संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २३० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २३० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २३० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं मत्स्यपत्तनवासिनः ।मत्स्यादस्य धीवरस्य तथापि भक्तिकारिणः ॥१॥कथामुद्धारकर्त्री वै साधुसमागमोद्भवाम् ।पापिनां पावनीं मायामोहनाशकरीं तथा ॥२॥धीरपर्वाऽभिधश्चासीद् धीवरो मत्स्यपत्तने ।शतनौकाधिपः कृष्णानद्यब्धिसंगमे सदा ॥३॥यस्य नावो भृत्ययुक्ता मत्स्यान् गृह्णन्ति जालिकाः ।ब्राह्ममुहूर्तादारभ्याऽऽसूर्योदयं तु नित्यशः ॥४॥नित्यं वै लक्षमत्स्यानां जालग्रहः प्रजायते ।सूक्ष्मस्थूलसुदीर्घाणां भिन्नगुणादिवर्ष्मणाम् ॥५॥तेषां हिंसात्मकं पापं जायते धीरपर्वणः ।लक्षवर्षायुष्यकोऽपि धीरपर्वाऽतिहिंसया ॥६॥आयुषा हीयते नित्यं शताहप्रमितेन वै ।वर्षद्वयान्तरे तस्य सहस्राणि तु सप्ततिः ॥७॥वर्षाणि चायुषः पापैश्छिन्नानि मत्स्यशापतः ।त्रिंशद्वर्षोत्तरं तेन मत्स्यव्यापार आदृतः ॥८॥मिलित्वा लक्षवर्षाणि द्वात्रिंशे विगतानि ह ।द्वात्रिंशे चान्तिमे मासे वर्षायां मेघवर्षणम् ॥९॥सप्ताहं सततं जातं कृष्णादेशेषु सर्वशः ।तुंगभद्राप्रदेशेषु तथैव मेघवर्षणम् ॥१०॥अभवत् सततं लक्ष्मि मूशलधारसदृशम् ।जलानि पूरवेगानि ममुर्न सरितोस्तदा ॥११॥सरिन्मार्गं विहायैव भूमार्गान् विषयान् व्यधुः ।बहवो मानवास्तत्राऽरण्यस्थाः साधवोऽपि च ॥१२॥पशवः पक्षिणश्चापि जलपूरैः प्रवाहिता ।मृतास्तु बहवस्तेषु पूरेषु दूरकर्षिताः ॥१३॥निराधारा मृताः सर्वे साऽधाराः काष्ठलम्बनाः ।वृक्षाद्यालम्बनाश्चान्ये जीवन्तः पूरमध्यगाः ॥१४॥आययुर्मत्स्यपट्टस्य कृष्णसागरसंगमे ।देहिनो जीवतो वीक्ष्य महाजलेऽपि वै तदा ॥१५॥धीरपर्वा निजभृत्यान् यन्त्रिनौकाभिरक्षिणः ।सर्वानाज्ञापयामास शतनौकाधिनायकान् ॥१६॥मा मत्स्यग्राहं कुर्वन्तु यावन्नद्या उपद्रवः ।जीवन्मानवग्रहणं कुर्वन्तु पूरमध्यतः ॥१७॥सर्वथा प्राणदानं वै प्राणमात्रं तु जीविनाम् ।प्रवाहवाहितानां वै कर्तव्यं प्रलयेऽत्र तु ॥१८॥भोजनं चापि शुष्कान्नं भर्जितं चणकादिकम् ।दातव्यं कम्बलवस्त्राद्यं शीतहरणार्थकम् ॥१९॥एवं वै रक्षणं तत्र विहितं धीरपर्वणा ।धनाऽन्नाम्बरनौकादिप्रदानैर्भृत्यमानवैः ॥२०॥नरा नार्यो बालकाश्च वृद्धा वा काष्ठसंगताः ।वंशस्तम्बमहावृक्षलग्नाः शाखाविलम्बनाः ॥२१॥घासपेटादिसंसक्ताश्चान्ये शवादिकाश्रयाः ।तरद्वस्तुसमाधाराः सहस्रशो हि मानवाः ॥२२॥यतयः साधवः साध्व्यो विरक्ता वैष्णवा अपि ।भक्ता नारायणपरा जीवन्तो रक्षितास्तदा ॥२३॥तेषामाशीर्वादलब्धमहापुण्यातिसागरः ।जीवदानमहापुण्योदयश्चापि व्यजायत ॥२४॥पुण्यं पापं विना भोगं क्षपयितुं न शक्यते ।आयुःक्षयान्नसप्ताहे योगोऽयं समजायत ॥२५॥पापैरायुः क्षीयते वै पुण्यैरायुर्विवर्धते ।पूर्वस्य पूर्वभोगो वै पश्चिमस्य स पश्चिमः ॥२६॥हिंसाघातादिकर्मोत्थं फलं तु मरणं मुहुः ।घातेनैव भवेद्धातकिनस्तस्य यमालये ॥२७॥तीव्रसंवेगितं कर्म मत्स्यमारोद्भवं बलि ।पूर्वं भोगाय वै प्राप्तं कालपाशाऽभियोजितम् ॥२८॥याम्यदूतैश्च संयुक्तं कोटिमत्स्यादिघातजम् ।सप्ताहान्ते दिने वर्षावेगे तु न्यूनतां गते ॥२९॥नौकायां यन्त्रयुक्तायां निषद्य भृत्यसेवितः ।पत्नीपुत्रादिसहितो द्रष्टुं वेलां जले ययौ ॥३०॥कृष्णासागरसंयोगे - महाप्रवाहवेगिते ।महाजले ययौ यावत् क्रोशदूरं तु सागरे ॥३१॥तावन्नौकातले वृक्षशाखोच्छालनमद्भुतम् ।अचिन्तितं समायातं वारिभ्रमो महोच्छ्रयः ॥३२॥अचिन्तितः समुत्पन्नो महाविच्युदयोऽपि च ।मिथो महाजलभित्तिद्वयताडनसंभवे ॥३३॥महानौकाऽग्रतो भागे खे तूत्प्लुत्य सुवेगतः ।अधोगताऽग्रतो यावत्तावत् पृष्ठे महाजलैः ॥३४॥उत्क्षिप्ता खे वेगतश्च ताडवत् सा ततोऽभवत् ।नौकाग्रं जलभित्तिभ्यां नीतं चाऽधो जलान्तरे ॥३५॥तावत्पार्श्वमहावेगिजलैर्व्यावर्तिता ह्यवाङ् ।निमग्ना क्षणमात्रेण तत्र समुद्रवारिषु ॥३६॥तलं गता भुवः सा तु निराश्रयाऽसहायिनी ।धीरपर्वादयः सर्वे मृता वारिषु मूर्छिताः ॥३७॥याम्यदूतैर्यमलोकं नीतास्ते पापिनो द्रुतम् ।शवास्तु भक्षिता मत्स्यैर्धनानि भृत्यमानवैः ॥३८॥नौकास्तु नाविकैर्नीताः प्राणास्तु यमपार्षदैः ।पुण्यपापानि नीतानि मृतैस्तैस्तु कुटुम्बिभिः ॥३९॥पाथेयानि यथा तानि चात्मभिः सह संययुः ।यथाकालं च ते दूतैर्नीता यमालयं प्रति ॥४०॥चित्रगुप्तेन पापानि श्रावितानि यमान्तिके ।धर्मराजा तु तान् सर्वानदण्डयद् यथाकृतम् ॥४१॥कालसूत्रे न्यक्षिपच्च बहुकालं ततः पुनः ।गलपाशाख्यनरके न्यक्षिपन्मत्स्यघातिनः ॥४२॥ततः क्षारकर्दमे च न्यक्षिपच्चिरमेव तान् ।ततो विशसने कुण्डे न्यक्षिपत्तान् सशस्त्रके ॥४३॥ततश्चासिपत्रवने न्यक्षिपत्ताँश्चिरं ततः ।न्यक्षिपत्तान् वह्निकुण्डे महाज्वालासमाकुले ॥४४॥ततस्तान्न्यक्षिपज्जन्तुबहुले कुण्डकेऽत्र च ।वृश्चिकाः कृकलासाद्या दंशन्ति विषपायिनः ॥४५॥ततो लालामुखे तांश्च न्यक्षिपद् यमराजकः ।ततो मत्स्यादिकुण्डे च क्षारसागरनामके ॥४६॥न्यक्षिपत्तान् जालनौकायाम्यभटैः प्रपीडिते ।मत्स्यास्ते त्वभवँस्तत्र महामत्स्यादिभोजनाः ॥४७॥मत्स्यैरुत्कर्तिताश्चापि भक्षितास्ते पुनः पुनः ।उज्जीविनः पुनश्चापि भूत्वा कष्टानि यान्ति ते ॥४८॥ततो निष्कासिताः सर्वे दीर्घकालेन कुण्डतः ।सर्वपापातिदण्डस्य प्रान्ते धर्माज्ञया च ते ॥४९॥प्रेता अभवन् शुष्के वै महारण्ये तु दुःखिनः ।सहस्रवत्सरान्ते ते भुक्त्वा ताः प्रेतयातनाः ॥५०॥क्षारसमुद्रके जाता मत्स्याः कृष्णाऽब्धिसंगमे ।धीवरैर्जालयन्त्रैश्च धृतास्ते भक्षितास्ततः ॥५१॥एवं कृतानां पापानां भोगान्तं प्राप्नुवँश्च ते ।ततः पुण्यस्तरः प्राप्तो मनुष्यप्राणदानजः ॥५२॥सर्वे ते मत्स्यनगरे वैष्णवानां गृहेऽभवन् ।विप्राणां क्षत्रियाणां च नौपतीनां सुबालकाः ॥५३॥नौकाभिर्ये तु वस्तूनां व्यापारं बहुदेशिनाम् ।कुर्वन्ति धनदं श्रेष्ठमुद्यमं न तु हिंसनम् ॥५४॥एवंविधानां पुत्रास्तेऽभवन् भक्तियुताः शुभाः ।धनधान्यर्द्धिमद्गेहे यत्र तत्र सुखान्विताः ॥५५॥विप्रभक्ताः साधुभक्ताः अहिंसाधर्मतत्पराः ।देवपूजापराश्चापि दानिनो विघसाशिनः ॥५६॥गवां सेवापराश्चापि साधुसाध्वीप्रपूजकाः ।देवालयादिसेवायां श्रद्धालवो नयान्विताः ॥५७॥कारितं मन्दिरं तैश्च नारायणस्य तत्र वै ।लक्ष्म्या साकं हरिस्तत्र विधिना स्थापितो द्विजैः ॥५८॥अथ भक्तो द्विजो विप्रो नाम्ना निर्वाणनाविकः ।गार्हस्थ्यं सम्परित्यज्य त्यागाश्रमं विवेश ह ॥५९॥साधुर्भूत्वाऽवसत्तत्र मन्दिरे पूजकः सदा ।निर्वाणायननामाऽसौ वैष्णवः परमो यतिः ॥६०॥देवसेवां भक्तसेवां सतां सेवां करोति च ।वैष्णवानुत्सवान् दिव्यान् करोति कारयत्यपि ॥६१॥कथां करोति सायं च मानवाश्च नराः स्त्रियः ।श्रवणार्थाः समायान्ति नगरं वैष्णवं ह्यभूत् ॥६२॥एकदाऽहं तस्य भक्त्या समाकृष्टो दयावशः ।साधूर्भूत्वा वैष्णवाग्र्यः कथां श्रोतुं ययौ तदा ॥६३॥अभ्यागतं च मां वीक्ष्योपावेश्य मां शुभासने ।स्वागतादि चकारापि मम साधुः स शोभनः ॥६४॥लक्ष्मीनारायणसंहितायाः कथोत्तरं त्वहम् ।उपादिदेश तत्रैव सभ्येभ्यो दयया हरिः ॥६५॥कथायाः श्रवणे कृष्णनारायणः प्रसीदति ।श्रूयते यत्कथा सोऽत्र कृष्णः साक्षात् प्रजायते ॥६६॥कथाफलं हरौ स्नेहो माहात्म्यवेदनेन वै ।आत्मनिष्ठा च भगवन्निष्ठा मोक्षश्च धामनि ॥६७॥मायामोहविनाशश्च हरेः सेवाऽर्जनं सदा ।दिव्यता सर्वदा शाश्वतानन्दसंभृता तथा ॥६८॥कथाफलं तु तत्प्रोक्तं श्रव्यैवं चादरात् कथा ।प्रेमिभक्तस्य घटिका कृष्णं विना न गच्छति ॥६९॥कृष्णेक्षणं विना स्थातुं शक्नुयान्न कथंचन ।ज्ञानवान् भक्तिमाँश्चापि वैराग्यवान् स वर्तते ॥७०॥दृढा स्थितिर्हरौ तस्य जायते चानपायिनी ।नार्या अपि श्रियः कान्ते प्रीतिः स्यादनपायिनी ॥७१॥ऐकान्तिकी पूर्णभक्ता सदा मुग्धा हरौ भवेत् ।स्वकार्यसाधने रक्ता कृष्णादेव तदर्थिका ॥७२॥मनो नान्यत्र यात्येव वसत्येव हरौ सदा ।स्वकार्यं कृष्णकार्यं च भक्त्या साधयति ध्रुवम् ॥७३॥कृष्णकान्ता कृष्णभक्ता सदा रक्ता हरौ भवेत् ।स्वार्थं विहाय कृष्णस्य कार्यं सर्वं प्रसाधयेत् ॥७४॥सर्वस्वार्पणभावा स्यात् सदाऽर्पिता हरौ भवेत्॥एवं नार्यो भवन्त्येव मुग्धा रक्ताः समर्पिताः ॥७५॥त्रेधा तासां पतिः कृष्णः समुद्धर्ता महार्णवात् ।तासां तु श्रेयसे कृष्णो मानवो जायते पतिः ॥७६॥अनुग्रहाय राजा वै रमणो मोक्षदो हरिः ।साधूनां तु श्रेयसे स तापसो जायते ऋषिः ॥७७॥राजरूपं साधुरूपं पतिरूपं प्रभुं तु याः ।आश्रयन्ति तु ता दिव्या भवन्ति मुक्तकोटिकाः ॥७॥दिव्यदृष्ट्या हरिकृष्णं विदन्ति परमेश्वरम् ।अनादिश्रीकृष्णनारायणं मापतिवल्लभम् ॥७९॥यथा मिष्टसमुद्रस्य जलं पिबन्ति देहिनः ।यथादेहं यथाशक्ति तृप्यन्ति च यथाबलम् ॥८०॥पिपीलिकादिकमहामत्स्यान्ताः सर्वदेहिनः ।तथापि ते समुद्रस्य पारं न यान्ति वै क्वचित् ॥८१॥यथाऽम्बरस्य मशकादयश्च गरुडादयः ।यथाशक्ति सुखं प्राप्योड्डयनं रचयन्ति हि ॥८२॥तथाप्यन्तं न यान्त्येव व्योमाऽपारं निगद्यते ।तथा श्रीकृष्णचन्द्रस्य पारं यान्ति न केऽप्यपि ॥८३॥यथा भूमिगतो देही चन्द्रं स्थालं प्रपश्यति ।स एवाऽन्तिकतां प्राप्तो महान्तं तं प्रपश्यति ॥८४॥चन्द्रगतो जनश्चन्द्रमपारं सम्प्रपश्यति ।तथा भक्तः समीपस्थोऽपारं कृष्णं प्रविन्दति ॥८५॥उपासनाबलं स्वल्पं दीपवत् कथ्यते हि तत् ।ततोऽधिकं बलं दाववह्निवज्जायते खलु ॥८६॥ततोऽधिकतरं तत्तु महाभूताऽनलादिवत् ।ततोऽधिकतमं तत्तु ब्रह्मधामसमं मतम् ॥८७॥ब्रह्मतेजोभिरापूर्णो भक्तो विन्दति माधवम् ।अपारं चातिदिव्यं च कृष्णं कान्तं मनोहरम् ॥८८॥ब्रह्मरूपो महामुक्तो निषेवते परात्परम् ।अनादिश्रीकृष्णनारायणस्वामिरमापतिम् ॥८९॥भक्त्यभ्यासवशा नारी प्राप्नोति माणिकीपतिम् ।सतां पतिं मुक्तपतिं ब्रह्मपतिं महाप्रभुम् ॥९०॥यथा स्नेहप्रकाशादेराधिक्यं जायते तथा ।कृष्णसुखं महद्दिव्यमाप्नोति मुक्ततां गतः ॥९१॥कृष्णात्मा कृष्णमूर्तिश्च कृष्णानन्दपरिप्लुतः ।मुक्तोत्तमो जायते वा नरो नारी समर्पितः ॥९२॥भक्त्यभ्यासप्रतापेन कृष्णैक्यं चापि जायते ।लक्ष्मीवद् राधिकावच्च माणिकीवत् सुशाश्वतम् ॥९३॥नित्यं कृष्णो भजनीयः कृष्णनारायणप्रभो ।हरे श्रीबालकृष्णश्रीपतेऽक्षरपते विभो ॥९४॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।मन्त्रं जपन्तु नित्यं वै नारायणस्य सेवकाः ॥९५॥आत्मनिवेदिनः सन्तु कृष्णार्थसर्वनिश्चयाः ।इत्युक्त्वाऽहं कथान्ते वै चतुर्बाहुस्तदाऽभवम् ॥९६॥शंखचक्रगदापद्ममणिकिरीटकुण्डलैः ।तेजोभिः शोभितो लक्ष्मि सर्वैर्जयेतिशब्दितः ॥९७॥पूजितो हृदयैश्चापि भक्त्या चन्दनवारिभिः ।वन्दितो निजमोक्षार्थं तथाऽस्त्वित्यवदं च तान् ॥९८॥मनांस्याकृष्य सहसा तिरोभावं चिदम्बरे ।अथ प्राप्ते समये तान् अनयं धाम मेऽक्षरम् ॥९९॥काँश्चित् स्वर्गं तथाऽन्याँश्च सत्यं वैराजकं पदम् ।अपरान् श्रीपुरं चान्यानमृतं त्वनयं तथा ॥१००॥वैकुण्ठं चापि गोलोकमव्याकृतं परं पदम् ।प्रापयामास भक्ताँस्तान्नाविकान् जीवरक्षकान् ॥१०१॥साधुरक्षकरान् साध्वीरक्षकान् बालरक्षकान् ।जीवदानप्रदातॄँश्च भक्तान् द्वितीयजन्मजान् ॥१०२॥एवं लक्ष्मि महापापान् कदाचिद् भगवत्कृते ।साध्वीसाधुकृते गवां कृतेऽपि पुण्यकारकान् ॥१०३॥कालान्तरेऽपि पुण्यानामुदये साधुयोगिनः ।कृत्वा नयामि धामोर्ध्वमक्षरं परमं पदम् ॥१०४॥पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।भुक्तिर्मुक्तिर्भवत्येव यथेष्टा च गतिर्भवेत् ॥१०५॥पापिपापानि नश्यन्ति श्रीहरेः स्मरणादपि ।भक्तानां च यशोगानैः शुद्ध्यन्त्यघानि सर्वशः ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने पूर्वजन्मनि धीवराणां मत्स्यमाराणां धीरपर्वादीनां याम्ययातनोत्तरं पूर्वाल्पपुण्येन नौपतिजन्मानि तत्र भजनं मोक्षणं चेत्यादिनिरूपणनामा त्रिंशदधिकद्विशततमोऽध्यायः ॥२३०॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP