संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ८३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-केन वै हेतुना साधुर्नारायणो निगद्यते ।यद्यपि बहवस्तत्र हेतवः स्युर्दृढव्रताः ॥१॥तथापि सरलं हेतुं यद्वा श्रेष्ठमनुत्तमम् ।दुष्करं वाऽवगन्तुं तं समिच्छामि तथा वद ॥२॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि महतश्च हेतून् बहुविधानपि ।क्षमा शीलं विरागश्च शान्तिस्तथाऽपरिग्रहः ॥३॥वैतृष्ण्यं स्वादशून्यत्वं चाऽऽत्मनिष्ठत्वमित्यपि ।अलोलुपता द्वेषादिराहित्यं सर्वमित्रता ॥४॥आत्मसाधनकर्तव्यं मयि सर्वसमर्पणम् ।अस्नेहो बन्धशून्यत्वं मायाकैंकर्यवर्जनम् ॥५॥देहेन्द्रियादियात्रातन्मात्रनिर्वाहणाऽर्जनम् ।प्रतीक्षा मोक्षलोकस्य ममाऽहंवर्जनं तथा ॥६॥नवोन्मेषारम्भहानिः स्थैर्यं चात्मनि नेतरे ।शीलं मनसो नैर्मल्यं साधुत्वे कारणानि वै ॥७॥परोपकारो यस्याऽस्ति मोक्षमार्गप्रदर्शनम् ।व्रतं शीलं च यस्याऽस्ति नारायणार्थमुत्तमम् ॥८॥तपश्चोग्रं च यस्याऽस्ति मायाबन्धनवर्जितम् ।वृत्तयश्चापि सर्वा वै यस्य मद्गोचरः सदा ॥९॥ह्येतच्चतुष्टयं लक्ष्मि साधुत्वे मुख्यकारणम् ।नहि काषायवस्त्राणि नहि चिह्नानि बाह्यतः ॥१०॥नहि दीक्षा नहि वासः साधुत्वे श्रेष्ठहेतवः ।आत्ममोक्षविधातारो मायामोक्षाद्यभीप्सवः ॥११॥परब्रह्मणि निष्णातास्तापसाः साधुसत्तमाः ।साध्व्यश्चापि सतीधर्मपराः शीलपरा मम ॥१२॥रागशून्या भक्तिमत्यः साध्व्यः साध्वीविभूषणाः ।शरीरे भोगशून्यत्वं साधुसोपानमादिमम् ॥१३॥इन्द्रियरागशून्यत्वं सोपानं च द्वितीयकम् ।अन्तःकरणवशता सोपानं च तृतीयकम् ॥१४॥आत्मनश्चार्पणं कृष्णे सोपानं तच्चतुर्थकम् ।ज्ञाने मन्मूर्तिवासश्च सोपानं पञ्चमं च तत् ॥१५॥मोक्षफलप्रयत्नश्च सोपानं षष्ठमेव तत् ।तुर्यावस्थास्थितिर्नित्यं सोपानं चाऽन्तिमं हि तत् ॥१६॥सप्तसोपानमारूढः साधुरेव सदुत्तमः ।अपि साध्व्यस्तथाचाराः साध्व्युत्तमा मता मम ॥१७॥त एते ह्युच्चकक्षास्थाः सन्तः साध्व्यो मयोदिताः ।मध्यकक्षागताँश्चापि दर्शयामि निबोध मे ॥१८॥देहेन्द्रियादिरागस्थास्तज्जन्यसुखलिप्सवः ।किन्तु सर्वार्पणाः कृष्णे मयि चात्मनिवेदिनः ॥१९॥मायाया गौणबलिनो मद्बले चोत्तमास्पदाः ।एवंविधा मध्यमास्ते साधवः साध्विकाः प्रिये ॥२०॥अथ ततोऽपि निम्नस्थान् शृणु लक्ष्मि मदर्थकान् ।सर्वथा रागयुक्ताश्च देहेन्द्रियादियोगिनः ॥२१॥लब्धदीक्षा अपि स्वार्थपरायणा मदाश्रयाः ।कृत्वोऽग्रे मां प्रदर्श्याऽपि त्यागाश्रमनिवासिनः ॥२२॥त्यागगन्धस्य मात्रां च स्वल्पां नैव विदन्ति च ।तथापि कष्टमासाद्य त्यागमार्गे स्थिता इव ॥२३॥वर्तन्ते ये निम्नचित्ता जालावृत्ता हरिध्वजाः ।त एते नामतः सर्वे साधवो वै भवन्ति हि ॥२४॥यथा काष्ठकृतो हस्ती यथा व्याघ्रश्च चर्मजः ।तथाऽम्बरेण यः साधुस्त्रयस्ते व्यर्थशक्तयः ॥२५॥अज्ञानां भयदाश्चैते विज्ञानामुपला इव ।आश्रितानां नेष्टदास्ते त्रयो विश्वासघातकाः ॥२६॥निश्चितार्थविघातास्ते समुन्नतिविरोधिनः ।असत्काचसमाश्चैते संगाद् भंगनिरूपकाः ॥२७॥तपः श्रुतं च शक्तिश्चाऽप्येतत् साधुत्वलक्षणम् ।क्षमा भक्तिर्विरागश्च साधुत्वे कारणानि वै ॥२८॥एतादृशे तु साधौ वै तृप्ते तृप्ताः सुरादयः ।यथा हि सुलभे क्षेत्रे फलं विन्दति कर्षुकः ॥२९॥तथा समर्प्य साधौ वै फलं दाता समश्नुते ।असाधौ दत्तमेवैतन्मोघं स्यान्नात्र संशयः ॥३०॥अदन्नसाधुर्हन्त्यन्नमद्यमानं च हन्ति तम् ।तं चाऽन्नं पाति यः साधुरदन्नन्नं च रक्षति ॥३१॥रक्षणं परलोकेऽपि पात्रेऽर्पितं करोति तत् ।प्रभुर्ह्यन्नमदन् साधुर्दातारं पोषयत्यपि ॥३२॥पुण्येन कर्मणा तस्मात् सत्पात्रेऽन्नं नियोजयेत् ।यदेव ददतः पुण्यं तदेवं प्रतिगृह्णतः ॥२३॥यद्युभे साधुरूपे वै पात्रे स्यातां हि निर्मले ।यत्र वै साधवः सन्ति श्रुतवृत्तोपयोगिनः ॥३४॥तत्र दानफलं पुण्यं जायते वै सहस्रधा ।ये ब्रह्मशुद्धाः सततं शीलशुद्धाश्च साधवः ॥३५॥तपस्यभिरताश्चापि भक्ताः पूज्यतमा हि ते ।तैश्च सद्भिः कृतः पन्था दिव्य एव न संशयः ॥३६॥तेन याता न मुह्यन्ति मायायां चैश्वरे स्थले ।परं पारं प्रगच्छन्ति ब्रह्मवाहा हि साधवः ॥३७॥दुरन्वयं दुःप्रधर्षं दुरापं दुरतिक्रमम् ।सदाशीर्वादतः सर्वमभ्येति नात्र संशयः ॥३८॥सुरापो भ्रूणहाः स्तेनौ गुरुतल्पनिषेवणः ।साधुना तीर्यते सर्वमेनसश्च प्रमुच्यते ॥३९॥सर्वपूज्याः पूज्यधना विद्यावन्तो हि साधवः ।तपस्विनो दानरता भक्तिमन्तो हि तारकाः ॥४०॥इमं च ब्रह्मलोकं च मोक्षस्थानमनुत्तमम् ।साधुसेवासुकृतिनः प्रपद्यन्ते तु लौकिकाः ॥४१॥पूजिताः पूजयन्त्येते मानिता मानयन्त्यपि ।प्रज्वाल्य पापिपापानि तारयन्ति हि साधवः ॥४२॥यो भर्ता सेवकैस्तुष्टो भर्तुस्तुष्टाश्च सेवकाः ।यत्रैवं साधुभावोऽस्ति तत्र कल्याणकोटयः ॥४३॥अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।साधोश्च सेवया तद्वत् सर्वपापमपोहति ॥४४॥स्वस्ति करोति सर्वस्य पावयत्यपि देहिनः ।एतत्क्रियापरः साधुः श्रेयःकर्ता जगत्त्रये ॥४५॥जीवानां मुक्तये लक्ष्मि मया साम विनिर्मितम् ।साधवः साम गायन्ति बोधयन्ति जनानिह ॥४६॥उपदिशन्ति मन्त्रादीन् कीर्तयन्ति च मां मुहुः ।वर्णयन्ति कथां मे च चरित्राणि बहूनि च ॥४७॥गुणान्मे मम कार्याणि निरूपयन्ति सर्वथा ।एवं साम्ना गीतिकाभिर्वाचयन्ति हि साधवः ॥४८॥विद्वांसो मां शास्त्रमुखैः प्रसंगायन्ति नित्यदा ।कवयन्ति च कवयः स्तुवन्ति चार्थसाधकाः ॥४९॥एवं साम्ना हि बहुधा मामर्जयन्ति मानवाः ।साम्ना गुरोर्मुखात्प्राप्य मां च दानेन साधयेत् ॥५०॥दानं समस्तभावेन समर्पणं निवेदिता ।आत्मसमर्पणं दानं तेनाऽर्जयेच्च मां सदा ॥५१॥साधवो दानयोगेन चार्जयन्ति ददत्यपि ।ज्ञानदानं मन्त्रदानं नामदानं हरेस्तथा ॥५२॥प्रसाददानं मालादिप्रदानं शिक्षणार्पणम् ।लाभदानं सुखदानं मोक्षदानं परात्परम् ॥५३॥ददत्यभयं दानं तत् तपोदानं शुभास्पदम् ।पुण्यदानं प्रकुर्वन्ति साधवः साधुभूषणः ॥५४॥कृपादानं तथा रम्याशीर्वादानां प्रदानकम् ।दर्शनस्य प्रदानं च सेवादानं शुभावहम् ॥५५॥सद्गुणानां प्रदानं च तेन तेन हि साधवाः ।मां हरिं चार्जयन्त्येव भक्तेभ्यश्च ददत्यपि ॥५६॥दीक्षादानं चात्मदानं कृत्वाऽपि तारयन्ति ते ।भक्तिदानं शुभं कृत्वा तारयन्ति जनान् भवात् ॥५७॥अन्ततश्चाश्रयदानं चरणामृतदानकम् ।वाग्दानं साक्षितादानं कृत्वाऽपि तारयन्ति ते ॥५८॥मनोदानं स्नेहदानं पावित्र्यादिप्रदानकम् ।सदाचारक्रियाशिक्षादानं स्मृतिप्रदानकम् ॥५९॥कण्ठीदानं चिह्नदानं कृत्वाऽपि तारयन्ति ते ।मूर्तिदानं पात्रदानं कृत्वाऽपि तारयन्ति ते ॥६०॥अथ भेदं योजयन्ति दानं साम च यत्र न ।देहोऽयं मलसंयुक्तो मलिनः क्षणभङ्गुरः ॥६१॥आत्मा शुद्धो हरेर्भक्तो मुक्तियोग्यो हि शाश्वतः ।एवं भेदं विवेकं वै योजयन्ति च साधवः ॥६२॥अथ दण्डं वर्तयन्ति प्रायश्चित्तं विधर्मिणि ।अमार्गगं जनं सन्तो नियमयन्ति सद्व्रतैः ॥६३॥प्रायश्चित्तैः कृच्छ्रचान्द्रायणादिभिः क्रियात्मकैः ।द्रव्यव्ययात्मकैर्यज्ञमहोत्सवैः सुखोत्सवैः ॥६४॥अन्नसत्रैर्भोजनाद्यैः पूजादानार्पणादिभिः ।श्रेयस्करैस्तथाऽऽयासैर्योजयन्ति विशुद्धये ॥६५॥धर्मकर्मादिभिश्चापि योजयन्ति - प्रसह्य तान् ।यद्वा प्रबलदण्डेन नियमयन्ति साधवः ॥६६॥यथा पापानि नश्येयुर्मोक्षं विन्देयुरेव च ।एवं हितात्मदण्डेन योजयन्ति हि साधवः ॥६७॥गर्विष्ठानां तु वै क्रूरं दण्डं कुर्वन्ति वै क्वचित् ।तेषां निष्कल्मषतार्थं मुक्त्यर्थं चापि साधवः ॥६८॥दैविकं वा शुभं दण्डं प्रेरयन्ति जपादिकम् ।येन निष्कल्मषत्वं च प्राप्य यान्ति परं पदम् ॥६९॥पापी वा पुण्यशाली वा मिश्रितो वोभयादिभिः ।भक्तिमान् वा ह्यभक्तो वा नास्तिको वाऽऽस्तिकोऽपि वा ॥७०॥यः कश्चिद्वा भवेद् देही नयन्ति शरणं पुरः ।संस्कृत्योपायभेदैश्च पावयन्ति पुनः पुनः ॥७१॥प्रसादयित्वा सततं कृत्वा शुद्धं सनातनम् ।निजतुल्यं ततः सन्तो नयन्ति धाम चाऽक्षरम् ॥७२॥एवं सतां सदा लक्ष्मि परोपकारशालिता ।अप्रतिदानलभ्या वै तया शुद्ध्यन्ति देहिनः ॥७३॥यथा चाऽहं तथा ते वै गुरवो लोकतारकाः ।आनखशिखं सन्तस्तु पवित्रा मम मूर्तयः ॥७४॥यथा वै शर्कराखण्डः सर्वथा मिष्टसद्रसः ।भागत्यागो न तत्राऽस्ति तथा ते साधवो मम ॥७५॥यथा वा नवनीतस्य पिण्डः स्नेहात्मकोऽखिलः ।भागत्यागो न तत्राऽस्ति तथा ते साधवो मम ॥७६॥यथा वा मौक्तिकः शुद्धः स्वच्छो वा स्फटिकस्तथा ।कौस्तुभो वा मणिर्यद्वत् तथा ते साधवो मम ॥७७॥यथा वा कामधेनुर्गौर्यथा दुग्धं च निर्जलम् ।यथा वा कनकं शुद्धं तथा ते साधवो मम ॥७८॥यथा चिन्तामणिः श्रेष्ठो यथा कल्पतरुश्च वा ।कल्पवल्ली यथा श्रेष्ठा तथा ते साधवो मम ॥७९॥यथा मे हृदयं श्रेष्ठं यथा मूर्तिश्च मे परा ।यथाऽक्षरं परं धाम तथा ते साधवो मम ॥८०॥यथा विष्णुः सदा शुद्धः यथा शीलं व्रतोत्तमम् ।यथा शान्तिर्महद्द्रव्यं तथा ते साधवो मम ॥८१॥यथा क्षेत्रं कणिसस्यान्वितं गौः प्रसवोन्मुखी ।यथा यज्ञो दक्षिणान्तस्तथा ते साधवो मम ॥८२॥यथा वृक्षाः फलाढ्याश्च पुष्पाढ्या वल्लयो यथा ।चमत्कारी यथा त्यागी तथा ते साधवो मम ॥८३॥यथा रत्नमयी पृथ्वी माया गुणमयी यथा ।आत्मा चाऽशत्रयाढ्यश्च तथा ते साधवो मम ॥८४॥यथाऽहं सर्वसामर्थ्यो यथा लक्ष्मीर्हि सम्पदः ।यथा कृष्णात्मकं सर्वं तथा ते साधवो मम ॥८५॥यथा सुदर्शनं चक्रं यथा दण्डो यमस्य च ।यथा प्रसन्नता विष्णोस्तथा ते साधवो मम ॥८६॥यथा शंभुकृता भक्तिर्यथा सेवा सतीकृता ।यथा स्नेहः कामकृतस्तथा ते साधवो मम ॥८७॥यथा क्षमा साधुनिष्ठा यथा भक्तगतं वचः ।दास्यं साध्वीगतं यद्वत् तथा ते साधवो मताः ॥८८॥व्रतं पत्नीगतं यद्वत् तृप्तिर्निस्तृष्णगा यथा ।गंगाम्भः पावनं यद्वत् तथा ते साधवो मम ॥८९॥यथा वंशः पुत्रगतो दानं कन्यागतं यथा ।पूजा गणेशगा यद्वत् तथा ते साधवो मम ॥९०॥यथाऽहं साधुरेवाऽस्मि साध्वी त्वं च विराजसे ।यथा योगश्चावयोर्वै तथा ते साधवो मम ॥९१॥किम्वधिकं वेदयामि प्रशंसा नाऽत्रलभ्यते ।भगवन्तः साधवो मे भक्तोऽहं सर्वथा सताम् ॥९२॥अनर्प्य मम सद्भ्यो यो भुंक्ते स्वोदरसंभरः ।जायते स कृशे देशे कृशो वै ब्रह्मराक्षसः ॥९३॥साधूचितं पूजनं चाऽकृत्वा यो मोदते गृहे ।स्वगर्वात् सोऽपि देहान्ते जायते ब्रह्मराक्षसः ॥९४॥धनैश्वर्ययुतश्चापि सेवते न सतो जनान् ।निन्दति चाऽवजानाति स भवेद् ब्रह्मराक्षसः ॥९५॥गुणाभिमानसन्दृब्धो प्राऽज्ञान् पश्यति वै सतः ।दरिद्राँश्चाऽवजानाति स भवेद् ब्रह्मराक्षसः ॥९६॥अजेयानपि साधूँश्च तिरस्कारान् करोति यः ।मिथ्यादोषान् प्राहिणोति स भवेद् ब्रह्मराक्षसः ॥९७॥अजातशत्रून् साधून् यः क्लेशे योजयतीश्वरः ।सम्पन्नोऽपि मृतः पश्चाज्जायते ब्रह्मराक्षसः ॥९८॥विद्वानपि सतः शान्तानवमत्य जुगुप्सति ।हीयमानोऽपि दुर्वृत्तैः स भवेद् ब्रह्मराक्षसः ॥९९॥यस्तु मित्रमुखः शत्रुर्भवति श्वासघातकः ।अनार्यश्चार्यविद्वेष्टा जायते ब्रह्मराक्षसः ॥१००॥अयत्सु वर्तमानश्च सतो भावं विडम्बते ।प्रशंसति दुष्टभावान् जायते ब्रह्मराक्षसः ॥१०१॥महद्गुणैस्तु यो हीनो महत् प्रार्थयतेऽखिलम् ।सतोऽवमन्ता तद्योगे जायते ब्रह्मराक्षसः ॥१०२॥तपस्विनं क्षमायुक्तं गुरुं विज्ञानिनं प्रभुम् ।प्रसह्य चाऽवमन्ता यो जायते ब्रह्मराक्षसः ॥१०३॥साधून् वनेचरान् वीक्ष्य नोत्तिष्ठते पुरस्तु यः ।नात्महितं चरेद् यस्तु जीवन् वै राक्षसो हि सः ॥१०४॥राक्षसोऽपि हरेर्भक्तान् साधून्नत्वा प्रसेवते ।प्रसादयति सेवाभिश्चाशीर्वादान् सुविन्दति ॥१०५॥सद्गुणान् सुखदान् लक्ष्मि यो गृह्णाति सतो जनात् ।स एव जायते लोके साधुर्वै साधुवर्तनः ॥१०६॥न जन्म नापि यत्नश्च न वेषः साधुताऽर्जकः ।साधुसत्संगसेवादि कारणं साधुताग्रहे ॥१०७॥त एव तारका लक्ष्मि दर्शनात् स्पर्शनादपि ।सेवनात् परिचरणात् तरन्ति देहिनो भवात् ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने साधुत्वे विविधप्रयोजककारणादि साधुस्तवनाऽस्तवनफलादि चेतिकथननामा त्र्यशीतितमोऽध्यायः ॥८३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP