संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ८४

द्वापरयुगसन्तानः - अध्यायः ८४

लक्ष्मीनारायणसंहिता


श्रीनारायणीश्रीरुवाच-
कृपासिन्धो जीवबन्धो चात्मप्राणपते विभो ।
कर्मक्षेत्रे नरनारीदेहे प्राप्ते शुभावहे ॥१॥
श्रेयोऽर्थिना दरिद्रेण भाग्यहीनेन सर्वथा ।
यत्र नैव तु साधूनां लभ्यतेऽपि समागमः ॥२॥
तत्र कृत्वा विधिं किं च प्राप्येत मोक्षणं निजम् ।
आत्मकल्याणवाञ्च्छावान् कल्याणं लभते कथम् ॥३॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं श्रेष्ठं पृच्छसि शोभनम् ।
कर्मक्षेत्रमिदं चास्ते लब्ध्वा मानुषमुत्तमम् ॥४॥
मातुः सेवां प्रकुर्वीत गृहतीर्थस्य सर्वथा ।
यथा यथा निजा माता प्रसन्ना स्यात्तथा तथा ॥५॥
सेवयित्वा चाऽर्जयेद्वै तदाशिषः सुपुण्यदाः ।
दारिद्र्यनाशिकाश्चापि श्रेयसां सम्प्रदाः शुभाः ॥६॥
मातुश्च सेवया भाग्यं भाग्यहीनस्य वर्धते ।
माता नारायणी ब्राह्मी श्रेयः करोति चाशिषा ॥७॥
एवं पितुः शुभा सेवा कर्तव्या तीर्थरूपिणः ।
तदाशीर्वादलाभेन श्रेयः पुण्यं हि लभ्यते ॥८॥
भाग्यं भवेद्विशालं च सम्पन्नं श्रेयसा भृतम् ।
अथैवं सेवया भाग्योदयेन स्यात् सती मतिः ॥९॥
शास्त्रार्थचिन्तने योग्या ततो ज्ञानं समर्जयेत् ।
ज्ञानोत्तरं विवेकश्च ततो ध्येयं हरिं तु माम् ॥१०॥
ध्यायीत भक्तिं कुर्वीत ममैव सर्वदा शुभाम् ।
बहुधा यत्र नैर्मल्यं स्थैर्यं च मनसो भवेत् ॥११॥
नामजपं प्रकुर्वीत हरे कृष्ण नरायण ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥१२॥
एवं वै कीर्तनं कुर्वन् कारयन् भजनं परम् ।
सखायं संविदधीत सखीन् भक्तान् विवर्धयेत्। ॥१३॥
सत्संगमण्डलं पश्चात् स्थापयेत् संभजेत माम् ।
कीर्तनं मे सदा कुर्यात् सायं चैकत्र मण्डलम् ॥१४॥
हरेर्भक्ता मण्डले ये ते बोध्याः साधवस्तदा ।
शास्त्रश्रवणलाभेन वृद्धवाक्येन वा सदा ॥१५॥
साधुगुणान् सखीन् प्राप्त्वा सत्संगं वर्धयेत् ततः ।
एवं कृत्वा विशालं वै विदधीत स्वमण्डलम् ॥१६॥
महापुण्यप्रतापेन खलु सत्संगमण्डलात् ।
मुमुक्षुता भवेच्छ्रेष्ठा ततो भक्त्या सुभावया ॥१७॥
भजित्वा माऽऽत्मकल्याणं प्रकुर्वीत स भक्तराट् ।
एवं लक्ष्मि बलं नैजं सबीजं वर्धयेत् सदा ॥१८॥
सत्संगपोषकं येन भुक्तिर्मुक्तिर्भवेत्ततः ।
नामकीर्तनतुल्यं वै सुलभं साधनं नहि ॥१९॥
अलब्धसाधुसंगस्य नामकीर्तनमुत्तमम् ।
साध्वी जिह्वा निजा बोध्या तत्समागममाचरेत् ॥२०॥
साध्वी मतिर्निजाबोध्या तया मन्वीत माधवम् ।
मनः साधु निजं बोध्यं तेन मन्वीत मां सदा ॥२१॥
देवः साधुरितिकृत्वा तेन सेवेत केशवम् ।
एवं संगतिमासाद्य मां भजेत सनातनम् ॥२२॥
आचार्या वा गुरवश्च कोटिकल्याणकारिणः ।
एवमात्मबलेनैव तेरुर्भवार्णवात् स्वयम् ॥२३॥
तारयामासुरन्याँश्च श्रीहरेः कृपया त्विह ।
यतमानं निजं भक्तं साहाय्यवर्जितं हरिः ॥२४॥
स्वयं तत्राऽवतीर्यैव चोषित्वा हृदयेऽपि च ।
भक्तमण्डलमध्ये वा चोषित्वा श्रेय अर्पयेत् ॥२५॥
नहि कीर्तनकृत् कश्चिदनिष्टं विन्दति प्रिये ।
स एव तत्र साधुर्वै कीर्तनेन प्रजायते ॥२६॥
अयि लक्ष्मि श्वपचोऽपि गृहे संकीर्तयँश्च माम् ।
सुदूरोऽपि साधुमनाः साधुस्निग्धो हि साधुवत् ॥२७॥
चर्मकारोऽपि शीलाढ्यो मम भक्तिपरायणः ।
साधुस्निग्धः साधुरेव कीर्तयन्मां स्वकर्मकृत् ॥२८॥
म्लेच्छोऽपि शीलयुक्तश्चेन्मम भक्तिपरायणः ।
साधुस्निग्धः साधुरेव कीर्तयन्मामहिंसकः ॥२९॥
घातकी व्याध एवाऽपि शीलव्रतस्त्यजन् हतिम् ।
साधुस्निग्धः साधुरेव कीर्तयन्मामहिंसकः ॥३०॥
ध्वजी चक्री च वा साधुः साधुस्नेहपरायणः ।
शीलव्रतोऽहिंसकश्च कीर्तयन्मामहर्निशम् ॥३१॥
गणिका च व्यवायी च साधुस्नेहपरायणौ ।
साधूशीलव्रतौ कीर्तयन्तौ मां कामवर्जितौ ॥३२॥
धीवरश्चापि मत्स्यादः शीलव्रतोऽप्यहिंसकः ।
साधुस्नेहपरः साधुः कीर्तयन्मां परेश्वरम् ॥३३॥
जल्लादो हारकः स्तेनः साधुस्नेहपरायणाः ।
शीलव्रताः कर्मशून्याः साधवश्चेद् रटन्ति माम् ॥३४॥
भुजिष्या वृन्दलो वापि साधू शीलपरौ यदा ।
साधुस्निग्धौ कीर्तयन्तौ मां हरिं पुरुषोत्तमम् ॥३५॥
भाण्डा नटा नर्तकाश्च कुशीलवाश्च साधवः ।
शीलव्रताः साधुस्निग्धाः कीर्तयन्तश्च मां हरिम् ॥३६॥
बहुरूपा नर्मकाराः शवहाराश्च साधवः ।
शीलव्रताः साघुस्निग्धाः कीर्तयन्तश्च मां हरिम् ॥३७॥
सर्वादा गणिकेशाश्च गोधादाः सर्पभोजनाः ।
साधवः शीलव्रतिनः साधुस्निग्धा रटन्ति माम् ॥३८॥
जालग्राहाः पिशितादाः सन्त्यज्य क्रूरवर्तनाम् ।
साधवः शीलव्रतिनः साधुस्निग्धा रटन्ति माम् ॥३९॥
अग्निदा गरदाः शूलप्रदाः पाशप्रदा अपि ।
रटन्तो मां साधुशीला साधुस्निग्धा हि साधवः ॥४०॥
शस्त्रजीवी चिकित्साकृच्छवांगिभेदिनो यदि ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४१॥
भार्ष्ट्रभट्ठीकराश्चापि वनारणाविघातिनः ।
शीलपराः साधुस्निग्धाः साधवो हि रटन्ति माम् ॥४२॥
उन्मत्तश्च विचित्तश्च शठः स्वार्थी हि साधवः ।
साधुस्निग्धाः शीलपरा मां रटन्ति विदुर्गुणाः ॥४३॥
आसुरा राक्षसा दैत्या दानवाः पापिनोऽपि च ।
साधुस्निग्धाः शीलवन्तः साधवो मां रटन्त्यपि ॥४४॥
भूताः प्रेताः पिशाचाद्या रटन्तो मां हि साधवः ।
शीलपराः साधुव्रताः साधुस्निग्धास्तथा मयि ॥४५॥
माधुकघ्ना मत्स्यहाराः शकुनिघ्ना हि साधवः ।
साधुशीला साधुस्निग्धाः कर्मशून्या रटन्ति माम् ॥४६॥
पशुवाहाः पञ्जरिणो विश्वासघातकाश्च ते ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४७॥
तिर्यग्वृत्तय आत्मस्त्रीरक्तविक्रयिणोऽपि तु ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि साधवः ॥४८॥
यन्त्रिणाश्चक्रिणश्चापि शस्त्रिणः साधवो हि ते ।
रटन्तो मां साधुशीलाः साधुस्निग्धा हि सात्त्विकाः ॥४९॥
राजभटाधिपा न्यायाधिपा नृपा हि साधवः ।
रटन्तो मां साधुशीला साधुस्निग्धा हि सात्त्विकाः ॥५०॥
मुष्कच्छेदकरा दंष्ट्राहाराश्च लिङ्गकृत्तिनः ।
रटन्तो मां साधुशीला साघुस्निग्धा हि सात्त्विकाः ॥५१॥
अकर्माणो विकर्माणो नृशंसा अपि साधवः ।
रटन्तो मां साधुशीला साधुस्निग्धा हि साधवः ॥५२॥
दौर्हृदनाशका धातुभोजिनः शौचवर्जिताः ।
रटन्तो मां साधुशीला साघुस्निग्धा हि साधवः ॥५३॥
येषां वै पञ्चकं सिद्धं साधवस्ते सदा मताः ।
निष्कामता ह्यलोभित्वं निर्मानित्वं निःस्वादिता ॥५४॥
निःस्नेहिता च सर्वत्र सन्तस्तत्पञ्चवृत्तयः ।
कामवासनाहीनत्वं निष्कामिता यथायथम् ॥५५॥
आवश्यकातिरिक्तेच्छाहीनत्वं लोभवर्जिता ।
अगर्वः सर्वथा निर्मानित्वं स्तब्धत्ववर्जिता ॥५६॥
प्राणयात्रार्थभोज्याप्तिर्निःस्वादित्वं हि तत् स्मृतम् ।
एवं शीलपराः साधुर्भक्तिमार्गपरायणः ॥५७॥
तरति तारयत्यन्यान् महाभागवतो हि सः ।
येषां वा पञ्चकं चान्यन्मुमुक्षुत्वं कथाश्रुतिः ॥५८॥
भक्तसाधोः संगतिश्च सेवाभक्तिप्रवर्तनम् ।
आत्मनिवेदनं चेति पञ्चवत्साधवो मताः ॥५९॥
येषां वा पञ्चकं चान्यत् प्रातःस्नानप्रपूजनम् ।
मध्याह्ने हरये भोज्यनिवेदनं सदाऽन्वहम् ॥६०॥
उपार्जनस्य विंशांऽशोऽर्पणीयो हरये तथा ।
मालिकावर्तनं नित्यं चान्ते त्वात्मनिवेदनम् ॥६१॥
त एते साधवः स्युश्च गृहे वने च निर्जने ।
समाजे वापि जीवानां तारकास्ते भवन्ति वै ॥६२॥
दुष्टगुणान् विहायैव सद्गुणानर्जयेत्तु यः ।
साधुरत्र भवेत् सोऽपि भजते चेद्धरिं सदा ॥६३॥
माया पापं पापवन्तो जीवा मायाविनः खलु ।
मायादुर्गुणमुत्सृत्य सद्गुणान् प्राप्य मद्रताः ॥६४॥
धर्मवशाश्रया लोके साधवः साधुभूषणाः ।
संसारिणस्तु ये जीवाः सर्वे दुर्गुणसंभृताः ॥६५॥
पश्चात्प्राप्य सतां श्रेष्ठगुणान् भवन्ति साधवः ।
मायामलेन हीनास्ते सन्तो भवन्ति निर्मलाः ॥६६॥
दीयमानानि रत्नानि कम्बलान्यम्बराणि च ।
सम्पदः सुखभोग्याश्च नाऽवेक्षते हृदाऽपि यः ॥६७॥
भोग्यभोक्तृत्ववृत्तिश्च यस्य नाऽऽवर्तते मुहुः ।
साधुवृत्तिः स विज्ञेयस्तापसो दोषतापनः ॥६८॥
जैह्वयं शैश्न्यं जितं येन जितं सर्वं महात्मना ।
अश्राव्यो बधिरो यश्चाऽप्यप्रेक्ष्ये नेत्रवर्जितः ॥६९॥
अस्पृश्ये त्वग्विहीनश्चाप्यघ्रेये घ्राणवर्जितः ।
अकथ्ये जिह्वया हीनश्चाऽभक्ष्ये रसनाक्षयः ॥७०॥
अग्राह्ये हस्तशून्यश्चाप्यगम्ये पादवर्जितः ।
अत्याज्ये पायुशून्यश्चाप्ययोग्ये कामवर्जितः ॥७१॥
अलिङ्ग्ये लिङ्गशून्यश्च सर्वथा मत्परायणः ।
विदेहः साधुरेवाऽयं परस्यापि गतिप्रदः ॥७२॥
आस्यभूर्मृगवद्यस्य शय्या चाऽऽजगरी यथा ।
निद्रा च जलवद् यस्य कल्पना व्योमपुष्पवत् ॥७३॥
देहश्छायासमो यस्य वस्तुजातं तु स्वप्नवत् ।
स्मृद्धयो भस्मवद् यस्य समुत्सवः श्मशानवत् ॥७४॥
अस्तित्वं नास्तितातुल्यं साधुः सोऽयं सदुत्तमः ।
यस्य सर्वं मयि चास्ते मत्तुल्यः साधुरेव सः ॥७५॥
यथाऽऽकाशगतं चाऽम्भं विद्युद्वेगात् प्रवर्षति ।
तथा साधोः प्रसंगाच्च भक्तः स्नेहेन वर्षति ॥७६॥
यथा मेघा विलीयन्ते वायुवेगेन चाम्बरे ।
तथा साधोः प्रसंगेन लीयन्ते पापकोटयः ॥७७॥
यथा वै जाग्रतः स्वाप्नं लीयते तत्क्षणं तथा ।
साधोर्योगेन लीयन्ते कषायास्तत्क्षणं रमे ॥७८॥
यथा तमोविनाशो वै सूर्यभाभिः प्रजायते ।
तथा साधोश्चमत्कारैर्लीयन्ते कल्मषाणि वै ॥७९॥
यथा पुत्रप्रसवेन लीयन्ते शोककोटयः ।
तथा साधुप्रसंगेन लीयन्ते शोककोटयः ॥८०॥
यथा लग्नप्रसंगे आनन्दा भवन्ति सोत्सवाः ।
तथा साधुप्रसंगेन मोक्षानन्दोत्सवोद्भवाः ॥८१॥
यथा मातुर्दर्शनेन सुखं बालस्य जायते ।
तथा साधोर्दर्शनेन सुखं भक्तस्य जायते ॥८२॥
यथा मिष्टान्नलाभेन मोदन्ते बालबालिकाः ।
तथा वै साधुलाभेन मोदन्ते भक्तकोटयः ॥८३॥
यथा वर्षर्तुमासाद्य केका वदन्ति केकिनः ।
तथा साध्वर्तुमासाद्य कीर्तयन्ति हरेर्जनाः ॥८४॥
यथैकपुत्रनाशेन वृद्धपित्रोर्विदेहता ।
तथा सतां वियोगे तु भक्तानां स्याद् विदेहता ॥८५॥
यथा वन्ध्या पुत्रलाभे हर्षोन्मत्ता प्रजायते ।
तथा साधोर्गृहे लाभे हर्षोन्मत्ता ममाऽऽश्रिताः ॥८६॥
यथा सुगन्धसाराद्यैः प्रफुल्लं मानसं तथा ।
श्रीकृष्णसाधुधर्माद्यैर्भक्तमनः प्रफुल्लति ॥८७॥
यथाऽतीष्टस्य लाभेन सर्वानन्दा भवन्ति वै ।
तथा साधोरागमने सर्वानन्दा भवन्ति हि ॥८८॥
यथा नाट्यगतं पात्रं रङ्गं प्रसन्नयत्यति ।
तथा साधोः सेवकश्च साधून् प्रसन्नयत्यति ॥८९॥
यथा साध्वी हरिं कान्तं सदा प्रसेवते सुखा ।
तथा भक्तो हरिं साधुं सेवते च मुदा सुखः ॥९०॥
यथा व्याधस्य पुत्रादौ स्नेहः सदा प्रपोषणे ।
तथा भक्तस्य साध्वादौ स्नेहः सदा प्रमोक्षणे ॥९१॥
यथा गौर्वत्समासाद्य ददाति धारया पयः ।
भक्तः साधून् समासाद्य सर्वस्वं प्रददाति ह ॥९२॥
यथा वृक्षा जलं पीत्वा प्रफुल्लिता नवाऽङ्कुराः ।
तथा भक्ताः सतः प्राप्य बह्वार्पणनवांऽकुराः ॥९३॥
यथा नद्यः पूरवृद्ध्या ह्युन्मत्ता आप्तुमप्निधिम् ।
तथा भक्ता भक्तिवृद्ध्या ह्युन्मत्ता आप्तुमीश्वरम्॥९४॥
यथा च नापितो राजसेवा प्राप्य प्रमोदते ।
तथा भक्तः साधुसेवां प्राप्य सदा प्रमोदते ॥९५॥
यथा युवा च युवतीं प्राप्यैति तत्तदात्मताम् ।
तथा भक्तो हरिं साधुं प्राप्यैति तत्तदात्मताम् ॥९६॥
यथा राजाऽऽज्ञया भृत्या वर्तन्ते नम्रमार्गिणः ।
तथा साध्वाज्ञया भक्ता वर्तन्ते धर्ममार्गिणः ॥९७॥
यथा दीपो रात्रियोगे प्रकाशते स्वयम्प्रभः ।
तथा भक्तः साधुयोगे प्रकाशते हरिप्रभः ॥९८॥
यथा पक्वं फलं वृक्षं जहात्येव हि कालतः ।
तथा पक्वफलो भक्तो जहात्येव तु मायिकम् ॥९९॥
यथा पत्नी धर्मशीलाऽनुसरत्येव सत्पतिम् ।
तथा साध्वीं च वा साधुमनुव्रजति भक्तराट् ॥१००॥
नारायणनिवासेन यथा नारायणायते ।
तथा साधुत्ववासेन व्यक्तिर्वै साधवायते ॥१०१॥
यद्वद्भक्तिनिवासेन भक्तो भवति मानवः ।
लक्ष्मि साधुत्ववासेन साधुर्भवति मानवः ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुसमागमरहितस्यापिमोक्षोपायाः साधुलाभः साधुत्वलाभस्तद्विविधता चेत्यादिनिरूपणनामा चतुरशीति-
तमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP