संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-एवं नारायणीश्रि! स्वसदृशं च परेश्वरम् ।स्त्रीभूतं समलोक्यैवाऽऽश्चर्य नार्यो गतास्तदा ॥१॥दृष्ट्वा नारायणीद्वन्द्वं राधाद्वन्द्वं समानकम् ।सेवाऽर्हं स्पृश्यमेवापि सिषेविरे सतीस्त्रियः ॥२॥सर्वास्ता ब्रह्मचारिण्यस्तत्रोत्सवे हरिं स्त्रियम् ।सर्वभावैर्योग्यसेवाप्रकारैर्वै सिषेविरे ॥३॥समायाताः स्त्रियः सर्वा नरपूर्वाः समन्ततः ।समाजश्चाऽभवन्मन्दाकिन्यास्तीरे ह्यसंख्यकः ॥४॥स्त्रीसमाजे स्त्रीस्वरूपश्चाऽहं तत्र विराजितः ।नारीभिश्चार्थितश्चाहं स्त्रीभावमोचनं प्रति ॥५॥वयं नार्यो नरपूर्वाः सुदर्शन्याः प्रशापतः ।जाताः स्मोऽत्र विना दोषं दुष्टदैत्यादिदोषतः ॥६॥दुष्टराजन्यदोषैश्च सतीधर्षणपापकैः ।निर्दोषा अपि भूवासा नरा नारीत्वमागताः ॥७॥सुदर्शन्या भक्त्या ते दण्डोऽतिक्रमितः कृतः ।तस्मात् कृत्वा कृपां कृष्ण पतीन्नो देहि पुंतनुम् ॥८॥नार्योऽपि नैसर्गसिद्धा अर्थयामासुरित्यपि ।पतीन्नो देहि भगवन् बालान् बालात्मकान् कुरु ॥९॥पूर्वनरान् विधेह्यत्र नरान्नृलोकवासिनः ।हरिश्चाहं च तत्छ्रुप्वा जगाद् स्त्रीसमाजके ॥१०॥भक्ताऽग्रेऽहं पराधीनो भक्तोक्तं लंघयामि न ।सुर्द्शनीं याचमानो मिलित्वा स्त्रीजना वयम् ॥११॥इत्यहं समुपादिश्य समाजे चोत्थितोऽभवम् ।समाहूतां समाजे च सुदर्शनीं तदाऽवदम् ॥१२॥भक्ते ब्रह्मपरे साध्वि! महैश्वर्यसमन्विते! ।दुष्टानां दण्डनं युक्तं रक्षणं स्वव्रतस्य च ॥१३॥अयुक्तं दण्डनं यद्वै निरपराधदेहिनाम् ।बालकानां च वृद्धानां यूनां धर्मवतामपि ॥१४॥तस्माद् याचे स्वयं चाहमनादिः पुरुषोत्तमः ।नारीरूपस्तव वाक्याद् वारितं वचनं कुरु ॥१५॥शापनिवारणं सर्वलोकानां कुरु भामिनी ।नारीमयं जगत् सर्वं विना नरं न यास्यति ॥१६॥विचार्य शापसंहारं कुरु भक्ते मदर्थितम् ।श्रुत्वा सुदर्शनी देवी विचार्य तूर्णमाह माम् ॥१७॥शापस्य कारणं कृष्ण देवदैत्यनरादिभिः ।प्रधर्षणं सतीनां वै क्रियते चाश्रमेष्वपि ॥१८॥तन्मा भूदिति कृत्वैव सदा नार्यो मया कृताः ।यदि त्वं चेद् रक्षणस्य कर्ता नो दुष्टनाशकृत् ॥१९॥आकल्पान्तं वस भूमौ तदा शापं हराम्यहम् ।इत्युक्त्वा सा सती सुदर्शनी मे पादयोस्तदा ॥२०॥पतिता दण्डवत् पूजां प्रचकार सुमादिभिः ।मालिकां प्रददौ कण्ठे स्त्रीव्रजे स्त्रीस्वरूपिणः ॥२१॥अहं भक्ताप्ररक्षार्थं ओं तथास्त्वित्युवाच ताम् ।सती सुदर्शनी पश्चाज्जलं हस्ते निधाय च ॥२२॥शापनिमित्तेन प्रापितः परमेश्वरः ।भूतले धन्यभाग्योऽयं लोको यत्र पुमुत्तमः ॥२३॥हरिश्चात्र निजावासं त्वाकल्पान्तं करिष्यति ।रक्षां ब्रह्मव्रतिनीनां करिष्यति कुसंगितः ॥२४॥एवं विनिमयेनाऽहं मम शापं महोल्बणम् ।संहरामि जगत्साम्ये श्रीहरेः सन्निधाविह ॥२५॥इत्युक्त्वा करतोयं सा मुमोच कृष्णपादयोः ।भूमौ तावत् समाजे चाऽन्यत्र लोके स्थलान्तरे ॥२६॥सत्ये स्वर्गे मानवे च पातालादौ च येऽभवन् ।नरपूर्वा नारिकास्ता द्राङ्नरा अभवँस्तदा ॥२७॥त्रिलोकीयं यथापूर्वा तदाऽऽसन् युगलात्मिका ।कृष्णः कृष्णस्वरूपोऽभून्नारायणो निजात्मकः ॥२८॥पुरुषोत्तम एवापि पुरुषोत्तमरूपधृक् ।तथैव च यथापूर्वं सर्वं तत्र व्यजायत ॥२९ ॥नारायणः स्वयं प्राह समाजेऽहं तदा पुनः ।सतीधर्षणकृन्मेऽत्र वध्यः सुदर्शनेन वै ॥३०॥भविष्यति न सन्देहो देहान्ते स्त्री भविष्यति ।दैत्याश्च दानवाश्चापि नृपाश्च सुरकोटयः ॥३१॥सतीधर्षणकर्तारो वीक्ष्य दुष्टाः सुदर्शनम् ।निकृन्तनं तैजसं च दुःसहं दारुणं ततः ॥३२॥क्षमामयाचिरे तत्र विवासिताश्च ते तदा ।दूरं ते प्रययुः सर्वे दुःखिता वै वनान्तरे ॥३३॥अथापि दुष्टभावा ये ते चक्रेण निकृन्तिताः ।निषूदिताः परे लोके दुष्टभावाऽन्विताश्च ये ॥३४॥साध्व्यः सत्यश्च वै सर्वा ब्रह्मचर्यपरायणाः ।अपि धर्षणमापन्ना या यास्ता हरिसन्निधौ ॥३५॥ समागत्य हरेर्वारि पादयोस्ताः पपुः शुभम् ।पावनं सर्वपापानां तेन वै शुद्धतां ययुः ॥३६॥संसेव्यं नवधा भक्त्या प्रत्यक्षं पुरुषोत्तमम् ।पावन्यस्ता हि संजाता मुक्तान्यस्त्वैक्षरार्थिकाः ॥३७॥अहं लक्ष्मि! त्वया साकं श्रीपतिः पुरुषोत्तमः ।न्यवसं चाप्यनादिश्रीस्त्रीपुंनारायणाभिधः ॥३८॥अयोनिजः स्वतन्त्रश्च प्राकट्यं समुपाश्रितः ।भक्तानाम्ना प्रसिद्धिस्ते लक्ष्मि! सुदर्शनी यथा ॥३९॥तथा सुदर्शनीश्रीस्त्वं प्रसिद्धा परमेश्वरी ।जाता सुदर्शनीयोगात् शीलव्रतस्य पोषिणी ॥४०॥इत्येवं शिवसुक्तेश्रि प्राकट्यं मम वै पुरा ।कथितं स्मर सर्वं तत् स्त्रीमयं जगदद्भुतम् ॥४१॥अथाऽन्येऽपि मेऽवतारास्तत्राऽभवन् हि कोटिशः ।सर्वान् जानाम्यहं लक्ष्मि! यथाकार्यं मया कृतान् ॥४२॥ शृणु त्वन्यन्मम चापि प्राकट्यं चान्यवत्सरे ।सप्तदशे वत्सरे चाऽप्रज्ञाताख्ये तु वेधसः ॥४३॥कल्पे त्रयोदशे चापि मनौ तु दशमे तदा ।आसीज्जगन्महादैत्यकुलेनाऽतीव पीडितम् ॥४४॥तिमिंगिलो महादैत्यो माकरो वरुणाकरे ।अभूत् पुरा तदा कामरूपधृग जलसञ्चरः ॥४५॥श्रीशीलिके जलव्याप्ते द्वीपे यस्याऽभवद् गृहम् ।तज्जातिकास्तथा चान्ये कामरूपधरा अपि ॥४६॥माकराश्च वसन्ति स्माऽयुतसाहस्रसंख्यकाः ।नरा नार्यो भवन्ति स्म विनिर्यान्ति जलाद् बहिः ॥४७॥निवसन्ति महाद्वीपे श्रीशीलिके गृहेषु च ।बहिर्यान्त्यपि देशेषु मांसादास्ते नरान् पशून् ॥४८॥अपहृत्य जलमध्ये द्वीपे वा भक्षयन्ति तान् ।नररूपाश्च ते भूमौ प्रयान्ति नगरादिषु ॥४९॥अपहरन्ति नारीश्च बालकान् बालिकास्तथा ।व्योम्ना यान्ति महाभूभृत्सानुष्वपि च माकराः ॥५०॥वनस्थान् पर्वतस्थाँश्च गह्वरस्थान् हि तापसान् ।ऋषीन् द्विजान् पशून् पक्षिगणान् हरन्ति वै बलात् ॥५१॥द्वीपे नीत्वा भक्षयन्ति नरमांसादमाकराः ।समुद्रे जलमध्ये च मत्स्यान् जलेचरानपि ॥५२॥नौकागान्मानवाँश्चापि भक्षयन्ति स्म वै बलात् ।इत्येवं शतवर्षाणि भक्षिता मानवादयः ॥५३॥लोकेषु सर्वखण्डेषूद्घोषो महानजायत ।पर्वतेषु गह्वरेषु तापसेष्वपि सर्वतः ॥५४॥माकराणां भयं चास्ते त्रसन्ति स्म च देहिनः ।बलिनां सन्निधौ केऽपि प्रयान्ति नैव रक्षणे ॥५५॥राजानोऽपि भयोद्विग्नास्तदा जाताः समन्ततः ।चक्रवर्ती महाराजस्तदासीद् धर्मवाहनः ॥५६॥योद्धुं ययौ समुद्रान्ते व्योम्ना रणे तु माकरैः ।बहुरूपधरैर्व्योम्ना मायावृष्ट्या निपातितः ॥५७॥समुद्रे च मृतः सोऽपि राजा वै धर्मवाहनः ।ततो लोके भयं यान्ति चान्ये माकरयुद्धतः ॥५८॥माकराणां बलं पुष्टं जातो राज्ञो विनाशतः ।प्रसह्याऽब्धितटस्थानामाहरन्ति धनस्त्रियः ॥५९॥बालांश्च बालिका गाश्चाभूषणाम्बरसम्पदः ।भुञ्जते निर्भयाश्चापि चैधिताश्च समन्ततः ॥६०॥अथ ये खण्डराजानस्तेऽपि तैश्च शनैः शनैः ।पृथक् पृथक् हृताश्चापि माकरैर्मांसभोजनैः ॥६१॥द्वीपाश्च द्वीपकल्पाश्च भूभागा वशगाः कृताः ।भुञ्जते स्म यथेष्टं ते मायारूपप्रधारिणः ॥६२॥अत्याचारो महान् खण्डे खण्डे स्म जायते तदा ।रुदन्ति निर्बला लोका नरा नार्यः प्रधर्षिताः ॥६३॥भक्षिता बालका येषां पत्न्यश्च पतयस्तथा ।निर्वंशा बहवो जाता माकरोपद्रवैस्तदा ॥६४॥एवं ते शतवर्षान्ते वृद्धिमाप्ता हि माकराः ।कोटिसंख्याः प्रजाता वै राक्षसा इव सर्वतः ॥६५॥जलप्रान्ते वसन्त्येते सबला अपि वै क्वचित् ।निर्बलत्वक्षणे वार्धौ प्रविशन्ति स्म तत्क्षणम् ॥६६॥युद्धेष्वेभिर्जयं नैव लभन्ते मानवा नृपाः ।मायामन्त्रकरा नैकरूपधृगोऽतिदारुणाः ॥६७॥नृपान् विजित्य राज्यानि चक्रुर्वशानि खण्डशः ।अथ प्रजास्तदा चात्याचारं माकरकासुरैः ॥६८॥कृतं नैव सहन्ते स्माऽसह्म सर्वविनाशनम् ।यज्ञाः सर्वत्र नाश्यन्ते व्योममार्गेण तैस्तदा ॥६९॥उत्सवा देवनिलया नाश्यन्तेऽपि समन्ततः ।उद्यानानि विनाश्यन्ते फलपुष्पमयान्यपि ॥७०॥सस्यानि च कणाढ्यानि नाश्यन्तेऽपि समन्ततः ।यद्यद् रत्नमयं लोके ह्रियन्ते सर्वमेव तैः ॥७१॥एवं तूपद्रवे जाते मानवाः परमेश्वरम् ।परब्रह्माऽक्षरातीतं तदा मां चार्थयन्मुहुः ॥७२॥समस्तैर्हृज्जन्यभावैः पूजयन्ति स्म मां हृदि ।प्रार्थयन्ति स्म रक्षार्थं दीनाऽनाथाऽबलादिकाः ॥७३॥ततो मया श्रुतं तेषामाराधनं तदाऽक्षरे ।माकराणां विनाशार्थं धर्मरक्षणहेतवे ॥७४॥मानवानां रक्षणार्थं त्वया साकं तदा द्रुतम् ।अहं सायुध एवापि विमानेन भुवं प्रति ॥७५॥आजगामाऽम्बरात् तूर्णं द्वारद्वीपमुपाश्रितः ।विमानं वै मया तत्राऽदृश्यभावं कृतं क्षणात् ॥७६॥आरण्यकं मया रूपं त्वयाऽप्यारण्यकं कृतम् ।तापसं चापि तद्रूपं धृत्वाहं व्यचरं वने ॥७७॥अथ ते माकरा लोका द्वीपादागत्य मां त्वया ।साकं जह्रुर्निजे द्वीपे तपस्विनं ततो मया ॥७८॥दृष्टो द्वीपः सन्निवेशग्रामपत्तनशोभितः ।मां खादितुं माकरास्ते त्वायाताः सोत्सवास्ततः ॥७९॥मया सुदर्शनं चक्रं प्रहितं तत्क्षणान्ननुतच्च व्यापादयद् वह्निज्वालया चाऽदहत्तथा ॥८०॥घटिकाकालमात्रेण द्वीपो निर्माकरः कृतः ।दद्रुवुर्माकरा माकर्यश्च सरीसृपा झषाः ॥८१॥यादांसि च तथा भूत्वा विविशुर्मकरालयम् ।द्वीपमध्ये तापसोऽहं त्वया साकं तदाऽवसम् ॥८२॥पत्तनानि तु शून्यानि वर्तन्ते स्म तदा खलु ।अथ दैत्यो माकरेशो युद्धार्थं जलमध्यतः ॥८३॥सन्नद्धश्च परो भूत्वा ससैन्यः समुपाययौ ।मया सुदर्शनेनैव निकृन्तिता हि माकराः ॥८४॥दैत्यः पराजयं वीक्ष्य प्राणत्राणपरायणः ।दुद्राव सहसा चाब्धौ विवेश गहनं तलम् ॥८५॥सहस्रहस्तवान् दैत्यः सहस्रमस्तकस्तथा ।सहस्रपादसम्पन्नः पुनर्युद्धार्थमाययौ ॥८६॥मया पुनः प्रेरितं च चक्रं सुदर्शनं मम ।निकृत्ता बाहवश्चास्य बहवो वै तदा हि सः ॥८७॥पुनर्विवेश जलधिमथाऽहमपि वै तदा ।खण्डे खण्डे स्थितान् मार्गयित्वा तान् माकराऽसुरान् ॥८८॥सुदर्शनेन चक्रेण व्यापादयं समन्ततः ।पृथ्व्यां यत्र च यत्रैते ह्यासन् माकरदानवाः ॥८९॥तान् सर्वानहनं चक्रधारेणाऽवसरे तदा ।अथ वै माकरो दैत्योऽयुतहस्तसमन्वितः ॥९०॥अयुतानन एवाप्ययुतपात् समुपाययौ ।मे भातं च विनाशोऽस्य कर्तव्योऽवश्यमेव ह ॥९१॥ततः शान्तिं माकराणामुपद्रवः प्रयास्यति ।अथाऽहं सङ्गरं चक्रे माकरेण दुरात्मना ॥९२॥हता हस्ताः सहस्राणि त्रीणि त्रीण्याननानि च ।यदा तदा माकरेशो दुद्राव जलधिं ययौ ॥९३॥अहं साकं त्वया लक्ष्मि! चाऽभवं जलमानवः ।लक्षहस्तो लक्षमुखो लक्षपाल्लक्षहेतिकः ॥९४॥लक्षजालसमायुक्तः प्राविशं माकरालयम् ।स मां दृष्ट्वा महद्रूपं चक्रे वार्षु पलायनम् ॥९५॥अब्धितश्चाऽन्यमब्धिं च ततोऽब्ध्यन्तरमित्यपि ।पृष्ठे यान्तं तु मां वीक्ष्य प्राणत्राणपरायणः ॥९६॥भयोद्विग्नो बभूवाऽति क्षीरसागरमाविशत् ।मया सुदर्शनं चक्रं प्रहितं तस्य मृत्यवे ॥९७॥पृष्ठलग्नं प्रजज्वाल ददाह तं समन्ततः ।चुक्षोभ सागरः सर्वश्चकम्पे पृथिवी मुहुः ॥९८॥अथ ज्ञात्वा निधनं स्वं युद्धार्थं सम्मुखोऽभवत् ।मया युद्धं न्यायसारं दत्तं तस्मै महात्मने ॥९९॥यथा यथाऽहं तं हन्मि तथा स नूतनः ।उत्पद्यते माकरोऽपि मायया कोटिरूपधृक् ॥१००॥मासान्ते स मया वार्धौ युद्धं दत्वा हतोऽसुरः ।सुदर्शनेन चक्रेण लक्षकण्ठा निकृन्तिताः ॥१०१॥तदा व्योम्नि निनेदुर्वै दुन्दुभयो द्युवासिनाम् ।पुष्पाणां वर्षणं जातं समुद्रो मामपूजयत् ॥१०२॥पार्षदाः सर्वधाम्नां च मुक्ताश्चेशाः समाययुः ।सुराश्च मानवाश्चापि पुपूजुर्मां पुमुत्तमम् ॥१०३॥जलमानवरूपं मां श्रीपतिं पुरुषोत्तमम् ।लक्षाननं लक्षहस्तं लक्षहेतिसमन्वितम् ॥१०४॥लक्षपादं श्वेतवर्णं कोमलं चन्द्रभासनम् ।जलावासं जलदेवीदेवैः प्रपूजितं हि माम् ॥१०५॥दुःखमुक्ता देहिनश्चाऽऽनर्चुर्मां परमेश्वरम् ।अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥१०६॥जलमानवरूपं मां स्वयं श्रीपरमेश्वरम् ।अनादिश्रीजलनारायणाह्वयं तदा प्रिये! ॥१०७॥त्वामनादिजलनारायणीं चानर्चुरेव ते ।अथ जलाद् विनिर्गत्य श्रीशीलिके भुवस्तले ॥१०८॥द्वीपे वासं चकाराऽहं माकराणां हि पत्तने ।ततो मे पार्षदास्तत्र त्वायाता बहवस्तदा ॥१०९॥श्रीद्वीपो मेऽभवद् द्वीपः समुद्रतटवर्तनः ।तापसानां च मुक्तानां तपोऽर्थं तत्र कल्पके ॥११०॥ब्रह्मणो वत्सरे सप्तदशे लक्ष्मि! च तं स्मर ।श्वेतद्वीपो यथा चाद्यस्तथा श्रीद्वीपनामकः ॥१११॥श्रीशीलद्वीप एवाऽभून्मम ते वासकारणात् ।जलद्वीपस्तथा श्वेतनारायणालयोऽपि सः ॥११२॥तदा लोकाश्च शास्त्राणि कथयन्ति स्म नैकधा ।स्मर सर्वं हि तल्लक्ष्मि! पुरातनात्पुरातनम् ॥११३॥चकत्कारमयं स्थानं दिव्यं मया पुरार्जितम् ।पठनाच्छ्रवणादस्य स्मरणान्मोक्षमाव्रजेत् ॥११४॥अन्ये तथाऽवतारा मे जाताश्चापि सहस्रशः ।तानहं वेद्मि सर्वान् वै प्रत्यक्षज्ञानवानहम् ॥११५॥ततो भक्ता मया पृथ्व्यां पार्षदैर्मम योगिभिः ।ऋषिभिर्मुनिभिश्चापि साधुभिर्वैष्णवाः कृताः ॥११६॥प्रजाः सर्वास्ततो जाता वैष्णव्यो मम चाश्रिताः ।मुक्तिमार्गः प्रवृत्तश्च यज्ञयागादयोऽभवन् ॥११७॥प्रजाश्च सुखिता जाता मानवा निर्भया अपि ।दृश्यन्ते वैष्णवा भूमौ मम पूजापरायणाः ॥११८॥नरा नार्यो व्योमगाश्चाऽऽयान्ति मद्दर्शनाय ह ।सर्वाभ्यः खलु दिग्भ्यश्च श्रीद्वीपो मोक्षदोऽभवत् ॥११९॥आकल्पान्तं ततश्चाऽहं न्यवसं श्रीसुशीलिके ।द्वीपे तत्र ततश्चाऽहं स्वाऽक्षरं प्रययौ प्रिये! ॥१२०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्त्रीभूतानां भूतलवासिप्रजानां रक्षणार्थं प्रार्थनयाऽनादिस्त्रीपुंनारायणस्य, सप्तदशे वेधसो वत्सरे च माकरादि-दैत्यनाशार्थम् अनादिश्रीजलनारायणस्य च प्राकट्यमित्यादिनिरूपणनामा चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP