संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ९७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ९७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९७ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-किं कर्तव्यं मानवेन लोकव्यायामशालिना ।देहयात्रां लोकयात्रां किंधर्मः सन् विभावयेत् ॥१॥श्रीपुरुषोत्तम उवाच-द्रोहं विहाय स्तैन्यं च त्यक्त्वा व्यवायमित्यपि ।त्यक्त्वा कायेन पापानि श्रेष्ठं सर्वं समाचरेत्। ॥२॥ग्राम्यवार्ता च पारुष्यं पैशून्यं च मृषावचः ।वाचा चत्वारि सन्त्यज्य सत्यं संव्याहरेत् सदा ॥३॥परस्वानामनाकांक्षां सर्वदेहिषु मित्रताम् ।कर्मफलादावास्तिक्यं मनसा धारयेत् सदा ॥४॥वासना नोद्भावयेच्च तृष्णां त्यजेत् परिग्रहम् ।भयदं च विहायैवाऽऽत्मना साधुं समाश्रयेत् ॥५॥सर्वस्वार्पणमासाद्य नवधाभक्तिमाचरेत् ।प्रेम्णा ध्यानेन मां लब्ध्वा व्रजेत्तु परमं पदम् ॥६॥एवं सदाऽऽचरेच्छ्रेष्ठं शुभं हितं च सत्फलम् ।अशुभं विपरीतं च नाऽऽचरेत्तु कदाचन ॥७॥मातुः सेवां पितुः सेवां पत्युः सेवां स्त्रियास्तथा ।गुरोः सेवां गवां सेवां कुर्याद् वृद्धस्य सेवनम् ॥८॥देवसेवां सतां सेवां सतीसेवां समाचरेत् ।आतिथ्यं च परोपकारादिकं चाचरेत् सदा ॥९॥भजनं मे प्रकुर्याच्च दीनसेवां समाचरेत् ।लोकसेवां राष्ट्रसेवां प्रजासेवां समाचरेत् ॥१०॥तीर्थसेवां ब्रह्मसेवां मोक्षसेवां समाचरेत् ।शृणु लक्ष्मि पुरा तीर्थं प्रसेव्य साधुमण्डलम् ॥११॥आलम्बायनसंज्ञश्च महर्षिर्मोक्षमाप्तवान् ।सिंहारण्ये महातीर्थे गोकर्णे ऋषिराट् स्वयम् ॥१२॥लक्षवर्षाण्यवसत् सः साधूनां सेवया सुखी ।दशवर्षोऽभवद् यावत्तावत् सौराष्ट्रदेशजः ॥१३॥केशरिणीं निजां नत्वा प्रसूं प्राह स बालकः ।मातर्मे जायते चेच्छा सतां समागमे मुहुः ॥१४॥अनित्यः खलु संसारो मानुष्यं दुर्लभं तथा ।हरेर्भक्तिर्दुर्लभा च दुर्लभः सत्समागमः ॥१५॥गृहं च वाटिका पत्नी बान्धवाश्च धनान्यपि ।गावो भृत्याश्च सुलभाः परं बन्धनकारिणः ॥१६॥दुर्लभाः साधवो भक्तिर्नारायणाश्रयस्तथा ।मोक्षोऽपि दुर्लभो मातः साधयेत्तान् पुमान् बुधः ॥१७॥एवं मे वर्तते बुद्धिर्यथा शाधि करोमि तत् ।माता प्राह सुतं धन्यो वर्तसे त्वं हि देवता ॥१८॥आबाल्यात्ते तु संकल्पा विवेकसंभृताः सुत! ।धन्याऽहं जननी तेऽपि पिता धन्योऽपि ते सुत! ॥१९॥यत्पुत्रो भगवद्भक्तिं कर्तुमिच्छसि सेवनम् ।सतां मोक्षमवाप्तुं च मतिस्ते धन्यपात्रिणी ॥२०॥अद्य पुत्र समाकर्ण्य पारमेश्वरमुत्तमम् ।विवेकं ते बहुपुण्या भवामि मोक्षकांक्षिणः ॥२१॥संकल्पास्ते भवन्त्येव पूर्णा भक्तौ हरेः शुभाः ।सेवायां च सतां पुत्र नैर्विघ्न्यं ते सदाऽस्तु च ॥२२॥बाल्यक्रीडादिकं त्यक्त्वा त्यक्त्वा युवत्वकल्पनाम् ।रागादिकमनादृत्य मोक्षे बुद्धिस्तवाऽस्ति यत् ॥२३॥प्रसन्नाऽहं मम पुत्र तारकोऽसि कुटुम्बिनाम् ।मानुषं जन्म मोक्षार्थं तदन्यानि भवाब्धये ॥२४॥भवाब्धिदानि सन्त्यज्य सफलीकुरु मानवम् ।विनिवेद्य जनकाय लब्ध्वाऽऽज्ञां पारगामिनीम् ॥२५॥याहि चाऽपुनरावृत्तिलाभाय सत्पदालयम् ।यत्र ते साधवो धीरा श्रूयन्ते ब्रह्मपारगाः ॥२६॥निर्गुणा ब्रह्मगुणका मोक्षदा याहि तत्र वै ।स्मर मा मां प्रसूं क्वापि पितरं बान्धवान् गृहम् ॥२७॥बन्धनानि विचित्राणि जन्मभुवं सखींस्तथा ।मा स्मर विषयान् पुत्र मा ध्यानं देहि लौकिके ॥२८॥मा प्रवाहे रसानां चाऽऽस्वादानां पत कर्हिचित् ।मा प्रसंगं विषयाणां क्वापि ते पुत्र जायताम् ॥२९॥मोक्षमार्गश्च ते पुत्र निर्विघ्नोऽन्तं प्रवर्तताम् ।मानवस्य तु देहस्य सत्सेवायां समर्पणम् ॥३०॥सदैव कुरु पुत्र त्वं निःश्रेयः शुभमाप्नुयाः ।अन्ते नारायणप्राप्तिस्तेऽस्तु धाम्नि निवासिता ॥३१॥पितरं ब्रह्मतारं ते पृष्ट्वा याहि शुभं कुरु ।इत्युक्त्वा पुत्रमूर्धानमजिघ्रद् धन्यमानसा ॥३२॥भोजनं कारयामास धैर्यं चोग्रं ददौ प्रसूः ।त्यागाश्रमार्थं पुत्रायाऽप्रेषयत् पितरं प्रति ॥३३॥पुत्रो ययौ तु पितरं सुखासीनं ननाम च ।सर्वं निवेदयामास ब्रह्मताराय योगिने ॥३४॥ब्रह्मतारोऽपि विप्रो वै प्राह पुत्रं शुभात्मकम् ।अहो धन्योऽस्मि सततं यद्गृहे पुत्र ईदृशः ॥३५॥भगवद्भक्तितानश्च साधुसत्संगमानसः ।अभोगो भोगकामादिरहितो बाल्यतः शुभः ॥३६॥पूर्वपुण्येन वै पुत्रो जायते भक्तिमान् व्रती ।साधुर्विरागवाँश्चापि नैष्ठिकश्चौर्ध्वशीलवान् ॥३७॥भज पुत्र हरिं नित्यं प्रसेवय सतोजनान् ।गोकर्णे तीर्थके गत्वाऽऽत्मानं मोक्षे निवेशय ॥३८॥सफलं श्रेष्ठफलकं मानवं वर्ष्म संकुरु ।पुत्रवानस्मि पुत्रेण त्वादृशेन सुयोगिना ॥३९॥शतजन्मकृतं पुण्यं यदोदेति तदा भवेत् ।जिज्ञासा मोक्षमार्गे वै साधुसेवापथेऽपि च ॥४०॥बन्धनं तु दृढं सेवात्मकं कुटुम्बिबन्धुषु ।छित्वा शूरो भवेत् कश्चिन्मोक्षसंगरसंप्लुतः ॥४१॥कीटे पतंगके देवे दानवे मानवे खगे ।सरीसृपे पशौ सिद्धे ऋषौ भोगाः समाः खलु ॥४२॥त एव वारिजाः क्लेदा भौतिकास्ते प्रभोजनाः ।इन्द्रियाणि समानानि प्राणास्तुल्याश्च वायुजाः ॥४३॥दिवसाश्च समाना वै प्रयान्ति देहिनां तथा ।निद्रालवो यतन्ते न मोक्षार्थं दैववर्जिताः ॥४४॥निरयार्थास्त एवाऽत्र परत्र सन्ति निर्मिताः ।मोक्षः पुमर्थ आत्मार्थोऽन्ये देहार्था न मुक्तये ॥४५॥त्रिराशीन् यः समुत्तीर्योत्तरे तूर्ये विशेत्तु वै ।स एव देव एवाऽत्र चेश्वरः सोऽपि मुक्तराट् ॥४६॥स एव कृतकृत्योऽस्ति साधुरेवाऽस्ति सोऽपि च ।नारायणः स एवाऽस्ति तारको गुरुरेव सः ॥४७॥दुर्जयं कामसंकल्पं दुर्जेयं स्त्रीधनादिकम् ।दुर्जेयं मानसं स्वस्य दुर्जया वासना तथा ॥४८॥तृष्णा चापि च दुर्जेया जिता त्वया कृतात्मना ।जितं येनाऽत्र शिश्नं च रसना येन सञ्जिता ॥४९॥मनोराजो जितो येन सर्वं जितं जितात्मना ।प्राप्नुहि विजयं पुत्राऽसारे मायामये द्रुतम् ॥५०॥प्राप्नुहि विजयं परे ब्रह्मण्यपि सनातने ।श्रेयस्तेऽस्तु शुभं तेऽस्तु प्रमोदस्तेऽस्तु सूत्सवः ॥५१॥शाश्वतानन्दमग्नश्च भव मुक्तो हरेः पदे ।त्वां दृक्ष्याम्यक्षरे धाम्नि युक्तमण्डलमध्यगः ॥५२॥पत्नीयुतो हि त्वां पुत्र नारायणस्वरूपिणम् ।इत्युक्तः कृततिलकः कृतस्नेहः सुतोऽपि च ॥५३॥नत्वा पित्रोः पादजलं पीत्वा कृत्वा च मंगलम् ।भ्रातृशतं तथा नत्वा ययौ गोकर्णतीर्थकम् ॥५४॥हरे कृष्ण हरे विष्णो हरे कृष्णनरायण ।हरे राधापते लक्ष्मीपते हरे हरे प्रभो ॥५५॥इत्येवं भजनं कुर्वन् करतालेन वै ततः ।पद्भ्यां ययौ जालिकातः सोमनाथं सुतीर्थकम् ॥५६॥भवनाथं शरभं च सतीतीर्थं ततो ययौ ।ततस्तीर्थं च गोकर्णं विष्णुं पुपूज सादरम् ॥५७॥दिव्यकर्णाभिधं नारायणं नत्वा ततो ययौ ।स्वर्गलक्ष्मीमहातीर्थं ततो ब्राह्मीं महानदीम् ॥५८॥ततो गोकर्णशंभुं च ऋषिवासाँस्ततो ययौ ।नारिकेलद्रुमाणां स वने वासं ततोऽकरोत् ॥५९॥आराधनां हरेश्चक्रे साधुसेवां चकार सः ।जपं चकार मे नाम्नां कृष्णनारायणप्रभो ॥६०॥भजनं प्रचकारैवं सततं मां स्मरँस्तथा ।सतां भिक्षान्नलाभेन देहयात्रां न्यवर्तयत् ॥६१॥नवाऽयुतसमाश्चासीद्भिक्षान्नपरिपोषकः ।ततः सहस्रवर्षाणि कन्दमूलाऽशनोऽभवत् ॥६२॥पञ्चसाहस्रवर्षाणि ततः शुष्कदलाशनः ।अथाऽभवत्ततो वाय्वाहारोऽतिष्ठत् समाधिगः ॥६३॥आत्मानमात्मनि ध्यायन् युयुजे परमात्मना ।लक्षवर्षे प्रयाते तु सम्पूर्णे चाम्बरात्ततः ॥६४॥विष्णोर्विमानमायातं पार्षदैर्दिव्यशोभनैः ।सहितं तद्विलोक्याऽयमालम्बायनसाधुराट् ॥६५॥विहाय भौतिकं तूर्णं दिव्यदेहोऽभवत्तदा ।चतुर्भुजः शंखचक्रगदापद्मादिचिह्नकः ॥६६॥विष्णोः पार्षदवर्यश्च नत्वा ऋषिगणान् मुनिः ।ययौ धाम हरेकृष्ण वदन् विस्मापयन् जनान् ॥६७॥अथ प्रयाणे ऋषयश्चाऽस्तुवन् तं मुनीश्वरम् ।अस्मान्नय महाभक्त धाम वैकुण्ठमुत्तमम् ॥६८॥स चाह ऋषयः सर्वे सज्जा भवन्तु सत्वरम् ।गत्वा वैकुण्ठमेवाऽहं चागच्छामि विमानकैः ॥६९॥सहितो भवतो नेतुं पृष्ट्वा विष्णुं नरायणम् ।ओमित्युक्तश्च ऋषिभिर्ययौ तूर्णं हरेर्गृहम् ॥७०॥पार्षदैः सत्कृतश्चाऽयं विमानादवतारितः ।वैकुण्ठे दिव्यसौधाग्र्ये न्याविशत् सौधमुत्तमम् ॥७१॥अदृष्ट्वा श्रीहरिं सौधे तूर्णं विनिर्ययौ बहिः ।मार्गयामास तं सौधं यत्राऽऽस्ते श्रीनरायणः ॥७२॥गत्वा कृत्वा दण्डवच्च पूजां चकार वै हृदा ।जय नारायणकृष्णेत्युवाचाऽपि पुनःपुनः ॥७३॥नेत्राश्रूणि मुमोचाऽपि गद्गदश्चाऽभवत्क्षणम् ।पपात पादयोर्विष्णोः पपौ पादाऽमृतं ततः ॥७४॥स्वागतेन हरिणाऽसौ पृष्टो जगाद हृद्गतम् ।कृपया ते प्रभो प्राप्तश्चरणौ शाश्वतौ मुदा ॥७५॥गोकर्णे निवसन्तश्च मुनयो ये तपोधनाः ।प्रयाणकाले मामाहुः सहयानाय धाम ते ॥७६॥मया त्वभिहितं चास्ते गत्वा त्वायामि सर्वथा ।आज्ञां हरेः समादाय सज्जा भवन्तु सर्वशः ॥७७॥इत्युक्तास्ते प्रतीक्षन्ते वैकुण्ठागमनं प्रति ।यद्याज्ञा ते भवेद् यामि चानयामि तवाऽन्तिकम् ॥७८॥नारायणस्तदा प्राह योग्यं भक्त त्वया कृतम् ।परं निबोध मे किञ्चित् सारात् सारतरं परम् ॥७९॥मम भक्तिं विना स्यान्न वासो वैकुण्ठके मम ।गोकर्णे सन्ति ऋषयस्तपोद्रव्यास्तपःप्रियाः ॥८०॥मनोनिग्रहवन्तश्चेन्द्रियनिग्रहिणस्तथा ।आत्ममात्ररता नित्यं ज्ञानमात्रपरायणाः ॥८१॥व्रतमात्रपराश्चाति बहवो रागवर्जिताः ।योगक्रियापराश्चापि शुष्कतपसिवर्तिनः ॥८२॥मम भक्तिविहीनास्ते विना वै मदुपासनम् ।कथमर्हा भवेयुश्चागमार्थं मम धाम ते ॥८३॥अभक्तानां न वैकुण्ठं यद्यपि तपतां सदा ।कर्मठानां न वैकुण्ठं ह्यनाराधनवेदिनाम् ॥८४॥मम धामाऽऽगमे हेतुः स्नेहभक्तिः सदा मम ।मम भक्तस्य वै सेवा मयि चात्मनिवेदिता ॥८५॥ध्यानं मे भजनं चापि कीर्तनं सततं मम ।तपसां च व्रतानां च दानानां मयि चाऽर्पणम् ॥८६॥सर्वकर्मार्पणं चापि दीक्षाया ग्रहणं मम ।मम मन्त्रस्य दिव्यस्य ग्रहणं कारणं तथा ॥८७॥ममाऽऽराधनमेवापि वैकुण्ठागमने यतः ।अपक्वा ये योगिनस्ते तपन्ति चिरकालिनः ॥८८॥दशलक्षसमाः केचित् केचिल्लक्षसमास्तथा ।अन्ये बहुयुगाः सन्ति सहस्रशश्चिरायुषः ॥८९॥याहि तेभ्यः प्रदेह्येनं मन्त्रं मोक्षप्रदं मम ।दीक्षां दत्वा नामसत्रं प्रवर्तय महामखम् ॥९०॥'अनादिश्रीकृष्णनारायणो मे शरणं पतिः' ।मन्त्रमेतं प्रदत्वाऽथ दीक्षां देहि प्रसात्त्विकीम् ॥९१॥कण्ठे तु तौलसीं कण्ठीं मालां च जपमालिकाम् ।तिलकं चन्द्रकं चापि चक्राद्यंकनमित्यपि ॥९२॥'अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।राधालक्ष्मीपते कृष्णनारायण विभो प्रभो' ॥९३॥एवं सततं साधूनां कीर्तनं सम्प्रकारय ।दिवानिशं महायज्ञं तत्र तिष्ठन्तु दीक्षिताः ॥९४॥येषामाराधना पूर्णा भक्तिः पूर्णा भविष्यति ।तानहं नित्यदा नैजविमानेन सुवर्चसा ॥९५॥समानेष्ये हि वैकुण्ठं याहि सत्रं प्रवर्तय ।इत्युक्तो भक्तराट् नत्वाऽऽलम्बायनो हि पार्षदः ॥९६॥आययौ दिव्यदेहेन विमानेन पुरालयम् ।गोकर्णं तेजसा तूर्णं प्रकाशितं तदाऽभवत् ॥९७॥दुद्रुवुः संभ्रमयुक्ताः ऋषयस्तं तु पार्षदम् ।सज्जीभूतान् सतो नत्वाऽऽदिदेश विष्णुभाषितम् ॥९८॥नामसंकीर्तनसत्रं कुर्वन्त्वत्र सुदीक्षिताः ।ऋषयोऽपि तथा चक्रुर्वैकुण्ठलब्धये शुभाः ॥९९॥विविदुस्ते च माहात्म्यं भक्तेः श्रेष्ठं तपोबलात् ।भक्ता भूत्वा दीक्षिताश्च लब्ध्वा ते जपमालिकाम् ॥१००॥सवाद्यकीर्तनं चक्रुर्दिवानिशं हि मुक्तये ।लक्षशो मुनयश्चापि प्रजालोकास्तथाऽपरे ॥१०१॥श्रुत्वा तत्कीर्तनं तत्र मिलित्वा भजनं व्यधुः ।तत्तीर्थं वैकुण्ठसत्रनाम्ना ख्यातिं गतं ततः ॥१०२॥मासान्ते ये भक्तिपक्वा जातास्तेषां कृते हरिः ।आययौ स्वविमानेन लक्ष्मीश्रीसहितः प्रभुः ॥१०३॥निन्ये सहस्रसाधूँश्च वैकुण्ठे परमेश्वरः ।एवं मासान्तरान्ते च त्रिमासान्तेऽपि काँश्चन ॥१०४॥चतुष्पंचादिमासान्ते निन्ये लक्षजनान् हरिः ।पक्वाः पक्वाः प्रभूत्वा च ऋषयो यान्ति धाम ते ॥१०५॥गोकर्णस्थाः साधवस्ते वर्षान्ते सर्वशो गताः ।वैकुण्ठं परमं धाम महाश्चर्यमभूद्धि तत् ॥१०६॥नामसत्रं समारभ्य देवाद्या मानवास्ततः ।गोकर्णे तीर्थके यान्ति वैकुण्ठं परमेश्वरम् ॥१०७॥इत्येवं कथितं लक्ष्मि भक्तिमाहात्म्यमुत्तमम् ।साधोः संगेन भगवान् कारयित्वा तु कीर्तनम् ॥१०८॥पावयित्वा तापसाँश्च निन्ये धामोत्तमं निजम् ।वर्षान्ते साधुरेवाऽयं नामसत्रं समाप्य च ॥१०९॥ययौ धाम हरेर्दिव्यदेहो दिव्यविमानगः ।कोटिशः साधवस्तत्र सिंहाऽरण्ये ततोऽभवन् ॥११०॥विष्णुधामसमं धाम गोकर्णं तदभून्महत् ।एवं लक्ष्मि सतां सेवा फलत्येव चिरेण ह ॥१११॥सत्संगोऽपि फलत्येव चिरेणाऽपि नृजन्मनाम् ।तस्मात् सतां सुसत्संगः कर्तव्यः फलदो भवेत् ॥११२॥पठनाच्छ्रवणादस्य स्मरणान्मुक्तिदोऽपि च ।सत्संगयोगो भवति लक्ष्मि शाश्वतमोक्षदः ॥११३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने लोकव्यायामशालिभिरपि सत्संगेन मुक्तिर्लभ्यते तापसैरपि तथेत्यर्थे आलम्बायनसाधोः संगेन लक्षाधिलक्षमानवानां गोकर्णे मुक्तिप्राप्तिरित्यादिनिरूपणनामा सप्तनवतितमोऽध्यायः ॥९७॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP