संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १७५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७५ Translation - भाषांतर श्रीपुरुषोत्तम उवाच--इत्येवं पद्मजे पत्नीं श्रतिफलां पतिः स्वयम् ।सद्विद्यायनसंज्ञो वै प्राह मुक्तिवृषान् बहून् ॥१॥प्राहैवं चापि संसारवारिधिं गाधतोज्झितम् ।इन्द्रियझषसंजीवं तरंगान्तर्विलोलितम् ॥२॥भूतनौकाकृतमार्गं विषयाऽऽशानुसन्धितम् ।तन्मात्राहारमत्स्याढ्यं शोकहर्षादिमारुतम् ॥३॥कामक्रोधादिमकरं मोहभ्रमादिदिग्भ्रमम् ।रागद्वेषादिकावर्त्तं वासनाजलशैत्यदम् ॥४॥अपारं पुण्यपापादिकर्माख्यतरणान्वितम् ।समतीत्य हरेर्योगात् प्रविष्टोऽस्म्यपरां स्थलीम् ॥५॥दिव्यां दिव्यगुणोपेतां दिव्यगोमद्विराजिताम् ।शाश्वतीं स्वर्णवर्णां वै निर्भयां निगमोचिताम् ॥६॥सुखमय्यो यत्र नद्यो यत्राऽऽनन्दभृतो द्रुमाः ।प्रमोदकल्पलतिका यत्र स्नेहरसालयाः ॥७॥यत्रोत्सवाः स्वामिना वै सर्वसद्गुणशालिना ।नित्ययौवनसौन्दर्यवात्सल्यप्रेमशालिना ॥८॥नास्ति तस्मात् सुखदोऽन्यो नास्त्यन्यत्र सुखं त्विदम् ।न तं सम्प्राप्य शोकोऽस्ति न दुःखं न भयं तथा ॥९॥न तत्राऽनित्यबीजं वै न त्रिशाखोऽस्ति तत्र ह ।न सप्ताप्युपशाखाश्च नाऽन्तशाखाश्च षोडश ॥१०॥नाऽत्र जटिलाः ऋषयो मानसाह्वानयोगिनः ।न वंशस्तम्बवाट्यश्च न गोत्रोच्छ्रयभूतलम् ॥११॥न कण्टकास्तीक्ष्णधाराः कंकरा न च तत्र वै ।नाऽतपः सौरमूलोत्थो न शैत्यं चन्द्रिकाकृतम् ॥१२॥न धूमश्चापि वाह्नेयो न छायापि वितानजा ।न मेघास्तत्र मेहाश्च पञ्चाग्नयो न सन्ति च ॥१३॥न रंगाः संगमिश्रोत्था न च शृंगारराशिनः ।न तत्र पाशवं क्षेत्रं पाशास्तत्र न रोधिनः ॥१४॥पद्मरागादिमणयो न च तत्र भवन्ति हि ।पञ्चरंगाणि पुष्पाणि त्रिरसानि फलानि च ॥१५॥न तत्र सन्ति वृक्षाश्च पादपाः सन्ति तत्र ते ।पद्मरागा मधुरसा हंसा वसन्ति तत्र ह ॥१६॥मौक्तिकाहारतृप्तास्ते सोऽहं सोऽहं प्रवादिनः ।अनावृताः प्रभास्तत्र भवन्ति सीमवर्जिताः ॥१७॥भूरिशृंगास्तत्र गावो भवन्ति कामपूरिताः ।नारायण्यो महासत्यो भवन्ति तापहारिकाः ॥१८॥कृष्णदेवा अतिथयो भवन्ति व्योमवासिनः ।दीक्षिताश्चेक्षिताश्चापि स्वामिना नित्यदर्शिना ॥१९॥नित्योत्सवाः सखीनां वै तत्र भवन्ति शाश्वताः ।इष्टपतिप्रयोगेषु विलासास्तृप्तिवर्जिताः ॥२०॥अकम्पां चाऽविकारां चाऽक्षरीं स्थलीं परात्पराम् ।प्रपन्नोऽस्मीति सद्विद्यायनः श्रुतिफलां जगौ ॥२१॥हा३उ हा३उ प्रफुल्लितः स्मरन् शुभस्थलीम् ।जगौ पुनःपुनः प्राह स्थलीं श्रुतिफलां स्मरन् ॥२२॥ननर्त चापि तालेन वदन्नुपदिशन्नपि ।आर्द्रभावं प्राप चापि श्रुतिफलान्तिके तदा ॥२३॥स्वस्थो भूत्वा पुनः प्राह धन्या त्वं परमेश्वरी ।योऽहं सा त्वं सोऽहं स त्वं ह्ययमात्मा परेश्वरः ॥२४॥येऽधिगच्छन्ति सन्तस्तं तेषां नास्ति भयं क्वचित् ।ऊर्ध्वं चाऽधश्च तिर्यक् च स्थल्या नान्तोऽधिगम्यते ॥२५॥हरेः पादपारण्यानि सन्ति दिव्यानि तत्र वै ।यत्र त्रिमुखी प्रमदा ह्यवाङ्मुखी न रोहति ॥२६॥गिरयाः पर्वतानाश्च सन्तो वसन्ति तत्र ह ।स्नान्ति ब्रह्मवहानद्यां संगमे पारमेश्वरे ॥२७॥स्नानतृप्ताः कृशाशाश्च सुव्रता देवभासुराः ।आत्मन्यात्मानमाविश्य परात्मानमुपासते ॥२८॥विहरन्ति रमन्तेऽत्र पादपारण्यवेदिनः ।एतादृशं पदारण्यं ब्रह्मिष्ठा विविदुः परम् ॥२९॥प्राप्तोऽहं मम योगेन त्वं प्राप्ता श्रुतिसत्फले ।विद्यायनं परब्रह्म प्राप्तोऽस्मि निर्भयोऽस्मि च ॥३०॥रूक्षं गन्धं न गृह्णामि रूक्षं रसं न वेद्मि च ।रूक्षं रूपं न पश्यामि ब्रह्मानन्दपरिप्लुतः ॥३१॥रूक्षं स्पर्शं न स्पृशामि रूक्षं शब्दं शृणोमि न ।रूक्षं न संकल्पयामि ब्रह्मानन्दपरिप्लुतः ॥३२॥कामये नाऽप्यनिष्टं च द्वेष्यं तत्र न विद्यते ।ब्रह्मजाले निवसामि ब्रह्मानन्दपरिप्लुतः ॥३३॥ब्रह्मयज्ञे जुहोम्येव परमेशे समस्तकम् ।पार्थिवं वा जलीयं वा ब्रह्मानन्दपरिप्लुतः ॥३४॥तैजसं वायवीयं वा गगनीयं गुणादिकम् ।सौक्ष्म्यं वा चान्तरं वापि कर्म वा संविदं च वा ॥३५॥स्वभावं वा कृत्रिमं वा जडं वा चेतनं च वा ।चैतन्यं वा जुहोम्येव ब्रह्मानन्दपरिप्लुतः ॥३६॥क्षरं स्वभावं हुत्वैवाऽक्षरभावेन चाऽच्युते ।जुहोमि मां विमुक्तोऽस्मि ब्रह्मानन्दपरिप्लुतः ॥३७॥समस्य सर्वभूतेषु निर्मायस्य जितात्मनः ।समन्तात्परिमुक्तस्य भयं मे विद्यते न वै ॥३८॥सद्भिरेव हि संवासो मुक्तैरेव समागमः ।भक्तैस्तादात्म्यभावश्च श्रीहरौ चाऽप्यभिन्नता ॥३९॥एवं लब्ध्वा परान् लाभान् प्रमोदमेमि सर्वथा ।श्रुतिफले फलं मिष्टं स्वादे सद्विद्ययाऽऽप्लुतः ॥४०॥एवं पत्नीं ब्रह्मरूपामुपदेशेन सर्वथा ।लक्ष्मि चक्रे श्रुतिफलां सद्विद्यायन एव ह ॥४१॥अथैकदाऽलर्कनामा महाभागवतो नृपः ।मदालसायाः पुत्रो वै जित्वा वै सकलां महीम् ॥४२॥वृक्षाऽधोभूतले स्थित्वा शान्त्यर्थं स मनो दधे ।चिन्तयामास शान्त्यर्थं जिता वै सकला मही ॥४३॥निषितैर्मार्गणैः शस्त्रैस्तथापि शान्तिरेव न ।मनो वै चपलं दुष्टं तज्जित्वा शान्तिमुत्तमाम् ॥४४॥प्राप्स्यामीति शरैस्तीक्ष्णैरेषः छिनद्मि मानसम् ।इन्द्रियाणि करणानि छिनद्मि मार्गणैरिह ॥४५॥विचार्येत्थं सूक्ष्मसूक्ष्मान् बाणान् धनुषि सन्दधे ।मनः समूर्तं भूत्वाऽथ तदग्रे समुपस्थितम् ॥४६॥बाणानामविषयं तत् प्राहाऽलर्कं तु पद्मजे ।नेमे बाणा हनिष्यन्ति मामलर्क निरावरम् ॥४७॥निष्फलास्ते परावृत्त्य भेत्स्यन्ति त्वां मरिष्यसि ।अन्यान् बाणान् प्रमुञ्चस्व यैरहं स्यां निषूदितम् ॥४८॥श्रुत्वाऽलर्कः प्रत्युवाच मनस्त्वं घ्राणसंयुतम् ।बहून् गन्धान् प्रगृह्णासि तत्सहायं तु जीवसि ॥४९॥ततः घ्राणं हनिष्यामि तीक्ष्णबाणैश्च ते मृतिः ।घ्राणं श्रुत्वा तदाऽलर्कं प्रत्युवाच हि निर्भयम् ॥५०॥नेमे बाणास्तव राजन् मां हनिष्यन्त्यगोचरम् ।प्रत्यावृत्य तव मर्म भेत्स्यन्ति त्वं मरिष्यसि ॥५१॥अन्यान् बाणान् प्रमुञ्चस्व यैस्त्वं मां सूदयिष्यसि ।श्रुत्वाऽलर्कस्ततः प्राह जिह्वेयं हि सहायदा ॥५२॥मनसः प्रियसत्कर्त्री रसदानेन सर्वदा ।तथेयं त्वक् प्रियकर्त्री स्पर्शदानेन वै सदा ॥५३॥तथेदं श्रवणं चास्मै शब्दार्जनसहायदम् ।तथेदं नेत्रमेवाऽपि रूपार्जनसहायकृत् ॥९४॥तथैवेमानि सर्वाणि लिंगादीन्यपराणि च ।इन्द्रियाणि मनसो वै साहाय्यकानि सन्ति हि ॥५५॥इयं बुद्धिर्मनो दत्तं गृह्णाति चौर्यकर्मिणी ।अहंकारोऽपि तेष्वत्र मिलितोऽश्नाति गर्ववान् ॥५६॥तानेतान् सर्वथा सूक्ष्मैर्हनिष्यामि प्रसायकैः ।श्रुत्वैवं सर्वसहिता बुद्धिरलर्कमाह यत् ॥५७॥नैते बाणास्तवाऽलर्क स्पृक्ष्यन्त्यपि च नः क्वचित् ।स्थूला ह्येते वयं सूक्ष्मा न स्पर्शो न मृतेः कथा ॥५८॥विफलाश्च विवृत्तास्ते त्वां हनिष्यन्ति रोषिणः ।मुमोचाऽपि तदा बाणान् प्रत्यावृत्ताश्च तेऽफलाः ॥५९॥अलर्कं तु प्रजघ्नुस्तेऽलर्को मूर्छां जगाम ह ।सस्मार श्रीहरिं मां स दत्तात्रेयस्वरूपिणम् ॥६०॥आविर्भूय मया तस्मै जीवनं दत्तमेव ह ।बाणा निष्कासिता देहात् समुत्थितोऽभवद्धि सः ॥६१॥ददौ बाणानहं तस्मै चैकाग्र्यबलरूपिणः ।द्रष्टृदृश्याद्यनारक्तान् स्वरूपमात्रनिष्ठितान् ॥६२॥योगबाणान्मम मन्त्रैर्युतान् ब्रह्मास्त्रयोजितान् ।मुक्तास्त्रप्लावितान् सूक्ष्मानान्तरान् सोऽपि तान् शितान् ॥६३॥प्राप्यात्मना मुमोचाऽऽशु सर्वेन्द्रियादिकान् प्रति ।निजघ्नुस्ते द्रुतं सर्वान् केचित् पलायिता ह्यपि ॥६४॥तान् पुनः पाशबद्धाँश्च कृत्वा समाधिरश्मिभिः ।ब्रह्मह्रदे निचिक्षेप ते च तत्र लयं ययुः ॥६५॥अथ दिव्यानि भूत्वैवाऽलर्कं मुक्तं सिषेविरे ।ततो दिव्यस्वरूपः सन् सिद्धिं परमिकां गतः ॥६६॥मात्रा साकं भ्रातृभिश्च सह मोक्षं जगाम ह ।वदन्नेवं ह्युपदेशं शृणु लक्ष्मि विवेकदम् ॥६७॥अहो सर्वमध्रुवं वै बाह्यं बाणैर्विनिर्जितम् ।दैह्यमनुष्ठितं सर्वमद्यावधि न चान्तरम् ॥६८॥सद्गुरोः कृपया त्वद्य जितानि दोषवन्ति तु ।इन्द्रियादीनि सर्वाणि गुणवन्ति तु वै पृथक् ॥६९॥ब्रह्मह्रदे विनिक्षिप्य दिव्यतां प्रापितानि ह ।तथा दिव्यस्वरूपोऽहं भूत्वा भजामि केशवम् ॥७०॥सर्वार्पणं विना नास्ति चान्यत्र वै सुखं क्वचित् ।कृष्णे स्वात्मार्पणं श्रेष्ठं शाश्वतं सुखमाप्यते ॥७१॥शाश्वतो विजयश्चापि मायाकृते रणे भवेत् ।अनादिश्रीकृष्णनारायणे योगनिषेवया ॥७२।एवं लक्ष्मि नृपोऽलर्कः शान्तिं जगाम शाश्वतीम् ।श्रुतिफलाऽपि शान्तिं वै जगाम पतिसेवया ॥७३॥शृणु लक्ष्मि त्रिशत्रून् वै त्रिगुणान् सर्वतः स्थितान् ।सत्त्वं रजस्तमश्चेति मायाप्रेरितबन्धदान् ॥७४॥त्रयस्ते रिपवो लोके त्रिरावृत्ता नवाऽपि ते ।प्रहर्षः प्रीतिरानन्दस्त्रप्रयस्ते सत्त्वबालकाः ॥७५॥तृष्णा क्रोधो द्वेषवेशस्त्रयस्ते तु रजोद्भवाः ।श्रमस्तन्द्रा च मोहश्च त्रयस्ते तु तमोभवाः ॥७६॥नवैते शत्रवो देहे चेतनं रोधयन्ति हि ।स्वस्वभावेषु नित्यं वै केवलं कुर्वते न तम् ॥७७॥कैवल्यगोष्ठी पुरुषो यदा तान् जेतुमिच्छति ।पुरं हातुमुत्सहते तदा तानर्पयेन्मयि ॥७८॥त एव विजिता यावत्तावन्मुक्तः प्रजायते ।लोभो नाम महान् दोषो यदि नैव जितो भवेत् ॥७९॥अन्येषां विजये लक्ष्मि नैष्फल्यं तृष्णया भवेत्॥यत्प्रयुक्तो जनः क्वापिवै तृष्ण्यं नैव विन्दति ॥८०॥तृष्णार्त्त इह निम्नानि धावमानः पतत्यपि ।बुध्यते नाऽप्यकार्यं हि निम्नान्निम्नं प्रसेवते ॥८१॥ततश्चिन्ता भयदा च राजसी च गतिस्ततः ।तामसी च ततो भूयो जायते कर्म चेहते ॥८२॥जन्मकर्मक्षये मृत्युः पुनर्जन्म पुनर्मृतिः ।लोभजये तु वैतृष्ण्यं महासुखं हि शाश्वतम् ॥८३॥साम्राज्यं चात्मनस्तत्तु ब्रह्मानन्दप्रदं ततः ।महाराज्यं दिव्यराजं परब्रह्मप्रियात्मकम् ॥८४॥राजा परेश्वरः कृष्णस्तद्राज्यं मम राज्यकम् ।मनुते तु यथावद्वै राजा वाऽऽत्मा भवन् स्वयम् ॥८५॥यदि चेत्परमात्मानं सत्यं नृपं विहाय वै ।जीवो राजा भवत्येवं निर्मूलो भ्रामको हि सः ॥८६॥किमत्र राज्यं जीवस्य पितृपैतामहागतम् ।पृथ्वी वा पार्थिवं वर्ष्म कर्म वा धर्म एव वा ॥८७॥यद्भोगस्तद्भवेद्राज्यं यत्सत्ता नृपतिः स वै ।न राज्यं वै शरीरेऽस्ति न राज्यं मानसेऽपि च ॥८८॥न राज्यं चेन्द्रियवर्गे न राज्यं विषयेष्वपि ।सर्वाधीनो जीव एव जीवाधीनां न ते मताः ॥८९॥कुतो राज्यं हि जीवस्य राजत्वं वा वृषेऽपि च ।नैकान्ततो ह्यधीनास्ते जीवस्य सन्ति कर्हिचित्। ॥९०॥ततो राज्यं त्वनवाप्य त्यक्त्वा च विषयं मृषा ।राजानं परमात्मानं समाश्रित्य सुखी भवेत् ॥९१॥अन्तवत्यः सदाऽवस्थाः कर्मजन्या हि देहजा ।भौतिक्यश्चापि तादृश्यस्तत्र राज्यं न चात्मनः ॥९२॥ममेदमिति मन्वानो मृषा तदवलम्बते ।अपृष्ट्वा तं यदा याति नाशं तदाऽवबुद्ध्यते ॥९३॥न मे राज्यं न मे किञ्चिन्न मे देहः कुतोऽपरम् ।एवं मत्वा दिव्यराज्यं चिनुयाज्ज्ञानवाञ्जनः ॥९४॥न स्वार्थं गन्धमश्नीयाद्भूमिः सा वशमागता ।न स्वार्थं रसमादद्यादापस्ता वशमागताः ॥९५॥न स्वार्थं रूपमादद्यात्तेजस्तद् वशमागतम् ।न स्वार्थं स्पर्शमादद्याद् वायुः स वशमागतः ॥९६॥न स्वार्थं शब्दमादद्याद् व्योम तद् वशमागतम् ।न स्वार्थं मननं कुर्वं मनो मे वशमागतम् ॥९७॥न स्वार्थं मम यत्नोऽस्ति ह्यात्मा मे वशमागतः ।देवार्थं चाप्यतिथ्यर्थं भूतार्थं च पित्रर्थकम् ॥९८॥समारम्भा मम सर्वेऽर्पणं मोक्षार्थमित्यपि ।ब्रह्मार्पणं मम सर्वं धर्मोऽपि मुक्तये मम ॥९९॥एवं मत्वा जनो लक्ष्मि मुच्यते भवसागरात् ।एवमुक्त्वा निजपत्न्यै सद्विद्यायननामकः ॥१००॥पुनराह श्रुतिफले तथा वर्तामि सर्वदा ।विप्रोऽस्मि चापि मुक्तोऽस्मि गृहस्थधर्मकोऽस्मि च ॥१०१॥अनादिश्रीकृष्णनारायणपरायणोऽस्मि च ।नाऽहमस्मि यथा मां त्वं पश्यसि कामनायुतम् ॥१०२॥राज्यं श्रीकमलेशस्य सर्वं मयि त्वयि क्षितौ ।तथाबुद्धिर्भवती च वेत्स्यतीदं न चान्यथा ॥१०३॥धनं नारायणो मेऽस्ति तेनाऽहं धनवान् प्रिये ।एकः पन्थाः परब्रह्म येन गच्छन्ति तद्विदः ॥१०४॥गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ।तथाऽन्येषु निवासेषु राज्यं श्रीपरमात्मनः ॥१०५॥तत्र स्थित्वा विदायं च लब्ध्वा गन्तव्यमुत्तरम् ।दिव्यस्थलं दिव्यधाम मध्ये नान्यस्थलाद् भयम् ॥१०६॥श्रुतिफले प्रिये भार्ये ब्रह्मिष्ठे ब्रह्मवादिनि ।सद्विद्यायनयोगेन परलोकभयं न ते ॥१०७॥मद्भावभावनिरता ममैवात्मानमेष्यसि ।अहमात्मा परात्मानं सम्प्राप्तोऽस्मि न संशयः ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मुक्तिधर्मे संसारवारिधितरणविज्ञानादिनिरूपणनामा पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP