संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १३४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १३४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणुनारायणीश्रि! त्वं लक्षहोमग्रहाध्वरम् ।सर्वकामप्रदं सर्वविघ्नशान्तिकरं सुखम् ॥१॥पितॄणां वल्लभं श्रेष्ठं भुक्तिमुक्तिफलप्रदम् ।ग्रहताराबलं दृष्ट्वा कृत्वा ब्राह्मणवाचनम् ॥२॥गृहस्योत्तरपूर्वेण मण्डपं कारयेन्नवम् ।द्वादशहस्तविस्तारं चतुरस्रमुदङ्मुखम् ॥३॥दशहस्तमष्टहस्तं च वा प्रकारयेत्तु तम् ।प्रागुदक्प्लवनां भूमिं कारयेत् सर्वरक्षिणीम् ॥४॥कुण्डं समेखलं कुर्याच्चतुरस्रं सयोनिकम् ।प्रागुत्तरे मण्डपाऽधोभागे रंगादिरञ्जितम् ॥५॥चतुरंगुलविस्तारां मेखलां तद्वदुच्छ्रयाम् ।द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं शुभम् ॥६॥लक्षहोमे रचयेद्वै कुण्डं शोभावहं तथा ।तस्य चोत्तरपूर्वेण वितस्तित्रयमानकम् ॥७॥प्रागुदक्प्रवणं तच्च चतुरस्रं समन्ततः ।विष्कम्भाधोच्छ्रितं कार्यं स्थण्डिलं शिल्पकर्मणा ॥८॥संस्थापनाय देवानां वप्रत्रयसमाव्रतम् ।द्व्यङ्गुलोर्ध्वः प्रथमस्तु वप्रः कार्यः शुभावहः ॥९॥वप्रद्वयं चांगुलोर्ध्वं प्रत्येकं वै तथोपरि ।दशांगुलोच्छ्रिता भित्तिः स्थण्डिले वै तथोपरि ॥१०॥तत्र त्वावाहयेत् देवान् पुष्पतण्डुलकासने ।सूर्यादीनधिदेवादींस्तथा प्रत्यधिदेवताः ॥११॥गरुत्मानधिकस्तत्र सम्पूज्यः श्रियमिच्छता ।विष्णुभक्तो महाभक्तो विषपापहरोऽसि वै ॥१२॥सुखदो विष्णुभक्तानां शान्तिमृद्धिं प्रयच्छ मे ।कुंभमामन्त्र्य विधिना लक्षहोमान् समाचरेत् ॥१३॥समित्संख्याधिकान् होमान् समाचरेत्प्रशान्तये ।घृतकुंभवसोर्धारां पातयेदनलोपरि ॥१४॥औदुम्बर्या बाहुमार्गदीर्घया जुहुयात् स्रुवा ।श्रावयेत् सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम् ॥१५॥महावैश्वानरं साम ज्येष्ठसाम च वाचयेत् ।स्नानयेद् यजमानं च स्वस्तिवाचनमुच्चरेत् ॥१६॥सुदद्याद् दक्षिणाश्चापि भूयसीः शान्तचेतसा ।ऋत्विग्भ्यश्च चतुर्भ्यो वा द्वाभ्यां वा दक्षिणां ददेत् ॥१७॥भक्ष्यभोज्यानि दानानि गोरत्नानि तथाऽर्पयेत् ।शयनानि सवस्त्राणि हैमानि कटकानि च ॥१८॥कणांगुलिपवित्राणि कण्ठहारान् सुवर्णजान् ।भूषणानि धनं दद्याद् वित्तशाठ्यं न चाऽऽचरेत् ॥१९॥अन्नदानं प्रकुर्याच्च सुभिक्षवर्षदायकम् ।साधून् विप्रान् बालबाला भोजयेद् विविधान्नकम् ॥२०॥अन्नहीनो दहेद् राष्ट्रं मन्त्रहीनस्तु ऋत्विजः ।यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ॥२१॥सकामो लक्षहोमाँश्च कृत्वेष्टकाममाप्नुयात् ।पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥२२॥भार्यार्थी शोभनां भार्यां पत्यर्थिनी पतिं प्रियम् ।भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् ॥२३॥मानं लभते मानार्थी प्राधान्यं लोकवन्दितम् ।विजयार्थी जयं चापि लभते सार्वकालिकम् ॥२४॥यं यं प्रार्थयते कामं चैश्वर्यं सिद्धिमित्यपि ।तं तं लभते यज्ञेन ग्रहाणां समनुग्रहात् ॥२५॥निष्कामः कुरुते यज्ञं स परब्रह्म गच्छति ।तत्र भुंक्ते परान् भोगान् सुखमानन्त्यमश्नुते ॥२६॥अथ नारायणीश्रि त्वं शृणु यज्ञं ततोधिकम् ।अस्माच्छतगुणो यज्ञः कोटिहोमः प्रजायते ॥२७॥आहुतिभिः श्रद्धया च दक्षिणाभिः फलेन च ।मण्डपे ग्रहदेवानावाहयेदुपदेवताः ॥२८॥प्रत्युपदेवानावाह्य शुद्धिस्नानादि चाचरेत् ।कोटिहोमे चतुर्हस्तं चतुरस्रं समन्ततः ॥२९॥योनिवक्रद्वयोपेतं कुर्यात् कुण्डं त्रिमेखलम् ।प्रथमा द्व्यङ्गुलोर्ध्वा त्र्यङ्गुलोर्ध्वा तु द्वितीयका ॥३०॥उच्छ्रायविस्तराभ्यां तु तृतीया चतुरंगुला ।वितस्तिमात्रा योनिश्च षट्सप्तांगुलविस्तृता ॥३१॥कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ।गजोष्ठसदृशी तद्वदायता छिद्रशोभिता ॥३२॥अश्वत्थपत्रतुल्याऽऽभाऽऽकृतिरेखादिराजिता ।वेदी चतुर्वितस्तिः स्याच्चतुरस्रा त्रिवप्रिणी ॥३३॥वप्रप्रमाणं पूर्वोक्तं वेद्युच्छ्रयोऽपि तद्विधः ।मण्डपः षोडशहस्तश्चतुर्मुखः सुशोभितः ॥३४॥मण्डपे पूर्वगद्वारे बह्वृचं स्थापयेद् द्विजम् ।यजुर्विदं दक्षिणे च पश्चिमे सामवेदिनम् ॥३५॥उत्तरेऽथर्वविज्ञं च तथाऽष्टौ होमकाऽर्थिनः ।एवं द्वादश विदुषः पूजयेद् भक्तिसंभृतः ॥३६॥कुंकुमाऽक्षतभूषाद्यैर्वस्त्रमाल्यानुलेपनैः ।रात्रिसूक्तं रुद्रसूक्तं पवमानं सुमंगलम् ॥३७॥शान्तिपाठं वाचयेत् प्राङ्बह्वृचाननतः पुरा ।शान्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च ॥३८॥पाठयेद् दक्षिणविप्राननाद् यजुर्विदो ह्यथ ।सुपर्णं चापि वैराजमाग्नेयं रुद्रसंहिताम् ॥३९॥ज्येष्ठं साम तथा शान्तिं पठेद्वै पश्चिमो द्विजः ।शान्तिं सूक्तं च सौरं च तथा शाकुनकं परम् ॥४०॥पौष्टिकं च महाराज्यमुत्तरस्थः पठेद् द्विजः ।पञ्चभिः सप्तभिश्चात्र होमः कार्यो द्विजोत्तमैः ॥४१॥वसोर्धाराविधानं च दशोत्तरं हि पूर्वतः ।एवं कृत्वा कोटिहोमान् सर्वान् कामानवाप्नुयात् ॥४२॥विष्णुपदं व्रजेच्चापि पदमिन्द्रस्य गच्छति ।वैराजं च पदं लब्ध्वा याति धामाऽक्षरं मम ॥४३॥अश्वमेधाऽध्वराणां यश्चाष्टादशसहस्रकम् ।कृत्वा यत्फलमाप्नोति कोटिहोमात् तदश्नुते ॥४४॥ब्रह्महत्यासहस्राणि भ्रूणहत्याऽर्बुदानि च ।कोटिहोमाध्वरेणैव नश्यन्ति मम योगतः ॥४५॥ग्रहयज्ञत्रयं कुर्याद् यस्तु प्रसन्नतां मम ।इच्छन् सोऽपि व्रजेच्छान्तिं पीडानां मे प्रभावतः ॥४६॥य इदं शृणुयाद्वापि श्रावयेच्च स्मरेदपि ।न तस्य ग्रहपीडा स्याद् वर्तमाना तु नश्यति ॥४७॥ग्रहयज्ञत्रयं गेहे लिखितं यस्य विद्यते ।न पीडा तत्र बालानां न रोगो न च बन्धनम् ॥४८॥शृणु लक्ष्मि ग्रहमूर्तीर्यथा कार्याः सुवर्णजाः ।पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ॥४९॥सप्ताश्वः सप्तरज्जुश्च द्विभुजश्च किरीटवान् ।कुण्डलाढ्यः सपरिधिः सूर्यः कार्यः प्रभान्वितः ॥५०॥श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः ।गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥५१॥रक्तमाल्याम्बरधरः शक्तिशूलगदादिमान् ।चतुर्भुजः श्वेतरोमा वरदो मंगलो मतः ॥५२॥पीतमाल्याम्बरधरः कर्णिकारसमप्रभः ।खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥५३॥बृहस्पतिश्च शुक्रश्च पीतः श्वेतः क्रमात्तथा ।चतुर्भुजौ दण्डिनौ च साक्षसूत्रकमण्डलू ॥५४॥इन्द्रनीलप्रभः शूली वरदो गृध्रवाहनः ।शरधनुष्यधारी च कर्तव्यो वै शनैश्चरः ॥५५॥नीलसिंहासनस्थश्च राहुः कृष्णप्रभो मतः ।धूम्रा द्विबाहवः सर्वे गदायुता रुषान्विताः ॥५६॥गृध्रासनाः केतवः कर्तव्याश्च वरदास्तथा ।सर्वे किरीटिनः कार्या ऊर्ध्वेऽष्टयुक्शतांगुलाः ॥५७॥शृणुलक्ष्मि पुरा वैश्यो धनधान्यसमृद्धिमान् ।लोहांगारइतिनाम्नाऽभवद् देशे तु मालवे ॥५८॥व्यापारेण महाश्रेष्ठी राज्यकोशाभिरक्षकः ।देशप्रजाद्रव्यपाता द्रव्यदाताऽभवत्तथा ॥५९॥यस्याऽभवन् गृहे वाजिगजाश्च वाटिकास्तथा ।उद्यानानि विचित्राणि भवनानि शुभानि च ॥६०॥स्वर्णसिंहासनान्येव कलशाः स्वर्णराजताः ।नार्यः सौवर्णभूषाढ्या रत्नहारावलीयुताः ॥६१॥विमानेनाऽर्कतुल्येन विहरन्ति परेऽम्बरे ।दासा दास्यः शतं यस्य भृत्या लक्षं तु नित्यशः ॥६२॥कर्मचारा भवन्त्यस्य द्रव्योपार्जनतत्पराः ।प्रजाराजाऽमात्यवर्गेष्वस्य मानं मतं बहु ॥६३॥सर्वमासाच्छुभं किन्तु ग्रहा दुष्टा यदाऽस्य तु ।दुष्टस्थाने शनिश्चान्येऽभवँस्तैः पीडितो ह्ययम् ॥६४॥रोगी जातो मृतप्रायो लक्ष्मीर्द्रव्याणि भूभृता ।लुण्ठितानि समग्राणि पुत्राः कारागृहे कृताः ॥६५॥भवनानि चाग्निदग्धान्येव जानाति वै तदा ।व्यापाराः सर्व एवैते नष्टप्रायास्तदाऽभवन् ॥६६॥कलंकेन यशोहानिर्जाताऽस्यापि प्रजास्वपि ।समन्ततो महाकष्टं समायातं भुनक्ति सः ॥६७॥अथाऽस्याऽऽसीद् गुरुर्विप्रो महर्षिश्चाऽमृषायनः ।योगी त्रिकालदर्शी च वेदविद् ग्रहपूजकः ॥६८॥नारायणस्य भक्तोऽपि व्रतशीलोपशोभितः ।साधुः सात्त्विकभावाढ्यः सत्यव्रतोऽतिविद्यकः ॥६९॥लौहांऽगारं निज्यशिष्यं श्रुत्वा कष्टप्रमग्नकम् ।द्रष्टुं गृहे समायातः कृपया प्रेरितस्तदा ॥७०॥वीक्ष्य शिष्यं कष्टमग्नं नष्टद्रव्यं विना यशः ।पुत्रदण्डं तथा रोगं दयां परामवाप्तवान् ॥७१॥प्राह लोहांगारकं तं कुरु शान्तिं ग्रहस्य वै ।गृहशान्त्या ग्रहमखैः कष्टं दूरं गमिष्यति ॥७२॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।भजाऽनन्यमनस्कस्त्वं परं सौख्यमवाप्स्यसि ॥७३॥इत्युक्तः सोऽपि सहसा भक्तिभावसमन्वितः ।तथैवेति समगृह्य कारयामास मण्डपम् ॥७४॥कृष्णाष्टम्यामूर्जमासे कुण्डं चकार शोभनम् ।ग्रहमूर्तीः कानकीश्च मम मूर्तिं च कानकीम् ॥७५॥त्वया लक्ष्म्या च सहितां चकाराऽतिप्रशोभनाम् ।वस्त्राभूषणशृंगाराद्यभिशोभितविग्रहाम् ॥७६॥अधिदेवान् प्रत्यधिदेवताश्च मण्डपे ततः ।आसनेष्वावाहयामासाऽर्चयामास वैधतः ॥७७॥अष्टोत्तरशतविप्रान् वव्रे जपार्थमेव सः ।कोटिजपान् वेदविद्भिः कारयामास सर्वथा ॥७८॥पूजान्ते प्रददौ दानं गुप्तं पृथ्व्याः प्रगर्ततः ।निष्कास्य लक्षसौवर्णमुद्राणां लक्ष्यवर्जितम् ॥७९॥अप्रकाशं यदासीत्तद् रत्नमाणिक्यहीरकान् ।ददौ दाने तु विप्रेभ्यो गोगजाऽश्वादिकं तथा ॥८०॥नैवेद्यानि यथोक्तानि ददौ पेयानि यानि च ।देवेभ्यो बलिदानानि सात्त्विकानि ददौ तथा ॥८१॥भोजयामास विप्राँश्च साधून् साध्वीश्च योषितः ।बालाँश्च बालिकाश्चपि दीनकृपणदुःखिनः ॥८२॥निराश्रितान् निर्धनाँश्च कंगालाँश्च दरिद्रकान् ।पुण्यान् पुण्यजनाँश्चापि भोजयामास भावतः ॥८३॥सर्वं चकार विधिना पूजनं मम तेऽपि च ।ग्रहशान्त्या यज्ञपुण्यैर्मम ते च प्रसादतः ॥८४॥लोहांगारस्य देहाद्वै रोगोऽनश्यद् द्रुतं तदा ।स्वस्थोभवत्ततो राजा दयामग्नोऽभवच्च तम् ॥८५॥समाहूय ददौ मानं पूर्वतोऽभ्यधिकं बहु ।महामात्यपदं तस्मै प्रायच्छद् देवलाधिपः ॥८६॥प्रजाश्चापि नमश्चक्रुर्मानयामासुरादरात् ।पुत्रान् राजा स्वयं कारागारादमोचयत्तदा ॥८७॥अथ चौराश्च भग्नाशास्त्रस्ता राज्यभयं गताः ।चोरितं सर्ममेवाऽपि चिक्षिपुर्निशि चत्वरे ॥८८॥प्रकाशं प्रजया प्रातर्दृष्टं चास्मै निवेदितम् ।प्राप्तं सर्व धनं चापि ग्रहशान्त्या तदा रमे ॥८९॥एवं सा प्राप्य सर्वं तत् कल्पयामास दानकम् ।स्वर्णं रत्नानि माणिक्यं हीरकान् रूप्यकाणि च ॥९०॥वैष्णवं च महायज्ञं समारेभे द्विजातिभिः ।सर्वं प्रत्यागतं द्रव्यं ददौ स दक्षिणाः शुभाः ॥९१॥अहं प्रसन्नो ह्यभवं तस्य तस्य गुरोस्तथा ।ददौ स्वदर्शनं लक्ष्मि त्वया साकं ह्यवभृथे ॥९२॥वराऽर्थं देशितः सोऽपि वरं वव्रे हि भृत्यताम् ।मयोक्तं कुरु रम्यं मे मन्दिरं मां च मन्दिरे ॥९३॥प्रतिष्ठाप्य सदा सेवां भृत्यतां कुरु सर्वथा ।कृत्वा तूर्णं स एवं वै दास्यं चक्रे कुटुम्बवान् ॥९४॥आत्मनिवेदितां चक्रे भेजे मां पुरुषोत्तमम् ।वैष्णवः परमो भूत्वा राजानं देवलाभिधम् ॥९५॥वैष्णवं प्रचकाराऽपि प्रजाश्च वैष्णवीस्तथा ।चकार निजयोगेन भक्तिमतीः शुभक्रियाः ॥९६॥लक्षवर्षं क्षितौ स्थित्वा स्वर्गं भुक्त्वा युगाष्टकम् ।सत्यलोकं कोटिवर्षं वैराजं तु परार्धकम् ॥९७॥भुक्त्वा वैकुण्ठमेवापि ययौ मे त्वक्षरं पदम् ।पूर्वकल्पे महालक्ष्मि कथेयं सम्प्रवर्तिता ॥९८॥अद्य मे वर्तते धाम्नि पार्षदः सकुटुम्बकः ।एवं ग्रहाध्वरं कृत्वा स्वर्गं मोक्षमवाप्नुयात् ॥९९॥दुःखनाशे सुखं मोदं प्रमोदं लभतेऽन्वहम् ।अनिष्टानां विनाशं च स्वेष्टानां लभते स्थितिम् ॥१००॥नित्यं राजन् पूजयेद् यस्तस्य शान्तिर्हि शाश्वती ।ग्रहपीडा न जायेत यक्षरक्षोभवाऽपि न ॥१०१॥चौरकालकृता नापि नापि देवकृतापि च ।ग्रहे शक्तिप्रदाताऽहं रक्षामि वैष्णवं मम ॥१०२॥श्रवणात्पठनादस्य स्मरणाच्चानुमोदनात् ।ग्रहशान्तिसमां शान्तिं लभते नाऽत्र संशयः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ग्रहमखे लक्षजपहोमकोटिजपहोमादिविधिः, लोहांगारकवैश्यस्य सर्वस्वनाशोत्तरं ग्रहशान्त्या पुनर्लब्धिरित्यादिनिरूपणनामा चतुस्त्रिंशदधिकशततमोऽध्यायः ॥१३४॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP