संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्व प्राकट्यं मे ततः परम् ।वेधसो वै समाध्याख्ये पञ्चदशे तु वत्सरे ॥१॥दशमे कल्पके षष्ठे मनौ वै ब्राह्मणगृहे ।भूतले च पर्वतस्य मेरोः पूर्वे सुधार्मिके ॥२॥वार्तिकाऽऽख्ये महाखण्डे भक्ताऽऽशापूरकोऽभवम् ।शृणु लक्ष्मि! वार्तखण्डे धर्मव्रतोऽभवद् द्विजः ॥३॥ब्राह्मणो ब्रह्मवित् साक्षाद् धर्मदेवाऽवतारकः ।षट्कर्मनिरतो नित्यं द्वात्रिंशद्गुणवाँस्तथा ॥४॥नवधाभक्तियुक्तश्च षोडशवस्तुपूजकः ।नित्यं त्रिषवणस्नायी क्वचित्पञ्चाग्नितापनः ॥५॥शीलव्रतपरश्चापि तपोव्रतपरायणः ।पञ्चयज्ञपरश्चापि सर्वसाधनशोभनः ॥६॥साधुधर्मपरो नित्यपत्नीव्रतपरायणः ।सतां सेवापरश्चापि पुरुषार्थपरायणः ॥७॥आत्मनिवेदनवृत्तिः सत्त्वप्रकर्षशोभितः ।शास्त्रज्ञः श्रुतसम्पन्नः सत्रधर्मक्रियापरः ॥८॥एवं गुणैः सदा युक्तः परमेशप्रपूजकः ।अथाऽभवत्तस्य पत्नी भक्तिव्रताऽभिधा सती ॥९॥पातिव्रत्यपरा नित्यं श्रीभगवत्परायणा ।गृहकार्यपरा चापि गृहधर्माभिशालिनी ॥१०॥शीलव्रतोज्ज्वला साध्वी रागद्वेषविवर्जिता ।सदा कृष्णे हरौ भक्तिमती चात्मनिवेदना ॥११॥व्रतकर्त्री हरेः पूजाकर्त्री चातिथिपूजिका ।कीर्तने नित्यमेवाऽभिमग्ना कार्येषु सर्वथा ॥१२॥अन्यवाणीविहीना च नामजापपरायणा ।स्नानशुद्धिपरा साध्वी साधुसेवापरायणा ॥१३॥कार्ये प्रभोजने दाने व्रते कृष्णार्पणान्विता ।दोषदृष्टिविहीना च गुणमात्राभिधारिणी ॥१४॥प्रातर्ध्यानं करोत्येव हरेर्मे भजनं तथा ।पूजां पाठं स्तवनं च मालाजापं निवेदनम् ॥१५॥आरार्त्रिकं च मध्याह्ने नैवेद्यं च जलार्पणम् ।ताम्बूलकं ततः सायं तत्तत्सेवापरायणा ॥१६॥एवं सा कार्तिके सर्वव्रतानि प्रकरोति हि ।माघस्नानं तथा वैशाखेऽपि दानं करोति वै ॥१७॥परमेशे तथा पत्यौ पातिव्रत्यक्षतौ क्वचित् ।प्रायश्चित्तं करोत्येव द्रागेव भक्तिसुन्दरी ॥१८॥साक्षात् सा भक्तिदेवी वै यथा तथा हि वर्तते ।भक्त्युज्ज्वला सदा चास्ते मम भक्तिसुजीवना ॥१९॥एवं सा यौवने भावे पतिदेवात् शनैरिह ।लोके प्राप्तवती पुत्रं शंखचक्रादिचिह्नितम् ॥२०॥उज्ज्वलं तापशमनं दृष्टिशान्तिकरं शिशुम् ।ललाटे तिलकं चन्द्रे बिभ्राणं च निसर्गजम् ॥२१॥प्राप्य पुत्रं पिता चक्रे पुत्रजन्ममहोत्सवम् ।विप्रोऽपि भगवद्भक्त्या राज्यसम्पत्प्रपूरितः ॥२२॥महत्पुत्रोत्सवं चक्रे स्वर्णगोदानकर्मभिः ।हीरकादिप्रदानानि रत्नान्नदानकान्यपि ॥२३॥क्षेत्रवाटीप्रदानानि गृहदानं तथाऽकरोत् ।धनानि च ददौ दाने पुत्रजन्ममहोत्सवे ॥२४॥वर्षमध्ये सुसंस्कारान् सर्वांश्चक्रे यथाविधि ।वर्षे पूर्णे जन्मदिनोत्सवं पिता चकार ह ॥२५॥मासे त्रयोदशे पूर्णे विमानं चाम्बरात्तदा ।समायातं हि वैकुण्ठाद् दिव्यपार्षदशोभितम् ॥२६॥ज्वरव्याप्तं च तं बालं सेवितं रक्षितं तथा ।मात्रा पित्रा भालितं च निन्युस्तं पार्षदा द्रुतम् ॥२७॥दिव्यदेहो दिव्यकान्तिर्दिव्यहस्तचतुष्टयः ।हारमुकुटसंशोभोऽभवत् शवस्य सन्निधौ ॥२८॥क्षणं स्नेहाद् रुरोदापि माता तथा पिताऽपि च ।बन्धुसुहृत्पार्श्ववासा रुरुदुर्मरणात्तथा ॥२९॥पार्षदाः पुत्रपितरौ प्राहुः क्षणं निवृत्य वै ।मा रोदनं चास्य कृते कर्तव्यं भक्तिशालिना ॥३०॥मनुष्यजन्मसाफल्यं येनाऽऽप्तिः पादयोर्हरेः ।प्राप्तव्यं यत् तदाप्तं वै चानेन चाऽक्षरं पदम् ॥३१॥तस्मादस्योत्सवः कार्यः शोकः कार्यो न सर्वथा ।बहूनां जन्मनामन्ते हरेर्भक्तिः प्रजायते ॥३२॥बहुपुण्यप्रतापेन भक्तौ तु पितरौ तथा ।तादृशौ पितरौ पुत्रमोक्षदौ स्थोऽत्र भूतले ॥३३॥ताभ्यां जन्म समासाद्य प्रयात्ययं हि मोक्षणम् ।मायायां पतने शोको मोक्षणे शोचनं न वै ॥३४॥पुत्रो भूत्वा समायाच्चेद् भगवत्पदमुत्तमम् ।लाभश्चेतादृशो नान्यः पित्रोर्मोक्षप्रदो हि सः ॥३५॥यो वै जन्म समासाद्य याति जनार्दनालयम् ।पितरौ तारितौ तेन तरता भवसागरम् ॥३६॥स पुत्रः पुत्र एवाऽस्ति तार्यते तरति स्वयम् ।न स पुत्रो मतो यश्च निमज्जयति मज्जति ॥३७॥तस्मादेनं समादाय यास्यामो भगवत्पदम् ।भगवत्कृपया साध्यं सर्वस्य भगवत्पदम् ॥३८॥इत्युक्ता पार्षदैः साध्वी भक्तिव्रता जगाद तान् ।कथं बाल्ये तनु त्यक्त्वा प्रयात्ययं वदन्तु मे ॥३९॥श्रुत्वा वै पार्षदाश्चाहुः शृणु सौभाग्यसुन्दरि! ।योगभ्रष्टा योगिनो वै जायन्ते भक्तमन्दिरे ॥४०॥पूर्वदेहस्य वै त्यागसमयो वासनाबलात् ।पुनर्जन्मधारणं वै जायते भक्तिमद्गृहे ॥४१॥धने वाञ्च्छा पृथिव्यां वा क्षेत्रेऽम्बरे च भोजने ।पाने याने जीवने वा नार्यां पुत्रे च मन्दिरे ॥४२॥पुत्र्यां पत्यौ जने बन्धौ भृत्ये दासे सुहृज्जने ।विद्यायां वा कलायां वा कीर्तौ शत्रौ सुखे कुले ॥४३॥विरक्तौ वापि संसक्तौ कामे लोभे विनाशने ।कलहे चापि वा वैरे रूपे रसे विहारके ॥४४॥देशे ग्रामे स्वर्गसुखे गन्धे स्पर्शे श्रवस्यपि ।भोगे रोगे तथा राज्ये सम्पत्तौ वा प्रधानके ॥४५॥धिष्ण्येऽधिकारे माने वा गुरुतायां च पूजने ।यादृशी वासना यस्य तत्र जन्तुः प्रजायते ॥४६॥भजने श्रीहरेः प्रसादने सेवादिकर्मसु ।जनन्यां जनके वापि देवे गुरौ च साधुषु ॥४७॥यादृशी भावना यस्य तदर्थं तत्र जायते ।पुत्रस्तेऽयं हरेर्भक्तः पूर्वजन्मनि सेवकः ॥४८॥सतां सेवापरश्चापि देवसेवापरायणः ।आसीद् विप्रो वैष्णवश्च शिष्यो धर्मव्रतस्य च ॥४९॥प्राप्तेऽस्य निधने जातः शोकस्तं शृणु सुन्दरि! ।गुरुं ज्ञानप्रदं त्यक्त्वा प्रयामि मरणं गतः ॥५०॥धर्मव्रतं परित्यज्य क्व गमिष्यामि चाधुना ।तावत्प्राणा वियुक्ताश्च तव जाठरमाश्रितः ॥५१॥पुत्रोऽयं तव जातोऽस्ति प्राज्ञायनो महानृषिः ।स च जन्म समागृह्य जातिस्मरो हि वर्तते ॥५२॥सर्वं विलीय चात्रैव प्रयाति धाम चाक्षरम् ।तव गृहे धृतं जन्म पावनं भगवत्प्रदम् ॥५३॥प्रसादो भक्षितोऽनेन पावनोऽयं प्रवर्तते ।क्षीणोऽस्याऽपीह संकल्पो रागद्वेषमयोऽपि च ॥५४॥भक्तोऽयं पावनश्चास्ते धाम प्रयाति शार्ङ्गिणः ।योगभ्रष्टाः प्रजायन्ते स्वल्पायुषो हि बालकाः ॥५५॥भक्तानां मुक्तनारीणां चापत्यानि भवन्ति ते ।वर्षे वर्षद्वये वापि कृत्वा संकल्पपूर्तिकाम् ॥५६॥अवशेषं विधायैव पूर्णं यान्ति परं पदम् ।एवं प्राज्ञायनो विप्रस्तव पुत्रो व्यजायत ॥५७॥पूर्णं कृत्वा निजं भावं वैकुण्ठं सम्प्रयाति ह ।शंखचक्रादिचिह्नोऽसौ याति धाम हरेः शुभम् ॥५८॥अभयं तत्पदं याति मा शुचो भक्तिवृत्तिके! ।सर्वदानान्यभयस्य कलां नार्हन्ति षोडशीम् ॥५९॥इत्युक्त्वा पार्षदा नत्वा मातरं भक्तिवृत्तिकान् ।पितरं धर्मव्रतकं नत्वा वैकुण्ठमाययुः ॥६०॥पितरौ शोकविगतौ धर्मभक्तिपरायणौ ।प्रसन्नौ मुक्तिलाभेन तौ सुतस्य व्यजायताम् ॥६१॥अथ कालान्तरे जातः पुत्रस्तयोर्द्वितीयकः ।सोऽपि वर्षद्वये याते तथैव निधनं गतः ॥६२॥पार्षदाश्चाययुस्तं च नेतुं विमानसंस्थिताः ।तथैव शोकं व्यनुदन् पित्रोः पुनस्तथैव ते ॥६३॥अथ कालान्तरे जातस्तयोः पुत्रस्तृतीयकः ।सोऽपि वर्षद्वये याते तथैव निधनं गतः ॥६४॥चतुर्थोऽपि पंचमोऽपि वर्षत्रयाऽन्तरे तथा ।एवं तेषामनुजाश्च दशोत्तरशतं मृताः ॥६५॥त्रिशतेषु वत्सरेषु बालकाः सर्व एव ते ।मृताश्च पार्षदैर्नीताः सर्वे पदं हरेर्हि ते ॥६६॥लोका अज्ञाः प्रवदन्ति पापफलं सवासनाः ।भक्ता विज्ञाः प्रवदन्ति पुण्यं हरेः कृपा हि सा ॥६७॥यत्कुक्षौ जन्म चासाद्य परंधाम प्रयान्ति यत् ।साधुतुल्या स्थितिः पित्रोर्मोक्षदत्वं हि देहिनाम् ॥६८॥यद्गृहे जन्म सम्पाद्य मोक्षद्वारमपावृतम् ।तद्गृहं तत्पितरौ च दिव्यौ स्तः श्रीनरायणौ ॥६९॥पुत्राणां मोक्षणं वीक्ष्य पितरौ मोदमाप्नुतः ।परं लोकव्यवहारे निम्नता दृश्यते यतः ॥७०॥भक्तिव्रता धर्मपत्नी वाञ्च्छां चक्रे सुतार्थिनी ।एकपुत्रो दीर्घजीवी भवेन्मे चेति पूजने ॥७१॥सदैवं चार्थयत् पुष्पाञ्जल्यन्ते भक्तिवृत्तिका ।मयोक्तं च तथाऽस्त्वेवं दीर्घजीवी भविष्यति ॥७२॥सुतस्ते त्वेकादशश्च द्वादशोऽहं हरिस्तथा ।इत्युक्त्वा विररामाऽहं सा तु प्राह निजं पतिम् ॥७३॥मुदितौ दम्पती जातौ ततो वर्षान्तरेऽग्रजः ।मम भ्राता तत्र जातः संकर्षणो जनार्दनः ॥७४॥वर्षद्वयोत्तरे चाऽहं श्रीमत्कृष्णनरायणः ।अभवं तत्र देवानां पुष्पवृष्टिर्बभूव ह ॥७५॥पितरौ नन्दितौ जातौ प्रसन्नौ सुखभागिनौ ।अथ लक्ष्मि! त्वया चापि स्वावतारः समीहितः ॥७६॥ममाऽऽज्ञां सम्प्रगृह्यैव देवीव्रतां हि मातरम् ।देवव्रतं च पितरं विप्रं धर्मपरायणम् ॥७७॥पवित्रं सर्ववेदानां ज्ञातारं ब्रह्मवेदिनम् ।परब्रह्मपरं दास्ये वर्तमानं हरेः सदा ॥७८॥भजन्तं मां यज्ञनारायणं सर्वात्मदर्शिनम् ।समाधिस्थं पूर्वजन्मयोगिनं शुद्धसद्व्रतम् ॥७९॥त्वं तत्र सर्वचिह्नाढ्या लक्ष्मीः स्वयं व्यजायथाः ।तदा पुष्पादिवृष्टिश्चाऽम्बराद् बभूव सर्वतः ॥८०॥देवदुन्दुभयो नेदुः सुराण्यस्त्वामपूपुजन् ।त्वं वै यज्ञोपवीतादिसर्वसंस्कारशोभना ॥८१॥विवाहयोग्या ह्यभवश्चक्रिषे मद्व्रतं तदा ।कान्तप्रयोव्रतं रम्यं सर्वसौभाग्यदं शुभम् ॥८२॥मया स्वप्ने तु ते मात्रे पित्रे च दर्शनं निजम् ।वरयान्या च सहितं दत्वोक्तं देहि मे सुताम् ॥८३॥पितरौ ते जाग्रतौ च मत्वा स्वप्नं यथार्थकम् ।आहूय मे प्रदत्ता त्वं विधिना वह्निसाक्षिणा ॥८४॥जयालक्ष्मीं तदा नाम्ना देवव्रतस्य पुत्रिकाम् ।अनादिश्रीवरनारायणोऽहं परिणीतवान् ॥८५॥देवानां च महर्षीणां समाजोऽभूत्तदा महान् ।महोत्सवस्तदाऽभूच्च सर्वत्र भूतले दिवि ॥८६॥संकर्षणो मम भ्राता तत्रैव ज्येष्ठिकां सुताम् ।देवव्रतस्य वै पुत्रीं सरोजिनीमुवाह च ॥८७॥विवाहे तत्र सम्पन्ने पितरौ शोभनौ तव ।यौतकं ददतुः श्रेष्ठममूल्यं रत्नहीरकम् ॥८८॥गजानश्वान् गोवृषभान् क्षेत्रं विमानमुत्तमम् ।वाटिकां दासदासीश्च धनानि कनकानि च ॥८९॥स्वर्णपात्राणि बहूनि भूषाऽम्बराणि चापि वै ।अथाऽहं मद्गृहं यातः सर्वं नीत्वा सुखास्पदम् ॥९०॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।परब्रह्माऽक्षरातीतः परमेशः सनातनः ॥९१॥आकल्पान्तं त्वया साकमहं तत्राऽभवँस्तदा ।संकर्षणोऽपि मे भ्राता विजयाख्यश्रियाऽन्वितः ॥९२॥आकल्पान्तमतिष्ठद्वै भूतले धर्मरक्षकः ।स्मर लक्ष्मि! तव जन्म मम जन्माऽपि वै तदा ॥९३॥अहं वेद्मि न चान्ये वै कालह्रासेन कर्षिताः ।अन्ये तथाऽवतारा मे सहस्रायुतकोटयः ॥९४॥तत्र वर्षे मम जाता मोक्षदाः सुखदाः शुभाः ।इत्येतत् कथितं सर्वं प्राकट्यं मम वै तदा ॥९५॥स्मरणाच्छ्रवणाच्चापि मननान्मोक्षदं हि यत् ।अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत्। ॥९६॥दुःखिनां दुःखनाशः स्यात् सिद्धिं लभेत् प्रपाठकः ।वंशो भवेत् प्रभक्तश्च भार्या पतिं च विन्दते ॥९७॥राज्यं स्वर्गं समृद्धिं च वाचको लभते ध्रुवाम् ।मम भक्तिप्रकर्तॄणां मायालेपो न जायते ॥९८॥न वापि पतनं लक्ष्मि! सर्वदाऽभ्युदयो भवेत् ।भुक्तिर्मुक्तिर्भवेच्चापि लभेद्वै शाश्वतं सुखम् ॥९९॥सर्वयज्ञफलं चापि सर्वतीर्थफलं लभेत् ।साधुसेवाफलं चापि पातिव्रत्यफलं लभेत् ॥१००॥सर्वपूजाफलं चापि सर्वव्रतफलानि च ।सर्वदानफलं चापि श्रवणादस्य संलभेत् ॥१०१॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः पञ्चदशे वत्सरे धर्मव्रतविप्रगृहे दशाऽधिकशतपुत्रमोक्षोत्तरं साग्रजस्याऽनादिश्रीवरनारायणस्य प्राकट्य-मित्यादिनिरूपणनामा द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP