द्वापरयुगसन्तानः - अध्यायः १७७
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
उक्तं मायोद्भवं सर्गं जानँल्लक्ष्मि न मुह्यति ।
सर्वतः पाणिपादो यः सर्वतोऽक्षिशिरोमुखः ॥१॥
सर्वतः श्रुतिमान् यश्च तं जानन् वै प्रमुच्यते ।
महाप्रभावः पुरुषोत्तमः सर्वहृदि स्थितः ॥२॥
सर्वेशानः सर्वज्योतिष्प्रदोऽच्युतः पुमुत्तमः ।
प्रसन्नः श्रीहरिश्चाऽहं मां ज्ञात्वा संप्रमुच्यते ॥३॥
विष्णुरेवाऽऽदिसर्गेऽहं स्वयंभूः शंकरोऽपि च ।
भवामिति च मां ज्ञात्वा मुच्यन्ते ब्रह्मभाविनः ॥४॥
अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम् ।
स्वाध्यायक्रतुसिद्धानां मम लोकः सनातनः ॥५॥
मम स्मरणमन्ता ये धीरा ब्रह्मपरा जनाः ।
क्रियाकरणनिर्लेपास्तेषां लोकः सनातनः ॥६॥
इन्द्रियाणि वशे यस्य विषयो रागवर्जितः ।
विशुद्धं च मनो यस्य बुद्धिरव्यभिचारिणी ॥७॥
ज्ञानं भक्तिर्यस्य पार्श्वे सेवा यस्मिन् सदा स्थिता ।
स तद्ब्रह्म शुभं याति ततो भूयो न जायते ॥८॥
दह्यं ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते ।
सर्वं मया कृतं चैवं विदित्वा सन्त्यजेत् ततः ॥९॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चापि पञ्चमी ।
पादौ पायुरुपस्थश्च हस्तौ वाग् दशमी तथा ॥१०॥
मन एकादशं चित्तमहं बुद्धिश्चतुर्दशी ।
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ॥११॥
अधिभूतं तत्र शब्दो दिशस्तत्राधिदैवतम् ।
पवनो द्वितीयभूतं त्वगध्यात्मं तु तत्र च ॥१२॥
स्प्रष्टव्यमधिभूतं च विद्युत् तत्राधिदैवतम् ।
तेजस्तृतीयं भूतं च चक्षुरध्यात्ममुच्यते ॥१३॥
रूपं तत्राऽधिभूतं च रविस्तत्राधिदैवतम् ।
जलं चतुर्थं भूतं च रसनाऽध्यात्ममुच्यते ॥१४॥
रसोऽधिभूतं तत्राऽथ चन्द्रमाश्चाधिदैवतम् ।
क्षितिर्भूतं पञ्चमं च घ्राणश्चाध्यात्ममुच्यते ॥१५॥
गन्धोऽधिभूतं तत्रैव वायुस्तत्राधिदैवतम् ।
पादावध्यात्ममित्येव गन्तव्यमधिभूतकम् ॥१६॥
अधिदैवतमेवात्र विष्णुरेव सनातनः ।
अर्वाग्गतिमदपानी पायुरध्यात्ममुच्यते ॥१७॥
विसर्गोऽधिभूतमेव मित्रस्तत्राऽधिदैवतम् ।
प्रजनः सर्वलोकानामुपस्थोऽध्यात्ममुच्यते ॥१८॥
शुक्रं रजोऽधिभूतं च दैवतं तु प्रजापतिः ।
हस्तावध्यात्ममेवाऽत्राऽधिभूतं कर्म चैव हि ॥१९॥
शक्रोऽधिदैवतं तत्र बोध्यमादानकारकम् ।
वैश्वदेवी च या पूर्वा वाक् साऽध्यात्ममिहोच्यते ॥२०॥
वक्तव्यमधिभूतं च वह्निस्तत्राऽधिदैवतम् ।
अध्यात्मं मन एवापि संकल्पश्चाधिभूतकम् ॥२१॥
चन्द्रमाश्चाधिदेवश्च मनोराज्यं हि तन्मतम् ।
अहंकारस्तथाऽध्यात्मं सर्वसंसारकारकः ॥२२॥
अभिमानोऽधिभूतं च रुद्रस्तत्राऽधिदैवतम् ।
चित्तमध्यात्ममित्येव वासुदेवोऽधिदैवतम् ॥२३॥
चिन्तनं चाधिभूतं च चिन्ता वै प्रलयंकरी ।
बुद्धिरध्यात्ममेवापि सर्वेषां महती प्रसूः ॥२४॥
अधिभूतं तु बोद्धव्यं ब्रह्मा तत्राऽधिदैवतम् ।
चतुर्थं दैवतानां च दैवतं परमेश्वरः ॥२५॥
सोऽहं सर्वनिवासोऽस्मि सर्वदेवाधिदैवतम् ।
एतज्ज्ञात्वा त्रयं त्यक्त्वा चतुर्थं तोषयेत् त्रिभिः ॥२६॥
चेतनस्तत्र फलभाङ् मुच्यते मत्प्रतोषणात् ।
गुणादिषु ह्यनासंगो ब्रह्मचर्या मदर्पणम् ॥२७॥
एतद् ब्रह्ममयं व्रतं चैकपदं सुखं परम् ।
तत्र स्थितश्चेतनोऽयं सर्वतो मुक्त एव सः ॥२८॥
कामानात्मनि संयम्य क्षीणतृष्णो मदर्पणः ।
सर्वभूतात्मदर्शी च ब्रह्मभूयाय कल्पते ॥२९॥
सर्वेन्द्रियनिरोधेन ह्यध्यात्माऽग्निः समिध्यते ।
प्रकाशते चिदात्मा च प्रसन्नात्मा प्रवर्धते ॥३०॥
स्वयंज्योतिः परज्योतिः सर्वतेजांस्यतीत्य सः ।
मायाचक्रं कालचक्रं कर्मचक्रं व्यतीत्य च ॥३१॥
जगत् सर्वमतिक्रम्य त्यक्त्वा दुस्त्यजपूरुषम् ।
ब्रह्म व्योम चिदाकाशं प्राप्नोति स्थानमूर्धगम् ॥३२॥
सर्वमायाविनिर्मुक्तस्ततो मुक्तेषु संस्थितः ।
ब्रह्मह्रदे कृतस्नानो दिव्यसजातिशोभनः ॥३२॥
सर्वज्ञ इव संशोभन् त्वेकधा बहुधा भवन् ।
मोदते चाक्षरे धाम्नि रमते स्वामिनि ध्रुवे ॥३४॥
तं मुक्ता विप्रसंघाश्चेश्वरा देवा महर्षयः ।
पितरो मानवा भूताः सदा स्तुवन्ति मुक्तये ॥३५॥
अहं ब्रह्मपरः स्वामी मत्तः परो न विद्यते ।
राजाधिराज सर्वेषां युक्तानां परमो हरिः ॥३६॥
साधवो रक्षिता येन मुक्ता भक्ताश्च रक्षिताः ।
तेऽस्मिंल्लोके प्रमोदन्ते सुखं प्रेत्य च भुञ्जते ॥३७॥
सन्न्यासी ज्ञानिभक्तो वै प्राप्नोति परमां गतिम् ।
निर्द्वन्द्वो भक्तिमान् स्नेही मयि मामेव गच्छति ॥३८॥
विमुक्तः सर्वसंस्कारैः सर्वद्वन्द्वविवर्जितः ।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥३९॥
चत्वार आश्रमाः सन्ति सर्वे गार्हस्थ्यजीविनः ।
गार्हस्थ्यान्तगमन वै श्रेयस्तत्र प्रतिष्ठतः ॥४०॥
सपत्नीकस्य तु पञ्चमहायज्ञा विमुक्तये ।
देवताऽतिथिशिष्टाऽशी विघसाशी न लिप्यते ॥४१॥
वैष्णवीं धारयेन्मालां दीक्षां भिक्षां मतिं स्त्रियम् ।
अधीत्य मां स्वकर्माणि कुर्वन्नपि विमुच्यते ॥४२॥
गृहस्थो वा निवृत्तौ वा य इच्छेन्मोक्षमात्मनः ।
अभयं सर्वभूतेभ्यो दत्वा नैष्कर्म्यमाचरेत् ॥४३॥
सर्वभूतसुखो मैत्रः सर्वेन्द्रिययतो मुनिः ।
हर्यर्पितस्वव्यापारः प्रयाति परमां गतिम् ॥४४॥
लाभेन यो न वै हृष्येन्नाऽलाभे विमना भवेत् ।
अभिपूजितलाभाद् यो जुगुप्सां याति मानसे ॥४५॥
असंरोधेन भूतानां प्रवर्तेत निरन्तरम् ।
प्रतिश्रयार्थं सेवेत निर्विघ्नां पार्वतीं गुहाम् ॥४६॥
पूताभिर्बुद्धिभिः कृष्णं नैजं कुर्वीत मोक्षवित् ।
विश्वास्यः श्रीहरेश्चाऽयं जायेत मोक्षमर्जयेत् ॥४७॥
गृहधर्माश्रितश्चापि विज्ञानिचरितं चरेत् ।
अमूढो मूढरूपेण चरेद् भक्तिं ममोत्तमाम् ॥४८॥
य एव व्रतसम्पन्नो मुच्यते सर्वबन्धनैः ।
ध्यायेन्मां कान्तमास्थाय मुच्यते नाऽत्र संशयः ॥४९॥
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते ।
इह लोकस्य एवापि ब्रह्मभूयाय कल्पते ॥५०॥
त्यक्त्वा गुणमयं सर्वं कर्म श्रीपरमात्मनि ।
स्नेहेन मयि संसक्तो मुच्यते नात्र संशयः ॥५१॥
उच्छ्वासमात्रमपि यो ह्यन्तकाले स्मरेद्धरिम् ।
स मां तदोपसंगम्य ह्यमृतत्वाय कल्पते ॥५२॥
निमेषमात्रमपि चेत् संयम्यात्मानमात्मनि ।
भजते मां मया दृष्टो ह्यमृतत्वाय कल्पते ॥५३॥
इह लोके जनाः केचिदिच्छन्ति धर्ममेव ह ।
केचिज्ज्ञानं च विज्ञानं केचिद्विरागमेव ह ॥५४॥
केचिद् देशं च वा कालं केचिद् दैवं वदन्त्यपि ।
केचित् स्नानं त्रिषवणं केचिदस्नानमित्यपि ॥५५॥
अन्ये त्वाहारमेवापि परे चानशनं तथा ।
कर्मण्येव रताश्चान्ये शान्तो रतास्तथाऽपरे ॥५६॥
केचिन्मुक्तिं प्रशंसन्ति केचिद् भोगान् पृथग्विधान् ।
केचिदर्थान् स्वर्णरूप्यान् केचित्तु निष्परिग्रहृम् ॥५७॥
उपासनं परे चापि केचिद् यज्ञपरायणाः ।
केचिद्धिंसामहिंसां वा पुण्यं व्रतं तथा परे ॥५८॥
तीर्थं चान्ये परे सेवामुपकारं तथेतरे ।
सद्भावं चापरे ध्यानं केचित्तपः प्रकुर्वते ॥५९॥
स्वाध्यायं पूजनं दानं चान्ये सत्यं वदन्त्यपि ।
सन्न्यासमपरे चापि भृगोः पातं तथाऽपरे ॥६०॥
त्यागं चान्ये विरक्तिं च गार्हस्थ्यं चाऽपरे तथा ।
अन्ये निर्द्वन्द्ववासं च तथाऽन्ये यावदर्पणम् ॥६१॥
सर्वे धर्मविशेषास्ते लक्ष्मि श्रेयःप्रदाः शुभाः ।
मम सम्बन्धयुक्ताश्चेन्मोक्षदाः सर्व एव ते ॥६२॥
मम योगेन हीनास्तु संसारकर्दमाऽर्पकाः ।
शुभं वाऽप्यशुभं मिश्रं यदर्ज्यते तु तैः कृतैः ॥६३॥
भोक्तव्यं चेह वाऽन्यत्र नाऽभुक्तं तद् विनश्यति ।
भोगार्थं देहसम्बन्धः संसारस्तेन वै ध्रुवः ॥६४॥
तेष्वेतेषु तु विज्ञानं निःश्रेय इति सर्वथा ।
भक्तिश्च मोक्षदा कृष्णे शाश्वती सुखकारिणी ॥६५॥
आशीर्युक्तानि कर्माणि चान्यानि कुर्वते तु ये ।
तेऽत्र लोके प्रमोदन्ते जायमानाः पुनः पुनः ॥६६॥
फलं त्यक्त्वा हरौ ये कुर्वते ते साधुदर्शिनः ।
उपभुंक्ते समस्तं सः किन्तु पुष्करपत्रवत् ॥६७॥
सवैर्भोगैः सुसम्पन्नो ह्यपि विद्वान्न लिप्यते ।
जलबिन्दुर्यथाऽसंगी पत्रस्थोऽपि न लिप्यते ॥६८॥
एवं चायं चिदात्माऽपि मय्यर्पितो न बध्यते ।
सर्वार्पणयुतो भक्तः प्रलिप्तोऽपि न लिप्यते ॥६९॥
सहस्रणापि दुर्मेधा न बोधमधिगच्छति ।
चतुर्थेनाप्यथांऽशेन बुद्धिमान् सुखमेधते ॥७०॥
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते ।
यावद् रथपथस्तावद् गन्तव्यं रथवर्ष्मणा ॥७१॥
क्षीणे रथपदे चाग्रे गन्तव्यं रथिनाऽऽत्मना ।
पदसृतौ च लीनायां गन्तव्यं हंसगामिना ॥७२॥
गरुडगामिना हस्तिगामिना व्योमगामिना ।
सर्वत्र गामिना चापि गन्तव्यं गुरुशार्ङ्गिणा ॥७३॥
यावज्जलं तु बाहुभ्यां नावा वाऽग्रे सरेद्ध्रदे ।
पारं प्राप्य ततो नावमुत्सृज्य यानतः सरेत् ॥७४॥
भूतलं सर्वमुल्लङ्घ्य विमानेनाऽग्रतः सरेत् ।
विमानस्याऽविषये तु विष्णुना सह सञ्चरेत् ॥७५॥
विष्णोरप्यविषये तु मुक्तैः सहाऽग्रतः सरेत् ।
मायामयं समुत्सृज्य मुक्तो गच्छेत्परां गतिम् ॥७६॥
तप ओषधमुत्कृष्टं विद्या मात्रा तथोत्तमा ।
भक्तिरसः पुष्टिकृच्च तैः पुष्टो याति मत्पदम् ॥७७॥
यद्दुरापं च दुर्दृश्यं दुराधर्षं दुरन्वयम् ।
तत्सर्वं तपसा साध्यं सेवया कृपया च मे ॥७८॥
ध्यानयोगेन शुद्धेन भक्त्या प्रेमाढ्यया तथा ।
आप्नुवन्ति महात्मानो मदीयं लोकमुत्तमम् ॥७९॥
मम ध्यानं ध्रुवं कृत्वा प्रसन्नमतयो जनाः ।
शाश्वतानन्दसम्पूर्णं मां प्रयान्त्यात्मदर्शिनः ॥८०॥
कर्म वै मरणं प्रोक्तं नैष्कर्म्यममृतं मतम् ।
य एवममृतं नित्यं शाश्वतं चाऽक्षरं सुखम् ॥८१॥
वश्यमात्मस्थमास्वाद्य मां वेद न मृतो भवेत् ।
अमृताशनमासाद्याऽमृतो भवति मुक्तराट् ॥८२॥
व्यतीत्य सर्वसंस्कारान् संयम्यात्मानमात्मनि ।
परब्रह्म विदित्वाऽत्र परत्र तत्पदं व्रजेत् ॥८३॥
प्रसादे खलु सत्त्वस्य साधुसेवारतिर्भवेत् ।
प्रसादं प्राप्य साधूनां साधुपतिं लभेद्धरिम् ॥८४॥
विज्ञानपरिनिष्ठानां मुक्तानां गतिरीदृशी ।
विरक्तानां च भक्तानां गतिरेषा सनातनी ॥८५॥
भक्तिमतां गृहस्थानां सैव गतिः सनातनी ।
इत्येवं लक्ष्मि ऋषिराट् सद्विद्यायननामकः ॥८६॥
श्रुतिफलां बहुकथां कथयामास मुक्तये ।
श्रुतिफला तु पप्रच्छ कथं बन्धे प्रतिष्ठसे ॥८७॥
विद्यायनस्ततः प्राह धर्मो ह्येष युगार्थिनः ।
अपि कीटपतंगानां मृगाणां पक्षिणामपि ॥८८॥
सरीसृपाणां धर्मोऽयं पत्न्यास्तु भरणं प्रिये ।
स्त्रियो रक्ष्याश्च पोष्याश्च न त्याज्या ग्रहणोत्तरम् ॥८९॥
प्रपतेद् यशसो दीप्ताद्धर्मात् स्त्रीत्यागवान् प्रिये ।
धर्मकामार्थकार्याणि शुश्रूषा कुलसन्ततिः ॥९०॥
सर्वं पत्न्यधीनकं तद् गृहस्थस्य सदा प्रिये ।
अतोऽहं तव बन्धेऽस्मि विवाहिता यतो ह्यसि ॥९१॥
न वेत्ति भार्याधर्मं यः स्वधर्मं दम्पतीभवम् ।
अयशो महदाप्नोति नरकाँश्चैव गच्छति ॥९२॥
एवमेव च नारीणां पतिर्धर्मः परो मतः ।
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं सदा ॥९३॥
पालनाद्धि पतिः प्रोक्तो भर्ता च भरणादपि ।
पुत्रदानाद् वरदश्च पतिर्धर्मः परो मतः ॥९४॥
इत्येवं सुकृतं मन्ये तस्माद् बन्धे भवाम्यहम् ।
भवती परिपाल्या मे सर्वदैव प्रयत्नतः ॥९५॥
सतां नित्यं कांक्षितं यन्नैजानां परिपालनम् ।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत् सदा ॥९६॥
सा त्वं पुत्रवती भूत्वा ऋणान्मां परिमोचय ।
इत्युक्ता ज्ञाननिरता नैष्कर्म्यमपि बोधिता ॥९७॥
दिव्यतां प्रति गमिता कल्पयामास सत्सुतम् ।
मानसस्तत्र वै द्राक् च पुत्रस्तस्या व्यजायत ॥९८॥
निर्वाणाख्यः शाश्वतो वै दीक्षितः सहसा तया ।
पित्रा चाप्युपनीतश्च ववृधे बोधदायकः ॥९९॥
निर्मोहिनीं शुभां कन्यां वैखानससुतां शुभाम् ।
परिणेमे ततो लक्ष्मि श्रुतिफलायुतः पतिः ॥१००॥
सद्विद्यायनऋषिराट् कृत्वा समाधिमुत्तमम् ।
ययौ ब्रह्मपदं दिव्यं मम धाम परं सुखम् ॥१०१॥
पठनाच्छ्रवणाच्चास्य मननाद्धारणादपि ।
निर्बन्धो जीववान्मुक्तो भवत्येव न संशयः ॥१०२॥
सहस्रशो जनान्नारीः स्वकीयशरणागतान् ।
भुक्तान् कर्तुं समर्थः स्यान्मुक्तिधर्मादरो हि यः ॥१०३॥
भोगान् भुक्त्वापि सततं ज्ञानवैराग्यवान् भवेत् ।
मायाशिरसि चरणौ दत्वा यात्यक्षरं मम ॥१०४॥
इष्टलाभान् प्रलब्ध्वैव परं मोक्षप्रदं व्रजेत् ।
नार्यपि मुक्तिधर्माढ्या दिव्या नारायणी भवेत् ॥१०५॥
जीवन्मुक्ता भवेदत्र सर्वभोगवती ह्यपि ।
देहान्ते परमं धाम गन्त्री मे कृपया भवेत् ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽध्यात्माऽधिभूताऽधिदैवाधिदैवतादिनिरूपणनामा सप्तसप्तत्यधिकशततमोऽध्यायः ॥१७७॥
N/A
References : N/A
Last Updated : May 05, 2021
TOP