संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १६९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १६९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १६९ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-कथं नित्या अपि जीवा ज्ञानवन्तोऽपि देहिनः ।जानन्तोऽपि मृत्युपदं प्रयान्ति कारणं वद ॥१॥श्रीपुरुषोत्तम उवाच-सर्वं जिह्मं मृत्युपदं जिह्मा मृत्युं प्रयान्ति हि ।कुटिलां वृत्तिं कुर्वन्ति कामाद्यास्ते हि मारकाः ॥२॥त एव निजदेहस्थाः शत्रवो घातकाः सदा ।तद्धीनानां न वै मृत्युर्योगिनां च सतां रमे ॥३॥मृत्युर्वै नरकः प्रोक्तः स च जन्मादिनिर्मितः ।जन्म कर्मबलात् प्राप्तं कर्म वासनयाऽर्जितम् ॥४॥सा चेन्निर्दह्यते शान्त्या दमेन सेवया सताम् ।हरेर्भक्त्या क्षालयेच्चात्मानं विशदतां दिशेत् ॥५॥ततो मृत्युः कष्टरूपो मरणाख्यो न जायते ।दिव्यभावमुपायातो याति ब्रह्म सनातनम् ॥६॥चिरंजीवो भवत्येव शाश्वतैश्वर्यवान् भवेत् ।मृत्युशीला धातवोऽस्य दिव्या भवन्ति मद्बलात् ॥७॥प्रमादश्चापि मोहश्च विनश्यतोऽस्य सर्वथा ।तावेव मृप्युरूपौ हि नास्याऽऽविशतो वै क्वचित् ॥८॥मायाहीनस्य भक्तस्य मम योगे स्थितस्य च ।माया दिव्या जायतेऽपि बन्धनादिविवर्जिता ॥९॥ततोऽसौ नित्यमुक्तात्मा ब्रह्मण्येव प्रवर्तते ।एवं लक्ष्मि भवत्येव त्वं यथा चाब्धिजा ह्यपि ॥१०॥वर्तसे मम योगेन दिव्या मायाविवर्जिता ।नित्या सुसमसंस्थाना वृद्धिहासविवर्जिता ॥११॥यथाऽहं च तथा त्वं वै तथा भक्तो भवत्यपि ।मदिच्छा तादृशी लक्ष्मी तया तथैव जायते ॥१२॥आत्मनस्तु पुराऽहंकारेण युद्धमवर्तत ।अहंकारेण देहोऽयं निजराज्यात्मकः कृतः ॥१३॥सुगन्धश्च हृतस्तेन सर्वोऽपि निजराज्यजः ।दुर्गन्धश्चावशिष्टश्च मृत्युदो दुःखदो गरः ॥१४॥चिदात्मा वीक्ष्य दुष्कृत्यं ज्ञाननाशात्मकं ह्यपि ।अनात्म्याचरणं वीक्ष्य शस्त्रं विवेकमादधे ॥१५॥अहंकारस्य दुष्टस्याऽवासृजन्मृत्युदस्य तत् ।वध्यमानोऽप्यहंकारः शस्त्रेण चातिवेगिना ॥१६॥विवेश पृथिवीं त्यक्त्वा जलभागं निरामयम् ।सुरसश्च हृतस्तेन सर्वोऽपि निजराज्यजः ॥१७॥द्रुष्टरसोऽवशिष्टश्च मृत्युदो दुःखदो गरः ।आत्मा शस्त्रं पुनस्तस्याऽवासृजद् वधहेतवे ॥१८॥वध्यमानो विवेशाऽहंकारो ज्योतिःप्रदेशकम् ।तत्र रूपं सुरूपं च जग्राह निजराज्यगम् ॥१९॥कुरूपं चाऽवशिष्टं च चिदात्मा पुनरेव च ।तीक्ष्णं शस्त्रं विवेकाख्यमस्य चाऽवासृजत्ततः ॥२०॥ताड्यमानोऽप्यहंकारो विवेश वायुभूस्तरम् ।तत्र स्पर्शं सुष्टुसंज्ञं जग्राह निजराज्यगम् ॥२१॥कुस्पर्शश्चावशिष्टो वै तं विलोक्य पुनस्तथा ।शस्त्रं चाऽवासृजत्तस्य विनाशार्थमथापि सः ॥२२॥अहंकारोऽविशद् व्योम शब्दं जग्राह तद्गतम् ।कुशब्दश्चावशिष्टश्च वीक्ष्य तं तु पुनस्तथा ॥२३॥चिदात्मा शस्त्रमागृह्य मारयामास यावता ।अहंकारो विवेशाऽपि चिदात्मनि निराश्रितः ॥२४॥चिदात्मा च गुरुर्भूत्वोपादिदेशाप्यहंकृतिम् ।अहं ब्रह्मस्वरूपोऽस्मीत्यहंकारोऽपि तद् दधौ ॥२५॥ततो ब्रह्मस्वरूपस्याऽभिमत्या ब्रह्मतां ययौ ।मायिकोऽपि गुरोर्वाक्यादुपास्त्या ब्रह्मतां ययौ ॥२६॥चिदात्मा तं विवेकेन जघानापि न वै हतिम् ।ययौ चात्मस्थितस्तस्माज्जातो मृत्युविवर्जितः ॥२७॥स्वस्वभावं परित्यज्य चिदात्मरूपतां गतः ।अवध्यभावमासाद्य दिव्याऽहंभावमाश्रितः ॥२८॥बुद्धिं दिव्यां समाश्रित्य परमात्मानमाप्तवान् ।अवध्यः स सदा जातो दिव्यबुद्ध्याऽऽत्मसंस्थितः ॥२९॥परमेश पराभक्त्या मुक्तभावमुपागतः ।मुक्तानां दिव्यतत्त्वानां व्याघातो नैव जायते ॥३०॥एवं लक्ष्मि विनाशो वै मृत्योर्भवति चार्पणात् ।आत्मार्पणं समस्तानामिन्द्रियाणां च कर्मणाम् ॥३१॥वृत्तीनां चात्मना साकं ब्रह्मार्पणं हि निर्गुणम् ।निर्गुणे मयि नास्त्येव मृत्युर्लोकाभिदुःखदः ॥३२॥व्याधयो द्विविधा लक्ष्मि शारीरा मानसास्तथा ।तेषां परस्परं जन्म परस्परमपेक्षिणाम् ॥३३॥वातपित्तकफानां तु वैषम्ये देहजा हि ते ।अवैषम्ये स्वस्थभावश्चारोग्यं गीयते हि तत् ॥३४॥ओषधेन यथामृद्यं मृद्यते तद्विरोधिना ।उष्णेन मृद्यते शीतं शीतेनोष्ण्यं च मृद्यते ॥३५॥मानसेऽपि तथा दोषे मृदुस्तीक्ष्णेन मृद्यते ।हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥३६॥सत्त्वरजस्तमसां चेत् साम्यं स्वास्थ्यं तदात्मनः ।वैषम्यं व्याधिरेवाऽयं तत्र मर्दनमिष्यते ॥३७॥दुःखवान् यतते सौख्ये सुखी दुःखं स्मरत्यपि ।गुणजौ तावुभौ भावौ मानसौ न तु चात्मनः ॥३८॥तथापि वेगमासाद्य वहते तत्प्रवाहणे ।संगं च लभते देही मनुते मानसान्निजे ॥३९॥यदि चेल्लभते प्रज्ञां पुराणीं सद्गुरोर्मुखात् ।सच्चिदानन्दभावां स्वां मनो नाशं तदेच्छति ॥४०॥यतते तद्विनाशार्थं प्रज्ञाशस्त्रेण चात्मनः ।आत्मा योद्धा स्वयं स्याच्च ब्रह्मरथे निषद्य वै ॥४१॥पारब्रह्मपदं लक्ष्मि तदा चात्मा विजेष्यति ।बाह्यं सर्वोपकरणं वैश्यं द्रव्यं समुत्सृजेत् ॥४२॥असंगश्चाऽपरिग्रहस्ततः सिद्धिं प्रलप्स्यते ।ममेति जायते यावन्मृत्युस्तावदुपस्थितः ॥४३॥न ममेति यदा भावो मृत्युस्तस्य गतो मृतिम् ।सोऽहं ब्रह्मेति तस्यैव शाश्वतं सम्प्रकाशते ॥४४॥एतादृशस्य तु विवेकिनो लक्ष्मि ह्यसीमकम् ।ब्रह्माण्डराज्यमस्याऽस्ति जंगमस्थावरात्मकम् ॥४५॥तथापि नाऽस्य ममता मृत्युस्तं किं करिष्यति ।मृत्युमूर्धपदं कृत्वा स याता ब्रह्म शाश्वतम् ॥४६॥कामं वै वसतो लक्ष्मि वने वन्येन जीवतः ।ममतामत्यजतस्तु मृत्युः केशेषु तिष्ठति ॥४७॥बाह्यान्तराणां ममतां मायां वीक्ष्याऽऽन्तरात्मना ।अन्तर्ब्रह्मस्वरूपेण स्थातुर्मुक्तिर्महाभयात् ॥४८॥सर्वाः प्रवृत्तयो लोके कामोद्भाव्या भवन्ति ताः ।विचार्याऽकामगो भूत्वा यदि संहरते मनः ॥४९॥कारणस्यैव संहाराद् भूयोऽभ्यासबलैधितः ।मायाप्रवाहमुत्तीर्य याति ब्रह्मसनातनम् ॥५०॥सारमार्गं प्रलम्बेत दानं व्रतं तपो मखम् ।सारमपि ह्यसारं चाऽकामं कृत्वाऽनुसञ्चरेत् ॥५१॥हर्यर्पणं महासारं कृत्वा यद्वाऽनुसञ्चरेत् ।सर्वं तस्योत्तरणाय भवेदुत सहायकृत् ॥५२॥निग्रहो मोक्षबीजं वै प्रग्रहो भवबीजकम् ।शृणु लक्ष्मि पुरागाथां वृत्तां जीवात्मनो यथा ॥५३॥आत्मा सुखी स्वयं पार्श्वस्थितं पप्रच्छ चैकदा ।अभिमानं सुखे विघ्नकर्तारं बलिनं मुहुः ॥५४॥कथं केन विनाशस्ते यदि सत्यव्रतो भवान् ।वद् मे येन प्रयते त्वन्नाशे सुखवानहम् ॥५५॥तदाऽहंकारपुरुषः श्मश्रुबलं प्रदर्शयन् ।सरोषं देहिनं प्राह शृणु सत्यं वदामि तत् ॥५६॥न कश्चिन्मम नाशं वै कर्तुमत्र भवोत्थितः ।ऋते नारायणं यद्वा महाभागवतं जनम् ॥५७॥नाऽहं शक्यः संगवता हन्तु भूतेन केनचित् ।यद्बलेन हन्यते तद्बलं प्रहरणं च वा ॥५८॥न मां हन्तुं समर्थं वै यावत्त्वेन भवत्युत ।बीजपुष्टिकरं स्याद् यत् पुनः प्रादुर्भवाम्यहम् ॥५९॥यज्ञाद्यैर्दक्षिणाढ्यैर्मां हन्तु प्रयतते यदि ।धर्मेच्छाऽस्य मम पुष्टिस्तया प्रादुर्भवाम्यहम् ॥६०॥जपेन चापि मौनेन मां हन्तुं यतते यदि ।साहंभावोऽत्र पुष्टिर्मे तया प्रादुर्भवाम्यहम् ॥६१॥वेदान्तैर्ज्ञानमार्गैर्वा मां हन्तुं यतते यदि ।मया हतेत्यहंपुष्टिस्तया प्रादुर्भवाम्यहम् ॥६२॥सन्न्यासेन विरागेण मां हन्तुं यतते यदि ।प्रमादोऽन्यत्र पुष्टिर्मे तया प्रादुर्भवाम्यहम् ॥६३॥प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।सन्न्यासिनोऽपि वर्तन्ते देवसन्दूषिताशयाः ॥६४॥धृत्या ब्रह्मव्रतेनापि मां हन्तुं यतते यदि ।जयाऽभिमानबीजाख्यपुष्ट्या पुनर्भवाम्यहम् ॥६५॥तपसैश्वर्यलब्ध्या मां प्रहन्तुं यतते यदि ।मधुमत्यादिभिश्चमत्कृतिभिर्यांगसिद्धिभिः ॥६६॥बीजात्मिकाभिरत्यर्थपुष्ट्या पुनर्भवाम्यहम् ।मोक्षार्थं साधनैश्चापि मां हन्तुं यतते यदि ॥६७॥तमज्ञं साधनतुष्टं नृत्यामि च हसामि च ।एवंविधाभिलषिणामवध्योऽहं सनातनः ॥६८॥ममत्वं विपरीते वा स्वेष्टे मनाग् भवेद् यदि ।तत्राऽहं जीवनं लब्ध्वा भवामि भवबन्धकृत् ॥६९॥ममता मनसो भावो मनोनाशे विनश्यति ।काचभावे क्षितेर्दोषा विनश्यन्ति न संशयः ॥७०॥तथापि भग्नताभावः काचस्यापि न नश्यति ।तथाऽऽत्मनो ममतात्मा भावोऽन्ततो न नश्यति ॥७१॥प्रलयं तु समासाद्य पृथ्वी जले विलीयते ।एवंक्रमेण तत्त्वानां महत्तत्त्वे लयो भवेत्। ॥७२॥मनसश्च लये मायालये जीवत्वरोधने ।आत्मत्वभासने मृत्युर्मम स्यादपुनर्भवः ॥७३॥आत्मावभासः सहसा परमेशकृपावशः ।तदर्पणेन सर्वस्य मम नाशो यतो मतः ॥७४॥एवमुक्तः पुरा चात्माऽभिमानेन गरीयसा ।सोऽयं लक्ष्मि यतेतैव परमेशे मयि ध्रुवे ॥७५॥सर्वार्पणादिभावेन तदाऽहन्ता विनश्यति ।ममता लीयते चापि पतिता परमात्मनि ॥७६॥लवणस्य यथा पाते समुद्रे लीनता सदा ।न प्ररोहो भवेत् क्वापि तथा कृष्णोऽस्य नांऽकुरम् ॥७७॥ज्ञात्वैवं यतते साधुः सर्वात्मार्पणमुत्तमम् ।देहेन्द्रियमनःप्राणाऽहंकारमहतामपि ॥७८॥सत्त्वरजस्तमसां च सच्चिदानन्दधर्मणाम् ।अस्तित्वस्याऽर्पणं चापि सर्वार्पणं करोति हि ॥७९॥मय्यर्पणेन भक्तानां सर्वं मद्योगतः किल ।मत्स्वरूपं भवत्येव न तद्बन्धाय जायते ॥८०॥शृणु लक्ष्मि कथयामि मम भक्तस्य वै कथाम् ।भक्तो नाम्ना साधुभावायनश्चात्र सरस्तटे ॥८१॥संकुच्य वृत्तीः सर्वास्तु समाधौ संस्थितोऽभवत् ।तावत्तस्य समीपस्थोऽहंकारपुरुषोऽभवत् ॥८२॥विकरालश्चोग्ररूपः कृष्णवर्णोऽतिपुष्टिमान् ।हसन्नुवाच तं साधुभावायनं हृदन्तरे ॥८३५॥कस्त्वं कस्मादितो मां वै निष्कासयसि मद्गृहात् ।व्रते चाऽहमहंकारो पुण्यविषयसंस्थितः ॥८४॥दाने चाहमहंकारः स्वर्गधर्मव्यवस्थितः ।यज्ञे चाहमहंकारः कर्तृवृत्तिव्यवस्थितः ॥८५॥दक्षिणाविषयश्चापि यजमानत्वसंस्थितः ।तीर्थे चाहमहंकारः पावित्र्यविषयस्थितः ॥८६॥सेवायामप्यहंकारः करोमीत्येव संस्थितः ।जपे चाऽहमहंकारोऽघनाशवृत्तिमास्थितः ॥८७॥ब्रह्मचर्येऽप्यहंकारो व्रती चाहमितिस्थितः ।विद्यायामप्यहंकारो विद्वानिति व्यवस्थितः ॥८८॥वैराग्ये चाप्यहंकारो ह्यदोषोऽहमिति स्थितः ।सन्न्यासे चाप्यहंकारः संसारक्षपणो न्वहम् ॥८९॥ध्याने चापि ह्यहंभावो ध्याताऽहं योगवानहम् ।समाधावप्यहंकारश्चैश्वरोऽहं विमायिकः ॥९०॥एवं मे विगमे चैकेऽपरे पक्षे तु जीवनम् ।वर्तते चेति तस्मान्न मृतो भवामि कर्हिचित् ॥९१॥एकेनाऽर्पणभावेन गच्छामि चार्पिते श्रये ।पुण्यं कर्म फलं भक्तिश्चात्मा वृत्तिश्च मानसम् ॥९२॥अर्पितानि मतिश्चाऽहं यदि श्रीपरमात्मनि ।तदा सर्वे प्रगच्छामोऽर्पणाश्रये शुभाश्रये ॥९३॥अर्पितारं विहायैव गच्छामो दानकर्मणा ।तस्मात् साधोऽर्पय बुद्धिं मायां त्रिगुणशोभनाम् ॥९४॥अविद्यां च तथा विद्यां महत्तत्त्वं वृषाश्रयम् ।धर्मादिकान् सर्वभावान् मानसं चापि धर्मवत् ॥९५॥इन्द्रियाणि समस्तानि देवता वृत्तीरन्तरम् ।बाह्यं च करणं सर्वं तन्मात्राणि च गोचरान् ॥९६॥विषयान् पञ्चभूतानि भौतिकानि गृहाणि च ।गोलकान् तत्फलं चापि गुणान् कर्माणि यानि च ॥९७॥सर्वाणि चेषणाः सर्वा वासनाश्चापि भावनाः ।सम्बन्धाँश्च तथा सर्वसंस्कारानपि चार्पय ॥९८॥अनादिश्रीकृष्णनारायणे भक्त्याऽर्पणं कुरु ।तदाऽहं स्वकुटुम्बेन युतो यास्यामि नान्यथा ॥९९॥श्रुत्वैवं सहसा मित्रं मत्वोत्थाय समाधितः ।अनादिश्रीकृष्णनारायणे मयि समर्पणम् ॥१००॥सर्वस्य कर्मकाण्डस्याऽकरोत् साधुभवायनः ।मद्भाःव सर्वथा भूत्वाऽऽर्पयच्चात्मनिवेदिताम् ॥१०१॥एवं योगसमाध्यादींस्त्यक्त्वा श्रीपौरुषोत्तमीम् ।सेवात्मिकां क्रियां सर्वां नारायणे समार्पयत् ॥१०२॥अभिमानस्तदा तस्य विलीनः परमात्मनि ।नित्यमुक्तोऽभवत् सोऽपि मदात्माऽक्षरवासकृत् ॥१०३॥एवं सर्वार्पणं लक्ष्मि साधनं दुःखनाशनम् ।मोक्षस्य साधनं चैतन्ममाऽर्पणं समस्ततः ॥१०४॥पठनाच्छ्रवणादस्य निर्ममत्वं प्रजायते ।अनादिमुक्तता चापि जायते वर्तनात्तथा ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मृत्युप्रदकारणानि तद्विनाशसाधनं साधुभावायनर्षिदृष्टान्तेनाऽभिमानस्य कृष्णार्पणविधयानाशश्चेत्यादिनिरूपणनामा नवषष्ट्यधिकशततमोऽध्यायः ॥१६९॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP