महाविष्णुर्विनश्यति ।
महाविष्णुलक्षनाशे प्रधानपुंविनाशनम् ॥१०३॥
प्रधानपुंलक्षनाशे प्रकृतिपुंविनाशनम् ।
इत्येवं कालगणना बोध्या त्वया नरायणि! ॥१०४॥
तासु तासु च सर्वासु सृष्टिष्वहं त्वया सह ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥१०५॥
प्रादुर्भवाम्यवतारी श्रीपतिः परमेश्वरः ।
अवतारा ह्यसंख्याता मे तत्र संभवन्त्यपि ॥१०६॥
अहं वेद्मि न चान्यस्तान् सर्वज्ञोऽहं न चेतरः ।
विदन्ति नाऽप्यवताराः पूर्वसृष्टिविदो हि ते ॥१०७॥
मा सन्देहं विधेह्यत्र मम दैर्घ्यं दुरन्तकम् ।
अधिकं पृच्छ जिज्ञास्यं कथयामि समासतः ॥१०८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नारायणीश्रीकृता पुरुषोत्तमस्तुतिः सृष्टिकालगणना चेत्यादिनिरूपणनामा प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : May 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP