संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४३ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं यदाह परमेश्वरः ।शिवराज्ञीश्रियं श्रेष्ठं सदाचारं पुनस्ततः ॥१॥साध्वीनां भूषणं शीलं पत्नीनां भूषणं पतिः ।सर्वासां भूषणं लज्जा हरिर्भूषणभूषणम् ॥२॥या न साक्षाद् भवेल्लक्ष्मीर्लक्ष्मीतुल्याऽपि नैव या ।यस्या भाग्यं हरौ लग्नं सा वै नारायणी स्मृता ॥३॥माता साक्षाद् भवेल्लक्ष्मीः पिता यस्या जनार्दनः ।भाग्यं यस्या हरौ नास्ति सा शोच्या हरिवर्जिता ॥४॥पूर्वकृतं समग्रं वै क्रमाद् भुंक्ते हि देहवान् ।गर्भशय्या हि पाकार्थं कर्मणां ब्रह्मणा कृता ॥५॥यस्मिन् वयसि यत्काले यथा यस्माद् विनिर्मितम् ।तत् तथाऽऽयाति विधिना नोदितं नान्यथा क्वचित् ॥६॥दत्तं दानं कृता विद्या पुरा कृतं हि कामितम् ।सर्वं त्वायाति काले वै भोगार्थं देहिनां त्विह ॥७॥कर्मलभ्यशरीरेऽत्र सन्ति रोगा ह्यनेकशः ।गर्भकोष्ठलिकारोगः सदा चास्ते तु योषिताम् ॥८॥अतो वै शास्त्रगर्भिण्या बुद्ध्या विचार्य भामिनी ।सरोगात् स्वं रोगशून्यमात्मानं समपादयेत् ॥९॥आत्मा यस्याः सदा सत्यशौचेन विशदीकृतः ।सा शुद्धा लभते स्वर्गं परमेशपदं ततः ॥१०॥भावोपहृतहृदया तृष्णाश्वपचीसंयुता ।न पुनाति सहस्रैश्च स्नानानां तीर्थकर्मणाम् ॥११॥सम्माने हर्षणं नास्त्युद्वेगो नास्ति विमानने ।क्षमा शीलं सदा यत्र सा साध्वी सद्वधूर्मता ॥१२॥वालुकाकोटिसंघातो नद्या भवति निम्नगः ।कर्मकोटिसुसंघातो नार्या भवति निम्नगः ॥१३॥जलचेतनसंघातो नद्या भवति तीरगः ।शीलचेतनसंघातो नार्या भवति पारकृत् ॥१४॥दूरदेशप्रसक्तानां भिन्नकुटुम्बयोषिताम् ।भक्त्यात्मकं परं कर्म कृष्णे मयि नियोजकम् ॥१५॥सकृदुच्चरितं नाम यया हरीति भावतः ।साधितं चाक्षरं धाम तया शाश्वतमोदनम् ॥१६॥यदीच्छेच्छाश्वतीं प्रीतिं श्रीपतौ मयि माधवे ।अनुवृत्तिं पालयेन्मे साधनं मत्परं मतम् ॥१७॥सर्वभूतेषु विश्वासः सत्त्वभावः स्वभावजः ।हरौ गुप्ता सदा सेवा साध्व्या वृषो हि सम्मतः ॥१८॥मलिनां मलदन्तां च बह्वाशिनीं च निष्ठुराम् ।सन्ध्यायां शायिनीं नारीं श्रीमपि त्यजति प्रभुः ॥१९॥भूलेखिनीं तृणच्छेत्रीं दन्ताऽशुद्धां मलाम्बराम् ।रूक्षकेशीं नग्ननिद्रां श्रीमपि त्यजति प्रभुः ॥२०॥दम्पत्योश्च स्त्रियोः पश्वोर्यन्त्रयोर्वेगिनोस्तथा ।मध्यतो नैव गन्तव्यं क्रुद्धयोर्युद्ध्यतोस्तथा ॥२१॥षट्कर्णा भिद्यते गाथा चतुःकर्णा तु धार्यते ।द्विकर्णा तु क्वचिन्नैव प्रकाशमेति वार्तिका ॥२२॥क्षमायुक्ते जने लोकाः कल्पयन्ति हि दूषणम् ।अशक्तिं बलहीनत्वं निर्माल्यमिव फल्गुताम् ॥२३॥अकृतज्ञा ह्यनार्या च दीर्घरोषा ह्यनार्जवा ।चतुर्विधा हि चाण्डाली जात्या ततोऽपि पञ्चमी ॥२४॥नवे वयसि या शान्ता सा शान्ता सर्वदा वधूः ।धातुक्षये तु यावत्यः शान्ता भवन्ति योषितः ॥२५॥धर्मो यत्र हि सन्यासी तपस्तीर्थार्थमुद्गतम् ।सत्यं यात्राकरं चास्ते कापट्यं च गृहे स्थितम् ॥२६॥दारिद्र्यं कलहश्चापि बान्धवा इव यद्गृहे ।हिंसा पत्नीस्वरूपा च तद्गृहं याम्यकोटरा ॥२७॥कुपतौ निर्वृत्तिर्नास्ति कुभार्यायां न निर्वृत्तिः ।कुमित्रे निर्भयत्वं न विचार्येति प्रवर्तयेत् ॥२८॥परान्नं च परस्वं च परशय्याः परस्त्रियः ।परपुमान् परसौधः श्रीविनाशकरा हि ते ॥२९॥अधमाः क्लेशरागा वै सन्धिरागास्तु मध्यमाः ।उत्तमा मानरागाश्च वध्यो भवन्ति भिन्नभाः ॥३०॥अधमा धनरागाश्च मध्या मानधनानुगाः ।उत्तमा मानमात्रस्था वध्वो भवन्ति देहिनाम् ॥३१॥विरहश्चापमानं च ऋणं च दुष्टसेवनम् ।दारिद्र्यं कलहश्चेति विनाऽग्निं दाहकानि षट् ॥३२॥अस्थिरं जीवनं द्रव्यं यौवनं च मनस्तथा ।पुत्रदारपतयोऽपि हरिं ततः स्थिरं भजेत्। ॥३३॥अहोरात्रमयः कालो हरते देहिमण्डलम् ।कालकालं हरिं ज्ञात्वाऽऽश्रयेन्मां पुरुषोत्तमम् ॥३४॥या निजे न गुरौ भृत्ये पत्यौ दीने दयावती ।किं तस्या जीवनं लोके काकीवद् भोगयोषितः ॥३५॥यद्गृहे धर्मभक्त्यादिशून्यं यापयति क्षणम् ।भस्रागृहं हि तद्बोध्यं श्वासिमासनिवासदम् ॥३६॥स्वादप्रमादविश्वासैः स्वार्थदारिद्र्यमाननैः ।स्त्रियो भ्रश्यन्ति तस्मात् तास्तान् कुर्युर्दूरतः सदा ॥३७॥तावद्भयस्य भेतव्यं यावद्भयं ह्यनागतम्।उपस्थिते भये तीव्रे स्थातव्यं वै ह्यभीतवत् ॥३८॥या दयां न कुरुते दीने भृत्ये गुरौ स्त्रियाम् ।मित्रे पत्यावनाथे जीवनं तस्यास्तु काकवत् ॥३९॥पराधीना मृता एव स्वाधीना जीवनार्थिकाः ।परोपकारकारिण्यो मृता अपि सजीवनाः ॥४०॥यथा यथा हि नार्योऽत्र शास्त्रशीला भवन्ति च ।तथा तथा सुमेधाः स्युर्ब्रह्मवादिन्य इत्यपि ॥४१॥यथा यथा च कल्याणे कुर्वन्ति स्वमतिं तथा ।तथा स्त्रियो भवन्त्येव पूजापात्राणि सुप्रियाः ॥४२॥परोक्षे कार्यहन्त्री या प्रत्यक्षे प्रियवादिनी ।वर्जनीया प्रयत्नेन वल्लीव चेन्द्रवारुणी ॥४३॥दुर्जनायाः प्रसंगेन सुनार्यपि विनश्यति ।तस्माद् वध्वा दुर्जनायाः संगस्त्याज्यः प्रयत्नतः ॥४४॥मनःप्रसन्नता यत्र मंगलानि हि तत्र वै ।नारीप्रसन्नता यत्र तत्र वासो हि सम्पदाम् ॥४५॥सा स्त्री या न मदं कुर्यात् सा पत्नी या पतिप्रिया ।सुखिनी सा ह्यतृष्णा या वधूः सा वंशवर्धिनी ॥४६॥साधूनां च नदीनां च सतीनां योषितां तथा ।मूलान्वेषो नातिकार्यो वधूनां चौषधस्य तु ॥४७॥राज्यश्रीः कृतपुण्यान्ता शीलं स्त्रीसंगमान्तकम् ।कुलकीर्तिः स्त्रीशीलान्ता कुलस्याऽन्तः स्त्रियोऽपि च ॥४८॥अनायके न वरो वासो न वापि बहुनायके ।स्त्रीनायकेऽपि न वरो वासोऽपि बालनायके ॥४९॥पित्रधीना कुमारत्वे पत्यधीना तु यौवने ।पुत्राधीना च वार्धक्ये सत्याधीना तथाऽऽश्रमे ॥५०॥लज्जाऽधीना व्यसने च दैवाधीना तु सम्पदि ।दानाधीना तु पत्नीत्वे या वधूः सा सुखप्रदा ॥५१।!वन्ध्यां मृतप्रजां स्त्रीमातरं चाऽप्रियवादिनीम् ।अपुत्रदां प्ररक्ष्यैव पुत्रार्थं त्वपरां वहेत् ॥५२॥अर्थहीना भिया युक्ता कान्ताधीना हि वर्तते ।अर्थपूर्णा निर्भयाऽपि कान्ताधीना हि शस्यते ॥५३॥अर्थातुराया धर्मो न कामुकाया भयं न च ।चिन्तातुरायाः सौख्यं न वधूस्तानि विवर्जयेत् ॥५४॥प्रेष्यायाश्च दरिद्रायाः पुंश्चल्याश्च सुखं कुतः ।ऋणवत्या व्याधिताया वन्ध्यायाश्च सुखं कुतः ॥५५॥स्थानस्थितायाः पद्माया मित्रे वरुणभास्करौ ।स्थानच्युतायास्तस्यास्तौ क्लेशशोषणकारकौ ॥५६॥स्थाने स्थिताः सुपूज्यन्ते नार्योऽपि बालका अपि ।स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नृपाः ॥५७॥अनृणायाः सुखा निद्रा निर्भयायाः सुखा तथा ।अव्याध्याश्च सुखा निद्रा सन्नयासिन्याः सुखा तथा ॥५८॥असंगतायाः पुंसा च संगतायाश्च शार्ङ्गिणा ।वितृष्णायाः सुखा निद्रा वध्वा वाऽप्यन्ययोषिताम् ॥५९॥जलयोगेन कमलं समुच्छ्रायं लभेद् यथा ।बलवत्स्वामिना भार्या महत्पदं लभेत्तथा ॥६०॥आचारेण कुलस्याऽत्र देशस्य भाषणेन तु ।स्नेहस्य चक्षुषा मूल्यं वपुषा भोजनस्य च ॥६१॥अब्धौ वृष्टेर्न वै मूल्यं तृप्ते च भोजनस्य न ।समृद्धे नैव दानस्य नीचे पुण्यस्य नैव च ॥६२॥दूरगतस्य हृदये स्नेहेन वास उच्यते ।समीपस्थस्य वैरेण दूरवासः समुच्यते ॥६३॥कदर्यत्वं स्वरो दीनो गात्रदारिद्र्यमूर्जितम् ।कृपणत्वं भयं चेति चिह्नानि याचनार्थिनाम् ॥६४॥महान् विष्णुर्हि भगवान् याचमानो हि वामनः ।जायते तर्हि का चाऽन्याऽर्थिनी याति न लाघवम् ॥६५॥विद्याधनं सदा प्राऽर्ज्यं साधुतादायिनी सती ।प्रियाकरी गौरवस्य प्रदा दुःखविनाशिनी ॥६६॥परमा देवता विद्या दिव्यज्ञानस्य शेवधिः ।वधूर्विद्या समा बोध्या गृहसम्पत्प्रसाधिनी ॥६७॥सर्वद्रव्याणि बाह्यानि नाशभीतिमयानि वै ।आत्मद्रव्यं हि विद्याऽऽस्ते नाशभीतिविवर्जितम् ॥६८॥आत्मविद्यावती भार्या तीर्थरूपा न संशयः ।तीर्थभुवः सुताः पुत्र्यः पावना मोक्षभागिनः ॥६९॥तीर्थयोगवतः पुंसः पत्युर्मोक्षो भवेदपि ।तीर्थपावनवस्तूनां भोक्तारश्च कुटुम्बिनः ॥७०॥यान्ति मोक्षपदं भार्यातीर्थपुण्येन पाविताः ।यस्य भार्या महासाध्वी साधुव्रतपरायणा ॥७१॥धर्माचारपरा नित्यं वधूः पतिपरायणा ।सुपुण्याङ्गी सुपुत्रा च मंगलार्हा ऋतंवदा ॥७२॥शुद्धा प्रियकरी प्रियव्रता पतिनिषेविणी ।ज्ञात्री गुणवती कथाश्राविणी बहुतापसी ॥७३॥नित्यं वै धर्मतः पत्नी सहपुण्यकरा शुभा ।पतिमार्गं प्रयाता च पतिदेवमखान्विता ॥७४॥सद्भावाच्च पतिं नैव दूरयत्येव या प्रिया ।यथा छाया तथाऽभिन्नव्रतधर्मपरायणा ॥७५॥नारीणां मोक्षदे पातिव्रत्ये व्रते स्थिता सदा ।पुण्या स्त्री यस्य भवति स वै ब्रह्ममयः पतिः ॥७६॥सव्यं पादं चाक्षरं धाम स्वपत्युर्हि या सती ।मनुते दक्षपादं च परब्रह्मात्मकं सदा ॥७७॥तत्पादोदकसंस्नाता ब्राह्मी भवति भामिनी ।सर्वतीर्थसमा सर्वतीर्थवासा हि सा मता ॥७८॥मखानां यजनात् पुण्यं यादृशं सम्प्रजायते ।ततोऽधिकं महत्पुण्यं पातिव्रत्येन जायते ॥७९॥नास्ति नार्याः पृथग् धर्मः पत्युः शुश्रूषणं विना ।तस्मात् कान्तसहाया सा सर्वदा सुखदायिनी ॥८०॥पुण्या पुण्यतमा साध्वी विशिष्यते जगत्त्रये ।सा न त्याज्या भवेत् क्वापि लोकेऽत्रापि परत्र च ॥८१॥येन भार्या परित्यक्ता सुनीता धर्मचारिणी ।दशांगधर्मस्तेनाऽपि परित्यक्तो भवेदिह ॥८२॥भर्ता याति यदा ग्रामान्तरं तदा तु वै सती ।भूमौ शयनकर्त्री स्याच्छृंगारं न करोत्यपि ॥८३॥घृतं तैलं पयः पानं दधि मिष्टं न खादति ।ताम्बूलं मधु मिष्टान्नं नैव खादति वै सती ॥८४॥एकवेणीधरा चैककञ्चुकीवस्त्रधारिणी ।वियोगे चाऽसमर्था संप्रतीक्षते तदागमम् ॥८५॥सम्बन्धः पुण्ययोगेन जायते पतिना सह ।नारीणां हि सदा तीर्थं भर्ता सोऽपि स्त्रियास्तथा ॥८६॥मिथश्चावाहयेन्नित्यं वाचा कायेन कर्मभिः ।मनसा पूजयेन्नित्यं सत्यभावेन वै मिथः ॥८७॥दक्षांगं चापि वामांगं सदा तीर्थद्वयं ह्युभे ।तारयत्येव सततं कुटुम्बं शतमेककम् ॥८८॥सुसुखं पुत्रसौभाग्यं सम्पत्सौभाग्यमित्यपि ।रूपं तेजो यशः कीर्तिः भर्तुः स्त्रियाः प्रसादतः ॥८९॥नारीणां यौवनं रूपं भर्तुः सम्पत् तु सा मता ।तुष्टे भर्तरि संसारे लोकाः सर्वे स्त्रियाः शुभाः ॥९०॥पतिहीना सुरूपाऽपि सम्पद्भिः संभृता अपि ।कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुतादयः ॥९१॥दुर्भाग्यं च महादुःखं पापा भुंक्ते पतिं विना ।तुष्टे भर्तरि देवाद्या ऋषयो मानवाः सुराः ॥९२॥पितरश्चापि तुष्टाः स्युरुभलोकसुखप्रदाः ।भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ॥९३॥भर्ता तीर्थं चा पुण्यं च वधूनां भाग्यगौरवम् ।शृंगारो भूषणं रूपं वर्णसौगन्ध्यमित्यपि ॥९४॥पतिः स्वर्गं पतिर्धर्मः पतिः सौभाग्यमेव च ।पतिर्वंशः पतिः शोभा वधूस्तथा पतिं प्रति ॥९५॥विना धर्मं विना भार्यां विना च स्वामिनं शुभम् ।गृहं वनायते चापि श्मशानायत एव च ॥९६॥वधूः पतिव्रता यत्र पत्नीव्रतः पतिस्तथा ।सम्पत् स्नेहश्च यत्राऽस्ति ब्रह्मभक्तिश्च यत्र वै ॥९७॥यत्र देवार्हणं नित्यं स्त्रीसम्मानं च यत्र च ।यत्र कन्यारक्षणं च यत्र मातृप्रसेवनम् ॥९८॥यत्र बाला मोदते च यत्र नारी प्रमोदते ।यत्र वै हृदयं नार्याः फुल्लितं सम्प्रमोदते ॥९९॥तत्र स्वर्गं चेश्वराणां सम्पदो ब्रह्मलोकता ।तस्माल्लक्ष्मि! ब्रह्मप्रिया भवन्तु शीलतत्पराः ॥१००॥मत्पराः सर्वदा सत्यः सदाचारपरायणाः ।सद्धर्मपरमा नित्यं देवार्हणपरायणाः ॥१०१॥पातिव्रत्यपरा हारिव्रत्यपराश्च सर्वथा ।अनादिश्रीकृष्णनारायणपरायणाः सदा ॥१०२॥वध्वो मम प्रियाः सर्वा गृह्णन्त्वानन्दशेवधिम् ।भवतीनां सुखैः सर्वं सुखं मे शाश्वतं यतः ॥१०३॥वधूधर्माः खड्गधारसमाः सन्ति प्रियास्थिताः ।तान् प्ररक्ष्य स्थिता यूयं मदात्मिका भविष्यथ ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां वधूपाल्याचारादिनिरूपणनामा त्रिचत्वारिंशोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP