द्वापरयुगसन्तानः - अध्यायः ३६
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मे ततः परम् ।
वेधसोऽर्चिमार्गनाम्नि वत्सरे चाथ कल्पके ॥१॥
सप्तषष्ट्यधिके चाष्टशतेऽथ पञ्चमे मनौ ।
रुद्रकुक्षेः समुद्भूतो विद्युत्स्रावो हि राक्षसः ॥२॥
सः प्रचक्रे तपश्चोग्रं शंभुतोषणहेतवे ।
सूर्यचन्द्राग्नितेजोभ्यश्चातितेजोऽभिलब्धये ॥३॥
पञ्चशतेषु वर्षेषु गतेषु शंकरः स्वयम् ।
तुतोष परया प्रीत्या वरार्थं चान्वरोधयत् ॥४॥
सोऽपि वव्रे वरं सूर्यचन्द्राग्नितेजसां परम् ।
तेजो मे स्याद् यथेष्टं वै देवाद्यनाश्यमेव च ॥५॥
तथाऽस्त्विति हरः प्राह वरं लब्ध्वाऽतिमोदवान् ।
तपस्त्यक्त्वोज्ज्वलो भूत्वा स्वर्गं चायाति याति च ॥६॥
अप्सरसो मुमुहुश्च देव्योऽपि मोहमागताः ।
चञ्चलास्तं वीक्ष्य चानुदुद्रुवुर्वारिताः सुरैः ॥७॥
देवानां स्वर्गलोके वै क्लेशोऽयं नूतनोऽभवत् ।
दैत्योऽपि राक्षसरूपं प्रगृह्य देवतोज्ज्वलः ॥८॥
देवाभरणभूषाढ्यः स्वर्गात् स्वर्गं प्रयाति च ।
मोहयत्येव देवीश्च कलहं जनयत्यपि ॥९॥
सूर्याधिकः सुरूपश्च सुतेजाः सुप्रभाधरः ।
भूत्वा सूर्यं समभ्येति तिरस्करोति भास्करम् ॥१०॥
चन्द्रं वह्निं समभ्येति तिरस्करोति तेजसा ।
वडवाग्निं समभ्येति ग्रहानभ्येति वै तथा ॥११॥
पातालादौ मणिध्राँश्चाभ्येति तिरस्करोति च ।
महाजले तले चापि सामुद्रे मणियादसाम् ॥१२॥
प्रकाशान् वै तिरस्कृत्य गर्वं स्वीयं करोति सः ।
सर्वरूपधरो दैत्यो ज्ञात्वा बलं निजं महत् ॥१३॥
इयेष राजा भवितुं ययौ कुबेरपत्तनम् ।
युयुधेऽति कुबेरेण चात्मसात् कृतवान् पुरीम् ॥१४॥
ततो वह्निं ययौ युद्धे जिगाय स्ववशं न्यधात् ।
चन्द्रं जेतुं ययौ चापि सोऽपि तद्वशगोऽभवत् ॥१५॥
सूर्यं जेतुमियेषापि युद्धार्थं प्रययौ रविम् ।
युयुधे चतुरो मासान् विद्युत्स्रावो महासुरः ॥१६॥
पराजयं न चाप्नोति श्रमं याति न वै मनाक ।
विद्युतः प्रकटीकृत्य लोकान् दग्धान् करोति च ॥१७॥
सूर्यादधिकतेजोभिर्दहत्येतज्जगत्त्रयम् ।
हाहाकारस्तदा जातः सूर्यः खिन्नः शुशोच ह ॥१८॥
सस्मार परमं ब्रह्म परमेशं सनातनम् ।
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ॥१९॥
सश्रीकोऽहं समायातः सूर्यरक्षाकरः प्रभुः ।
हिरण्मयः परेशो वै सर्वतेजोऽस्त्रशस्त्रवान् ॥२०॥
ईशनीसंज्ञया सर्वशक्तिमत्या त्वया सह ।
लक्ष्मि । सूर्यकृतस्वार्हपूजाऽऽगतादिसत्क्रियः ॥२१॥
सुदर्शनेन चक्रेणाऽशातयं चासुरं हि तम् ।
विद्युत्स्रावो विनाशं च प्रापच्चाब्धौ पपात सः ॥२२॥
जगत्सु तस्य विसृष्टान् वह्नीनशामयं त्वहम् ।
तदा देवर्षिगन्धर्वग्रहमानवकोटिभिः ॥२३॥
संस्तुतोऽहं सर्वभूषु पर्यटनं चकार वै ।
सूर्ये हिरण्मयश्चाऽहं हिरण्यकेशवान् हरिः ॥२४॥
चन्द्रे राजतदेहोऽहं कूप्यकेशः स्वयं हरिः ।
वह्नौ प्रभोज्ज्वलदेहः प्रभाश्मश्रुर्भवाम्यहम् ॥२५॥
भूतले तु त्वया साकं मानवैरभियाचितः ।
अनादिश्रीमहाविद्युन्नारायणोऽभवं तदा ॥२६॥
वैद्युतीश्रीयुतश्चाहं लोकेऽत्र मानवेऽवसम् ।
मन्वन्तरं तु कालं वै मानवानां हि मुक्तये ॥२७॥
स्मर लक्ष्मि! च मे ते च प्राकट्यं वै तथोदितम् ।
अन्यास्तथाऽवतारा मे जाता वै बहवो भुवि ॥२८॥
पठनाच्छ्रवणाच्चास्य दुःखहानिर्भवेदिह ।
भुक्तिश्चात्र भवेत्त्वन्ते मुक्तिर्मे शाश्वते पदे ॥२९॥
अथ तेऽन्यच्च मे वच्मि प्राकट्यं शृणु सुन्दरि ।
वेधसोऽब्धिमथनाख्ये वत्सरे च नवाधिके ॥३०॥
चत्वारिंशेऽथ द्विपञ्चाशदूर्ध्वे कल्पके शते ।
तृतीये च मनौ लक्ष्मि! लोकेऽभवं त्वया सह ॥३१॥
रसातलस्य दैत्यस्य रसभक्षस्य वै सुतः ।
मधुभक्षोऽभवद् दैत्यो बलवान् तपसा पुरा ॥३२॥
स तु तेपे तपस्तीव्रं सुन्दराख्ये गिरौ तदा ।
शंकरं तपसाऽऽराध्य वरं वव्रे हि शंकरात् ॥३३॥
रसान् भोक्तुं मधून् भोक्तुं शक्तिर्मे विपुला भवेत् ।
यथा यथा भक्षयामि तथा तथा च पाचनम् ॥३४॥
भवेदेव न चाऽजीर्णं भवेन्मे वै कदाचन ।
अरुचिश्चापि मे न स्यात्पुष्टिर्बलं महद् भवेत् ॥३५॥
श्रुत्वैवं शंकरः प्राह चाऽहत्वौषधिपादपान् ।
रसान् मधून् भुंक्ष्व का चान्यथा मरणं तव ॥३६॥
इत्येवं वरदानं वै दत्वाऽदृश्यो हरोऽभवत् ।
मधुभक्षोऽसुरश्चापि सुन्दराद्रौ द्रुमादिषु ॥३७॥
प्रविश्य मायया सर्वान् मधून् चूषति चान्तरान् ।
पत्रपुष्पादिकस्थान् स मधून् चूषति सर्वशः ॥३८॥
फलानि नैव जायन्ते शुष्यन्ति च दलान्यपि ।
नवांऽकुराणि सर्वाणि नारोहन्ति ततः परम् ॥३९॥
मूलरसं स्तम्बरसं स्थाणुरसं ततः परम् ।
स्कन्धरसं च शाखानां रसान् भुंक्ते समस्तकान् ॥४०॥
उपशाखारसाँश्चापि पत्ररसान् स चूषति ।
पुष्परसान् फलरसान् चूषत्येव समस्तकान् ॥४१॥
वृक्षेभ्यश्चापि वलीभ्यः स्तम्बेभ्यस्तृणमूलतः ।
कन्देभ्यश्च शलाकाभ्यो रसान् भुंक्ते समस्तकान् ॥४२॥
मायया शतरूपश्च सहस्रायुतरूपवान् ।
कोट्यर्बुदाऽब्जरूपश्च भूत्वा भूत्वाऽतिखादति ॥४३॥
यथा यथा रसान् भुंक्ते पचन्ति सर्वशश्च ते ।
पुष्टो भवति बलवाँश्च समर्थो भोजनेऽधिकः ॥४४॥
मायया चायतवपुः पर्वतेषु वनेषु च ।
अरण्येषु महोद्यानेष्वपि सौधद्रुमेषु च ॥४५॥
वाटिकासु कृषिसस्येष्वपि सर्वेषु शाखिषु ।
अंकुरेषु तथाऽऽमेषु पक्वाऽपक्वेषु सर्वथा ॥४६॥
मधून् रसान् सदा भुंक्ते करोति शुष्कशाखिनः ।
शुष्कायन्ते ह्यरण्यानि क्षेत्राणि च वनानि च ॥४७॥
प्रजाभिश्च पशुभिश्च पक्षिभिर्जन्तुभिस्तथा ।
प्राणिभिर्नैव चाप्यन्ते रसाश्च मधवोऽपि च ॥४८॥
क्षुधाभिः पीडिता सर्वे म्रियन्तेऽकालमृत्यवः ।
अवग्राहं विना जातं दुर्भिक्षं प्राणनाशकम् ॥४९॥
मानवानां च लोकेषु पातालेभ्यः समाययौ ।
महासुरः पृथिवीस्थानचूषद् द्रुलतातरून् ॥५०॥
पार्थिवान् सार्वभौमाँश्च वल्लीतृणादिपादपान् ।
चक्रे सर्वांश्च सहसा नीरसान् शुष्कविग्रहान् ॥५१॥
मानवानां भोजनानि देवानां भोजनानि च ।
प्रणष्टानि समस्तानि रसमूलानि सर्वथा ॥५२॥
मधूनि सर्वजातीनि पीतानि तेन रक्षसा ।
वर्धितः स तु बलवान् वायुवद् व्यापकोऽभवत् ॥५३॥
उद्भिज्जेषु महाशक्त्या व्यापकः सोऽभवद् वरात् ।
मायया चापि दैत्यः सः सर्वान्नखादकोऽभवत् ॥५४॥
निरर्थका यतो मेघा कृषिर्निरर्थिका तथा ।
पृथ्व्याः रसप्रदानत्वं निरर्थकं कृतं तदा ॥५५॥
बीजानां रसशक्तिश्च सर्वा निरर्थिका कृता ।
प्रजार्थं चासुरेणैव जगत् क्षुधाप्रपीडितम् ॥५६॥
कृतं तेन ततो लोकाश्चाराधयन् हरिं च माम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥५७॥
श्रुत्वा तु प्रार्थनां तेषां ज्ञात्वाऽसुरोपपीडनम् ।
विरसत्वं चौषधीनामाजगाम भुवं प्रति ॥५८॥
शंखचक्रगदापद्मशार्ङ्गादिहेतिमान् स्वयम् ।
दिव्यरूपो हरिः सोऽहं युयुधे तेन वै तदा ॥५९॥
सुदर्शनेन चक्रेण मधुभक्षो हतो मया ।
त्वं मया माधवी लक्ष्मीः कृत्वा द्रुमेषु वेशिता ॥६०॥
सर्वपादपजातीनां मधुरूपा रसात्मिका ।
त्वमभवस्तदा लक्ष्मि! माधवीश्रीः समूर्जिता ॥६१॥
अनादिश्रीमधुनारायणश्चाऽहं प्रजास्वपि ।
गोचरो न्यवसं मन्वन्तरकालं त्वया सह ॥६२॥
प्रवेशात्तववृक्षाश्च रसान्वितास्तदाऽभवन् ।
सर्वलोकेषु सर्वत्र मधुवाहा हि पादपाः ॥६३॥
अभवन् सिन्धवश्चापि मधुक्षराश्च धेनवः ।
ओषधयो मधुगर्भा माधवीवासितास्तदा ॥६४॥
बभूवुः पल्लविताश्च फलिताश्च मधुप्रदाः ।
माधवोऽहं तदा लक्ष्मि! रसात्मकस्त्वया सह ॥६५॥
अवसं चापि वृक्षादौ माधव्या परमेश्वरः ।
लोका अपूजयँस्तत्र माधवीमाधवौ च नौ ॥६६॥
स्मर त्वं माधवीरूपं मां च मधुरसात्मकम् ।
अन्येऽपि च तदा देवा महर्षयश्च मां प्रिये ॥६७॥
पुपूजुः परया प्रीत्या प्राणदं परमेश्वरम् ।
एतत्ते कथितं नारायणि! प्राकट्यमेव मे ॥६८॥
तेऽपि रक्षाकरं लोकप्रजानां सर्वदेहिनाम् ।
अथाऽप्यन्यत् प्रवक्ष्यामि प्राकट्यं ते च मेऽपि च ॥६९॥
वेधसो वत्सरे पञ्चाशत्तमे नारदाभिधे ।
अष्टाशीत्यूर्ध्वके चतुश्शते कल्पेऽष्टमे मनौ ॥७०॥
तिष्ये च सप्ततौ भूमौ दैत्याश्च दानवास्तथा ।
असुरा नास्तिका धर्महणोऽभवन् समस्ततः ॥७१॥
धर्माश्च मानवा नष्टाः क्रौर्यं प्रवर्तितं बहु ।
मांसादाश्चाभवन् सर्वे म्लेच्छवर्णा नराः स्त्रियः ॥७२॥
पापात्मानः पापकराः पापमात्रपरायणाः ।
सर्वादाः सर्वभक्षाश्च सर्वभोक्तार उत्पथाः ॥७३॥
पशून् पक्षिगणान् जन्तून् भक्षयन्ति हि मानवाः ।
मानवान् मानवाश्चापि भक्षयन्तीति का कथा ॥७४॥
अन्येषां प्राणिनां लक्ष्मि! हाहाकारोऽभवद् भुवि ।
आरण्यका हि पशवो भक्षिता मानवैः खलु ॥७५॥
पक्षिणो भक्षिताश्चापि मिलन्ति न यथा तथा ।
वनारण्यान्यभवँश्च पशुपक्षिक्षयाणि वै ॥७६॥
पशुपक्षिविहीनानि ततस्ते मानवाः खलु ।
ग्राम्यान् पशून् पक्षिणश्च भक्षयितुं समारभन् ॥७७॥
महिष्यश्चाविका ऊरण्यश्च सर्वाः प्रभक्षिताः ।
अश्वा उष्ट्रा गर्दभाश्च वृषभाश्चापि भक्षिताः ॥७८॥
हस्तिनश्चापि गवया हरिणा वानरा अपि ।
ऋक्षाः सिंहाः श्वापदाश्च श्वानश्च शूकरादयः ॥७९॥
सर्वेऽपि भक्षिताः क्रूरैः राक्षसैर्दैत्यदानवैः ।
मानवैस्तादृशैः सर्वैर्गावो वत्साश्च भक्षिताः ॥८०॥
धेनवश्च प्रभक्ष्यन्ते मांसादैश्च यदा क्षितौ ।
तदा रक्षार्थमेवाऽहं चायाम्यप्रेरितोऽपि सन् ॥८१॥
देवा गोषु स्थिताः सर्वे तासामाराधनावशः ।
देवानां दुःखहन्ताऽहं गवां रक्षाकरः प्रभुः ॥८२॥
धर्मरक्षाकरश्चापि पृथ्व्यां साकं त्वया प्रिये ।
तूर्णं चागतवान् साक्षात् सर्वशस्त्रधरो हरिः ॥८३॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
धेनुरक्षानिमित्तं वै समालम्ब्य परेश्वरः ॥८४॥
सर्वरक्षाकरो धर्मरक्षकः श्रीपतिः प्रभुः ।
कलेर्दोषविहन्ताऽहं शीघ्रं वै गोचरोऽभवम् ॥८५॥
आक्षराख्ये रथे स्थित्वा हन्यते यत्र गौः क्षितौ ।
तत्स्थले व्योममार्गेण तूर्णं गत्वाऽहनं हि तम् ॥८६॥
गोहन्तारं घातकं च घातकानपरानपि ।
अहनं तत्र तत्रैव तेन रुष्टास्तदग्रगाः ॥८७॥
संभूय मां प्रहन्तुं ते चाययुर्वै स्थले स्थले ।
म्लेच्छप्राया दानवाश्च दैत्याश्चासुरकोटयः ॥८८॥
अहनं तान् संगरेऽहं भ्रमित्वा सकलां क्षितिम् ।
कोट्यर्बुदा हता हिंस्राः सात्त्विक्यो मोचिताः प्रजाः ॥८९॥
मम वायुप्रसंगेन शिष्टाश्च सत्त्विनोऽभवन् ।
गवां रक्षा कृता विप्ररक्षा रक्षा सतां तथा ॥९०॥
धर्मरक्षा कृता चापि देवाः सन्तोषिता मया ।
सत्यधर्माः स्थापिताश्च म्लेच्छा नृपा विहिंसिताः ॥९१॥
अहिंसा स्थापिता चाप्युपासना मम चाहिता ।
देवानां पूजनार्थं च सर्वं संस्थापितं पुनः ॥९२॥
सेवाधर्मो दयाधर्मः स्थापितश्च मया पुनः ।
अनादिश्रीनाथनारायणः पृथ्व्यां स्थिरोऽभवम् ॥९३॥
अनाथानां तु धेनूनां रक्षको नाथनामधृक् ।
त्वं च लक्ष्मि! घेनुमतीश्रीर्नाम्ना चाभवस्तदा ॥९४॥
युगार्धं च पृथिव्यां वै स्थित्वाऽहं पुरुषोत्तमः ।
त्वया साकं ययौ धामाऽक्षरं स्मर तदा जनुम् ॥९५॥
ममैवं तिष्यलोकानां शिक्षार्थं वै पुनः पुनः ।
अंशाऽऽवेशकलाभूत्याद्यवतारा भवन्त्यपि ॥९६॥
तेषां वै गणना नास्ति कार्यवशाद् भवन्ति यत् ।
कार्यं निष्पाद्य लीयन्ते मय्येव शिवशंभुजे! ॥९७॥
कल्पे कल्पे स्वयं स्वेच्छावशो भक्तवशोऽथवा ।
समागच्छामि भूमौ वै कृपया हितकृत् प्रभुः ॥९८॥
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।
अवतारी परब्रह्म स्वयं श्रीपरमेश्वरः ॥९९॥
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेदपि ।
यथेष्टफलसत्प्राप्तिर्भवेदपीह सर्वथा ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसोऽष्टचत्वारिंशे वत्सरे विद्युत्स्रावराक्षसस्य सूर्यचन्द्रादिविजेतुर्विनाशार्थम् अनादिश्रीमहाविद्युन्नारायणस्य
ईशनीश्रीसहितस्य, नवचत्वारिंशे वत्सरे च मधुभक्षादिदैत्यनाशार्थम् अनादिश्रीमधुनारायणस्य माधवीश्रीसहितस्य, पञ्चाशत्तमे वत्सरे च गोहन्तॄणां धर्महन्तॄणां तिष्ये दैत्यानां नाशार्थम् अनादिश्रीनाथनारायणस्य धेनुमतीश्रीसहितस्य च, प्राकट्यमित्यादिनिरूपणनामा षट्त्रिंशोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : May 03, 2021
TOP