संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः ७४

द्वापरयुगसन्तानः - अध्यायः ७४

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं माहात्म्यं चाधिकं मम ।
भुक्तिमुक्तिप्रदं चापि नैर्गुण्यदिव्यताप्रदम् ॥१॥
केन मे तु भवेत् प्रीतिः कथं तुष्टो भवामि च ।
तुष्टेन च मया तूर्णं दिव्यो विधीयतेऽनुगः ॥२॥
कथयामि समासेन शृणु त्वं परमेश्वरि ।
प्रजानां रक्षणं येन कृतं सेवा कृता यया ॥३॥
सतां च पूजनं येन कृतं मे पूजनादिकम् ।
मोक्षश्चोद्घाटितो येन ज्ञानोपदेशकीर्तनैः ॥४॥
तेषां तुष्यामि कमले साधूनां मण्डलेऽस्मि च ।
साधूनां तोषणाल्लक्ष्मि तुष्याम्यहं सदा प्रिये ॥५॥
सज्जनानां परिवादो मम विद्वेषणं महत् ।
सज्जनानां पूजनेन पूजितोऽहं न संशयः ॥६॥
नित्यभिवाद्याः सन्तश्च भोजनीया निरन्तरम् ।
सेवनीयाः साधवस्ते प्रतिमा मम मूर्तयः ॥७॥
तेषां तुष्यामि भक्तानां सत्सेवां ये प्रचक्रिरे ।
न तेषामशुभं किञ्चित्कल्मषं चापि विद्यते ॥८॥
साधुं साध्वीं सतीं देवं पूजयेन्नित्यमुत्सुकः ।
पूजितं हि जगत्तेन सदेवाऽऽसुरमानुषम् ॥९॥
तेन रूपेण पूजां वै गृह्णाम्यहं सदा प्रभुः ।
पूजा ममैषा न त्वन्या सत्सु साध्वीष्वहं स्थितः ॥१०॥
यत्र प्रतिष्ठा मे चास्ते तान् विहायेतरं वृथा ।
साभिमाना जना वेगात् पूजयन्त्यज्ञसत्तमाः ॥११॥
नाऽहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम ।
मम सम्बन्धमाप्ता ये तेषां पूजा गरीयसी ॥१२॥
चक्रं मे पूजनीयं वै पादौ पूज्यौ सदा मम ।
वाराहाद्यवतारा मे पूजनीयाश्च साधवः ॥१३॥
चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुन्धरा ।
वाराहाद्यवतारैश्च ह्यसुरा विनिपातिताः ॥१४॥
साधुरूपैर्जनानां च मोक्षदानं ददाम्यपि ।
साध्वी धर्मवती नारी भक्तशक्तिर्निगद्यते ॥१५॥
तथा धर्मो रक्ष्यते मे पिता जन्म वहाम्यहम् ।
माता साध्वी सदा बोध्या भक्तिरूपा न संशयः ॥१६॥
दासी लक्ष्मीस्वरूपा च सर्वदा मम धारिणी ।
परितुष्टो भवाम्येषां पूजनात् सर्वतोऽधिकः ॥१७॥
तेषु मां पूजयिष्यन्ति नास्ति तेषां पराभवः ।
अपि साधुं सतीं दृष्ट्वा ब्रह्मचारिणमागतम् ॥१८॥
नत्वा दत्वाऽऽहुतिं भुञ्ज्यादमृतं तद्धि भोजनम् ।
साध्वीं सन्ध्यामुपासित्वा साध्वादित्यं नमेत्ततः ॥१९॥
सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः ।
साधुरूपं धर्मदेवं पालयेत् स्वगृहे सदा ॥२०॥
सत्संगं धर्ममेवाऽप्य पालयेद् भक्तराट् मम ।
सतां प्रसन्नता मे च येन धर्मः स वै मतः ॥२१॥
सतामुद्वेगजननं ह्यधर्मः स तु मे मतः ।
मम भक्ता न तुष्यन्ति येन तेन नु किं हि मे ॥२२॥
येन तुष्यन्ति मे सन्तस्तदेव मम सद्धनम् ।
कल्ये ह्युत्थाय सततं स्प्रष्टव्याः साधवो मम ॥२३॥
गावो घृतं दधि चाहं सर्षपाः साधिकास्तथा ।
स्प्रष्टव्याः प्रातरुत्थाय येन कल्मषनाशनम् ॥२४॥
स्त्रीघ्ना गोघ्नाः कृतघ्नाश्च ब्रह्मघ्ना गुरुतल्पगाः ।
शुद्ध्यन्ति साधुसंस्पर्शात् साधोश्च सेवनान्मम ॥२५॥
सन्तो गावोऽनलाः साध्व्यः स्प्रष्टव्या न पदा द्विजाः ।
पादेन स्पर्शने पुण्यं स्प्रष्टुः सर्वं विनश्यति ॥२६॥
परमान्नं प्रदातव्यं भोजने तेभ्य उत्तमम् ।
मिष्टान्नं च प्रदातव्यं शाश्वतीतृप्तिदं शुभम् ॥२७॥
आतिथ्यं सततं कुर्याद् दीपं दद्यात् सतां गृहे ।
सतो वन्देत् प्रसेवेत ह्येषः श्रेष्ठतमो वृषः ॥२८॥
अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः ।
न तु नश्यन्ति ते धर्माः साधवो यैः प्रतोषिताः ॥२९॥
यो यजेताऽश्वमेधेन वाजपेयशतेन च ।
अवाक्शिराऽवलम्बेत सत्रं कुर्यान्निरन्तरम् ॥३०॥
न यस्य हृदयं शुद्धं साधवो मे न सेविताः ।
मम सेवा कृता नैव मायानिरयगो हि सः ॥३१॥
साधुसेवा शुद्धता च हृदयस्य हि मोक्षदे ।
शुद्धेन मनसा कृत्वा स्वल्पमपि प्रमुच्यते ॥३२॥
श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा ।
सतां सेवा प्रकर्तव्या तेजस्वी तेन जायते ॥३३॥
अहन्यहनि यो दद्यात् कपिलां द्वादशीः समाः ।
मासि मासि च सत्रेण यो यजेत सदा जनः ॥३४॥
गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे ।
ततोऽधिकं फलं तस्य तुष्यन्ति यस्य साधवः ॥३५॥
श्रूयन्ते यानि तीर्थानि जलस्थलमयानि वै ।
सिद्धदेवादिजुष्टानि सेवितानि महर्षिभिः ॥३६॥
अभिषेकः समस्तेषां साधुचरणवारिभिः ।
अल्पं शीतं जलं दत्तं साधवेऽन्नं समर्पितम् ॥३७॥
दातुः पुण्योदका नाम नदी प्रैते विधीयते ।
अक्षयं सलिलं तत्र शीतलं ह्यमृतं भवेत् ॥३८॥
अन्नं तथाऽमृतं तत्र पद्यते परलोकिनः ।
अन्यच्चापि प्रदत्तं तत्परलोकेऽभिपद्यते ॥३९॥
लोके ह्युऽच्छिष्टकाः प्रायो बहुच्छिद्रा हि मानवाः ।
त्यक्तशीलसमाचारान् प्रविशन्ति पिशाचकाः ॥४०॥
मानवा ये सतां सेवापरायणाः शुभाश्रयाः ।
तान् पिशाचा नाऽऽविशन्ति भक्तान् पुण्यकृतान्नरान् ॥४१॥
साधुजनो यत्र यत्र भुनक्ति देवतार्पितम् ।
साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाऽश्विनौ ॥४२॥
मरुतो वसवश्चापि प्रतिभुञ्जन्ति तद्गताः ।
ऋषीणां देवतानां च पितॄणां मे हरेस्तथा ॥४३॥
मुक्तानामीश्वराणां च प्रसादालय एव सः ।
यो भवेत् साधुसाध्वीनां सेवाकृत् तोषकृत्तथा ॥४४॥
कृत्वाऽपि पापकं कर्म मत्साधुशरणं गतः ।
मुच्यते पापकोटिभ्यः पूतो भवति पावकः ॥४५॥
पापिनः पावयेत् साधुर्मम सेवाजितात्मवान् ।
मम संगं सदा कुर्यात् पापिसंगं विवर्जयेत् ॥४६॥
ब्रह्मदृष्ट्याऽर्पयेद् दानं साधुदृष्ट्याऽर्पयेत्तथा ।
हरिदृष्ट्याऽर्पयेल्लक्ष्मि तद्दानं शाश्वतं भवेत्। ॥४७॥
अन्नदानं वारिदानं ज्ञानदानं शुभं परम् ।
अभीदानं ब्रह्मदानं मोक्षदानं परात्परम् ॥४८॥
आत्मदानं सदा देयं तत्समं नेतरद् भुवि ।
दत्तात्रेयो हरिः साधुः शिष्येभ्यो ब्रह्मनिर्गुणम् ॥४९॥
दाने दत्वा ययौ धामाऽक्षरतुल्यं स्वकैः सह ।
कपिलश्च तथा साधुर्हरिर्दत्वा विवेकजम् ॥५०॥
ज्ञानं मोक्षं च शिष्येभ्यो ययौ धाम निजं परम् ।
ऋषभोऽपि समादिश्य शिष्येभ्यो ब्रह्म शाश्वतम् ॥५१॥
हरिः सोऽपि ययौ धाम निजं सर्वसुखास्पदम् ।
एवमन्येऽपि सन्तश्च ययुर्दानपरायणाः ॥५२॥
ब्रह्मदानप्रदानेन शाश्वतं चाऽक्षरं पदम् ।
साधुव्रताश्च राजानो ब्रह्मभावं विलोक्य च ॥५३॥
अदेयमपि दत्त्वैव ब्रह्मणे स्वर्गिणोऽभवन् ।
शिबिरौशीनरः प्राणान् प्रियस्य तनयस्य च ॥५४॥
ब्रह्मिष्ठार्थमुपाकृत्य महत्स्वर्गमितो गतः ।
प्रतर्दनः काशिकेशः प्रदाय तनु वै निजम् ॥५५॥
ब्रह्मिष्ठायाऽतुलां कीर्तिं लब्ध्वा मोक्षपदं गतः ।
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने ॥५६॥
अर्घ्यं पूजां प्रदायैव ययौ मोक्षपदं शुभम् ।
देवावृधो ययौ धाम दत्त्वा छत्रं च काञ्चनम् ॥५७॥
ब्रह्मिष्ठाय महायज्ञे शतशलाकमुत्तमम् ।
अम्बरीषोऽपि राष्ट्रं वै दत्त्वा सर्वं प्रभोः कृते ॥५८॥
ब्रह्मलोकं ययौ भक्त्या महाभागवतः शुभः ।
वृषादर्भिश्च सर्वस्वं दत्त्वा धाम ययौ मम ॥५९॥
निमि राष्ट्रं हरये मे दत्त्वा धाम ययौ मम ।
कन्यां दत्वा ह्यगस्त्याय वैदर्भिर्मोक्षमाप्तवान् ॥६०॥
पर्शुरामः क्षितिं दत्त्वा विप्रेभ्यस्तीर्थमावसत् ।
वामनोऽपि क्षितिं दत्त्वा विप्रेभ्यश्च ततः परम् ॥६१॥
स्वर्गं दत्त्वा हि देवेभ्यो ययौ धाम निजं हरिः ।
रामादित्योऽपि विप्रेभ्यः क्षितिं दत्त्वाऽक्षरं ययौ ॥६२॥
कन्यामांगिरसे दत्त्वा मरुत्तोऽप्यक्षरं ययौ ।
मित्रसहो वसिष्ठाय भार्यां दत्त्वा दिवं ययौ ॥६३॥
सहस्रचित्यो राजर्षिः प्राणान् दत्त्वा दिवं ययौ ।
शतद्युम्नः क्षितिं दत्त्वा मौद्गल्याय दिवं ययौ ॥६४॥
शाण्डिल्याय क्षितिं दत्त्वा सुमन्युर्धाम मे ययौ ।
द्युतिमान् पृथिवीं दत्त्वा ऋचीकायाऽक्षरं ययौ ॥६५॥
मदिराश्वः सुतां दत्त्वा हिरण्यायाऽक्षरं ययौ ।
शान्तां दत्वा लोमपादः ऋष्यशृंगाय स्वर्ययौ ॥६६॥
भगीरथः सुतां हंसीं दत्वा कौत्साय स्वर्ययौ ।
पृथ्व्यामन्ये भविष्यन्ति राजानो दानयोगिनः ॥६७॥
साधुभ्यो दानमर्पय्य यास्यन्ति परमं पदम् ।
लक्ष्मि सखीस्तव सर्वा दत्त्वा मह्यं प्रजेश्वराः ॥६८॥
याता यास्यन्ति मद्धाम नारायणपरायणाः ।
मत्साधूनां सेवका ये सेविका धर्मसंयुताः ॥६९॥
भक्तियुता भावयुतास्तादात्म्येन स्थिता मयि ।
नरा नार्यः प्रयास्यन्ति मम धामाऽक्षरं परम् ॥७०॥
धर्मादर्थाद्भयात्कामात्कारुण्यात्साधवे सदा ।
देयं स्वल्पं च बहु वा तद्धि मोक्षाय कल्प्यते ॥७१॥
धर्मार्थं स्वर्गलोकार्थं दातव्यं सुखकीर्तये ।
पुनश्चास्माच्च लब्धव्यं भविष्यतीति तत्फलम् ॥७२॥
एवमर्थार्थिना देयं साधवेऽनन्तसत्फलम् ।
विपत्काले भये प्राप्ते नाशे प्राप्ते च वस्तुनः ॥७३॥
दातव्यं वस्तु सर्वस्वं साधवे चाऽफलेच्छुना ।
प्रियतार्थं प्रदातव्यं सकामं साधुमूर्तये ॥७४॥
दीनाय च दरिद्राय दातव्यं करुणान्वितम् ।
साधवे मम भक्ताय विप्रायापि शुभं शुभम् ॥७५॥
हरेः प्रसन्नतार्थं च दातव्यं मोक्षदं हि तत् ।
कर्तव्यं मम चैतद्वै विचार्येत्थं समर्पयेत् ॥७६॥
साधवे निर्गुणं चैतन्नारायणाय मेऽपि च ।
दद्यान्नारायणस्येदं नेदं ममेति निर्गुणम् ॥७७॥
अनन्तफलदं तद्वै महानन्दप्रदं भवेत् ।
धाम्नि मे तत्फलं दास्ये ददामि भूतलेऽपि च ॥७८॥
दात्रे ददामि चाऽसंख्यानन्दवार्धिं परेऽक्षरे ।
एवं लक्ष्मि सतां सेवाकर्तुर्मे परमं पदम्॥७९॥
शाश्वतं चाऽऽयतौ चास्ति ममैश्वर्यादिसंभृतम् ।
स्वल्पं बहुतमं कृत्वा ददाम्यक्षरधामनि ॥८०॥
श्रीनारायणीश्रीरुवाच-
कीदृक् स्वल्पस्य दत्तस्य फलं ददासि दर्शय ।
कृपया मे हरे कृष्ण परेश्वर कृपां कुरु ॥८१॥
श्रीपुरुषोत्तम उवाच--
पश्य लक्ष्मि समायान्तं विप्रं भक्तं ममाऽन्तिकम् ।
स्वल्पदानेन तस्मै वै दास्याम्यहं ह्यनन्तकम् ॥८२॥
इत्युक्ते दीनवद् विप्रो नाम्ना परशुचन्द्रकः ।
कदर्यो गृहसर्वस्वं समादाय समाययौ ॥८३॥
पत्नीपुत्रविहीनो वै कृष्णनारायणं जपन् ।
स्कन्धे कोष्ठलिकां स्थालीकलशस्रुक्समन्विताम् ॥८४॥
वहन् कट्यां जीर्णवस्त्रं बद्ध्वा यष्टिं करे दधन् ।
तन्दुलान् प्रस्थमानाँश्च धौत्रं प्रावरणं तथा ॥८५॥
शिरस्त्राणं दधन् मूर्ध्नि ह्येतावन्मात्रसम्पदा ।
युतो नारायण कृष्ण पुरुषोत्तममाधव ॥८६॥
गृणन् चाग्रे वस्तुजातं धृत्वा च पादयोस्तदा ।
रक्ष शरण्य कृष्ण त्वं मोक्षं देहि पदे तव ॥८७॥
इत्ययाचत तन्दुलान् ददौ च भर्जितान् हि तान् ।
चकार दण्डवत्तत्र लुलोठ प्राऽऽर्प्य मस्तकम् ॥८८॥
नेत्रे प्रमील्य च क्षणं सुष्वाप भूतले पुरः ।
अनादिश्रीकृष्णनारायणोऽहं भक्तवत्सलः ॥८९॥
किंकरोम्यस्य भक्तस्य शरणागतरक्षकः ।
वद लक्ष्मि! मृतश्चाऽयं प्राणान् त्यजति सन्निधौ ॥९०॥
इत्युक्त्वा तण्डुलान् स्वल्पान् मुखे क्षिप्त्वा ह्यभक्षयम् ।
पश्यैतस्य फलं चाऽस्मै ददामि धाम चाऽक्षरम् ॥९१॥
तावत्तत्र समायातं विमानं पार्षदान्वितम् ।
आरुरोह स विप्रोऽपि दिव्यदेहः कृपान्वितः ॥९२॥
विमानं व्योममार्गेण स्मृद्धं धामाऽक्षरं ययौ ।
पश्य लक्ष्मि मम धाम्नि प्रासादोऽस्य कृते मया ॥९३॥
क्लृप्तः स्मृद्धियुतो भक्ष्यभोज्यपेयादिकाऽन्वितः ।
दिव्यदृष्ट्या पश्य सर्वं स्मृद्धं फलं मयाऽर्पितम् ॥९४॥
कामगं च विमानं वै तस्याऽर्थे चार्पितं मया ।
ब्रह्माऽमृतं तथाऽनन्तं चार्पितं तान्दुलं फलम् ॥९५॥
पेयं सर्वविधं चापि स्वर्णाम्बराणि वै तथा ।
शरणागतभक्तस्य भोग्यार्थं चार्पितानि वै ॥९६॥
अथाऽऽलोक्य प्रसन्ना श्रीर्लक्ष्मीर्मुमोद चान्तरे ।
विप्रदेहः सरस्येव कृष्णेच्छया ममज्ज ह ॥९७॥
स्वयं गतियुतो भूत्वा विलयं तत्र वै गतः ।
महाश्चर्यं च सर्वाभ्यो लक्ष्मीश्चोक्तवती त्विदम् ॥९८॥
सर्वा ब्रह्मप्रियाद्याश्चालोकयामासुरेव तम् ।
दिव्यदृष्ट्या महिमानं कृष्णनारायणस्य मे ॥९९॥
पश्यैवं महिमा मेऽस्ति सर्वस्याऽपि महत्फलम् ।
पठतां शृण्वतां चापि तथैव फलमुत्तमम् ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेऽनादिश्रीकृष्णनारायणभक्तस्य महिमकथने हरेस्तुष्टिसाधनानां वर्णनं, कदर्यस्य परशुचन्द्रकस्य विप्रस्याऽल्पदानस्याऽनन्तफलप्राप्तिश्चेत्यादिनिरूपणनामा चतुःसप्ततितमोऽध्यायः ॥७४॥

N/A

References : N/A
Last Updated : May 04, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP