द्वापरयुगसन्तानः - अध्यायः ८२
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
अनादिश्रीकृष्णनारायण कृष्ण प्रभो विभो ।
स्वैरिण्याश्चापि कामिन्याः पुंश्चल्याश्चापि योषितः ॥१॥
सवासनायाः पापानि नश्येयुर्वै कथं वद ।
का गतिर्वापि तस्याः स्यात् केन शुद्धिश्च जायते ॥२॥
कथं वा सद्गतिः स्याच्च दयां कृत्वा वदस्व मे ।
अनाथाया हि नाथस्त्वं चाऽबलाया बलं भवान् ॥३॥
श्रीपुरुषोत्तम उवाच--
शृणु नारायणीश्रि त्वं पृष्टं कल्याणकृद्वचः ।
दयया हि त्वया पृष्टं तस्माद् ऋजु वदामि ते ॥४॥
संगाद् बलाच्च पुष्टेश्च मदाद् रसाच्च यौवनात् ।
जायन्ते वासनास्तीव्रा भोगात्मिक्यो हि कामनाः ॥५॥
ऋतवो धातवश्चापीन्द्रियदार्ढ्यं सुखेषणा ।
उत्तेजका हि कामानां तृष्णातन्तुविवर्धकाः ॥६॥
अंगानां दर्शनाद्धास्यादेकान्तस्य प्रसेवनात् ।
प्रायशो हि विवर्धन्ते स्पर्शादेः कामवासनाः ॥७॥
अयोग्या अपि युज्यन्ते देहाभ्यां वै परस्परम् ।
लोकशास्त्रव्यवहारान् परित्यज्य स्वतन्त्रतः ॥८॥
कामिनीत्वं पुंश्चलीत्वं स्वैरिणीत्वं ततो भवेत् ।
कामकारेण लोकेऽत्र योषितां लग्नमन्तरा ॥९॥
पुरुषाणां च स्वैरत्वं स्त्रीचलत्वं च कामिता ।
भवत्येवातिकामेन तृष्णया माययाऽपि च ॥१०॥
तेषां पापविनाशार्थं साधनानि बहून्यपि ।
भवन्ति पद्मजे प्रायश्चित्तानि च व्रतानि च ॥११॥
दुष्कराणि तथा याम्यवेदनानि बहून्यपि ।
देहदण्डानि चान्यानि राजदण्डानि सन्त्यपि ॥१२॥
त्यागाश्रमाणि रम्याणि तापसाश्रमणानि च ।
तीर्थानि विविधान्येव भवन्ति शुद्धयेऽपि च ॥१३॥
तदेतेषां परंश्रेयःकरं तु शरणागतिः ।
नैतादृशं परं चास्ति साधनं चेतरत् त्विह ॥१४॥
पापानां नाशकं सर्वपुण्यानां दायकं तथा ।
साधूनां सेवनं तत्र वासनाक्षालकं मतम् ॥१५॥
सत्संगो ज्ञानदस्तत्र मोहरागनिवारकः ।
कृपा - चात्मोन्नतिप्राप्तिकारणं वै सतां मता ॥१६॥
प्रसादभोजनं पादवार्यमृतादिपानकम् ।
सतां सद्यः पुनात्येव पापकोटियुतं जनम् ॥१७॥
सन्तः प्रत्यक्षतीर्थानि सन्तः प्रत्यक्षवह्नयः ।
सन्तः प्रत्यक्षवर्षा च सन्तः साक्षात्सुधामृतम् ॥१८॥
सन्तः साक्षाद् धर्मदेहाः सन्तोऽहं भगवान् स्वयम् ।
सन्तो यज्ञा गोचरा वै सन्तो देवाधिदेवताः ॥१९॥
सन्तो व्रतानि सर्वाणि सन्तो नावो भवाम्बुधौ ।
सन्तो' नारायणाः सर्वे सन्तस्तेजांसि शार्ङ्गिणः ॥२०॥
सन्तस्तपांसि सर्वाणि सन्तो ब्रह्म हि पावनम् ।
सन्तः कामदुघा बोध्याः सन्तो वै कल्पपादपाः ॥२१॥
सन्तश्च कल्पलतिकाः सन्तश्चिन्तामणीश्वराः ।
सन्तश्चाऽक्षयपात्राणि पुण्यानां धर्मकर्मणाम् ॥२२॥
सन्तश्चाऽव्ययकोशाश्च शाश्वतानन्दवारिधेः ।
तारका धारकाः सन्तः पापानां क्षालका द्रुतम् ॥२३॥
हरेर्गृहाणि सन्तो वै मूर्तयः साधवो मम ।
तेषां समागमात्तूर्ण महापापाब्धयोऽपि च ॥२४॥
अनले तृणवद् भस्मीभवन्ति स्पर्शमात्रतः ।
महापापाभिरेवाऽत्र स्त्रीभिर्नैजविशुद्धये ॥२५॥
सर्वस्वाऽर्पणभावेन सेवनीया हि साधवः ।
मम मन्त्रान् शरणादिप्रदान् सद्भ्योऽवगम्य च ॥२६॥
महाभाग्यवतीरीत्या प्रसेवेत सतो जनान् ।
दर्शनं स्पर्शनं नतिं परिचर्या च पूजनम् ॥२७॥
भोजनं मर्दनं पानं स्नानं च श्रवणं हरेः ।
सतां चापि प्रकुर्याच्च येषां स्वामी भवाम्यहम् ॥२८॥
तदा लक्ष्मि! स्वामिवत्पावनाः सन्तो मता मम ।
सन्त इव च शरणागताश्च सेवकाः खलु ॥२९॥
सेविकाश्च भवन्त्येव सुदिव्या निर्गुणास्तथा ।
निष्पापा पावनाः सर्वे विष्णुः सन्तश्च सेवकाः ॥३०॥
इत्येतत्परमं गुप्तं रहस्यं मम ते प्रिये ।
अबलानां कृते चोक्तं सुलभं पावनं परम् ॥३१॥
यदाश्रित्य सतां योगाज्जायन्ते वह्निसन्निभाः ।
ब्रह्मनिभा भवन्त्येव नार्यो निष्पापविग्रहाः ॥३२॥
शृणु तेऽत्र कथयामि प्रत्यक्षं ते निदर्शनम् ।
वाराणसी पुरी लक्ष्मि शिवेश्वरस्य ते पितुः ॥३३॥
यत्र गणाश्च गणिकाः सहस्रशः पितुस्तव ।
सेवकाः सेविकाश्चापि विद्यन्ते चाऽविवाहिताः ॥३४॥
यथेष्टकामचाराश्च शिवस्य भक्तिकारिणः ।
स्वैरिण्यश्चापि पुंश्चल्यः कामिन्यो गणिकाः खलु ॥३५॥
वसन्ति ते पितुः पुर्यां पुमांसेऽपि तथाविधाः ।
गणा भाण्डा नर्तकाश्च गायका वादका अपि ॥३६॥
नग्ना गणास्तथा नग्ना योगिन्यो गणिकास्तथा ।
यथाकामं प्रवर्तन्ते योगिशंकरसंश्रयाः ॥३७॥
तेषां तासामेकदा वै गंगायास्तु जलेऽभवत् ।
समाजो हि तु नौकासु गानकीर्तननर्तनैः ॥३८॥
गणिकानां नर्तनानि भाण्डानां हसनानि च ।
वृन्दलानां च नर्माणि प्रावर्तन्त निशामुखे ॥३९॥
प्रवृद्धमंगलनाम्ना जायते स महोत्सवः ।
तत्र वै प्रेक्षका रात्रौ लक्षशो मानवा अपि ॥४०॥
अभवन् संघशो वारौ नौकासु सर्वतोदिशि ।
कृत्वोत्सवान् साप्तदैनान् व्यरमन्त पितुस्तव ॥४१॥
विश्वनाथस्वसूपस्य मन्दिरे नर्तनादिभिः ।
अथात्र भगवान् योगी वात्स्यायनो महानृषिः ॥४२॥
आजीवं ब्रह्मचर्यस्थः साधुधर्मपरायणः ।
ऊर्ध्वरेताः शंभुवच्च महायोगीन्द्रसत्तमः ॥४३॥
समाजगाम तत्रैव धर्मारण्यात् सुतीर्थकृत् ।
विवस्त्रो भानहीनश्च सर्वांगधूलिधूसरः ॥४४॥
अविकारो युवा चापि वार्धक्यवृत्तिभूषितः ।
सर्वं ब्रह्मस्वरूपं च यस्य दृष्टौ प्रवर्तते ॥४५॥
नरनारीतिभाहीनः स्वयं साधुः सुशोभनः ।
ददर्श शंकरं देवं गणान् पूजनतत्परान् ॥४६॥
गणिकाश्च समस्ता वै युवतीर्भूषितास्तथा ।
शृंगारिता यथा ताश्च स्वैरिणीरिव संस्थिताः ॥४७॥
पुंश्चलीः कामिनीश्चापि सर्वचेष्टासमन्विताः ।
उत्सवे ते पितुः प्रसन्नताप्राप्त्यै सुयत्निताः ॥४८॥
वह्निकन्या इव रम्या देवीरिव समुज्ज्वलाः ।
रत्नहीरकमौक्तिकाद्यलंकृताः सुशोभनाः ॥४९॥
वीक्ष्य सर्वां ऋषिर्वात्स्यायनः साधुर्ननाम ह ।
हरभक्तानिकाः सर्वा वीक्ष्य शान्तं स्थितं मुनिम् ॥५०॥
युवानं रक्तपुष्टं च नग्नं शंकरसदृशम् ।
ध्यानमग्नं देहभानवर्जितं सूर्यभास्वरम् ॥५१॥
मोहोत्पादकरूपं च भोग्यमानससंश्रयम् ।
पुण्यपुञ्जं स्पर्शमात्रात् पापपुञ्जप्रदाहकम् ॥५२॥
एतादृशं वरं वीक्ष्य मुग्धा निश्चित्य शंकरम् ।
मूर्तिमन्तं चागतं वै पस्पर्शुः गणिकागणाः ॥५३॥
यद्यपि कामभावेन मोहभावेन काश्चन ।
काश्चन देवभावेन साधुभावेन काश्चन ॥५४॥
पादौ चुचुम्बुर्देवस्य ऋषेर्लिगं च नेत्रयोः ।
स्पर्शयामासुरत्यर्थं मेनिरे च कृतार्थताम् ॥५५॥
आश्चर्यं तत्र तासां वै जातं शृणु हि पद्मजे ।
ऋषिस्तु तिष्ठते स्तब्धो जडवत् सुसमाधिगः ॥५६॥
याः स्पृशन्ति गणिकास्तं तासां राजसवृत्तयः ।
याश्चासन् प्राक्समस्तास्ता व्यलीयन्त स्पृशेः ऋषेः ॥५७॥
निष्कामतां गताः सर्वाः सत्त्वपूर्णाः शुभाशयाः ।
कामवृत्तिविहीना वै स्पर्शमात्रात् क्षणान्तरे ॥५८॥
चाञ्चल्यं सर्वथा नष्टं गणिकानां समन्ततः ।
योनीनां च विकारा वै वेगा निर्वेगतां ययुः ॥५९॥
मानसानि समस्तानां निर्विकाराणि चाऽभवन् ।
संकल्पा वासनाः कामा रागा रतिश्च कामना ॥६०॥
सर्वे लीनाः क्षणात् तासां योगिस्पर्शगयोषिताम् ।
दिव्याश्च दृष्टयस्तासामभवन् शंभुयोषिताम् ॥६१॥
अथाऽऽकाशे महाश्चर्यं व्यलोकयँस्ततश्च ताः ।
लक्षशश्च समुद्भूता वागुरिका ह्यधोमुखाः ॥६२॥
गताश्चाकाशमार्गेण गंगाऽनुगा हिमालयम् ।
गणिकास्तत्र सञ्जाताः सर्वावरणवर्जिताः ॥६३॥
दिव्याश्च दिव्यदेहाश्च सतीराधारमा यथा ।
ततस्ताः शुद्धिमापन्नाः सर्वाः पापविवर्जिताः ॥६४॥
अन्तर्दृष्ट्या विलोक्यैनं वात्स्यायनं हि योगिनम् ।
ब्रह्मरूपं पापनाशकरं स्पर्शेन सर्वथा ॥६५॥
विदित्वा तं मुनीन्द्रं वै साधुं साधुविभूषणम् ।
नत्वा स्पृष्ट्वा पुनः सन्तं पप्रच्छुर्विनयान्विताः ॥६६॥
साधो पुण्यप्रतापात्ते दिव्या नो दृष्टयस्त्विह ।
देहाश्चापि च दिव्या नो जाताः स्पर्शनदर्शनात् ॥६७॥
कामा हृदय्या नष्टाश्च युवतीत्वं हि चञ्चलम् ।
सर्वं लीनं भवद्योगात् पादधूलिप्रवाहणात् ॥६८॥
वयं सर्वाः पाविताश्च स्वैरिण्यो गणिकास्त्विह ।
पुंश्चल्यश्चापि कामिन्यो यथा साध्व्यः स्म एव ह ॥६९॥
शंकरस्य प्रपूजायाः फलं महोत्सवस्य च ।
प्राप्तं त्वद्य हि लोकेऽत्र हृन्दि यन्निर्मलानि नः ॥७०॥
परं पृच्छाम एवाऽत्र साधो वागुरिकाश्च याः ।
अम्बरे ताः समुड्डीय लक्षशो विगतास्त्वितः ॥७१॥
कास्ताः कथं समायाताः क्व गताश्च कुतश्च ताः ।
वद नस्तद् यथार्थं वै त्वं नौ नैर्मल्यकारकः ॥७२॥
श्रुत्वा वात्स्यायनः प्राह साध्व्यः शृणुत मद्वचः ।
मम स्पर्शो भवतीभिर्येन केनापि कर्मणा ॥७३॥
येन केनापि भावेन विहितोऽत्रांऽगनास्ततः ।
भवतीनां वासना याः कामपापात्मिकास्तथा ॥७४॥
तृष्णाः पापात्मिकाश्चापि पापान्यसंख्यकानि च ।
गणिकाकृतकर्माणि तानि सर्वाणि यानि च ॥७५॥
मम पादस्पर्शनेन मल्लिंगस्पर्शनेन च ।
मद्धूलिधारणेनापि देहेभ्यो निर्गतानि वै ॥७६॥
भवतीनां शरीराणां पावनत्वं विलोक्य च ।
अशक्तानि हि संस्थातुं निर्यातानि समन्ततः ॥७७॥
तानि सर्वाणि पापानि वागुलिकात्मकानि च ।
भूत्वा यातानि सर्वाणि हिमालये तु मानसम् ॥७८॥
सरस्तत्र भविष्यत्यद्धा तन्मोक्षो विलीनता ।
मम योगेन सर्वासां पापानि निर्गतानि वै ॥७९॥
अथ यूयं समस्ताश्च गृह्णत मन्त्रमुत्तमम् ।
इत्युक्त्वा प्रददौ मन्त्रं गणिकाभ्यो मनुं मम ॥८०॥
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
गृहीत्वा गणिकादेव्यो मन्त्रं तूर्णं चतुर्भुजाः ॥८१॥
भूत्वा श्रीवैष्णवीदेव्यो दिव्यदेहाः सुशोभनाः ।
नारायण्यो विमानैश्च ययुर्धामाऽक्षरं मम ॥८२॥
सहस्रशो गणिकास्ता हरिप्रियास्ततोऽभवन् ।
वर्तन्ते चाऽक्षरेधाम्नि मम सेवापरायणाः ॥८३॥
इत्येवं साधुसंगेन लक्ष्मि! पुंश्चलिका अपि ।
सद्यः शुद्ध्यति धर्माढ्या दिव्या भवति सेविका ॥८४॥
तस्मात् पापातिपापानां शोधकं सेवनं सताम् ।
येन केनापि भावेन सेविताः शोधयन्ति ते ॥८५॥
अथाऽन्या गणिकाः श्रुत्वा चाययुस्तमृषिं प्रति ।
शुद्ध्यर्थं च तदा ताभ्यः कामशास्त्रं जगाद ह ॥८६॥
श्रावयित्वा शिक्षयित्वा सेवां दत्वा निजां ततः ।
तासां मोक्षं चकाराऽपि वात्स्यायनो महानृषिः ॥८७॥
शंकरश्च स्वयं मूर्तिमान् भूत्वा गोचरोऽस्य च ।
अभवत् प्राह धन्योऽसि गणिकामोक्षकृद् ऋषे ॥८८॥
साधो साधुस्वरूपोऽसि कामं कृत्वा सुचिन्तितम् ।
अपि कामेन नैव त्वं लिप्तोऽसि कामशास्त्रकृत् ॥८९॥
यथाऽहं दाहकश्चाऽस्मि कामस्य जीवकोऽपि च ।
यथा कृष्णो विजेताऽस्ति कामस्य रमयन्नपि ॥९०॥
तथा त्वं च विजेताऽसि कामस्य वर्णयन्नपि ।
भव साधो मुक्तिदाता पापं विनाश्य योषिताम् ॥९१॥
शास्त्रं ते तव नाम्नैव ख्यातं लोके भविष्यति ।
इत्युक्त्वा शंकरो देवो तिरोभावं पिता तव ॥९२॥
ययौ काश्यां च साधुः स व्यचचार महीतले ।
मोक्षयन् जीवजातानि वात्स्यायनो हि वैष्णवः ॥९३॥
पठनाच्छ्रवणादस्य स्मरणात् सेवनादपि ।
महापापानि नश्यन्ति मोक्षगतिर्ध्रुवा भवेत् ॥९४॥
इत्येवं कथितं लक्ष्मि रहस्यं साधुसेवनम् ।
भुक्तिमुक्तिप्रदं दिव्यभावप्रदं कथानकम् ॥९५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने स्वैरिणीकामिनीपुंश्चलीनामपि गणिकानां काश्यां साधुवात्स्यायनसमागमेन पापनाशोत्तरं मुक्तिप्राप्तिरित्यादि-
निरूपणनामा द्व्यशीतितमोऽध्यायः ॥८२॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP