संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ११ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ११ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि! त्वं चतुर्दशे तु वत्सरे ।माननाख्ये वेधसो वै तत्र कल्पे च सप्तके ॥१॥पञ्चमे तु मनौ चाऽहं यथा प्राकट्यमाप्तवान् ।तत्र वै वेधसश्चाग्रजघनस्य प्रदेशतः ॥२॥कोशस्तेनाऽभिधो नाम जज्ञे राक्षसपुंगवः ।वेधस भक्षितुं सोऽपि जातमात्रः समापतत् ॥३॥ब्रह्मा प्राह अरे मूढ वृथा भक्षितुमिच्छसि ।वद ते क्षुन्निवारार्थं ददामि वृणु मा चिरम् ॥४॥इत्येवं बोधितश्चाश्वासितः क्षणं स्थिरीकृतः ।कोशस्तेनो विचार्यैव समुवाच पितामहम् ॥५॥यद्येवं मे बलार्थं वै बीजं भक्ष्यं प्रदेहि वै ।सर्वव्यापित्वमेवाऽपि सूक्ष्माऽसंख्यकरूपिताम् ॥६॥ब्रह्मा प्राह वृथा बीजं प्रसंभक्षय देहिनाम् ।सर्वं त्वदभिप्रेतं च तत्राऽस्तु भव तृप्तिमान् ॥७॥इत्युक्तो ब्रह्मपुत्रोऽसौ राक्षसो ब्रह्मणो गृहात् ।विनिष्क्रम्य ययौ तत्र ब्रह्मचारिषु चाविशत् ॥८॥कोशभागेषु तेषां वै प्रविश्य बीजसञ्चयम् ।अभक्षयत् तदा ते च वैराजा ब्रह्मचारिणः ॥९॥निर्बला अभवन् सर्वे विना कारणमुत्तमम् ।अथ ते ज्ञातवन्तश्च निर्बलत्वे तु कारणम् ॥१०॥समाधिना प्रवेशं वै राक्षसस्याऽजदाद् वरात् ।ततस्ते योगपाशैश्च बबन्धुस्तं तु राक्षसम् ॥११॥शरीरकोशेष्वेवात्र राक्षसोऽपि भयान्वितः।पराधीनोऽतिदीनश्च भूत्वाऽऽर्थयद्विमोचनम् ॥१२॥नाऽहं चात्र निवत्स्यामि ब्रह्मचारिषु वै क्वचित् ।सत्यलोकं तथा वैराजकान् लोकान् विहाय च ॥१३॥अधोलोकान् गमिष्यामि दीनं मां मोचयन्त्वितः ।इत्यर्थिताः शीलधर्मा वैराजा ब्रह्मचारिणः ॥१४॥मुमुचुस्ते पाशबन्धेभ्यश्च सोऽपि द्रुतं तदा ।विनिर्ययौ सत्यलोकात् ऋषीन् त्यक्त्वा समन्ततः ॥१५॥पितृलोकान् तथा त्यक्त्वा स्वर्गलोकमुपाययौ ।कोशस्तेनः समव्याप्नोद् देवदेहेषु सर्वतः ॥१६॥वृथाबीजं हि देवानां यतोऽपत्यानि सन्ति न ।न जायन्ते तत्र गर्भा न च शीलं प्रवर्तते ॥१७॥भोगमात्रावसानं हि बीजं वृथा तु तन्मतम् ।विचार्येत्थं स देवेषु प्रविश्य कोशगोऽभवत् ॥१८॥निर्भयस्तत्र तत्रैव भक्षयामास बीजकम् ।न जानन्त्यपि ते देवा बीजभक्षणमेव ह ॥१९॥राक्षसः सर्वकोशेभ्यो नित्यमश्नाति बीजकम् ।इन्द्रो नपुंसको जातो बृहस्पतिर्नपुंसकः ॥२०॥सूर्यो नपुंसको जातश्चन्द्रः शुक्रो नपुंसकः ।बुधश्च मंगलश्चापि शनिर्नपुंसकोऽभवत् ॥२१॥वसवश्च तथा रुद्रा आदित्या मरुतोऽपि च ।ईशानानागिवरुणाः कुबेरयमनिर्ऋताः ॥२२॥वायुरश्वीकुमारौ च नपुंसकाश्च तेऽभवन् ।निधयश्चापि ऋषयो ध्रुवः कामो मनुस्तथा ॥२३॥साध्या देवा विश्वदेवा लोकपालगणास्तथा ।अन्येऽपि देववर्याश्च गन्धर्वाः किन्नरास्तथा ॥२४॥किंपुरुषाश्च दूताश्च सुरा जाता नपुंसकाः ।कोशबीजदरक्षो वै कृतवाँस्तु नपुंसकान् ॥२५॥स्वर्गं सर्वं तदा जातं निर्वीर्य हि नपुंसकम् ।निस्तेजस्कं कामशून्यं गार्हस्थ्यं विलयं गतम् ॥२६॥देवाः शोकं परं जग्मु विसामर्थ्या विसत्त्वितः ।कारणं मार्गयामासुर्ब्रह्माणं शरणं ययुः ॥२७॥सर्वे निवेदयामासुर्निजां निःसत्त्वतां तदा ।वैद्योऽप्ययं हि देवानां निःसत्त्वोऽपि व्यजायत ॥२८॥क्व यामो विश्वसृट् चाद्यौषधार्थं सत्त्वलब्धये ।यो हि बलप्रदाताऽस्ति सोऽपि निर्बलतां गतः ॥२९॥कल्पवृक्षाः कल्पलता कल्पचिन्तामणिस्तथा ।कल्पपात्राणि सर्वाणि तथा च कामधेनवः ॥३०॥कल्पकन्याः कल्पदेवाश्चिन्तिता कल्पबुट्टिकाः ।धातूनां लब्धये चाति तथापि निष्फलता हि ते ॥३१॥नाऽत्र केपि प्रवर्तन्ते धातुक्षये महोल्बणे ।अकार्यकारिणः सर्वे कल्पाभिधा भवन्ति वै ॥३२॥तस्मात् पितामह तेऽत्र शरणं वयमागताः ।किं कारणं कथं वा वै जाता वयं नपुंसकाः ॥३३॥अमृतं सर्वथा भक्ष्यं जातं मृतमिवाऽपि नः ।किं कुर्मः क्व प्रयास्यामो मरिष्यामः पितामह ॥३४॥इत्यसत्त्वाः सर्वदेवा न्यपतत् ब्रह्मपादयोः ।ब्रह्मा विचारयामास बीजस्तेनस्य कर्म तत्। ॥३५॥यथाबीजं सदा स्वर्गे देवानां विद्यते यतः ।देवबीजस्य वै भक्षयिता स सफलोऽधुना ॥३६॥वरदानप्रदानेन बीजस्तेनो जयं गतः ।स्वर्गे विघ्नं कृतं तेन स्वर्गं चाऽस्वर्गतां गतम् ॥३७॥सत्सु धवेषु देव्यश्च विधवा इव तत्कृताः ।तदुपायं मार्गयामि येन रक्षः क्षयं व्रजेत् ॥३८॥क्षणं ब्रह्मा हृदयस्थो ध्यानमग्नोऽभवत्तदा ।हृदयेऽस्य विचारोऽभूद् विना श्रीपुरुषोत्तमम् ॥३९॥नाऽस्य कश्चिद् विहन्ता स्याद् यतो नपुंसकाः सुराः ।मया दत्तो वरश्चास्मै सोऽहं हन्तुं नु च क्षमः ॥४०॥तस्मान्मया सुरैः सार्धं प्रस्मर्तव्यो हरिः स्वयम् ।अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥४१॥राजाधिराजः सर्वात्माऽन्तरात्मा परमेश्वरः ।स एवाऽस्य बीजहस्य परं पारं नयिष्यति ॥४२॥पितामहेन वै तूर्णं देवेभ्यो विनिवेदितम् ।हरेः सत्रं करिष्यामः साहाय्यं स विधास्यति ॥४३॥इत्युक्ता देवताव्राताः सत्यलोके तु संहताः ।ब्रह्मसत्रं व्यधुस्तत्र ममाऽनुष्ठानतत्पराः ॥४४॥मम भक्तिपराः सर्वे मम कीर्तनतत्पराः ।मम पूजास्तवनादिजापध्यानपरायणाः ॥४५॥केचिच्चक्रुः पुरश्चर्यां स्तोत्राणां मम वै तदा ।अन्ये च हवनं चक्रुर्बृहस्पतिपुरोगमाः ॥४६॥परे मालाजपं चक्रुश्चान्ये पूजां प्रचक्रिरे ।तथाऽन्ये च व्यधुर्ध्यानं विदधुश्चेतरे स्मृतिम् ॥४७॥अपरे त्वर्चनं चक्रुर्मम मूर्तेश्च वै तदा ।एवं सर्वे देवगणाश्चक्रुराराधनां मम ॥४८॥अनादिश्रीहरेस्तत्र सत्यलोकेऽजमन्दिरे ।वन्दनं चक्रिरे मे ते समायाहि नरोत्तम ॥४९॥सर्वबीजस्वरूपस्त्वं कारणानां हि कारणम् ।सर्वशक्तिस्वरूपस्त्वं सर्वसामर्थ्यशोभनः ॥५०॥सर्वसृष्टिप्रमूलं त्वं सर्वानन्दप्रदो भवान् ।सर्वसत्त्वमयस्त्वं वै चान्तरात्मन् समाव्रज ॥५१॥त्वया सर्वं युगलाख्यं रचितं परमात्मना ।त्वया रक्ष्यं युगलाख्यं दयालुना हि शार्ङ्गिणा ॥५२॥त्वां विना न समर्थोऽन्यो रक्षितुं चावतारिणम् ।समायाहि निजान् त्राहि रक्ष पोषय सेवय ॥५३॥कुर्वानन्दभृतान् देवान् शरणागतवत्सल ।त्वमन्नं त्वं जीवनं च त्वं गर्भस्त्वमसुस्तथा ॥५४॥त्वमेव माता जनको रक्षकः पोषकः प्रभुः ।त्वं ब्रह्मा त्वं विराड् विष्णुर्महान् कालः पुमान्परः ॥५५॥त्वं देवस्त्वं च नारीणां प्रियः पतिः प्रभुः परः ।त्वं सुखस्त्वं महानन्दः समायाहि प्ररक्ष नः ॥५६॥इत्यस्तुवन् सुरा मां च तदाऽहं च त्वया सह ।तूर्णं सत्यं ब्रह्मवासं समाययौ हरिः स्वयम् ॥५७॥देवानां सन्निधौ साक्षादहं तत्राऽभवं यदा ।मया देवाः कृष्णवर्णाः सत्त्वहीना विलोकिताः ॥५८॥यथा वै मृतका यद्वा रुग्णा वा क्षयशालिनः ।तथा सर्वे मया दृष्टाः सुराः सूर्यादयोऽपि च ॥५९॥मया पृष्टाः कारणं ते जगदुः सत्वहीनताम् ।केन कृतां न जानीमो भगवँस्त्वं प्रवेत्सि तत् ॥६०॥रक्षां कुरु हरे कृष्ण कृष्णनारायण प्रभो ।अमृतान्मृतिमापन्नान् रक्षयाऽत्र जनार्दन ॥६१॥अथ तत्र मयोक्तं वै मम शक्त्याऽन्वितोऽप्यहम् ।प्रविशामि भवत्स्वेव विद्रावयामि राक्षसम् ॥६२॥कोशस्तेनं महाक्रूरं वेधसो जाघनं सुतम् ।इत्युक्ते मयि तत्रैव देवाः प्राञ्जलयोऽभवन् ॥६३॥ध्यानपराः क्षणं तावत्तेष्वहं चाविशं द्रुतम् ।त्वया साकं शिवकन्ये! सर्वदेवेषु सर्वथा ॥६४॥पतिदेवस्वरूपोऽहं भूत्वा संस्तभ्य राक्षसम् ।गृहीतवान् गले तं च सूक्ष्मातिसूक्ष्मरूपिणम् ॥६५॥राक्षसस्य स्वरूपाणि नाशितानि मया तदा ।मूलरूपो महेन्द्रोऽपि वर्तमानो मया धृतः ॥६६॥प्रार्थयन् जीवनार्थं स स्वर्गाद् गन्तुमरण्यकम् ।फलपुष्पादिहीनेषु चोद्भिज्जेषु निवासनम् ॥६७॥प्रार्थयत् स मयाऽऽदिष्टो ययौ तृणादिके तदा ।अथ देवाः सत्त्ववन्तोऽभवँस्तत्र हि पूरुषाः ॥६८॥सतेजस्काः प्रभावन्तो यथापूर्वाः सुदेहिनः ।सानन्दः सर्व एवैते जाता महोत्सवान्विताः ॥६९॥चक्रुर्महोत्सवं स्वर्गे चेन्द्रालये हि संहिताः ।मम मूर्तिं विधायैव स्वर्णमयीं च ते तदा ॥७०॥लक्ष्म्या साकं प्रशृंगार्य पुपूजुर्द्युनिवासिनः ।पायसानि चामृतानि नैवेद्यानि ददुश्च ते ॥७१॥आरार्त्रिकं व्यधुः सर्वे तदाऽहं स्वेच्छया प्रभुः ।त्वया साकं तदा लक्ष्मि! प्रत्यक्षश्चाऽभवं हरिः ॥७२॥शंखचक्रगदापद्मस्वस्तिकध्वजशूलवान् ।यथाऽहं त्वक्षरे धाम्नि वर्ते तथाऽभवं शुभः ॥७३॥स्वतन्त्रो भगवान् श्रीशः श्रीपतिः पुरुषोत्तमः ।अपितृजश्चाऽमातृजो धृतरूपो बभूव ह ॥७४॥अनादिश्रीबीजनारायणः सर्वेश्वरेश्वरः ।देवैः स्थातुं सदा स्वर्गे प्रार्थितः परमेश्वरः ॥७५॥सदा महेन्द्रभवने व्यराजं पुरुषोत्तमः ।आकल्पान्तं त्वया साकं श्रियाऽवतारकारणम् ॥७६॥अन्ये तथाऽवतारा मे बहवोऽप्यभवँस्तथा ।जानाम्यहं तु तान् सर्वान् स्मर लक्ष्मि! निजां तदा ॥७७॥राक्षसो यस्तृणरूपः स तु कल्पान्तरे प्रिये ।बीजस्तेना ओषधयोऽभवन् सत्त्वविनाशिकाः ॥७८॥तानि तृणानि चाऽज्ञाश्च पशवो मानवा अपि ।पृथिव्यां पक्षिणश्चापि ये केऽप्यभक्षयन् क्षितौ ॥७९॥ते सर्वे बीजहीनाश्च बभूवुर्वै तदा जनाः ।अथ वै मानवे लोके दुःखं तत् पुनरेव ह ॥८०॥सञ्जातं सर्वथा बीजहीनताख्यं च देहिषु ।तदाऽहं मानवैश्चाऽभ्यर्थितश्चागत्य वै भुवि ॥८१॥बीजस्तेनं राक्षसं तं जग्राह पाशबन्धने ।सोऽपि मृत्युभयोद्विग्नस्तुष्टाव मां तु दीनवत् ॥८२॥तदा मया कृता तस्य मर्यादा स्थानदायिना ।ये प्रसह्य परदारागामिनो वै नरा भुवि ॥८३॥तेषु वासो मया दत्तस्तत्र षण्ढत्वमावह ।स्वपत्न्यै दुःखदातारो व्रतखण्डनकारिणः ॥८४॥प्रसह्य भोगकर्तारस्तेषु षण्ढत्वमावह ।स्वपत्न्यै तृप्त्यदातारो व्यभिचारपरायणाः ।वृषणोच्छेदकर्तारस्तेषु षण्ढत्वमावह ॥८५॥नार्यर्थं घातकर्तारो मन्त्रेः रतिविनाशिनः ।गर्भस्तम्भनकर्तारः ऋतुस्तम्भनकारिणः ॥८६॥वन्ध्यामन्त्रप्रकर्तारो गर्भस्रावप्रकारिणः ।स्तनदुग्धविहन्तारो मूत्रस्तम्भप्रकारिणः ॥८७॥लिंगपातप्रकर्तारो भगबन्धनकारिणः ।पुरीषस्तंभकर्तारो दुर्भगत्वप्रकारिणः ॥८८॥क्लीबप्रयोगकर्तारो वीर्याऽनुद्भवकारिणः ।ये रतिद्वेषकर्तारस्तेषु षण्ढत्वमावह ॥८९॥कामधर्मप्रसक्तानां पशूनां कामनाशकाः ।घातकाः स्वार्थिदुष्टा ये गार्हस्थ्यनाशकारिणः ॥९०॥तेषां तथाविधानां च षण्ढत्वं समुपाचर ।बीजस्तेन! भवानास्ते ब्रह्मपुत्रो हि राक्षसः ॥९१॥आज्ञायां वर्तमानश्चेद् वर्तते तर्हि तेऽक्षयन् ।अन्यथा तव नाशः स्यान्मा विमार्गे प्रयाहि वै ॥९२॥अधार्मिकाणां पापानां क्षीणं धातुं प्रभक्षय ।इत्येवं ते मया लोके मानवे चातलादिषु ॥९३॥लोकेष्वपि प्रदत्तानि स्थानानि तेषु चाविश ।इत्येवं वै मया लक्ष्मि! मर्यादा रक्षसः कृता ॥९४॥तत आरभ्य वै लोका नरा नार्यश्च सर्वथा ।धर्मवन्तो व्रतिनश्च प्रोक्तदोषाद्यकारिणः ॥९५॥सर्वेऽत्यन्तं सुखिनश्च बभूबुर्गृहधर्मिणः ।अहं च मानवैश्चापि पूजितो यक्षराक्षसैः ॥९६॥न्यवसं बहुधा भूमौ पुरुषोत्तम एव ह ।अनादिश्रीबीजनारायणः श्रीपरमेश्वरः ॥९७॥स्वतन्त्राश्रीश्च वै लक्ष्मि! त्वं मया न्यवसः सह ।इत्येवं मानवे लोकेऽवतारा मे ह्यनन्तकाः ॥९८॥कार्यवशात्तदा जाताः सर्वे ममावतारिणः ।अक्षराधिपतेः श्रीमन्नारायणस्य शार्ङ्गिणः ॥९९॥श्रीमन्नारायणं मां ये पूजयिष्यन्ति भूतले ।तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥१००॥अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।उपासितोऽत्र यैलौकैस्तेषां दुःखलवोऽपि न ॥१०१॥विवाहितोऽपि यैर्लोके लक्ष्मीविवाहकर्मभिः ।ते यास्यन्ति चतुर्वर्गसिद्धिं चाऽऽनन्दपूरणीम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्दशे वत्सरे कोशस्तेनाऽभिधराक्षसकृतस्य नष्टबीजस्य स्वर्गस्य रक्षणार्थम् अनादिश्रीबीजनारायणस्य प्राकट्यं, ततो बीजस्तेनस्य निवासस्थानमर्यादाकरणं चेत्यादिनिरूपणनामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP