द्वापरयुगसन्तानः - अध्यायः ८९
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच-
ननु साक्षान्नरकाणि चिन्ताशोककराणि वै ।
यानि भवन्ति तान्यत्र ममाऽऽचक्ष्व हरे प्रभो ॥१॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं चिन्ताशोककराणि वै ।
निस्तेजस्वित्वकार्श्यादिरोगशोषकराणि च ॥२॥
यानि साक्षान्नरकाणि दुःखमात्राणि सन्ति वै ।
संभावितस्य सर्वाण्यसंभावने भवन्ति वै ॥३॥
सुहृन्मित्रं विना पत्नीं विना कुटुम्बमन्तरा ।
विदेशे या स्थितिः सा च निरयः खलु गोचरः ॥४॥
साधूपचरितैश्चापि कुटुम्बिनामतोषणम् ।
धिक्कारश्चावमानं च निरयः सोऽत्र गोचरः ॥५॥
धनैश्वर्याद्यधिकैश्च जनैर्ज्ञातिजनैरपि ।
कृताऽवमानसहनं निरयः सोऽत्र गोचरः ॥६॥
स्वगुणेष्वधिकेष्वन्याऽगुणिनो माननं बहु ।
सन्निधावेव जायेत निरयश्चाऽत्र गोचरः ॥७॥
जीविकामन्तरा भिक्षालज्जाभयेन या क्षुधा ।
रक्तं दह्यति नित्यं स निरपश्चात्र गोचरः ॥८॥
विवादे श्रेष्ठभावेऽपि कनिष्ठेन जितो भवेत् ।
पराजयोऽयं सततं निरयः सोऽत्र गोचरः ॥९॥
क्लिष्टा जना भवेयुश्च यस्य मित्राणि नित्यदा ।
दुःखदा भयदाश्चापि निरयस्तस्य गोचरः ॥१०॥
प्रज्ञासंभावितश्चापि मूर्खैर्मुखीकृतो जनः ।
दुर्वृत्तैर्धर्षणं यच्च निरयः सोऽत्र गोचरः ॥११॥
मित्रमुखश्चाऽरिसंघो वञ्चनातत्परोऽभितः ।
तेन वै वञ्चनं चापि निरयश्चात्र गोचरः ॥१२॥
रहस्यकुशलश्चापि सर्वार्थगतिकोऽपि च ।
तज्ज्ञैर्न पूज्यते तस्य निरयश्चात्र गोचरः ॥१३॥
असत्सु बहुषु पार्श्वगतेषु च गुणा निजाः ।
असद्भिर्दुर्गुणायन्ते निरयश्चात्र गोचरः ॥१४॥
धनबुद्धिशास्त्रहीना अपि वीक्ष्य महाजनान् ।
महत्त्वाशाग्निदग्धा वै निरयश्चात्र गोचरः ॥१५॥
कृतबुद्धिं कृतसिद्धिं कृतपाण्डित्यमाननम् ।
बान्धवा नाऽभिनन्दन्ति निरयश्चात्र गोचरः ॥१६॥
स्वभार्यायाः प्रातिवेश्यो बली धनी युवाऽपरः ।
वर्तते स्वाऽनभिप्रेतो निरयश्चात्र गोचरः ॥१७॥
यस्य वाक्यस्य वै मूल्यं यथार्थस्याऽपि नैव हि ।
ज्ञातृमध्येऽपि जायेत निरयश्चात्र गोचरः ॥१८॥
मूर्खमध्ये सदा वासो निन्दकेषु निवासनम् ।
ईर्ष्याऽसूयायुग्जनेषु वासोऽपि निरयस्त्विह ॥१९॥
स्वामी चाऽऽसञ्जयित्वा यं कृत्ये पश्चाद्धनादिकम् ।
नित्यमर्थयते यस्मात् तस्य वै निरयस्त्विह ॥२०॥
अन्तर्गतमभिप्रायं दर्शयितुं न शक्यते ।
जाड्याद् भयाच्च शैथिल्यान्निरयश्चात्र गोचरः ॥२१॥
निर्गुणत्वेऽपि गुणिनो जेतुमिच्छति चेर्ष्यया ।
वीक्ष्य गुणान्न सहते निरयस्तस्य गोचरः ॥२२॥
अविद्वान् भीरुरल्पार्थो यशश्चेच्छति यो महत् ।
ज्वलति चिन्तया नित्यं निरयस्तस्य गोचरः ॥२३॥
चिराभिलषितं नैव प्राप्यते यस्य दुःखिनः ।
प्राप्तं चाऽन्यैरपहृतं निरयस्तस्य गोचरः ॥२४॥
अभिशप्तः स्त्रिया मात्रा विप्रैश्च साधुभिश्च वै ।
आत्मदोषेण धिग्भावं गतो यो निरयी त्विह ॥२५॥
साधून् दृष्ट्वा मुक्तजनान् गालीदानं करोति यः ।
पापं करोति तस्यात्र निरयः स्वालयो मतः ॥२६॥
अन्यदुःखादि वीक्ष्याऽपि हर्तुमशक्त एव यः ।
शोचति ध्रुवमर्थं च निरयस्तस्य गोचरः ॥२७॥
अनाज्ञावर्तिनः पुत्रा नारी वचोऽवमानिनी ।
शिष्या विरुद्धाचाराश्च तस्याऽस्ति निरयस्त्विह ॥२८॥
दुष्टदत्तान् प्रभुक्त्वैव जीवति स्वालयं विना ।
आहिड्यतेऽटवी येन निरयस्तस्य गोचरः ॥२९॥
पापं प्रवर्धते यस्य कल्याणं चाऽवसीदति ।
गर्हापात्रं मतो यश्च निरयस्तस्य गोचरः ॥३०॥
शत्रूणां करगो यश्च सुहृदेभ्यो वियोजितः ।
अकस्माज्जीवनं यस्य निरयस्तस्य गोचरः ॥३१॥
दुष्टारिध्याननिष्ठस्य चाऽप्राप्येच्छावतस्तथा ।
चिन्तयानस्य पारक्यं निरयस्तस्य गोचरः ॥३२॥
सराज्यस्य धनिनश्चाऽनपत्यता च रुग्णता ।
अकीर्तिश्च विचित्तत्वं निरयास्त्विह गोचराः ॥३३॥
साधोर्जनस्य साध्व्याश्च भोगेच्छा निरयस्त्विह ।
आचार्याणां गुरूणां च धिक्कारो निरयस्त्विह ॥३४॥
मन्दाग्निः सर्वदा दीर्घरोगाश्च निरयास्त्विह ।
यौवने स्त्रीरहितत्वं कान्तहीनत्वमित्यपि ॥३५॥
वैधव्यं च विधुरत्वं गोचरा निरयास्त्विह ।
सत्सु पुत्रेषु भृत्यत्वं पराधीनस्वपोषणम् ॥३६॥
वार्धक्ये च पराधीनत्वं चेति निरयास्त्विह ।
अनिन्द्रियस्य दीर्घायुः सबलस्य दरिद्रता ॥३७॥
दारिद्र्ये बह्वपत्यत्वं साक्षाद्वै निरयास्त्विह ।
अनिकेतनिवासित्वं परगृहनिवासिता ॥३८॥
परभाग्योपजीवित्वं सदा भिक्षुकवृत्तिता ।
गृहस्थस्येति लोकेऽत्र प्रत्यक्षा निरया रमे! ॥३९॥
पत्युरस्नेहिता नार्यां पुत्रा विमार्गगास्तथा ।
कन्यानां गर्भवत्ता च प्रत्यक्षा निरयास्त्विह ॥४०॥
प्रधानाऽमात्यवर्गस्य दोषे निगडपातनम् ।
राज्ञ्या राजकुमारस्य सतो देशगुरोस्तथा ॥४१॥
कारागारनिवासश्च राज्ञो द्विजस्य च स्त्रियाः ।
देवजनस्य विदुषः प्रत्यक्षा निरयास्त्विह ॥४२॥
अपूर्णभोज्यलाभश्च ह्यपूर्णं च धनार्जनम् ।
अरसं शुष्कमुच्छिष्टं भोज्यं वै निरयस्त्विह ॥४३॥
सति वृद्धे त्वपत्यानां नाशोऽपि निरयस्त्विह ।
प्रेतप्रवेशनाद्यं च प्रत्यक्षा यमयातना ॥४४॥
राजदण्डादि कष्टं च प्रत्यक्षा यमयातना ।
ईतयश्चापि दुःखानि प्रत्यक्षा यमयातनाः ॥४५॥
सापत्न्यं दुःसहं नित्यं ताडनं परवश्यता ।
पाशवं जीवनं सर्वं प्रत्यक्षा यमयातनाः ॥४६॥
दुष्कालाऽऽवृतता चाऽग्निगरपाशादिपातिता ।
जलगर्त्तोर्ध्वपाताश्च प्रत्यक्षा यमयातनाः ॥४७॥
शूलशस्त्राऽस्त्रघाताश्च रोधनं गह्वरादिषु ।
गर्भपीडा प्रसवार्त्तिः प्रत्यक्षा यमयातनाः ॥४८॥
असह्यकामभोगाश्च ह्यपथ्यभोजनाशनम् ।
त्रिदोषज्वरबाधाद्याः प्रत्यक्षा यमयातनाः ॥४९॥
पाकाः शरीरे क्लेदाश्च सदा विडुदरं वपुः ।
श्लेष्माकफादिसातत्यं प्रत्यक्षो निरयस्त्विह ॥५०॥
अशान्तिः सर्वदा चित्ते तथा देशविवासनम् ।
अपमृत्युरसहाये प्रत्यक्षो निरयस्त्विह ॥५१॥
केवलकन्यकावत्त्वं पुत्रशून्यत्वमेव च ।
नपुंसकत्वं षण्ढत्वं प्रत्यक्षो निरयस्त्विह ॥५२॥
श्वपचत्वं मलवाहित्वं च क्लेदादियोगिता ।
दुर्गन्धालयवत्ता च प्रत्यक्षो निरयस्त्विह ॥५३॥
उद्वेगः सर्वदा चित्ते तृष्णाज्वालादवानलः ।
शान्तिः सुखं न वै यस्य प्रत्यक्षो निरयस्त्विह ॥५४॥
बाल्यं चैवाऽतिवार्धक्यं मैथुनारूढता तथा ।
मृज्जलाभ्यां न चेच्छुद्धिः प्रत्यक्षा निरयास्त्विह ॥५५॥
मद्यं मांसं रतिः कामः प्रत्यक्षा निरयास्त्विह ।
विपत्काला हि निरयाः सम्पत्कालाः सदाऽमृताः ॥५६॥
स्नेहः स्वर्गं निरयस्तु द्वेष एवाऽत्र पद्मजे! ।
ज्ञानं स्वर्गं विवेकश्च द्यौर्गौर्धर्मः स्वराज्यकम् ॥५७॥
सन्तोषः शाश्वतं स्वर्गं मोक्षस्तु वासनाक्षयः ।
इत्येतत् सर्वमाज्ञाय त्याज्यं त्यजेत् सुबुद्धिमान् ॥५८॥
ग्राह्यं समर्जयेत् तुष्ट्या विवेकी श्रेयआशयः ।
साधुः स्वर्गो हरिः स्वर्गो भक्तिः स्वर्गो हि शाश्वतः ॥५९॥
ब्रह्मस्थितिः परः स्वर्गो ब्रह्माप्तिः स्वर्गमुत्तमम् ।
निर्भयत्वं महत् स्वर्गं जीवतोऽपि सदा रमे! ॥६०॥
शृणु चैको भृत्यपरिश्रमी दिवाक्रियापरः ।
नित्यवेतनलाभेन कृषिकार्यकरो ह्यभूत् ॥६१॥
नाम्ना विश्रामगुप्तोऽसौ क्षेत्रे सस्यादिपोषकः ।
नित्यं प्रयाति स प्रातः श्रमं क्षेत्रे करोति च ॥६२॥
सायं प्राप्यं नैतिकं च धनमन्नं च कर्षुकात् ।
लब्ध्वा नैजं गृहं याति द्वारप्राकारवर्जितम् ॥६३॥
पर्णकाण्डादिजन्यं च भूशय्याशोभनं तथा ।
मृद्भाण्डद्वित्रिशोभं च चलचुल्लीविराजितम् ॥६४॥
असंस्कृतत्रिपाषाणे धृत्वा भ्राष्ट्रं च वह्निना ।
रोटकं पाचयित्वा च भुक्त्वा लवणवारिणा ॥६५॥
मरीचकेन सह वा मूलकेनाऽथवाऽनिशम् ।
कन्देन वा प्रभुक्त्वाऽथ पीत्वा वारि तदाऽऽहृतम् ॥६६॥
प्रक्षाल्य मृत्तिकापात्रं कृष्णनाम जपन् भुवि ।
स्वपित्येवैकचीर्णोत्थखण्डप्रावरणान्वितः ॥६७॥
निर्भयश्चापि निश्चिन्तः पुष्टो नीरोग उद्बलः ।
न शैत्यं बाधते चाऽस्य न विषाऽऽक्ताऽऽतपोऽपि च ॥६८॥
ब्रह्मचारी सदा शेते सर्वचिन्ताविवर्जितः ।
अपरिग्रहतस्तस्य चौर्यभयं न विद्यते ॥६९॥
विनम्रस्य च भृत्यस्य शत्रुभयं न विद्यते ।
अनिच्छोस्तस्य निद्रा वै शान्तस्याऽऽप्रातरेव तु ॥७०॥
निगाढा सा भवत्येव स्वाप्नचिन्ताविवर्जिता ।
प्रातर्मानवनादैश्च जागर्ति सहसा ततः ॥७१॥
कृत्वा शीघ्रं रोटकं च सह नीत्वा प्रयाति च ।
क्षेत्रं श्रमयुतस्तत्र यथाकालं च खादति ॥७२॥
एवं वै वर्तमानस्य सुखिनो दर्शनेन वै ।
सन्निधौ संवसन् सोमचन्द्राख्यो वणिगुत्तमः ॥७३॥
परोपकारचित्तात्मा दुःखिनं गणयन् हि तम् ।
कर्षुकभृत्यमाहूय ददौ द्रव्यं दयावशः ॥७४॥
रूप्यकद्विशतं दानं सहाय्यं जगृहेऽपि सः ।
अथ चिन्ता समुत्पन्ना रक्षणार्थं गृहे निजे ॥७५॥
यथाऽन्यो नैव जानीयात् तथा ररक्ष कोणके ।
थूत्कारस्य स्थले धूल्यां खात्वा चिक्षेप गर्तके ॥७६॥
निक्षिप्य च ततो नित्यं याति कार्यार्थमेव सः ।
क्षेत्रे गतोऽपि स्मरति द्रव्यं गृहे सुरक्षितम् ॥७७॥
मध्याह्ने च तत आगत्यापि दृष्ट्वा प्रयाति च ।
सायमागत्य वीक्ष्य क्ष्मां भुक्त्वा स्वपिति नित्यवत् ॥७८॥
रात्रौ निद्राति वै स्वप्ने तूर्णं जागर्ति शब्दने ।
चिन्तया चौरहार्यस्य रक्षणार्थं विचिन्तकः ॥७९॥
एवं नित्यं सुखा निद्रा क्षीणाऽभवच्छनैः शनैः ।
अपाचनं जाठरेण बलक्षयोऽपि संवृतः ॥८०॥
अस्थैर्यं मानसस्याऽपि द्रव्यलग्नस्य सर्वथा ।
कार्ये क्षेत्रेऽपि कर्माऽलग्नता जाता शनैः शनैः ॥८१॥
कार्यं सम्पद्यते न्यूनं विचित्तस्य दिने दिने ।
तदा वै स्वामिना पृष्टः कर्षुकेण महात्मना ॥८२॥
कथं त्वं वर्तसे भ्रान्तो विह्वलो भूतवेशितः ।
कृषेः कर्माऽपि पूर्णं त्वं करोषि नैव सर्वथा ॥८३॥
वेतनं नैत्यकं चान्नं दास्ये न्यूनं यथाक्रियम् ।
इत्युक्तः स च भृत्यस्तु क्षणं विचिन्त्य कर्षुकम् ॥८४॥
प्राहाऽत्र कारणं चास्ते रूप्यकाणां शतद्वयम् ।
वणिजाऽर्पितमेवाऽऽस्ते पर्णगृहे ममैव तत् ॥८५॥
तच्चिन्ताचिन्तितश्चाऽहं विभ्रान्तको भवामि ह ।
द्रव्यं वै निरयः साक्षान्निद्रानाशो यतोऽभवत् ॥८६॥
पुष्टिनाशः शान्तिनाशः क्रियानाशो यतोऽभवत् ।
द्रव्यं साक्षाद्भयं चास्ते मृत्युर्द्रव्ये प्रतिष्ठति ॥८७॥
कालो द्रव्ये राजते च क्षयो द्रव्ये विराजते ।
प्रत्यक्षं नरकं द्रव्यं तृष्णातन्तुविवर्धकम् ॥८८॥
परिग्रहो हि निरयस्त्यागः स्वर्गं परं मतम् ।
शान्तिराध्यात्मिकं स्वर्गं त्यागो बाह्यं स्वरमृतम् ॥८९॥
द्रव्यं लब्ध्वा मया स्वर्गं नाशितं वा विवासितम् ।
ततोऽहं तु यथापूर्वं सुखीभवामि वर्जनात् ॥९०॥
इत्युक्त्वा कर्षुकायैव सह नीत्वा च कर्षुकम् ।
दर्शयामास कोणे तत्प्रत्यक्षं निरयं ह्यघम् ॥९१॥
दुःखं दुःखकरं शान्तिहरं शतद्वयात्मकम् ।
निष्कास्य गर्तात् तत्सर्वं ददौ च वणिजे पुनः ॥९२॥
द्रव्यं प्रत्यक्षनिरयं नैव मे रोचते वणिक् ।
गृहाण त्वं निरयं वै द्रव्यरूपं सुखक्षयम् ॥९३॥
इत्युक्त्वा सम्प्रदायैव सुखं शेते यथागतम् ।
पुनः सुखी ह्यभवत्स वितृष्णो निष्परिग्रहः ॥९४॥
सर्वसम्पूर्णकार्याढ्यो यथापूर्वं तथाऽभवत् ।
तस्माल्लक्ष्मि चेहलोके दुःखदा निरयाः खलु ॥९५॥
परिग्रहा हि ते सर्वे दुःखदा निरयास्त्विह ।
साधोः स्वर्गं सदा चास्ते सहैव सुखिनस्ततः ॥९६॥
नारायणस्तथा चाऽहं वसामि साधुमानसे ।
ममाऽऽनन्देन मुदिता निजानन्देन नन्दिताः ॥९७॥
तारयन्ति जनानन्यान् प्रेषयन्त्यक्षरं पदम् ।
प्रज्वालयन्ति पापानि निरयान् प्रहरन्ति च ॥९८॥
उपादिशन्ति तत्त्वानि विवेकं च ददत्यपि ।
भक्तिं मे कारयित्वा च विधाय दिव्यभावनाः ॥९९॥
नारायणस्वरूपाँश्च कारयित्वाऽक्षरं पदम् ।
प्रापयन्ति सुभक्तान् वै सदा स्वर्गप्रदा हि ते ॥१००॥
सेवनीया हि सततं साधवः साधुभूषणाः ।
पठनाच्छ्रवणाच्चापि स्मरणादपि मुक्तिभाक् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने प्रत्यक्षनिरयाणां वर्णनम्, कर्षुकभृत्यदृष्टान्तेन द्रव्यादयः प्रत्यक्षनिरया इति प्रदर्शनम्, प्रत्यक्षस्वर्गं चेत्यादिनिरूपणनामा नवाऽशीतितमोऽध्यायः ॥८९॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP