द्वापरयुगसन्तानः - अध्यायः ६१
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भक्ताया रक्षणं तथा ।
गदया च कृतं तत्ते वक्ष्यामि चाद्भुतं महत् ॥१॥
एकदा भद्रको नाम राक्षसोऽब्धिनिवासकृत् ।
श्रुत्वा ज्ञात्वा स्त्रिया राज्यं गोदलं पश्चराष्ट्रकम् ॥२॥
चिदम्बरां निजां नारीं कर्तुमनाः स राक्षसः ।
कामरूपधरो भूत्वा राजन्यशतमोहनः ॥३॥
युवा भूत्वाऽतिरमणः पुष्टः सौन्दर्यराजितः ।
क्लृप्तवैष्णवतिलकः क्लृप्तराक्षससाधुभिः ॥४॥
क्लृप्तविप्रजनैर्युक्तो यात्रालुवेषशोभितः ।
राजस्मृद्धियुतो गोदलाख्यं पुरमुपाययौ ॥५॥
किलासनायां वाट्यां स संघरूपो ह्युवास ह ।
राज्ञ्या वृत्तान्तमाज्ञाय रक्षो भूत्वा तु वैष्णवः ॥६॥
नृपो ययौ राजसौधं राज्ञीं ददर्श शोभनाम् ।
राज्ञ्या विज्ञाय राजन्यः सत्कृतः स्वागतादिभिः ॥७॥
ययाचे स ततो राज्ञीं राज्यं चाऽङ्गमोहितः ।
राज्ञी न्यषेधयत् तूर्णं गन्तुं राष्ट्राद् बहिस्तदा ॥८॥
शीघ्रमाज्ञापयच्चापि राक्षसोऽपि तु वै द्रुतम् ।
नत्वा स्वकान् जनान् नीत्वा समुद्रं प्रययौ ततः ॥९॥
एकाकी त्वागतः कालान्तरे रात्रौ नृपीं प्रति ।
शयानां तां समुत्तोल्य स्कन्धे निनाय चाऽम्बरे ॥१०॥
प्रययौ वै द्रुतं रक्षो राज्ञी चोन्निद्रिता यदा ।
ददर्श राक्षसं व्योम्नि स्वां नयन्तं सती तदा ॥११॥
सस्मार तां गदां कौमुदकीं गदा द्रुतं पुरः ।
आगता च ततो राज्ञ्या त्वाज्ञप्ता रक्षणाय वै ॥१२॥
राक्षसं चापि हन्तुं वै तावद् गदा भयंकरी ।
अम्बरे तु समुड्डीय रक्षःस्कन्धे पपात ह ॥१३॥
मस्तके पृष्ठभागे च बाह्वोः सक्थ्नोश्च पादयोः ।
भद्रकस्याऽवयवेषु चोत्पत्योत्पत्य वै मुहुः ॥१४॥
जघान राक्षसं सोऽपि पृथ्व्यां पपात ताडितः ।
मूर्छितश्चाऽभवत् किलासनोद्यानसमीपतः ॥१५॥
गदया सहिता राज्ञो स्मृत्वा मां परमेश्वरम् ।
सप्राणं राक्षसं त्यक्त्वा निजालयमुपाययौ ॥१६॥
राक्षसः प्रययौ नैजं स्थानं सामुद्रमध्यगम् ।
राज्ञीरक्षां समाकर्ण्य प्रजा मग्नास्तदाऽभवन् ॥१७॥
आशीर्वादैः प्रजा राज्ञीं वर्धयामासुरुत्सुकाः ।
राज्ञी पूजां हरेः कृत्वा गदापूजां चकार ह ॥१८॥
एवं रक्षा कृता राज्ञ्या गदया राक्षसात् तदा ।
राक्षसोऽपि पुनः कालान्तरे चाऽयात् ससैन्यकः ॥१९॥
आहर्तुं तां नृपीं राज्यं नैजं कर्तुं समुद्यतः ।
बहुभिः सैन्यभागैः सः पुरीमावृत्त्य गर्जनाम् ॥२०॥
चकार व्योममार्गेण युद्धवाद्यान्यवादयत् ।
राज्ञी तुष्टाव मां कृष्णं गदां पुपूज चन्दनैः ॥२१॥
भोजनैर्हारगन्धाद्यैः रक्षां वव्रे ततः परम् ।
गदोत्थाय निजस्थानादम्बरे साऽभवत् क्षणात् ॥२२॥
कोटिसूर्याग्निसम्पन्ना बभूव क्षणमात्रतः ।
उद्वमत्सुवह्निशिखा सगर्जना मुहुर्मुहुः ॥२३॥
रोदसी नादयमाना शुशुभे विजयावहा ।
ययौ शीघ्रं भद्रकस्य सैन्यं च भद्रकं प्रति ॥२४॥
भद्रकं मारयामास मूढमारेण सा गदा ।
ततः सैन्यं गदादेवी मारयामास मूढवत् ॥२५॥
सैन्यं भग्नं राक्षसानां राक्षसोऽपि विमूर्छितः ।
पपात भूतले तावद् गदा मौनमुपस्थिता ॥२६॥
राक्षसः प्राणरक्षां च कृत्वा पलायनं व्यधात् ।
सैन्यं दुद्राव शिष्टं च जयकारोऽभवत् स्त्रियाः ॥२७॥
सा शान्ता च गदा स्थानमागत्य निष्क्रियाऽभवत् ।
राज्ञी पुपूज विधिना नैवेद्यादि ददौ तथा ॥२८॥
अथ कालान्तरे याते राक्षसा बहवोऽब्धिजाः ।
मिलित्वा मन्त्रणां चक्रू राज्ञीराष्ट्रोपलब्धये ॥२९॥
अस्त्रशस्त्रविदश्चाऽन्ये मायामन्त्रविदोऽपरे ।
अन्तर्धानविदश्चापि बहुरूपविदस्तथा ॥३०॥
सिद्धिमन्तो राक्षसाश्च राक्षस्योऽपि सहस्रशः ।
युद्धसामग्रिकायुक्ताश्चाययुर्गोदलां पुरीम् ॥३१॥
व्योममार्गेण रक्षांसि विनेदुर्जयकांक्षिणः ।
युद्धशब्दान् प्रचक्रुश्चाऽवादयन् दुन्दुभीन् मुहुः ॥३२॥
शंखशब्दान् प्रचक्रुश्च रणवाद्यान्यवादयन् ।
किलकिलादिशब्दानास्फोटादीँश्च व्यधुस्तदा ॥३३॥
एवं श्रुत्वा राक्षसानां घोषान् भयंकरान् प्रजाः ।
सन्त्रेसू राजसैन्यानि सन्त्रेसुश्चाऽति भूस्तरे ॥३४॥
प्रधानाद्या नृपीं गत्वा ज्ञापयामासुरुल्बणम् ।
उपद्रवं समरार्थं राक्षसानां समीहितम् ॥३५॥
राज्ञी शीघ्रं समुत्थाय स्नात्वा गदां पुपूज सा ।
धूपदीपसुनैवेद्यैर्नीराजनैरवर्धयत् ॥३६॥
गुर्वी गदा तदा नारीरूपा दिव्या रणेश्वरी ।
भूत्वा सर्वाऽस्त्रशस्त्राद्यैः सम्पन्ना समुवाच ह ॥३७॥
अहं भागवतीशक्तिः रक्षार्थं तेऽस्मि योजिता ।
अनादिश्रीकृष्णनारायणेन परमात्मना ॥३८॥
अद्याऽपराधिनं चैनं त्रिवारं समुपागतम् ।
रणं दत्वा विविधं च ततो वै प्राणनाशनम् ॥३९॥
करिष्येऽस्य महाराज्ञि नमस्ते स्वस्ति ते शुभम् ।
इत्युक्त्वा सर्वशक्त्याढ्या रणेश्वरी गदा तदा ॥४०॥
स्वदेहात् सुषुवे पुष्टान् योद्धृन् रणाऽविसह्यकान् ।
योजयामास तान् सर्वान् व्योमगतीन् गहेश्वरान् ॥४१॥
कृत्वा सैन्यानि सास्त्राणि सशस्त्राणि च तेऽम्बरे ।
उड्डीय रक्षःसैन्यानि समास्कन्दितवन्ति वै ॥४२॥
राक्षसा राक्षसीव्राताश्चापि पेतुर्महोल्बणाः ।
शस्त्रैर्गदाभिर्दण्डैश्च तोमरैर्लोहगोलकैः ॥४३॥
प्रस्तरैश्चोपलाभिश्च भूशूण्डीशक्तिभिर्द्रुमैः ।
नाराचैश्च शरैर्बाणैः खड्गैर्भल्लैश्च गोलकैः ॥४४॥
अथ दृष्ट्वा राक्षसानां सन्नाहं चातिवेगिनम् ।
गदेश्वराश्चाऽभिपेतुर्व्योम्ना समरदुर्मदाः ॥४५॥
शस्त्रैरस्त्रैर्गोलकैश्च गदाभिस्तोमरादिभिः ।
निजघ्नुः राक्षसान् वीरा गदादेवीप्रणोदिताः ॥४६॥
परस्परं निजघ्नुश्च शस्त्रैर्विविधधारिभिः ।
मारयामासुरुग्रास्ते द्विभागान् राक्षसान् व्यधुः ॥४७॥
कण्ठतः स्कन्धतश्चापि कटितः करतस्तथा ।
सक्थितो भेदयामासुर्नाशयामासुरासुरान् ॥४८॥
चूर्णयामासुरुग्रान् वै राक्षसान् हि गदेश्वराः ।
पातयामासुरसुभिर्वियुज्याऽम्बरतस्तलम् ॥४९॥
गले धृत्वा कराभ्यां च चूषयामासुरासुरान् ।
अग्निं विभाव्य रक्षांसि ज्वालयामासुरीश्वराः ॥५०॥
विमर्दो वै महाञ्जातो रक्षसां भूनिपातिनाम् ।
तदा स भद्रकश्चक्रे मायां राक्षसजीवनीम् ॥५१॥
रक्षांस्युज्जीवयामास सर्वशस्त्रास्त्रकोविदान् ।
उत्थायोत्थाय ते जघ्नुर्गदेश्वरान् भटान् मुहुः ॥५२॥
मायिकान् वै गजानुष्ट्रान् मकरान् व्याघ्रभल्लुकान् ।
सिंहान् झषान् शरभाँश्च द्विपिनो व्यालपुंगवान् ॥५३॥
भूतप्रेतपिशाचाँश्च पर्वतान् वैद्युतान् भटान् ।
मेघशिलाः समुत्पाद्य मायया जघ्नुरीश्वरान् ॥५४॥
वातवृष्टिं प्रचक्रुश्च रजोवृष्टिं व्यधुस्तथा ।
वह्निवृष्टिं व्यधुश्चापि शिलावृष्टिं व्यधुस्तथा ॥५५॥
शलभानां महावृष्टिं वृश्चिकानां प्रवर्षणम् ।
व्यालानां कृकलासानां गोधानां वर्षणं व्यधुः ॥५६॥
विषवृष्टिं व्यधुश्चापि रक्तवृष्टिं व्यधुस्तथा ।
उष्णोदकानां धाराभिः प्रजानां पीडनं व्यधुः ॥५७॥
कर्दमानां वर्षणं च हस्तिनां वर्षणं ततः ।
वृक्षाणां वर्षणं चापि सिंहानां वर्षणं व्यधुः ॥५८॥
अग्नीनां वर्षणं चापि राक्षसानां च वर्षणम् ।
व्यधुस्ते राक्षसास्तत्र भयंकरप्रवर्षणम् ॥५९॥
शस्त्राणां वर्षणं चापि व्यधुर्देहविभेदिनाम् ।
एवं विनाशरूपं ते चक्रू रणं हि राक्षसाः ॥६०॥
ब्रह्मजित् क्रतुजिच्चापि देवान्तको नरान्तकः ।
कुम्भगर्तः शंकुरथश्चायोमुखः शताह्वयः ॥६१॥
इन्द्रजिदेकचक्रश्च प्रापणश्च पुरुण्डकः ।
चूर्णनाभश्चासिलोमा कुंभमानो महोदकः ॥६२॥
श्वलभस्तालकेतुश्च सव्यासिव्यः सुपुञ्जिकः ।
कालनाभो यज्ञहाश्च श्राद्धादो वज्रहास्तथा ॥६३॥
विद्युत्पुत्रश्च रसनो वपाशो रक्तकर्णकः ।
वृत्ताक्षाः पिङ्गलाश्चापि ह्यष्टदंष्ट्रा महोदराः ॥६४॥
स्थूलशीर्षा ह्रस्वजंघास्ताम्रस्याश्चोर्ध्वमूर्धजाः ।
गर्ताक्षा लम्बजिह्वोष्ठा लम्बभ्रूस्थूलनासिकाः ॥६५॥
हतास्तत्र गदाभिश्च त एते रक्षसां गणाः ।
राक्षस्यो विकचा ब्रह्मधाना आलम्बिकादिकाः ॥६६॥
गदोत्थाभिर्गदाभिश्च हतास्ता युद्धभूमिषु ।
गदासैन्यानि मां नारायणं कृष्णं हरिं प्रभुम् ॥६७॥
स्मृत्वा स्मृत्वा निपेतुश्च राक्षसानां हि मूर्धसु ।
चूर्णितानि शिरांस्येव वक्षांसि रक्षसां तदा ॥६८॥
'निहन्मः सर्वरक्षांसि यमक्षयाय सर्वदा ।
नोत्थानाय पुनः शपामहे संकर्षणाह्वया' ॥६९॥
इत्युक्त्वा मारयामासू रणेश्वर्यो गदास्तदा ।
आत्यन्तिकं च निधनं प्रपेदुः रक्षसां गणाः ॥७०॥
मायया वृष्टयः सर्वा विलीनाश्च ततोऽम्बरे ।
पृथ्वी रक्षोगणदेहैः शवैः सर्वाऽऽवृताऽभवत् ॥७१॥
भद्रकस्त्वाययौ धर्तुं धावन् रणेश्वरीं गदाम् ।
तमापतन्तं परितो गदाशतं बभूव ह ॥७२॥
मारयामास परितो मूढमारेण भद्रकम् ।
रक्तस्रावं चकाराऽपि वमनं रक्तजं तथा ॥७३॥
कृत्वा भग्नशिरो वक्षाः पपात हावदन् क्षितौ ।
भद्रको निधनं यातो राक्षसा येऽपरेऽभवन् ॥७४॥
रणं विहाय शतशः पलायनं प्रचक्रिरे ।
गदाः पृष्ठे पतित्वैव जघ्नुस्तान् जीवदानतः ॥७५॥
निपेतुस्ते प्राणहीनाः प्रसार्य करजानुजान् ।
व्यादायाऽऽनकुक्षीँश्च कालधर्म प्रपेदिरे ॥७६॥
नैकोऽपि शेषतां भेजे सर्वं शतसहस्रकम् ।
सैन्यं राक्षसवर्याणां निधनं गदयाऽऽर्पितम् ॥७७॥
अथ राज्ञी प्रसस्मार पतिं नारायणं हि माम् ।
शुद्ध्यर्थं जीवनार्थं च प्रजानां रणभूमिषु ॥७८॥
शीघ्रं मया तदा लक्ष्मि मम पादजलामृतम् ।
अर्पितं कलशेऽगाधे चिदम्बरात्मके द्रुतम् ॥७९॥
सा भूमौ व्योममार्गेण प्रजाजीवनहेतवे ।
प्रोक्षणं प्रचकारैषा प्रजा जीवन्तु मे मृताः ॥८०॥
इति संकल्पितास्तत्र रणे या याः प्रजास्तदा ।
प्रसह्य मध्ये भूभागे निधनं गमिताश्च ताः ॥८१॥
ताः सर्वा जीवनं प्राप्ता निद्रोत्थिता यथा पुनः ।
राक्षसानां तु देहानां गदाभिर्वह्निना तदा ॥८२॥
भस्मता वै कृता तत्र ममेच्छया हि पद्मजे ।
एवं गदाः परं कृत्वा रणं हत्वा तु राक्षसान् ॥८३॥
रणेश्वर्यः पुरस्तान्मे राज्ञ्याः सौधे समाययुः ।
आशीर्भिर्वर्धितास्ताश्च वरदानाय नोदिताः ॥८४॥
वव्रिरे ताः कन्यका वै पतिं मां परमेश्वरम् ।
चिदम्बरापि मुदिता रणेश्वरीभिरेव सा ॥८५॥
सहिता पूजयामास मां तदा वरमालया ।
रणेश्वर्यः सहस्रं वै वरयामासुरेव माम् ॥८६॥
गदेश्वरास्तथा रम्यं वव्रिरे वरदानकम् ।
पार्षदा भवितुं धाम्नि मया तथाऽस्त्विति ध्रुवाः ॥८७॥
स्वीकृताः पार्षदाः सर्वे ययुर्धाम ममाऽक्षरम् ।
रणेश्वर्यस्तथा लक्ष्मि मम प्रियाः परेऽक्षरे ॥८८॥
वर्तन्ते ताश्च वै मुक्तानिकाः परमधामनि ।
चिदम्बराऽपि मे भक्ता गदेश्वराय योगिने ॥८९॥
मम भक्ताय सौम्याय पार्षदाय समस्तकम् ।
राज्यं दत्वा ययौ धामाऽक्षरं मम परात्परम् ॥९०॥
गदेश्वरो महाराजो ब्रह्मचर्यपरायणः ।
चकार लक्षवर्षाणि राज्यं वैष्णवधर्मवान् ॥९१॥
भक्तिं मे कारयित्वा च कृत्वा प्रजाश्च वैष्णवीः ।
यज्ञयागादिकान् कृत्वा सन्तृप्य देवता पितॄन् ॥९२॥
मम विमानमारुह्य ययौ धामाऽक्षरं मम ।
तद्दायादोऽभवच्चापि योगेश्वरोऽपि भक्तराट् ॥९३॥
साधुधर्मा साधुवर्मा साधुसाध्वीसमर्चकः ।
मम भक्तिं कारयित्वा ययौ धामाऽक्षरं मम ॥९४॥
इत्येवं कथितं लक्ष्मि मम भक्तस्य गौरवम् ।
रक्षणं मम भक्ताया यथा करोमि वै तथा ॥९५॥
यत्र भक्ता च भक्तो मे तत्र वसामि गोचरः ।
अगोचरोऽथवा तिष्ठे सामर्थ्येन हि हेतिना ॥९६॥
पार्षदेन प्रभावेण रक्षयामि ममाऽऽश्रिताम् ।
नरो नारी नपुं वापि मम भक्तिपरायणः ॥९७॥
मदात्मा मत्क्रियः सम्यग् रक्ष्यते चान्तरात्मना ।
मया निवसता पार्श्वे हृदये वाऽन्तिके पुरः ॥९८॥
पृष्ठे चोर्ध्वेऽधोभूमौ च मध्ये चावयवेष्वपि ।
मम वासेन भक्ताया रक्षा भवति सर्वथा ॥९९॥
वध्वः पराधीनभावा मम भक्ता हि ता यदि ।
रक्ष्यन्ते नित्यदा ताभिः साकं स्थितेन वै मया ॥१००॥
अनाथानां हि नाथोऽहं करोमि रक्षणं सदा ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिश्च रक्षणम् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां चिदम्बराराज्ञ्याः भगवद्गदया कृतं भद्रकादिरक्षःसंघाताद् रक्षणमित्यादिनिरूपणनामैकषष्टितमोऽध्यायः ॥६१॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP