संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं ततोऽहं पुरुषोत्तमः ।पुण्यं भक्तिं तपो दृष्ट्वा भक्तयोर्मनुकालजम् ॥१॥योगिनोः पात्रयोर्ममानुग्रहस्य च दिव्ययोः ।ईश्वरीभूतयोर्हार्दं पूरयितुं पुराऽर्थितम् ॥२॥भूलोके मानवा ये ये नरा नार्यो नपुंसकाः ।बाला वृद्धा युवानश्च विधुरा गृहिणस्तथा ॥३॥त्यागिनो वनवासाश्च तान् सर्वान् वै समन्ततः ।युगपद् दिव्यदेहाश्च कृत्वा विमानसंस्थितान् ॥४॥काँश्चिदप्रेषयं श्वेतद्वीपं कांश्चित् क्षीरोदघिम् ।कांश्चित् स्वर्गं च विविधं काँश्चिज्जनं महस्तपः ॥५॥काँश्चिद्वै सत्यलोकं च कांश्चिद् वैकुण्ठमावृतौ ।काँश्चिद् वैराजलोकाँश्च काँश्चिद् वैष्णवसत्पदम् ॥६॥काँश्चित्तु नित्यकैलासं कांश्चिदव्याकृतं पदम् ।अमृतं धाम कांश्चिच्च काँश्चिद् वैकुण्ठमुत्तमम् ॥७॥काँश्चिद् गोलोकमेवाऽपि काँश्चिदक्षरमुत्तमम् ।काँश्चिद्धामान्यनेकानि येषां योग्यानि यानि च ॥८॥तानि तान् प्रापयामास चाहं श्रीपुरुषोत्तमः ।अथ ये पशवश्चापि पक्षिणश्च मृगादयः ॥९॥सरीसृपादयश्चापि मानवाधारजीवनाः ।मानवापेक्षकाः सर्वे ग्रामारण्यनिवासिनः ॥१०॥दिव्यदेहाः कृतास्तूर्णं द्विभुजा देवकोटयः ।तान् सर्वानपि दिव्येषु विमानेषु निधाय च ॥११॥स्वर्गं जनं महः सत्यं सौर्यं चान्द्रं च वारुणम् ।आग्नेयं तापसं चार्षं वैराजं धाम इत्यपि ॥१२॥अप्रेषयं यथायोग्यान् जीवान् भक्तेच्छया त्वहम् ।दग्ध्वा जन्यानि कर्माणि भूस्थान् जीवानमोचयम् ॥१३॥अप्रापयं दिव्यलोकान् यथापेक्षमनुग्रहात् ।लक्ष्मि! कृपा मया चेयं कृता भक्तानुसारिणी ॥१४॥भूलोकः प्रायशः श्रेयोलोकेषु प्रेषितोऽभवत् ।पृथ्वी रिक्ता च सञ्जाता विना मानवरूपकैः ॥१५॥तथा तद्योगयुक्तानां पश्वादीनां च रूपकैः ।रिक्ता जाता मही सर्वा भक्तयोस्तपसो बलात् ॥१६॥पुरैव मोचिता जीवा अभीदानप्रदानकैः ।मम भक्तेन विप्रेण पुण्यरातेन योगिना ॥१७॥मद्भक्तान्या तथा राधनिकया द्विजयोषिता ।सर्वसृष्टौ कृपालुश्चाऽहं तदा ख्यातिमाप ह ॥१८॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।भक्ताधीनः प्रभूत्वैवाऽकरवं श्रेय उत्तमम् ॥१९॥ततोऽभवं ह्यनादिश्रीकृपा नारायणः प्रभुः ।शृणु लक्ष्मि! ततो भक्तं पुण्यरातं तथा सतीम् ॥२०॥राधनिकां दिव्यदेहौ कृत्वा विष्णुस्वरूपिणौ ।विमाने स्वे स्थापयित्वाऽप्रेषयं तौ निजाऽक्षरम् ॥२१॥अथ ब्रह्मादयो देवा भूतलं वीक्ष्य निर्जनम् ।प्रार्थयामासुरत्यर्थं पुनर्मानवसृष्टये ॥२२॥पश्वादीनां च सृष्ट्यर्थं स्थातुं चाकल्पमेव माम् ।ततोऽहं भूतले लोके न्यवसं दिव्यरूपवान् ॥२३॥त्वया दिव्यस्वरूपिण्या लक्ष्म्या साकं पुमुत्तमः ।पुनः सृष्टिमकरवं यथापूर्वां तु मानसीम् ॥२४॥मानवानां पशूनां च पक्षिणां सर्वदेहिनाम् ।इच्छया वेधसश्चापि न्यवसं कल्पकान्तकम् ॥२५॥एवं मुक्तिः कृता चापि पुनः सृष्टिः कृताऽपि च ।स्मर सर्वं शिवराज्ञि! परे जानन्ति नैव तत् ॥२६॥अवतारा ह्यसंख्याता जाता मे कार्यतोऽपि च ।वत्सरे तत्र कल्पेषु वेद्मि सर्वानहं प्रिये ॥२७॥कृपावतीरमा त्वं च तदाऽभवो मया सह ।इत्येवं कथितं लक्ष्मि! प्राकट्यं मम वै तदा ॥२८॥अथाऽन्यवत्सरे चापि कथयामि निबोध मे ।ब्रह्मणो वै रुद्रवत्सराख्ये द्विशतकल्पके ॥२९॥बभूव चारणो भक्तो रक्षालयाऽभिधानकः ।चारणी तस्य भार्या च नाम्ना तु सन्तयोगिनी ॥३०॥योगभ्रष्टौ पूर्वभक्तौ जातिस्मरौ बभूवतुः ।भजमानौ च मां भक्त्या नारायणं परेश्वरम् ॥३१॥स्नानभक्तिपरौ साधुसाध्वीसेवापरायणौ ।निवसतः स्म महिषीगोव्रजे द्रुमसंकुले ॥३२॥पल्ल्यां खर्वटनिकटे तृणघासादिशोभने ।अन्तरीक्षप्रकाशे वै कामकल्पानदीतटे ॥३३॥चारयतः पशून्नित्यं दधिघृतादिजीवनौ ।ऊर्णवस्त्रौ हरे कृष्ण नारायणेति संस्मरौ ॥३४॥अनिवेद्य च मे स्थालीं पोलिकादधिपूरिताम् ।प्रातर्नैव न मध्याह्ने भुञ्जाते न तथा निशि ॥३५॥जलं पत्रं फलं पुष्पं वन्यद्रुमेभ्य एव च ।आहृत्य सुन्दरं श्रेष्ठं हृद्यं चार्पयतो मम ॥३६॥साधवोऽतिथयश्चाप्यायान्ति ये तु निजोटजाम् ।तेभ्योऽर्पयतो दुग्धान्नं घृतं दधि च पोलिकाः ॥३७॥सन्तस्तृप्ताः प्रकुर्वन्ति नाम संकीर्तनं हरेः ।दिवानिशं च वा यान्ति यथेष्टं वा वसन्त्यपि ॥३८॥साध्व्यश्चापि समायान्ति योगिन्यः सत्यदेवताः ।ब्रह्मचारिण्य एवाऽपि प्रसिद्धं चारणालयम् ॥३९॥देवालयो यथा तद्वद् पल्ली सा गोव्रजात्मिका ।सतीसाध्वीसतां वासाद् देवालयसमाऽभवत् ॥४०॥यत्र मद्भजनं नित्यं यत्र मत्पूजनं सदा ।यत्र मत्कीर्तनं नित्यं तत्र देवालयो मम ॥४१॥इत्यहं चाऽगोचरोऽपि न्यवसं तत्र पद्मजे ।भक्तानां हृदये नित्यं गृहे चापि च मण्डले ॥४२॥तीर्थे चापि वसाम्येव भक्तकल्याणहेतवे ।भुञ्जे स्वपिमि नृत्यामि पिबामि च रमेऽन्वहम् ॥४३॥विहरामि विहसामि सहयामि विशामि च ।यत्ते वदामि गायामि प्रसीदामि भजामि च ॥४४॥स्नामि शौचामि संकुर्वे चिन्तयामि च रौम्यपि ।भक्तैः सह मिलित्वैवाऽऽचरामि विविधां क्रियाम् ॥४५॥लीलां मोक्षकरीं सर्वा दिव्यामानन्दयाम्यपि ।रासभावेन गोपैश्च गोपीभिश्च भ्रमेऽपि च ॥४६॥मद्भक्तानां निवासेषु तथा वसामि सर्वदा ।एवं चारणवासेऽहं न्यवसं भक्तमण्डले ॥४७॥सर्वथा सर्वदाऽदृश्यो न जानन्ति यथा हि ते ।तथाऽवसं तयोः कुट्यां गोव्रजे मूर्तिरूपवान् ॥४८॥अथैकदाऽभवत् कामकल्पानद्यास्तटे शुभः ।साधूनां वै समाजश्च महोत्सवोऽन्नसत्रकः ॥४९॥तत्र याताश्चारणाश्च साधवोऽपि समुत्सवे ।अन्नसत्रमये यज्ञे भोजयितुं जनानपि ॥५०॥अन्नदानं दुग्धदानं वस्त्रदानं घृतार्पणम् ।क्रियते च यथाशक्ति भिक्षुकेभ्यो नदीतटे ॥५१॥दानोत्सव इतिख्यातिः सत्रस्याऽस्य ततोऽभवम् ।तत्र सर्वे चारणा वै गताश्चाथ तु चारणी ॥५२॥एकाकिनी गृहरक्षाकृते गेहे स्थिताऽभवत् ।वत्सानां पालनाद्यर्थं गृहकार्यार्थमित्यपि ॥५३॥अथ देवाः समायान्ति व्योममार्गात् तदा भुवि ।दानस्थले महातीर्थे महाश्चर्यपरास्तदा ॥५४॥विप्राश्च भिक्षुका भूत्वा भूत्वा साधुस्वरूपिणः ।किंचिद्दानं स्वीकुर्वन्ति कामकल्पफलप्रदम् ॥५५॥दातुर्ग्रहितुस्तुल्यं वै जायते तत्र तत्फलम् ।अतः पुण्यप्रलोभेन देवा गृह्णन्ति दानकम् ॥५६॥वैचित्र्यं दानसत्रेऽत्रोभयतः फलदं यतः ।अथाऽम्बरात्तदा देवो वैमानिकोऽल्पपुण्यवान् ॥५७॥निर्ययौ व्योममार्गेण पल्लीं पश्यन् नदीं प्रति ।तेन मोहदृशा दृष्टा सुरूपा चारणी सती ॥५८॥उज्ज्वला पुष्टदेहा च युवती स्वल्पवस्त्रिका ।निर्जने प्रभया व्याप्ता सुघट्टांगसुशोभना ॥५९॥मिष्टस्वरं समुद्धाट्य कीर्तने मग्नमानसा ।स्नानार्द्रसर्वदेहा च सिञ्चमाना जलं तनौ ॥६०॥स्वर्णचम्पकवर्णाभा रतिमूर्तिरिवाऽपरा ।एवं विलोक्य मुग्धोऽसौ वैमानिको हि निर्जने ॥६१॥चकमे तां सतीं देवीमवातरत् तदन्तिकम् ।भूत्वा देवोऽपि च युवा सुरूपश्चारणोत्तमः ॥६२॥सर्वाभरणसंशोभः पुष्टश्च नवयौवनः ।काममूर्तिरिव तत्र शोभते तेजसा ह्यति ॥६३॥आययौ सन्निधौ तस्या हसन् स्प्रष्टुं यथेष्टकम् ।साऽपि भक्ता नवं दृष्ट्वा जनं तूर्णं सकामुकम् ॥६४॥शीघ्रमुत्थाय कुट्यां सा ययौ शीलावनाय वै ।मां देव मा प्रपश्य त्वं कुदृष्ट्या शीलशालिनीम् ॥६५॥पूजयामि नमस्कुर्वे प्रयाहि याहि शक्तिमान् ।प्रधर्षणमकामाया निकृष्टफलदं यतः ॥६६॥मान्याः पूज्याः सदा देवाः स्वल्पे ताड्या न वै मया ।याहि सत्रं सुखं त्यक्त्वाऽऽशां दुरन्तां विमानवन्! ॥६७॥एष दुग्धाञ्जलिं तुभ्यमर्पयाम्यर्हणार्थकम् ।मम वाक्यं सुसम्मान्य प्रयाहि त्वं यथागतम् ॥६८॥साधो पतिव्रतायाश्च तपस्विनां गवां तथा ।अनिवार्यो भवेद् दण्डो यमस्य ब्रह्मचारिणाम् ॥६९॥देवो वा सार्वभौमो वा विप्रो वा चेश्वरोऽपि वा ।भवेत् कुपथगो दण्ड्यः पथि तिष्ठन् प्रपूज्यकः ॥७०॥इत्युक्तोऽपि सतीं तां चारणीं स्प्रष्टुं च धर्षितुम् ।उपाययौ स शालायां खिन्ना सती जगाद तम् ॥७१॥देवो भूत्वा दिव्यभोगान् भुक्त्वापि मानवे तनौ ।मोहं यातो भवानत्र भस्मसाद् भव कामुक! ॥७२॥मा देवाश्चाद्यतः पृथ्व्यां समायान्तु विमानगाः ।येऽभियास्यन्ति भूभागे भविष्यन्ति हि भस्मसात् ॥७३॥इत्युक्तमात्र एवाऽसौ भस्मसादभवत्तदा ।दानसत्रे च ये देवाः पृथिवीस्थास्तदाऽभवन् ॥७४॥तेऽपि तूर्णं शापमात्रादभवन् भस्मसात् प्रिये ।हाहाकारस्तदा जातश्चारणीशापतः क्षितौ ॥७५॥ज्ञात्वा देवा दिव्यबुद्ध्या कारणं स्वविनाशकम् ।द्रुतं च दुद्रुवुर्व्योम्ना दानं त्यक्त्वा निजालयान् ॥७६॥देवागमोऽभवद् रुद्धो ब्रह्मविष्णुमहेश्वराः ।इन्द्रचन्द्रादयश्चापि भुवं नाऽऽयान्ति भीवशाः ॥७७॥देवता न समायान्ति तीर्थदेवा ययुर्दिवम् ।पतिव्रतायाः शापेन भयमाप्ता दिवं गताः ॥७८॥अथ ये मानवा लोके पापास्ते तीर्थगामिनः ।पापं प्रक्षालयन्त्येव तीर्थेषु भूमिगेषु वै ॥७९॥तानि पापानि तीर्थानां दग्धुं नायान्ति देवताः ।कुंभे पर्वणि संक्रान्तौ चावभृथेऽपि भीवशाः ॥८०॥अथ तीर्थानि सर्वाणि पापाक्रान्तानि पापिनाम् ।दुःखितान्यभवँश्चाऽप्याराधयामासुरच्युतम् ॥८१॥सतीशापात् सुरा नैवायान्ति भूमण्डलं भयात् ।अस्मन्नाशो भवेदेवाऽचिरेण पापसंग्रहात् ॥८२॥तस्मादागत्य भगवन्नुद्धारं कुरु नो भुवि ।परब्रह्म स्वयं चाऽहं देवानां स्तवनैस्ततः ॥८३॥अनादिश्रीकृष्णनारायणोऽहं भुवमागतः ।चारणीगृहमागत्य तदङ्के पुत्रतां गतः ॥८४॥तीर्थैर्देवैः पूजितश्च शंखचक्रादिचिह्नवान् ।त्वं तदा चाभवो रत्नधनाख्यचारणात्मजा ॥८५॥तेन विज्ञाय चिह्नैस्त्वं रमा रत्ननरायणी ।रत्ननारायणीश्रीस्त्वमर्पिता विधिना च मे ॥८६॥अनादिश्रीतीर्थनारायणोऽहं परमेश्वरः ।सर्वतीर्थैश्चारणैश्च प्रख्यापितः परेश्वरः ॥८७॥ततः साकं त्वया चाऽहं पितृभ्यां सहितस्तथा ।तीर्थान्यकरवं सर्वाण्यभिगत्वा पुनः पुनः ॥८८॥अघान्यदहं तेषां चाऽकरवं शापमोक्षणम् ।देवानामागमार्थं वै पृथ्व्यां मातृनिदेशतः ॥८९॥ततो देवा आययुश्च शापसंहरणोत्तरम् ।अथाऽहं कल्पपर्यन्तं तीर्थनारायणोऽभवम् ॥९०॥न्यवसं धर्ममास्थाय नीत्वा च पितरौ सह ।भक्तान्नीत्वा निजं धाम ततो ययौ पुरातनम् ॥९१॥इत्येतन्मम भूभागे चारणीशापनुत्तये ।प्राकट्यं यत्पुरा जातं कथितं कमले च ते ॥९२॥जानाम्यहं च तत्सर्वं नान्ये जानन्ति विस्मराः ।स्मर त्वं चारणीं जातां रत्ननारायणीं प्रिये! ॥९३॥अन्ये तदाऽवतारा मे पृथ्व्यां जाता अनेकशः ।साकं त्वया शिवराज्ञि! तान् जानामि समस्तकान् ॥९४॥ततो मया कृता लोक चारणा देवजातयः ।यथा सन्तस्तथा सर्वे यथा विप्राश्च भूसुराः ॥९५॥पठनाच्छ्रवणाच्चाऽस्य श्रावणात् स्मरणात्तथा ।मननान्मम प्राकट्यस्यापि स्यान्मोक्षभाग् जनः ॥९६॥धनवान् धर्मवान् स्याच्च पुत्रवान् सर्वशक्तिमान् ।नारी सौभाग्यसौख्याद्यैश्वर्यवती भवेदपि ॥९७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वाविंशे वत्सरे तीर्थपावनार्थं चारण्या अंकेऽनादितीर्थनारायणस्य प्राकट्यमित्यादिनिरूपणनामानवाधिकदशमोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP