संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथां पूर्वभवां शुभाम् ।वेदायनो महर्षिः स्वां भार्यामकथयत् पुरा ॥१॥श्रेष्ठतमं प्रवक्ष्यामि पातिव्रत्यमनुत्तमम् ।वाचा सुमनसा चैव कर्मणा शृणु भामिनि ॥२॥आग्रायणे शृणु धर्मान् वध्वाः श्रेयस्करान् मुदा ।शुश्रूषां कुरुते भर्तुः प्रत्यहं स्वीयभावनैः ॥३॥क्रुद्धं च निर्धनं वापि न त्यजेत् तं पतिव्रता ।तस्य दोषं न गृह्णाति ताडिताऽपि प्रतुष्यति ॥४॥भर्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा ।कुष्ठिनं वृन्दलं वापि कान्तं या सेवते सती ॥५॥पत्युलौकं प्रयात्येव प्रसादात् स्वामिनः शुभम् ।पतितं व्याधितं कुब्जं विकलं रोगिणं च वा ॥६॥षण्ढं धर्मविहीनं पातकिनं व्यसनान्वितम् ।अपि नाथं त्यजेन्नैव वधूः श्रेयो यदीच्छति ॥७॥कान्तं त्यक्त्वा व्रजेदन्यत्कार्यार्थं स्नेहवर्जिता ।सा पत्युः शापमासाद्य पुंश्चलीत्वमवाप्नुयात् ॥८॥गते भर्तरि शृंगारं लौल्यं च सेवते यदि ।सा तु कामस्य वेगेन भ्रष्टा भवेज्जनान्तरात् ॥९॥या पतिं स्वं परित्यज्य पितुर्गेहे वसेत् सदा ।विधिहीना धर्महीना सा नारी शासनार्हणा ॥१०॥गार्हस्थ्यं हि परित्यज्य याऽटतेऽन्यत्र वेश्मनि ।सा न भवति सम्पूर्णा पतिदेवा ह्यभागिनी ॥११॥भर्तारं च परित्यज्य महोद्यानादिवर्तिनी ।शृंगारभूषावेषाढ्या निर्घृणा सा तु पापिनी ॥१२॥भवति पुंश्चली नाम यया त्यक्तः स्वकः पतिः ।पृथक्शय्या वधूः प्रोक्ता पुंश्चली धर्मवर्जिता ॥१३॥चक्षुर्हीना धर्मनेत्रविहीना पतिवर्जिता ।सर्वस्थाने पतिर्ह्येको भार्याया धर्मधृङ्नरः ॥१४॥पितुर्गेहे स्थिता कन्या चिरं नाशं प्रयाति सा ।पत्युर्गेहे स्थिता कान्ता चिरमायुष्यमृच्छति ॥१५॥पतिव्रता महाभागा सर्वतीर्थमयी सती ।देवी सर्वमयी नित्या सर्वधर्ममयो हि सा ॥१६॥असद्गतिं गतायै च यस्यै कस्यैचिदप्यथ ।ददात्येकदिनस्यापि पुण्यं पतिव्रतोद्भवम् ॥१७॥पिशाचिन्या भवेन्मोक्षः पापशान्तिर्भवेत्तथा ।शरीरं शीर्यतेऽवश्यं पातिव्रत्यमुपार्जयेत् ॥१८॥पिंगला शृंगली नाम द्वौ कृमीकर्णमूलयोः ।चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः ॥१९॥भृंगली जंगली चैतो नेत्रयोरान्तरस्थितौ ।कृमयो वै तथा सन्ति सर्वांगेषु नवा नवाः ॥२०॥तैश्च संभक्ष्यते देहः पतिधर्मपरायणः ।वध्वा विचार्य साध्योऽतो धर्मः पतिव्रतात्मकः ॥२१॥तेजःप्रभावो ह्यतुलः सतीनां पतिदैवतः ।धाता सोढुं समर्थो न न सूर्यो न च पावकः ॥२२॥सत्कारयोग्याः सत्यश्च सतीत्वं पूज्यते सदा ।क्षमा शान्तिर्ब्रह्मचर्यं दया दमश्च सौहृदम् ॥२३॥प्रज्ञा सन्तोष ऐश्वर्यमार्जवं शुद्धता तथा ।सिद्धयः कल्पलतिकाः सत्या देहे वसन्ति हि ॥२४॥गुरवः पितरश्चापि विष्णुर्लक्ष्म्या समन्वितः ।हरश्च सत्या सहितः सावित्र्या सह विश्वसृट् ॥२५॥सतीगेहं समायान्ति देवाश्चाग्निपुरोगमाः ।मोक्षमार्गस्थितायां वै योषिति गृहयोषिति ॥२६॥ज्ञानौदार्यस्थितायां च सतीषु धर्मवत्स्वपि ।साधुष्वपि गृहस्थेषु नित्यं तिष्ठन्ति देवताः ॥२७॥भक्तस्याऽपि कुटुम्बस्य गृहे वसामि माधवः ।समर्थाः साधवः साध्व्यो यत्र तत्र वसामि च ॥२८॥सतीगृहं गृहं मे वै ब्रह्मप्रियायुतस्य ह ।सञ्चरामि सदा गेहे पातिव्रत्यादिशोभिते ॥२९॥ईश्वराः स्वामिनः सर्वे दर्शनार्थं प्रयान्त्यपि ।पतिव्रतागृहं यत्र निवसामि नरायणि ॥३०॥रूपसौभाग्यशृङ्गारसुखं सम्पत्तिरित्यपि ।नारीणां सर्वथा कान्ते सर्वस्वं शोभतेऽनिशम् ॥३१॥कान्ता कान्तेन रिक्ता न त्यक्तव्या वै कदाचन ।त्यागकर्ता दोषभाक् स्यात् सतीधर्मस्य लोपकृत् ॥३२॥विनीतां विमलां पुण्यां वधूं त्यक्त्वा प्रयाति यः ।तस्य पुण्यं कृतं सर्वं वृथा वधूविलापनात् ॥३३॥धर्माचारपरां पुण्यां भार्यां त्यक्त्वा प्रयाति यः ।साध्वीं सुगुणां वत्सां स धर्मफलं न विन्दति ॥३४॥सर्वाचारपरा साध्वी पुण्यपुञ्जार्जने रता ।सतीव्रतरता सेवारता विज्ञा विनोदिनी ॥३५॥ज्ञानगुणा भवेद्भार्या यस्य भक्तिमती शुभा ।महासती च तद्गेहे देवास्तिष्ठन्ति सर्वदा ॥३६॥पितरस्तादृशं पुत्रं वधूं चेच्छन्ति सर्वथा ।पुण्या सती वधूर्गेहे वर्तते सत्यशालिनी ॥३७॥तत्र यज्ञाश्च देवाश्च तीर्थानि पुण्यदानि च ।कामदुघाः कल्पलतास्तत्र वसन्ति सर्वदा ॥३८॥तत्र सर्वाणि पुण्यानि तीर्थानि सरितो नदाः ।तत्र लक्ष्म्यो निवसन्ति सम्पदश्च वसन्त्यपि ॥३९॥भार्यातीर्थे सर्वपुण्यशीलास्तिष्ठन्ति योगिनः ।भार्यायोगेन पत्युश्च पादौ तीर्थस्वरूपिणौ ॥४०॥सतीभार्यानिवासेन सुगार्हस्थ्यं सुदैवतम् ।सर्वयज्ञमयं स्याद्वै सर्वव्रतार्थसम्प्रदम् ॥४१॥गृहस्थस्य गृहं पुण्यं भार्या पुण्या पतिव्रता ।यत्र तत्र प्रवर्तन्ते सर्वे धर्मा सनातनाः ॥४२॥दानाचाराः प्रवर्तन्ते उत्सवाश्च महासुखाः ।भार्याहीनं वनं व्याघ्राकुलितं दुःखसंभृतम् ॥४३॥नास्ति भार्यासमं तीर्थं धर्मसाधनमुत्तमम् ।वने ग्रामेऽप्यरण्ये वा सतीतीर्थं हि मोक्षदम् ॥४४॥नास्ति भार्यासमं पुण्यं नास्ति भार्यासमं सुखम्।नास्ति भार्यासमं ज्ञानं तारणाय हिताय च ॥४१॥धर्मभार्यां सतीं त्यक्त्वा योऽन्यत्र कुरुते मतिम् ।गृहधर्मं परित्यज्य फलं क्वाऽस्य भवेन्ननु ॥४६॥पत्नीं विना यदा तीर्थे श्राद्धं दानं कृतं शुभम् ।सर्वं प्रयाति विफलं तस्माद् वधूं न संत्यजेत् ॥४७॥यथाऽमृतप्रदानेन पितृतृप्तिः प्रजायते ।भार्यादत्तेन पिण्डेन तथा तृप्तिः प्रजायते ॥४८॥गार्हस्थ्यस्य तु धर्मस्य भार्या भवति स्वामिनी ।तया विनाऽर्पितं श्राद्धं कवोष्णं जायते हि तत् ॥४९॥भार्या पचति चैवान्नं स्वहस्तेनाऽमृतोपमम् ।तदन्नमेव भुञ्जन्ति पितरो हृष्टमानसा ॥५०॥तेनैव तृप्तिमायान्ति सन्तुष्टाश्च भवन्ति ते ।तस्माद् भार्या विना धर्मः पुरुषाणां न सिद्ध्यति ॥५१॥भार्या सती वधूर्नित्यं धर्मं साधयति ध्रुवम् ।यज्ञाः सिद्धिं न चाऽऽयान्ति गृहिणीरहिते गृहे ॥५२॥सत्यधर्ममुखाः पुण्या ज्ञानाद्याः प्रबलाः सुता ।धर्मस्य ते सहाया वै सतीं रक्षन्ति सर्वथा ॥१३॥सती रक्षापरा चास्ते दमशान्तिपरायणा ।न तां जेतुं समर्थो वै कालो वा यम एव वा ॥५४॥भर्त्रा विना सतीं कश्चिन्निरीक्षेत यदा जनः ।सतीनेत्राग्निना सोऽपि भस्मीभूतो भवेत् खलु ॥५५॥यत्र सती महाभागा वधूर्वै सर्वमंगला ।तस्याः सत्येन सन्तुष्टा देवा वरं ददत्यपि ॥५६॥सतीं यान्तीं चाऽभियन्ति वह्नयो देवता अपि ।गृहदेवा अभियन्ति वनदेव्योऽभियन्ति च ॥५७॥सतीं यान्तीं जले स्नातुं जलदेव्योऽभियन्ति च ।सतीं यान्तीं तीर्थयात्रां तीर्थानि चाभियन्त्यपि ॥५८॥सतीं यान्तीं देवगृहं देवात्तामभियन्ति च ।सतीं यान्तीं वाटिकायां क्षेत्रदेव्योऽभियन्ति ताम् ॥५९॥सतीं यान्ती यज्ञभूमिं मखदेव्योऽभियन्ति ताम् ।सतीं यान्तीं प्रवासं च पृथ्वी याति सतीमनु ॥६०॥सतीं स्नान्तीं प्रसेवन्ते पित्र्यो देव्यो जलार्थिकाः ।सतीतन्वा जलं ताश्च पिबन्ति वस्त्रपीडितम् ॥६१॥वधूर्या मोदते पातिव्रत्येन स्वगृहे सदा ।स्वर्गेऽपि तत्सुखं नास्ति सिद्धिलभ्यं सतीसुखम् ॥६२॥सिद्धयश्चाणिमाद्याश्च सेवन्ते वै पतिव्रताम् ।सतीच्छाः पूर्णतां यान्ति यथातथापि कल्पिताः ॥६३॥विष्णुर्ब्रह्मा हरश्चेन्द्रः सूर्यश्चन्द्रो यमो गुरुः ।सतीं नमन्ति साध्वीं च पूजयन्ति सतीं च ते ॥६४॥निजपत्नीं सतीं सर्वे देवा इच्छन्ति सर्वथा ।राजानोऽपि दिशां पाला बिभ्यति स्त्रीसतीबलात् ॥६५॥सत्यं व्रतं भवेद् यत्र सती सा सर्वथा मता ।पत्युर्व्रतं भवेद् यत्र सती सा तु पतिव्रता ॥६६॥ब्रह्मव्रतवती या सा सती ब्राह्मी पतिव्रता ।मम चैकान्तिका या सा सती श्रीपुरुषोत्तमी ॥६७॥बहुपुण्येन लभ्योऽहं पतिः श्रीपुरुषोत्तमः ।शतजन्मशीलकोशान्मम प्राप्तिर्भवेदिह ॥६८॥सतीसंकल्पमात्रेण रोगा दूरं प्रयान्ति च ।विघ्ना दूरं प्रयान्त्येव गणेशोऽपि बिभेति वै ॥६९॥यमराजो भयं चैति कालो गच्छति दूरतः ।मातरश्च प्रसन्नाः स्युर्यत्र गेहे पतिव्रता ॥७०॥चण्ड्याद्याः शान्तिमासाद्य रक्षन्ति ताः सतीगृहम् ।बालग्रहा न चायान्ति सीम्नि सतीगृहस्य वै ॥७१॥मारीरोगाश्च मन्त्राश्च मोहभ्रान्तिकरा अपि ।उच्चाटनाद्या भीं प्राप्य वर्जयन्ति सतीगृहम् ॥७२॥हनुमान् ब्रह्मशीलोऽपि सेनानीः शीलवानपि ।ब्रह्मचर्याख्यपुरुषः सतीं नमन्ति दूरतः ॥७३॥विद्युद्वृष्टिसमुद्राणामुत्पाता भीं प्रयान्ति च ।सतीवाक्येन सन्तोऽपि स्वानुरोधं जहत्यपि ॥७४॥पतिव्रताया वध्वाश्च सन्निधौ चेश्वरा अपि ।पराजयं क्वचित् प्राप्य सत्याज्ञां मानयन्ति च ॥७५॥सतीकोपेन सर्पाद्याः सविषा यान्ति भस्मताम् ।पर्वताद्या विलीयन्ते शुष्कायन्तेऽब्धयोऽपि च ॥७६॥ग्रहा गतिं विहायैव स्तब्धा भवन्ति दण्डिताः ।कामाद्या मानसा देवा लयं यान्ति सतीबलात् ॥७७॥वासना भवदा सत्याशीर्वादेन प्रदह्यति ।महामायाविलयश्च जायते तु सतीच्छया ॥७८॥अवग्रहः सतीकोपाद् वृष्टिः सतीप्ररञ्जनात् ।वंशरेखा सतीशापान्नश्यत्यपि जगत्सु च ॥७९॥सतीच्छया नवं सर्वं जगत्पुनः प्रजायते ।यत्र सती वधूश्चास्ते तत्राऽहं भगवान् स्वयम् ॥८०॥विराजे धामसहितो मुक्तादिसहितस्तथा ।विराजे पार्षदैर्युक्तो विराजे धर्मसंयुतः ॥८१॥विराजे भक्तियुक्तश्च श्रीपतिः पुरुषोत्तमः ।विराजे सम्पदा युक्तः प्रत्यक्षोऽहं सतीगृहे ॥८२॥सती साध्वी ब्रह्मपरा भक्ता नारायणी हि सा ।पतिव्रता सात्त्वती सा महाभागवती मता ॥८३॥सच्चिदानन्दसंज्ञोऽहं निवसामि सतीगृहे ।तद्वंशे प्रकटीसंभवामि चापि सतीच्छया ॥८४॥प्रसन्नोऽहं सदा भक्तवत्सलः श्रीसतीगृहे ।अनादिश्रीकृष्णनारायणोऽहं भगवान् स्वयम् ॥८५॥परिपूर्णतमश्चास्मि तत्र क्षतिर्न विद्यते ।न्यूनता नैव भवति संशयो न भवत्यपि ॥८६॥तस्य वै सफलं जन्म सफलं गृहमित्यपि ।सफलो वंशविस्तारो यस्य गेहे हरिः सती ॥८७॥धर्मस्तस्यापि सफलो क्रियाश्च सफलाः सदा ।प्रयासाः सफलाः सर्वे यस्य गेहे हरिः सती ॥८८॥सदाऽऽनन्दाश्च कुशलं स्वास्थ्यं सर्वविधं तथा ।यत्र साध्व्यो हरिर्धर्मो यतयः साधवः सुराः ॥८९॥तत्र यतो भवेत् सिद्धिः लौकिकी पारलौकिकी ।यत्र क्षणं स्थिता साध्वी सन्तस्तत्र हरिः स्वयम् ॥९०॥कृतं तेन परं पुण्यं पूर्वजन्मनि चातुलम् ।येन प्राप्ता सती भार्या हरिः श्रीपुरुषोत्तमः ॥९१॥सतीं द्रष्टुं मुख्यदेवाः सन्तश्चायान्ति नित्यशः ।अश्वपट्टसरश्चेदं गृहं मे शिवसंज्ञिके ॥९२॥तस्मात् परं हि सुकृतं देशस्याऽस्य प्रवर्तते ।यत्र सत्यो मम पत्न्यो भवन्ति कोटिशोऽर्बुदाः ॥९३॥त्वया निभालिता लक्ष्मि स्वतुल्याश्च मदात्मिकाः ।परिपूर्णतमश्चाऽहं कृष्णनारायणो हरिः ॥९४॥वधूभिः सह संराजे दिव्ये सुराष्ट्रके स्थले ।आक्षरे मम सत्क्षेत्रे दिव्ये कुंकुमनामके ॥९५॥सृष्टिधामाधिपश्चाहं तव भक्त्या वशीकृतः ।लक्ष्मि वसामि तेऽग्रे च स्ववशस्तव मन्दिरे ॥९६॥अहो ब्रह्मप्रियाः सर्वा रसं गृह्णन्ति मे हरेः ।कृपयाऽऽनन्दसन्दोहं पिबन्ति मम चाऽमृतम् ॥९७॥यूयं ब्रह्मप्रियाः परब्रह्मरूपा मदात्मिकाः ।मम धर्मपराः सन्तु कल्याणदा हि योषिताम् ॥९८॥धन्या कुंकुमवापीयं धन्यं व्याघ्रवनं त्विदम् ।धन्यं चाश्वसरश्चापि धन्या भूश्च सुराष्ट्रिका ॥९९॥धन्यो देशः प्रजाश्चापि वृक्षाश्च वल्लिकास्तथा ।धन्यास्तृणस्तम्बवृक्षाः पशवो नरयोषितः ॥१००॥धन्यश्चापि समयोऽयं धन्याश्च जन्तवोऽपि च ।येषां मे श्रीहरेर्योगः क्षणे क्षणेऽत्र जायते ॥१०१॥यत्र धर्मः कुटुम्बाढ्यो वर्तते शाश्वतः सुखः ।यत्र मुक्तिस्तथा भक्तिः प्रीतिश्च सन्ति वै ध्रुवाः ॥१०२॥एवं मत्वा नरा नार्यो धन्यमात्मानमेव ये ।स्मरिष्यन्ति सतीधर्मास्तेऽपि यास्यन्ति धाम मे ॥१०३॥पठनाच्छ्रवणाच्चास्य सतीधर्मस्य वाचनात् ।पालनादपि मुक्तिश्च सिद्धिश्चापि भवेद् ध्रुवा ॥१०४॥वंशः सम्पद् यशो मानं चारोग्यं च प्रभाविता ।प्रभूता चेश्वरभावो भवन्त्यस्य विचारणात् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां सतीसत्यसामर्थ्यनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP