संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १०५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १०५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०५ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-धर्माणां कर्मणां चापि मूलं मे वद माधव ।यदाश्रयात् प्रपुष्टिं संप्रयाति मानवो वृषे ॥१॥श्रीपुरुषोत्तम उवाच-शृणु श्रीशिवराज्ञीश्रि! धर्ममूलं सनातनम् ।नारायणे यथा लक्ष्मीः श्रीकृष्णे राधिका यथा ॥२॥अनादिश्रीकृष्णनारायणे त्वं मयि राजसे ।विष्णौ लक्ष्मीर्यथा चास्ते गोपाले कम्भरा यथा ॥३॥सावित्र्यजे हरे दुर्गा सिद्धिर्विनायके यथा ।तथा विवाहिता पत्नी धर्ममूलं हि देहिनाम् ॥४॥पितृदेवाऽतिथीनां च स्वजनस्य गृहस्य च ।वंशस्य वंशशाखानां मूलं पत्नी विवाहिता ॥५॥अलंकृत्योदकपूर्वां कन्यां दद्याच्छुभे वरे ।वरारोहां युवतीं चाऽनङ्गवासशरीरिणीम् ॥६॥अभिप्रेता च या यस्य कन्याऽभिप्रेत एव यः ।तयोर्मुदा विवाहो वै कर्तव्यो हितकृद्धि सः ॥७॥ब्राह्मणानां सतां चापि सात्त्विकानां विधिर्ह्ययम् ।धनेन बहुधा क्रीत्वा प्रसह्य हरणं च वा ॥८॥न कर्तव्यं क्वचिल्लग्नं केनचित् सुखमिच्छती ।निःश्वासाभिहतं सर्वं दह्यत्येव हि योषितः ॥९॥जातस्त्रीव्यञ्जनां भार्यामुद्वहेच्छ्रेय इच्छता ।उद्भिन्नयौवनां पुष्टामुद्वहेत्पुष्टयौवनः ॥१०॥राजस्वल्यं विना नैव क्षतां कुर्यान्निजांगनाम् ।अथवा चेत् कामुकी सा स्नेहस्पृश्या निसर्गजा ॥११॥स्वयं पतिं प्रगच्छेच्चेद् रमणे नैव दूषणम् ।पत्नीच्छामन्तरा नोपयच्छेत् नारीचलो भवन् ॥१२॥कामुकः स्वैरवृत्तश्च धर्मं हन्ति गृहाश्रयम् ।प्रसह्याऽधर्म एवास्ते स्नेहकार्यो वृषो मतः ॥१३॥शृणु लक्ष्मि महाराष्ट्रे क्षत्रियो जांघलामखः ।आसीत् वव्रे स कन्यां द्वादशवर्षां सुरूपिणीम् ॥१४॥अजातयौवनभावां धर्महृदययोगिनीम् ।सद्विवेकयुतां राजस्वल्योत्तरं पतिं प्रति ॥१५॥कामधर्मं चेहमानां नान्यथा सा सतीव्रता ।धर्मं कृत्वा पुरश्चास्ते पतिसेवापरा सदा ॥१६॥कामुकश्च पतिस्तां वै प्रसह्य कामतृप्तये ।स्प्रष्टुमियेष सा प्राह कान्त! धर्मः प्रबाधते ॥१७॥नाऽहं योग्या भवाम्यत्र विना धर्ममृतुं पते ।स्पर्शसेवां करोम्यत्र कामसेवां प्रवर्जय ॥१८॥इत्युक्तोऽपि पतिधर्ममनावेक्ष्य हि कामुकः ।प्रसह्य पत्नीं जग्राह सती निःश्वासमाचरत् ॥१९॥निश्वासान्मूर्तिमानग्निः प्रादुर्बभूव तत्क्षणम् ।अज्वालयत् पतिं सौधं स्मृद्धिं चोपस्कराणि च ॥२०॥सती शुशोच बहुधा पत्यौ नष्टे पतिव्रता ।सस्मार धर्मं धर्मोऽपि तदा साक्षाच्चतुर्भुजः ॥२१॥आययौ मा शुचश्चेति प्राह बालामनिन्दिताम् ।धर्मरक्षाकृते बाले प्रसन्नोऽस्मि वृषोऽस्म्यहम् ॥२२॥वरं वरय भद्रं ते मा धर्माच्चल भामिनि! ।धर्मो रक्षति रक्षितो नाशितो नाशयत्यपि ॥२३॥तेन नाशितवानस्मि ततो नाशोऽस्य चाऽभवत् ।त्वया वै रक्षितस्तेन त्वं चाऽबाधा प्रजीवसि ॥२४॥वह्निस्त्वां न ददाहाऽत्र गृहे बाले बलान्मम ।वरं वृणु यथेष्टं वै ददाम्यद्य हि मा चिरम् ॥२५॥श्रुत्वा बाला कुन्दधर्मानाम्नी तदा वरं पतिम् ।वव्रे कुटुम्बकं पत्युश्चापि सञ्जीवितं गृहम् ॥२६॥सर्वोपस्करसंयुक्तं धर्मज्ञानयुतं पतिम् ।धर्मदेवस्तथाऽस्त्वाह द्रुतं सञ्जीवितः पतिः ॥२७॥कुटुम्बसहितः सर्वगृहोपकरणान्वितः ।धर्मज्ञानयुतश्चापि मुमुदे चातिभाववान् ॥२८॥प्रशशंस परं धर्मं पत्न्याः ऋतुजयच्छनम् ।धर्मो ययौ ततः पूजां लब्ध्वाऽथो जांगलामखः ॥२९॥पत्नीधर्मं सदा सम्पालयामास यथोदितम् ।सती सत्यवती प्राप दग्धमपि निजं पतिम् ॥३०॥इत्येवं चास्ति मर्यादा पत्नीच्छानिर्मिता सदा ।तां रक्षन् जायते पुण्यं चान्यथा पातकं मतम् ॥३१॥शृणु लक्ष्मि तथा चान्यद् युवतीकन्यकावृषम् ।त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ॥३२॥चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ।प्रजा न हीयते तस्या रतिश्चापि न हीयते ॥३३॥अतोऽन्यथा वर्तमाना भवेद्वाच्या जनस्य सा ।तस्माद् रजस्वलाधर्मं विवाहयेन्न रक्षयेत् ॥३४॥असपिण्डा निजमातुरसगोत्रा च या पितुः ।इत्येतामनुगच्छेत मानवो नियमो ह्ययम् ॥३५॥पाणेर्ग्रहणपूर्वं तु याचन्ते वै जना मुहुः ।वरः श्रेष्ठो मिलेद् दद्यात्तस्मै विहाय चाऽपरम् ॥३६॥नाऽनिष्टाय प्रदद्याद्वै न हीनाय न रोगिणे ।नाऽरये न बिभत्साय न दद्यात् क्रूरकर्मणे ॥३७॥नाऽधार्मिकाय दद्याद्वै हिंसकाय तथा न च ।न ह्येव भार्या क्रेतव्या न विक्रय्या कथंचन ॥३८॥यत्रेष्टं तत्र देया स्यान्निःशुल्का संविभूषिता ।मृते पत्यौ प्रदातव्या यत्रेष्टं योषितः खलु ॥३९॥विवाहितेन चेत् त्यक्ता दातव्या त्वपराय सा ।भार्यया च परित्यक्तो भार्यामन्यां समुद्वहेत् ॥४०॥मृतायामपि भार्यायां भार्यामन्यां समुद्वहेत् ।देवरं प्रविशेद्वापि देवरो वा विशेत् स्त्रियम् ॥४१॥द्वयोश्चेदानुकूल्यं स्यादेष धर्मः सनातनः ।अपितृजां चाऽमातृजां विन्देत् मानवीं सतीम् ॥४२॥अग्निं देवं पितरं वा गां परिक्रम्य सर्वथा ।वृद्धानां सन्निधौ यद्वा मालां समर्प्य वै मिथः ॥४३॥हस्तयोर्मेलनं वापि कृत्वा नत्वा परस्परम् ।मण्डपे मन्दिरे वापि विवाहयेत् गुरोः पुरः ॥४४॥अविरोधेन लोकानां कुटुम्बिनां नृपस्य च ।प्रजानां चाऽविरोधेन द्वयोर्ग्रहो विवाहनम् ॥४५॥प्रकाशं यद्द्वयोरैक्यं चाऽविरोधेन शोभनम् ।हृदययोः साक्षिताऽत्र धर्मः सोऽपि पुरातनः ॥४६॥अप्रकाशे गर्भवत्ता निन्दिता पितृवर्जिता ।दासीनामिव वंशो न गणनां याति धार्मिकीम् ॥४७॥नियोगादपि जायन्ते पुत्रास्ते पितृलोकिताः ।ब्रह्मक्षत्रा वंशकरा धर्मः सोऽपि पुरातनः ॥४८॥साधूनां पुनराचारो गरीयान् धर्मलक्षणः ।पित्राऽऽज्ञप्ता स्वय वृत्ता भर्त्रा योगमुपागता ॥४९॥साध्वाचारेण सा जाता विवाहिता हि सा मता ।भार्यापत्योर्हि सम्बन्धश्चामृत्युश्चिरशोभनः ॥५०॥रतिसाधारणो नैषस्तस्माद्धर्मः सनातनः ।सतिमात्रार्थसम्बन्धः स्त्रीपुंसोर्नहि धार्मिकः ॥५१॥दायभागेऽपि पुत्रो वै गण्यते वंशभागवान् ।पुत्रो न स्यात्तदा पुत्री दायभागाधिकारिणी ॥५२॥पुत्रः पुत्री समौ बोध्यौ दायभागेऽतिकारिणौ ।बहवोऽपि सुता यस्य पुत्र्योऽपि च तथाविधाः ॥५३॥तस्यापि दायभागे स्युः पुत्राः पुत्र्योऽधिकारिणः ।समभागाः प्रदातव्या एष धर्मः सनातनः ॥५४॥विवाह्य दायभागं चाऽदत्त्वा सम्प्रेषयन्ति ये ।कन्याभागप्रभोक्तारः पतन्ति नरके हि ते ॥५५॥जीवितार्थाय विक्रीय कुमारं वा कुमारिकाम् ।भुंजते तद्धनं ते तु भुंजते पिशितं तयोः ॥५६॥अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः ।वश्यां कुमारीं बलतो विक्रीणीयान्न कश्चन ॥५७॥धर्मबुद्ध्या चार्पयेद्वै जामात्रे यौतकान्विताम् ।मातुश्च यौतकं यत् स्यात् कुमारीभाग एव सः ॥५८॥दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत् ।पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ॥५९॥पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः ।पूज्या भूषयितव्या च बहुकल्याणमिप्सुभिः ॥६०॥पूज्या लालयितव्याश्च स्त्रियो नित्यं गृहस्थिताः ।रमण्यो यत्र तुष्यन्ति वसन्ति तत्र सम्पदः ॥६१॥सिद्धयः प्रतिवर्षन्ति सर्वान् कामान् ददत्यपि ।यत्र नार्योऽवमन्यन्ते सर्वास्तत्राऽफलाः क्रियाः ॥६२॥नैव भान्ति न वर्धन्ते वंशाः श्रिया विवर्जिताः ।स्त्रीहेतुकः सदा श्रेष्ठो धर्मो द्युसत्यलोकदः ॥६३॥उत्पादनमपत्यस्य जातस्य परिपालनम् ।प्रीत्यर्थो लोकयात्राया यापनं स्त्रीजने स्थितम् ॥६४॥नास्ति यज्ञस्तादृशो वै न श्राद्धं नोपवासनम् ।धर्मो युगलसौहार्दसमो द्युमोक्षदोऽपरः ॥६५॥पिता रक्षति कौमारे भर्ता रक्षति यौवने ।पुत्राश्च स्थविरे पान्ति स्त्रीरक्षैवं पुरातनी ॥६६॥श्रिय एताः स्त्रियो नाम सत्कार्या भूमिमिच्छता ।पालिताऽनुगृहिता च स्त्री श्रीरेव प्रकाशते ॥६७॥अथ लक्ष्मि स्त्रियै देयो दायभागोऽपि सम्मतः ।पुत्रपुत्रीसमोभागस्तद्धनं योषितः सदा ॥६८॥भर्त्रा तच्च धनं दत्तं यथेष्टं भोक्तुमर्हति ।स्त्रीणां तत्पतिदायाद्यं ह्युपभोगफलं मतम् ॥६९॥एकस्य बहुभार्यत्वे ब्राह्मणी सर्वथोत्तमा ।स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् ॥७०॥हव्यं कव्यं देवपूजां भोजनं ब्राह्मणी चरेत् ।अन्नं पानं च माल्यं च वासांस्याभरणानि च ॥७१॥ब्राह्मण्येतानि दद्यात् स्वभर्त्रे सा हि गरीयसी ।अथवा चानुकूल्यं तु यथा भवेद्धि योषिताम् ॥७२॥अक्लेशेन प्रमोदेन स्नेहेन चानुवृत्तितः ।तथा सेवेत विप्रा वा क्षत्रिया वाऽपरापि वा ॥७३॥पत्युराज्ञां समगृह्य नान्यथा तु कथंचन ।गर्भशुद्धिश्च विज्ञेया गुणरूपनिसर्गकैः ॥७४॥अपत्यं प्रतिबिम्बं वै पितुर्मातुश्च वा भवेत् ।तत्स्वभावमपत्यं तद्विज्ञेयं शुद्धवंशजम् ॥७५॥तत्र यत्र पृथग्भावो गर्भाऽशुद्धिर्हि सा मता ।निषेके संकरीभावे वैरुप्यं बालके भवेत् ॥७६॥सान्निध्येऽनिष्टवस्तूनां सांकर्यं जायते हृदि ।बीजे संक्रमते तच्च गर्भे तद्भाव उद्भवेत् ॥७७॥गर्भदानं ततोऽदृश्ये रहस्ये विध्नवर्जिते ।शान्तशब्दे शान्तलोके शान्तपश्वादिभाषणे ॥७८॥सुशान्तसर्वतत्त्वेषु विधातव्यं न चान्यथा ।शुद्धवंशप्रसूतिः सा भवेदत्र न संशयः ॥७९॥अन्यशब्दस्पर्शरूपरसस्वभावदूषणम् ।प्रक्रमते बीजदाने प्रतिमादर्शनादपि ॥८०॥तस्मात् पतिमुखं दृश्यं नान्यद् दृश्यं तदा मतम् ।प्रसन्नहृदयाभ्यां च भाव्यं न तु क्रुधा रुषा ॥८१॥न च मालिन्यभावेन भाव्यं सुगन्धिसंभृता ।प्रसन्नमनसा भाव्यं भाव्यं सत्त्वगुणेन च ॥८२॥एकाग्रमनसा भाव्यं दात्रा धात्र्या च सर्वथा ।स वंशः शुद्ध एव स्यात् स्मर्तव्यं नेतरत् तदा ॥८३॥नारायणो हरिः कृष्णः परमेशः परात्परः ।स्मर्तव्यो दम्पतीभ्यां वै बीजदाने न चाऽपरः ॥८४॥यत्स्मृतिस्तद्गुणा भावाः प्रक्रमन्ते प्रकृतयः।तस्माच्छ्रेष्ठः पतिर्देवो देवदेवो जनार्दनः ॥८५॥शृणु लक्ष्मि कथयामि कथां पुरातनीं शुभाम् ।पुलस्त्यो वेधसः पुत्रो ददौ दानं यदाऽऽर्तवम् ॥८६॥तदा प्रीतिः पुलस्त्यस्य भार्या सस्मार राक्षसम् ।निर्ऋतं रावणस्तेन रक्षोधर्मा व्यजायत ॥८७॥यदाऽऽर्तवे प्रसस्मार विष्णुं नारायणं हरिम् ।तद्भावभावितो जातो भक्तः पुत्रो विभीषणः ॥८८॥पार्वतीशंकरौ पूर्वे सस्मरतुर्बलान्वितम् ।सेनापतिं सुतं दैत्यनाशकं विजयप्रदम् ॥८९॥स्कन्दस्तेनाऽभवद् विघ्ननाशार्थं गणपोऽभवत् ।वैराजस्त्रिगुणान् स्मृत्वोत्पादयामास वै त्रिकम् ॥९०॥ब्रह्मविष्णुमहेशाख्यं यथा स्मृतिस्तथा जनिः ।चरौ फले प्रसादे च बीजे चाशीर्वचस्यपि ॥९१॥यादृक् स्मरणं रोहेद्वै तादृशी जायते प्रजा ।यद्भावना भवेद् भक्तिः फलं तद्भावभावितम् ॥९२॥कल्पवृक्षे हरेर्मूर्तौ गुरौ पत्यौ स्त्रियां सति ।औषधे मन्त्रे तपसि यथा भावस्तथा फलम् ॥९३॥विद्यायामुद्यमे युद्धे कृषौ भृत्यक्रियाविधौ ।भौतिकाभ्युदये वेगे यादृग्यत्नस्तथा फलम् ॥९४॥नृपे साधौ हरौ पित्रोः श्रेष्ठिनि स्वामिनि क्रमे ।देवे पितरि सन्तुष्टे यथा कृपा तथा फलम् ॥९५॥शत्रौ नियामके सर्पे विप्रे शस्त्रिणि तापसे ।कलहे रोधने नाशे यथा रोषस्तथा फलम् ॥९६॥भक्तौ योगे प्रार्थनायां सेवायां दैवकर्मसु ।शास्त्रे भोग्ये दीर्घकार्ये यथा शान्तिस्तथा फलम् ॥९७॥धर्मे लग्ने मृधे दाने वचने विघ्नसारणे ।चौर्ये मोक्षे देशकाले यथा शैघ्र्यं तथा फलम् ॥९८॥काव्ये न्याये चोपदेशे चाज्ञायां चान्तिमे क्षणे ।संहारे चापदि प्रारंभे यथाधीस्तया फलम् ॥९९॥क्षेत्रे स्वर्गे स्त्रियां शिष्ये पुत्रे कार्ये ह्युपार्जने ।मन्त्रे शास्त्रे रचनायां यथा बीजं तथा फलम् ॥१००॥कीर्तौ रतौ वृषे वंशे सुखे श्रमे च भोजने ।कोशेऽतिथौ गृहे स्वर्गे यथा भार्या तथा फलम् ॥१०१॥तस्माल्लक्ष्मि सदा भार्या पातिव्रत्यपरायणा ।विशेषतो हि धर्माणां मूलं भवति सर्वथा ॥१०२॥पुरुषार्था हि चत्वारश्चोपायाः साधनानि च ।यात्राः सर्वाः प्रवर्तन्ते सिद्ध्यन्ति निजयोषिता ॥१०३॥क्षेत्रं वै सर्वधर्माणां वाटिका पुत्रसम्पदाम् ।कल्पलता सुखानां च भार्या भवति मूलिका ॥१०४॥मन्दुरा सा मनोऽश्वानामाश्रया प्राणपक्षिणाम् ।नौः सा संसारिणां पत्नी यानं सा स्वर्गिणां तथा ॥१०५॥यज्ञे वंशे सुखे दुःखे पुण्ये महोत्सवे सवे ।गृहे कार्ये धने ख्यातावर्धांगना निजात्मिका ॥१०६॥पठनाच्छ्रवणाल्लक्ष्मि तथा धर्मसमाश्रयात् ।भुक्तिर्मुक्तिर्भवेच्चापि नार्या नरस्य सर्वथा ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वधर्मकर्मणां मूलं विवाहिता पत्नीति जांघलामखस्य क्षत्रियस्य कुन्दधर्मपत्न्याः सरधर्मे चमत्कारः कन्यादानयोग्यता वरयोग्यता दायभागयोग्यता बीजशुद्धिरित्यादिनिरूपणनामा पञ्चाधिकशततमोऽध्यायः ॥१०५॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP