संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-वेधसोऽस्य हरेकृष्ण पुरुषोत्तम मत्पते! ।द्वापञ्चाशद्वत्सराणां नामानि वेत्तुमेव मे ॥१॥इच्छा प्रजायते तस्माद् वद श्रीपुरुषोत्तम! ।मनूनां चापि च चतुर्दशानां नाममात्रकम् ॥२॥वेत्तुमिच्छामि भगवन् कल्पे वाराहके त्वहम् ।एकपञ्चाशत्तमेऽब्दे ये कल्पाश्चान्ततो गताः ॥३॥तानपि वेत्तुमिच्छामि तव प्राकट्ययोगिनः ।संक्षेपाद् वद मे कान्त! यदि भारो न विद्यते ॥४॥श्रीपुरुषोत्तम उवाच-ब्रह्मणोऽस्य वत्सरस्तु प्रथमः पद्मवत्सरः ।नालक्रमो द्वितीयश्च नालोर्ध्वगस्तृतीयकः ॥५॥तुर्यं स्तावनवर्षं च व्योमवाणं तु पञ्चमम् ।षष्ठं तपोवप्सरं च सप्तमं यमवत्सरम् ॥६॥नियमं चाष्टमं चापि वर्षं नवममासनम् ।दशमं प्राणरोधाख्यं चैकादशं प्रतिहृतिः ॥७॥द्वादशं धारणं वर्षं ध्यानवर्षं त्रयोदशम् ।चतुर्दशं तु मननं पञ्चदशं समाधिकम् ॥८॥षोडशं प्रज्ञातवर्षं ब्रह्मणः परिकीर्तितम् ।अप्रज्ञातं सप्तदशं चाष्टादशं तु लीनता ॥९॥नवदशं वत्सरं तु साक्षात्काराभिधं ततः ।विंशतितमवर्षं च सृष्टिभानाभिधं ततः ॥१०॥एकविंशतितमं वै वेदवत्सरसंज्ञकम् ।रुद्रवत्सरनाम्ना च द्वाविंशो वत्सरस्ततः ॥११॥सनातनस्त्रयोविंशश्चतुर्विंशस्तथाऽऽर्षकः ।धर्मवर्षं पञ्चविंशं षड्विंशोऽनङ्गवत्सरः ॥१२॥सप्तविंशोऽधर्मसंज्ञोऽष्टाविंशोऽनलवत्सरः ।नवविंशं पितृवर्षं त्रिंशस्तु देववत्सरः ॥१३॥एकत्रिंशं मानवाख्यं द्वात्रिंशं कल्पपादपम् ।त्रयस्त्रिंशं सस्यसंज्ञं चतुस्त्रिंशं तु पाशवम् ॥१४॥पञ्चत्रिंशं याक्षवर्षं षड्विंशं राक्षसाभिघम् ।सप्तत्रिंशं चाण्डजाख्यमष्टात्रिंशं तु घर्मजम् ॥१५॥नवत्रिंशं नागवर्षं चत्वारिंशं तु यादसम् ।अध्वराख्यश्चैकचत्वारिंशो वै वत्सरस्ततः ॥१६॥हिरण्यवत्सरं द्वाचत्वारिशं च ततः परम् ।राजतं त्रिचत्वारिंशं कापालकं ततः परम् ॥१७॥अप्सरोवत्सरं पञ्चचत्वारिंशं ततोऽभवत् ।ब्रह्मसरोवत्सरं च स्वर्धूनीवत्सरं ततः ॥१८॥अर्चिमार्गाऽभिधमष्टचत्वारिंशं च वत्सरम् ।अब्धिमन्थं ततो वर्षं नारदाख्यं च वत्सरम् ॥१९॥एकपञ्चाशत्तम सोमनाथवत्सरं ततः ।द्विपञ्चाशत्तमं वर्षं वैष्णवाख्यं भविष्यति ॥२०॥गायत्रीवत्सरं त्रिपञ्चाशत्तमं प्रवर्त्स्यते ।एकपञ्चाशत्तमेऽयं वाराहो नाम कल्पकः ॥२१॥मया वाराहरूपेण क्षितिर्जलात् समुद्धृता ।अत्र वै मनवो भूपा भविष्यन्ति चतुर्दश ॥२२॥स्वायंभुवो मनुः पूर्वस्ततः स्वारोचिषो मनुः ।उत्तमश्च तामसश्च रैवतश्चाक्षुषस्ततः ॥२३॥वैवस्वतश्च सावर्णी चाष्टमो मनुरेव ह ।नवमो दक्षसावर्णी ब्रह्मसावर्णिकस्ततः ॥२४॥ततश्च धर्मसावर्णिः रुद्रसावर्णिकस्ततः ।ततश्च देवसावर्णिश्चेन्द्रसावर्णिकस्ततः ॥२५॥चतुर्दशैते मनवश्चेन्द्राश्चापि चतुर्दश ।दिवसे सम्प्रजायन्ते रात्रौ तावान् लयो मतः ॥२६॥कल्पे कल्पे भवाम्येव पृथिव्यां पुरुषोत्तमः ।ते पञ्चाशत्सहस्राणि कल्पास्तु ब्रह्मणो गताः ॥२७॥नारायणि! ह्यवतारी तावत्संख्योऽभवं क्षितौ ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२८॥युगे युगे त्ववतारा मे भवन्ति यथाक्रियम् ।तेषां संख्या न चास्त्येव जानाम्यहं न चेतरे ॥२९॥तत्र नामान्यनन्तानि भवन्ति गुणकर्मभिः ।किन्तु कल्पे त्वेकवारं भवामि पुरुषोत्तमः ॥३०॥अनादिश्रीकृष्णनारायणोऽहं बालकृष्णकः ।अवतारी कोटिभक्तभक्तानीपतिरीशपः ॥३१॥यत्र कल्पे समारंभे योऽवतारो भवेन्मम ।तेन नाम्नाऽपि च मया स वै कल्पः प्रकाश्यते ॥३२॥तस्मात् कल्पाभिधानानि मद्विज्ञानकृतानि वै ।न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् ॥३३॥अनादित्वाद्धि कालस्य ह्यसंख्यानाच्च वेधसाम् ।आभूतसम्प्लवो ह्येतदहोरात्रं स्मृतं ततः ॥३४॥त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ।आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसम्प्लवः ॥३५॥चतुर्युगसहस्रान्ते दिवसे ब्रह्मणो गते ।सुषुप्सुर्विश्वसृट् नैजां रात्रिं वै कुरुते ततः ॥३६॥ततः स वसति रात्रिं तमस्येकार्णवे जले ।प्रातः सिसृक्षया युक्तो यथापूर्वं करोति च ॥३७॥वत्सरारंभदिवसे ब्रह्मा यद्यत् करोति हि ।प्रधानं कर्म तन्नाम्ना वत्सरो वापि जायते ॥३८॥तत्पञ्चाशत्तमे वर्षे वेधसः कल्पकेष्वहम् ।बहुवारं समुत्पन्नो नारायण्या त्वया समम् ॥३९॥ब्राह्मकल्पे पाद्मकल्पे वैराजकल्पके तथा ।श्वेतकल्पे लोहिते च कृष्णकल्पेऽभवं तथा ॥४०॥सनत्कल्पे भवकल्पे भुवः कल्पेऽभवं तथा ।तपःकल्पे भावकल्पे रंभकल्पे ऋतौ तथा ॥४१॥ऋतुकल्पे वह्निकल्पे हव्यवाहनकेऽपि च ।अनादिश्रीकृष्णनारायणश्चाहं तदाऽभवम् ॥४२॥सावित्रकल्पे भुवःकल्पे चोशिककल्पके ।कुशिके चापि गान्धारे ऋषभे षट्जकल्पके ॥४३॥मार्जालीये मध्यमे च वैराजे कल्पकेऽपि च ।निषादे प्राणके चापि मेघवाह्येऽभवंस्तथा ॥४४॥चिन्तके चाऽकूतिके विज्ञातौ मानसेऽपि च ।भावे रथन्तरे श्वेतलोहिते रक्तवाससि ॥४५॥पीते च सितकल्पे च विश्वरूपेऽभवंस्तथा ।तदन्येषु च कल्पेषु यथाकार्यं नरायणि! ॥४६॥अभवंश्चाऽभवंश्चापि मेऽवतारा असंख्यकाः ।कल्पे कल्पेऽपि बहुधा श्रीस्त्वं बह्वी प्रजायसे ॥४७॥मम पत्नी यथा त्वद्य विवाह्या मम जायसे ।तव नामान्यनन्तानि तेऽवतारा असंख्यकाः ॥४८॥जानाम्यहं तु तत्सर्वं नारायणीश्रि! सर्वथा ।नारायणि! त्विदं सर्वं व्याप्तं ममैव तेजसा ॥४९॥मम लक्ष्म्या ममैश्वयैर्मद्गुणैर्मद्विभूतिभिः ।मदंशैर्मम सामर्थ्यैर्मम सम्पत्समृद्धिभिः ॥५०॥पतंगे चापि मत्तेजः प्रदीपेऽपि च मामकम् ।विद्युति ग्रहनक्षत्रतारासु शशिसूर्ययोः ॥५१॥मम तेजो हि सर्वत्र तेजस्विनो मया हि ते ।मण्योषधिषु द्युमार्गे स्वर्गे जने तपस्यपि ॥५२॥महर्लोके सत्यलोके मेरौ तेजो हि मामकम् ।लोकालोके शंकरे च विष्णौ चाजे विराजके ॥५३॥महाविष्णौ प्रधानेशे प्रकृतीशेऽक्षरेऽपि च ।मुक्तेषु चापि सर्वेषु चावतारेषु सर्वथा ॥५४॥ऐश्वर्यगुणतेजांसि ममैव सन्ति तानि वै ।मम मूर्तेः किरणैस्ते पुष्टिं तृप्तिं विदन्ति च ॥५५॥पुरुषोत्तममूर्तेश्च किरणानां विचित्रता ।पुष्णाति मुक्तजातानि विभिन्नतृप्तिदानतः ॥५६॥सदा षोडशवर्षोऽहं चैकमानोऽक्षरे परे ।पोषयामि मुक्तजनान् महानन्दादिदानकैः ॥५७॥मम तेजांसि सर्वाणि महानन्दमतानि वै ।शान्तिशीतलतातृप्तिसुधाभृतानि सन्ति च ॥५८॥तद्भोक्तारो मुक्तजना मुक्तान्यश्च त्वया सह ।शाश्वतानन्दपूर्णास्ते नित्यतृप्ता भवन्ति हि ॥५९॥रोम्णां मूर्तेः किरणानि निर्यान्ति रसभृन्ति वै ।सृष्टित्रयस्यौषधयः पुष्णन्ति तद्रसैः सदा ॥६०॥मुक्ताश्च तद्रसैः पुष्टाः सर्वदैकप्रमाणिनः ।एषां तेजांसि नेत्राभ्यां निर्यान्ति भास्कराणि वै ॥६१॥तत्प्रभाभिः प्रपश्यन्ति सृष्टित्रयस्य देहिनः ।दक्षनेत्रकिरणेभ्यः सूर्या भवन्ति सर्वशः ॥६२॥वामनेत्रकिरणेभ्यश्चन्द्रा भवन्ति सर्वशः ।मस्तकस्य च परिधेर्भवन्ति स्तनयित्नवः ॥६३॥सृष्टित्रयस्य वै विद्युत्प्रवाहाश्च भवन्त्यपि ।मुखमाधुर्यतेजांसि निस्सरन्त्यभितो हरेः ॥६४॥तन्माधुर्यमधुभिश्च तृप्यन्ति मुक्तकोटयः ।तृप्तिभृद्भिर्हि किरणैः सृष्टित्रयस्य देहिनः ॥६५॥कपोलाभ्यां मम मूर्तेर्निर्यान्ति मोहिनीप्रभाः ।ताभिर्मुक्तास्तथेशाद्या मुग्धा मूर्तौ भवन्ति वै ॥६६॥ओष्ठाभ्यां चामृतभृन्ति निर्यान्ति किरणानि वै ।तद्रसामृतपानेन तृप्यन्ति त्रिसृजिस्थिताः ॥६७॥नेत्रप्रान्तात् प्रभवन्ति तेजांसि प्रेमभृन्ति च ।तैश्चाकृष्टाः प्रेमभागा जायन्ते त्रिसृजिस्थिताः ॥६८॥सुधाभृतानि दन्तेभ्यो जायन्ते किरणानि वै ।सुधापानैः सृष्टयो वै सर्वास्तृप्यन्ति सर्वदा ॥६९॥पीयूषाणां किरणानि भालमध्याद् भवन्ति वै ।पीयूषपानतृप्ताश्च जायन्ते त्रिसृजिस्थिताः ॥७०॥कर्णाभ्यां संप्रजायन्ते तारतेजःस्वरात्मकाः ।तेजःप्रवाहास्तैः सर्वे शृण्वन्ति दिव्यकर्णकाः ॥७१॥मूर्तेरभितो जायन्ते मिष्टस्पर्शाः सुखावहाः ।स्पार्शनैः किरणैः स्पृष्टा भुञ्जते सुखमाच्युतम् ॥७२॥जिह्वातः किरणानीष्टमिष्टरसानि यान्ति हि ।सर्वसृष्टिजनास्तैस्तु रस्यन्तेऽदन्ति तद्रसम्। ॥७३॥नासिकातः किरणानि गन्धवन्ति प्रयान्ति च ।तद्गन्धैः सर्वसृष्टिस्था जिघ्रन्ति वै सुगन्धिकम् ॥७४॥श्रीहरेर्मे हृदयात्तु निस्सरन्त्यभितः खलु ।शाश्वतानन्दपूर्णानि किरणानि सुखानि वै ॥७५॥तैर्महानन्दमग्नाश्च वर्तन्ते त्रिसृजिस्थिताः ।मम मूर्घ्नश्चिदाकाशात्मकब्रह्माख्यरन्ध्रतः ॥७६॥प्रभवन्ति महानन्दा मिष्टा वाणी परा तथा ।ताभ्यः सृष्टित्रयस्थाश्च व्याहरन्ति वचांसि हि ॥७७॥मद्वाचा वाग्मिनः सर्वे मत्कृतार्थानुयोगिनः ।मद्धस्ताभ्यां किरणानि क्रियावन्ति प्रयान्ति च ॥७८॥तैश्च सृष्टित्रयस्था वै भवन्ति यत्नशीलिनः ।ममोदरात् किरणानि निर्यान्ति परितस्तथा ॥७९॥प्राणदानि च तैः सर्वे जीवन्ति त्रिसृजिस्थिताः ।मम प्रजननाद् यान्त्यानन्दाढ्यकिरणानि वै ॥८०॥तन्मात्रयाऽऽनन्दवन्तः सृष्टित्रयस्थदेहिनः ।मन्मूर्तेः पादयोर्यान्ति विहारकिरणानि वै ॥८१॥तैर्भवन्ति सगतिकाः सृष्टित्रयस्य देहिनः ।मन्मूर्तेः कटिभागाच्च प्रयान्ति किरणानि ह ॥८२॥सबलानि च तैः सर्वे बलवन्तो भवन्ति हि ।पृष्ठदण्डात् किरणान्याधारवन्ति प्रयान्ति च ॥८३॥तेन लोकाण्डकोट्यश्चाऽऽधारस्तंभाश्रिताः सदा ।मम पायूत्सर्जभासो यान्ति वै सृष्टिकोटिषु ॥८४॥ताभिर्भाभिः समुत्सर्गो जननानि भवन्ति च ।मम नितम्बभागाभ्यां किरणानि प्रयान्ति च ॥८५॥आस्यशक्त्याऽऽसनबद्धाः सर्वे लोका भवन्ति तैः ।ममाऽऽन्तरगता भासः प्रयान्ति सर्वसृष्टिषु ॥८६॥ताभिर्भाभिर्मननं च बोधनं माननं तथा ।चिन्तनं निर्णयं साक्षाद्विज्ञानं यान्ति देहिनः ॥८७॥मम कौस्तुभकिरणैः प्रदीपाः संभवन्ति च ।मम सौन्दर्यकिरणैः सुन्दर्यः सृष्टयस्त्विमाः ॥८८॥मम लक्ष्म्याश्च किरणैर्गृहिण्यः सर्वसृष्टिषु ।गृहलक्ष्म्यो भवन्त्येव सर्वसौभाग्यशोभिताः ॥८९॥मम वात्सल्यकिरणैः स्नेहबद्धा हि सृष्टयः ।ममोदार्यप्रभाभिश्चौदार्ययुक्ता हि सृष्टयः ॥९०॥ममाऽभिरूपकिरणैः सर्वं रूपान्वितं सदा ।मम कल्पाख्यकिरणैः कामावसायितादिकाः ॥९१॥सिद्धयः सम्प्रवर्तन्ते कल्पपादपवल्लयः ।मम धर्मप्रदरश्मिभिश्च तृप्यं सृजित्रयम् ॥९२॥पाकं च परिणामं च प्रयान्ति तैश्च सृष्टयः ।मम रौद्रैश्च किरणैस्तिरोभावं प्रयान्त्यपि ॥९३॥स्थैर्यशक्तिमयैश्चापि किरणैः सर्वमण्डलम् ।सृष्टित्रयात्मकं स्वस्वक्रमस्थैर्ये प्रवर्तते ॥९४॥ममाऽऽपूरककिरणैरापूर्यन्ते हि सृष्टयः ।मम पुण्यककिरणैः पूयन्ते चेश्वरादयः ॥९५॥मम विज्ञानकिरणैः सार्वज्ञ्यं यन्ति देहिनः ।मम कृपाप्रभाभिश्च समुद्यन्ति हि देहिनः ॥९६॥मम शोभाप्रभाभिश्च शोभन्ते सृष्टिनायकाः ।मम गुप्तप्रतेजोभिर्निगूढैश्वर्ययोगिनः ॥९७॥मम मूर्तेर्निदिध्यासैर्मन्मयाः साधवः सदा ।सदिति मम चाख्यास्ति तद्वन्तो ये भवन्ति वै ॥९८॥ममाऽऽत्यन्तसयुजास्ते सन्तो मन्मूर्तयः प्रियाः ।भवत्यः काशिकाक्षेत्रे विधायाग्निं प्रदक्षिणम् ॥९९॥मम सायुज्यमापन्नाः सत्यो मन्मूर्तयः प्रियाः ।मामाराध्य मम योग गतास्ते मूर्तयो मम ॥१००॥मुक्ताश्चेशाः सुरा विप्राः सन्तो गावश्च कन्यकाः ।कुमारा ब्रह्मशीलाश्च सत्यश्च मूर्तयो मम ॥१०१॥मम मूर्तेः किरणैश्च सत्तावद्भिः सृजित्रये ।प्रजायन्ते तु राजानो मद्योगान्मूर्तयो मम ॥१०२॥इन्द्रः स्वायंभुवो ब्रह्मा वैराजस्तत्पिताऽपि च ।तत्पितुश्च पिता चापि सर्वास्ता मम मूर्तयः ॥१०३॥शची शतस्वरूपा सावित्री वैराजिका तथा ।महालक्ष्मीः प्रधाना च प्रकृतिर्मम मूर्तयः ॥१०४॥वासुदेवादयो व्यूहाः श्रीकृष्णाद्याश्च मूर्तयः ।नारायणास्तथा सन्तः साध्व्यश्च मम मूर्तयः ॥१०५॥अग्निर्विष्णुः सुवर्णं च हृदयं चेतनं गुरुः ।युगलं तुलसी सत्यं सर्वदा मम मूर्तयः ॥१०६॥वेदः सूर्यो व्यवसायो दण्डः स्नेहोऽतिथिः सुखम् ।अर्भकश्चाश्रितोऽनाथो विद्यार्थी मम मूर्तयः ॥१०७॥राजाऽऽचार्यः प्रधानश्चोपदेष्टा व्यास आर्तिहाः ।रक्षकः पालकः स्वामी शरण्यो मम मूर्तयः ॥१०८॥यज्ञः श्राद्ध पूजनं च स्वागतं मधुपर्ककम् ।दक्षिणा हव्यकव्यादि मन्मयं मम मूर्तयः ॥१०९॥कण्डनी पेषणी चुल्ली जलकुम्भी च मार्जनी ।मदर्थं तूपयुक्तास्ताः पावन्यो मम मूर्तयः ॥११०॥शय्या यानं वाहनं च गोधनाद्यं गृहादिकम् ।मदर्थं चोपयुक्तं चेत् सर्वं मन्मूर्तिरूपि तत् ॥१११॥सर्वं मदन्वितं नारायणीश्रि! त्वं यथा मम ।मदर्थं चेत् कृतं सर्वं मम सायुज्यदं भवेत् ॥११२॥इत्येवं कथितं तेऽत्र भोजनं मूर्तिरूप्यहम् ।सर्वेषां पृच्छ मे चान्यज्जिज्ञासितं तु ते यदि ॥११३॥पठित्वेमं तथा श्रुत्वा मद्भावं चाप्नुयात् प्रिये ।मुक्तिं मुक्तिं लभेत् तीर्थफलं योगफलं लभेत् ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो द्वापञ्चाशद्वत्सरनामानि, वर्तमानकल्पीयचतुर्दशमनुनामानि, पञ्चाशद्वर्षीयाऽन्तिमचत्वारिंशत्कल्पनामानि, पुरुषोत्तमकिरणपोष्यं सृष्टित्रयादीतिविभूतिवर्णनमित्यादिनिरूपणनामा द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP