संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५२ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कुञ्जलस्तुर्यपुत्रकम् ।कपिञ्जलं च पप्रच्छ नूतनं किं विलोकितम् ॥१॥श्रुत्वा कपिञ्जलः प्राह कैलासे धवले गिरौ ।शिवस्याऽऽस्ते दिव्यमर्थ्यं मन्दिरं स्वर्गसन्निभम् ॥२॥सेवितं पुण्यलोकैश्च गणैर्गणीभिरुत्तमम् ।तत्राऽहं गतवानद्य गंगाप्रवाहसन्निधौ ॥३॥गंगाह्रदो महानस्ति तत्र हंसा वसन्त्यपि ।वारितीरे शिलायां हिं कन्यैका संविलोकिता ॥४॥आसीना मुक्तकेशा च रूपलावण्यशोभिता ।दिव्याऽलंकारशृंगाराऽम्बरशोभान्विता शुभा ॥५॥दुःखाकुला रोदिति साऽश्रूणि मुञ्चति धारया ।मुक्तामौक्तिकतुल्यानि पतितानि ह्रदोदके ॥६॥तेभ्यो भवन्ति पद्मानि हृद्यानि सुरभीणि च ।नेत्राश्रुजानि पद्मानि तरन्त्यसंख्यकानि वै ॥७॥तानि पद्मानि चादाय कश्चित्पुण्यमयो मुनिः ।दिग्वासा जटिलो दण्डी तापसो भस्मवान् कृशः ॥८॥पूजयति हरं रत्नेश्वरं नृत्यति गायति ।हसति सुस्वरं चापि दृष्टमेतन्मयाऽद्भुतम् ॥९॥पितः कः स भवेत्तत्र का सा नारी च वा भवेत् ।नारी प्ररोदिति कस्माद् वद मे सर्वमेव तत् ॥१०॥श्रुत्वा स कुञ्जलः पुत्रं कपिञ्जलमुवाच ह ।पुत्र शृणु महादेवी त्वेकदा प्राह शंकरम् ॥११॥दर्शयस्व ममैवाऽद्य काननं काननोत्तमम् ।महादेवस्तथाऽस्त्वाह ततः सज्जो बभूव ह ॥१२॥वृषभं चारुरोहाऽपि गणैर्देव्या युतो हरः ।नन्दनाख्यं प्रविवेश वनं दिव्यं मनोहरम् ॥१३॥दर्शयामास देव्यै तद्वनं स्मृद्धं समन्ततः ।कल्पवृक्षान् कल्पवल्लीर्दर्शयामास शंकरः ॥१४॥पार्वती चाकरोत्तत्र संकल्पं कन्यकाकृते ।कल्पवृक्षात् ततस्तूर्णं कन्यैका समजायत ॥१५॥स्वस्वरूपा स्वसमाना युवती कमलेक्षणा ।पद्मानना स्वर्णदेहा सप्रभा लम्बमूर्धजा ॥१६॥सुगन्धदेहा दिव्या च भूषाम्बरविभूषिता ।दिव्यशृङ्गारशोभाढ्या वनदेवी यथा शुभा ॥१७॥कन्या ननाम भक्त्या च पादयोः शिवयोस्तदा ।पार्वती तां तु पुत्रीं स्वां स्वीचकार हि मानसीम् ॥१८॥अशोकसुन्दरीनाम्नीं प्राह तां पार्वती ततः ।सोमवंशे नहुषाख्यो नृपस्ते वै पतिः सुते! ॥१९॥भविष्यतीति तस्यै सा वरं दत्त्वा हि पार्वती ।वने विसृज्य कैलासं शंभुना सह चाययौ ॥२०॥अशोकसुन्दरी रेमे नन्दने वनदेवता ।तामेकदा विप्रचितिदैत्यात्मजस्तु हुण्डकः ॥२१॥दृष्ट्वा कामेन चाविष्टः पत्नीं कर्तुं समादिशत् ।अशोकसुन्दरी प्राह शिवयोरस्मि कन्यका ॥२२॥नहुषो मे पतिर्भावी पार्वती मां जगाद ह ।मा वृथा त्वं प्रयतस्व विपरीतं भविष्यति ॥२३॥महाशापेन योक्ष्यामि गच्छाऽन्यत्र महासुर! ।श्रुत्वा हुण्डस्तिरोभूत्वा चिन्तयामास वै पुनः ॥२४॥कथं भार्या भवेत् सा मे कपटं रचयामि तत् ।विचार्येत्थं देवकन्यारूपं दधार हुण्डकः ॥२५॥वने तत्र तया सार्धं मित्रतां कृतवाँस्ततः ।आश्रमं मेऽत्र गंगायास्तीरेऽस्तीति जगाद ताम् ॥२६॥अशोकसुन्दरी हुण्डाश्रमं ययौ सुखान्विता ।हुण्डिकाकन्यया सार्धं न्यवसत्तत्र तापसी ॥२७॥भोजने शयने चापि विहारे सहगे हि ते ।वर्तेते ते सखीरूपे स्नाने निद्रास्थलादिषु ॥२८॥रात्रौ ते त्वेकशय्यायां सुप्ते तत्र तु हुण्डिका ।हुण्डकं नररूपं च विधायाऽशोकसुन्दरीम् ॥२९॥कामभावेन पस्पर्श तदा त्वशोकसुन्दरी ।अप्राप्तनिद्रा तं ज्ञात्वाऽसुरं कपटकन्यकाम् ॥३०॥उवाच मा स्पृशाऽत्र त्वं भस्म तूर्णं भविष्यसि ।त्रस्तो हुण्डस्तदा तूर्णं पपात पादयोः पुनः ॥३१॥अशोकसुन्दरी प्राह मम भर्ता नृपो हि सः ।आगत्याऽत्र वने दुष्ट! तव नाशं विधास्यति ॥३२॥इत्युक्त्वा प्रययौ तूर्णं गंगातीरे वनान्तरे ।तापसी वर्तते तत्राऽशोकसुन्दरी भामिनी ॥३३॥अथ राजा ऐलपुत्र आयुः पुत्रार्थमेव ह ।दत्तात्रेयात् प्रार्थयच्च सुपुत्रं सद्गुरोर्हरेः ॥३४॥दत्तात्रेयो वरदानं ददौ हि पुत्रवान् भव ।सर्वगुणैः समुपेतो वैष्णवांशेन संयुतः ॥३५॥पुत्रस्ते सार्वभौमश्च महेन्द्राभो भविष्यति ।इत्याशिषं समासाद्य त्वायुः स्वराज्यमाययौ ॥३६॥नागाभिधे पुरे राजा चेन्दुमत्या स्त्रिया समम् ।रेमे लेभे च नहुषं पुत्रं यथोक्तलक्षणम् ॥३७॥हुण्डश्छिद्रं समासाद्य पुत्रं जहार चाम्बरे ।निनाय स्वगृहे रात्रौ राक्षस्यै चार्पयत् सुतम् ॥३८॥मारयित्वा पाचयित्वा भोजनार्थं निवेदितम् ।राक्षसी विकलानाम्नी दयावती तु बालकम् ॥३९॥रात्रौ विशिष्टकुट्यां सा निक्षिप्य चागता द्रुतम् ।हरिणं पाचयित्वा च भोजयामास हुण्डकम् ॥४०॥हुण्डस्तु निर्भयो जातो बालो मया हि खादितः ।अथ वशिष्ठः प्रातश्च ददर्श बालकं शुभम् ॥४१॥वर्धयामास दिव्यं तं विष्णुलक्षणलक्षितम् ।ज्ञानं शस्त्राणि शास्त्राणि नीतिं कला वृषं तथा ॥४२॥अध्यापयामास बालं राज्ययोग्यं चकार ह ।इन्दुमत्यै प्रातरेव नारदः प्राह तद्दिने ॥४३॥मा शोकं कुरु पुत्रस्ते वशिष्ठस्याऽऽश्रमेऽस्ति वै ।हुण्डं दैत्यं नाशयित्वा विवाह्याऽशोकसुन्दरीम् ॥४४॥शिवपुत्रीपतिर्भूत्वा गृहं ते चाऽऽगमिष्यति ।इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा ॥४५॥इत्युक्त्वा पूजनं प्राप्य नारदोऽन्तर्दधे तदा ।अथ पुत्रं च नहुषं वशिष्ठः प्राह पुत्रक! ॥४६॥फलान्यानय वन्यानि धनुर्धारी प्रयाहि वै ।राजा त्वाज्ञां समादाय ययौ वन्यार्थमेव ह ॥४७॥हुण्डस्तत्राऽऽययौ दृष्ट्वा कुमारं देवतोपमम् ।अपहर्तुं नाशयितुं मनश्चक्रे हि दैत्यराट् ॥४८॥युयुधे च समागत्य नहुषेण समं बली ।नहुषाय सहस्राक्षो ददौ शस्त्राणि वै तदा ॥४९॥देवा दिव्यानि चास्त्राणि ददुस्तदा हि वै क्षणात् ।इन्द्रो रथं ददौ चापि मातलिसंयुतं शुभम् ॥५०॥विष्णुश्चक्रात् समुत्पाद्य चक्रं दीप्तं ददौ तदा ।शंभुः शूलं ददौ चापि ब्रह्मास्त्रं प्रददावजः ॥५१॥युयुधे नहुषः सोऽयं हुण्डेन मायिना तदा ।देवा देव्यश्च गन्धर्वा जगुर्जयं तु नाहुषम् ॥५२॥हुण्डो ज्ञात्वा निजं शत्रुं युयुधे चातिवेगतः ।तत्र सर्वे दानवाश्च युयुधिरे चकम्पिरे ॥५३॥सेहिरे दानवा नैव बाणवर्षं हि नाहुषम् ।मृताः केचिद् द्रुता केचिन्नष्टाः केचिन्महाहवे ॥५४॥रथस्थेन तु हुण्डेन ताडितो नहुषस्तदा ।त्रिभिर्ध्वजं प्रचिच्छेद हुण्डस्य सायकैर्बली ॥५५॥चतुर्भिस्तुरगाँश्चापि छत्रं त्वेकेन वै तथा ।दशभिः सारथिं पश्चादेकेन च भुजं पुनः ॥५६॥चिच्छेद नहुषस्तत्र शक्तिं मुमोच तद्धृदि ।हुण्डस्तु पतितो भूमौ ममार प्राणतस्तदा ॥५७॥देवाः प्रहर्षं जग्मुश्च पुष्पवृष्टिं जयं व्यधुः ।अशोकसुन्दरी श्रुत्वा दैत्यवधं प्रहर्षिता ॥५८॥नहुषं प्राप्य चोवाच धर्मपत्नी भवामि ते ।समुद्वहस्व मां वीर देवैर्हि निर्मिता तव ॥५९॥नहुषः प्राह भद्रं ते गुरोर्वाक्योत्तरं प्रिये ।भद्रे त्वामुद्वहिष्यामि रथे तिष्ठ मया सह ॥६०॥इति तां रथमारूढां नीत्वा गुर्वाश्रमं ययौ ।निवेदयामास सर्वं गुरवे नृपबालकः ॥६१।वशिष्ठो हर्षमापन्नस्तिथौ लग्ने शुभे तयोः ।विवाहं कारयामास वह्निभूसुरसन्निधौ ॥६२॥आशीर्भिरभिनन्द्यैनं प्रेषयामास तत्पुरम् ।नागाह्वयं पुरं गुरुर्नहुषोऽपि ययौ ततः ॥६३॥पितरं मातरं नत्वा जगाद सर्वचेष्टितम् ।आयुश्चेन्दुमती लब्ध्वा सभार्यपुत्रमुत्तमम् ॥६४॥महोत्सवं प्रचक्राते पुत्रस्याऽऽगमनं प्रति ।नहुषोऽपि धनुर्धृत्वा महेन्द्रस्य रथेन वै ॥६५॥जिगाय पृथिवीं सर्वां सप्तद्विपां सपत्तनाम् ।पितरं याजयामास राजसूयादिभिस्ततः ॥६६॥अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् ।अभ्यषिञ्चन्महात्मानं नहुषं वै नराधिपम् ॥६७॥अर्धेन्द्रपदभाग् जातो नहुषो वैष्णवांशवान् ।शिवपुत्रीपतिः श्रीमान् गुरोर्बलात् प्रतापवान् ॥६८॥वशिष्ठस्य प्रतापेन महेन्द्रो मानवोऽभवत् ।शिवागुर्वीप्रतापेन कन्या चाशोकसुन्दरी ॥६९॥अर्धेन्द्राण्यभवत् तत्र देवी या वनदेवता ।इन्दुमतीं निजश्वश्रूं सिषेवे किंकरी यथा ॥७०॥अथ गंगातटे या तु रोदिति तां शृणु स्त्रियम् ।हुण्डे मृते तु तत्पुत्रो विहुण्डस्तप आचरत् ॥७१॥देवान् हन्तुं कृतमतिस्त्रैलोक्यं हन्तुमुद्यतः ।पितुर्वैरं हरिष्यामि हनिष्यामि नरान् सुरान् ॥७२॥इति निश्चित्य गंगायास्तटे स नन्दने वने ।ययौ यदा तदा विष्णुर्नारीरूपो बभूव ह ॥७३॥मोहयितुं विहुण्डं तं नाशयितुं तु युक्तितः ।तां मायां वैष्णवीं दृष्ट्वा मुमोह तु विहुण्डकः ॥७४॥उवाच तां वरारोहे संगमं देहि मेऽनघे ।मायोवाच यदि मां त्वं भोक्तुमिच्छसि चेत्तदा ॥७५॥सप्तकोटिमितैः पुष्पैः प्रसंपूजय शंकरम् ।कामोदासंभवैर्दिव्यैः सुगन्धैर्देवदुर्लभैः ॥७६॥तत्पुष्पाणां कृतां मालां मम कण्ठे समर्पय ।तदाऽहं सुप्रिया भार्या भविष्यामि तवाऽनघ ॥७७॥इत्युक्तश्चाऽसुरश्चापि मार्गयामास तद्द्रुमम् ।अप्राप्य तां ययौ नारीं पप्रच्छ तद्द्रुमं पुनः ॥७८॥नारी प्राह द्रुमो वै न तादृशो विद्यते क्वचित् ।कामोदा विद्यते कन्या गंगाह्रदे प्रतिष्ठति ॥७९॥कामोदाख्या तु सा साध्वी यदा हसति वै तदा ।उत्पद्यन्ते हि पुष्पाणि तस्या हासाच्छुभानि वै ॥८०॥कामोदानि सुगन्धानि पीतानि शोभनानि वै ।तेनाऽप्येकेन पुष्पेण यः पूजयति शंकरम् ॥८१॥तस्येप्सितं महाकामं सम्पूरयति शंकरः ।तस्यास्तु रोदनाच्चापि लोहितानि सुमानि वै ॥८२॥प्रभवन्ति न वै तेषां स्पर्शं कुर्यात् कदाचन ।रोदनोत्थकुसुमानां स्पर्शेऽनिष्टं यतो भवेत् ॥८३॥गंगाह्रदे गच्छ तत्र प्रहासय च तां स्त्रियम् ।यद्वा तद्धास्यजातानि पुष्पाणि तु बहून्यपि ॥८४॥गंगाप्रवाहे चायान्ति पतितानि गृहाण च ।इत्युक्तो दानवो गंगाप्रवाहे समलोकयत् ॥८५॥प्रवाहितानि कामोदारोदनोत्थसुमानि वै ।जग्राह तानि सारल्यादपूजयच्च शंकरम् ॥८६॥अनिष्टं तत्प्रजातं वै तेन क्रुद्धो हि शंकरः ।हुंकारमकरोत् तेन दानवो वै मृतोऽभवत् ॥८७॥देवकार्यं कृतं त्वेवं विष्णुना प्रभविष्णुना ।विष्णुर्नारीस्वरूपः स तिरोभावं ययौ तदा ॥८८॥देवताः सुप्रसन्नाश्च जाता हुण्डस्य नाशनात् ।अथाऽब्धिमथने जाता चतस्रः कन्यकाः पुरा ॥८९॥अलक्ष्मीर्वारुणी कामोदा च लक्ष्मीश्चतुर्थिका ।उद्दालकाय चाऽलक्ष्मीर्दत्ता तदाऽब्धिना ततः ॥९०॥वरुणाय च वै देवी वारुणी त्वब्धिनाऽर्पिता ।कामोदा विष्णवे दत्ता तूलसी या भविष्यति ॥९१॥लक्ष्मीश्च विष्णवे दत्ता वैकुण्ठसहवासिनी ।कामोदा सा त्वब्धिपुत्री सुधोत्था नारदात् खलु ॥९२॥शुश्राव विष्णोर्मानुष्ये जन्म भावि पुनः पुनः ।कामोदा चाऽसहमाना विष्णोर्वियोगमेव सा ॥९३॥रुरोद वै मुहुर्गंगामूले गत्वा तदैकला ।रोदनात् खलु जातानि रक्तपुष्पाणि तानि वै ॥९४॥तत्पूजोत्थफलं दैत्यमरणं समजायत ।कामोदाया हास्यहेतुं शृणु तत्कथयामि वै ॥९५॥यदा सा तुलसीरूपा तदा विष्णोः प्रपूजने ।निजपत्राणि दत्त्वैव चोपयुक्ता भविष्यति ॥९६॥तया सह जगन्नाथो रमिष्यति सदैव हि ।स्मृत्वैवं हसति कन्या कामोदा वै क्वचित् क्वचित् ॥९७॥मञ्जरी हास्यजन्या च बोद्धव्या तुलसीभवे ।तुलस्याः पत्रमेकं वा मञ्जरीं विष्णवेऽर्पयेत् ॥९८॥ब्रह्मणे शंकरायाऽपि तदेष्टफलभाग् भवेत् ।इतीत्थं पुष्पपूजोत्थफलं बोध्यं शुभावहम् ॥९९॥कपिञ्जल तथा नारी कामोदा रोदनान्विता ।हास्यान्विता च पुष्पाणामुत्पादिका प्रदर्शिता ॥१००॥विहुण्डः पुण्यहर्ताऽपि तुभ्यं मया प्रदर्शितः ।एवं विष्णुरूपगुरोस्तीर्थयोगेन तूलसी ॥१०१॥सदा पूज्या च कामोदा तत्पुण्यं पूज्यतेऽपि च ।पुष्पैश्च पूज्यते देवमण्डलं सर्वदा सुत ॥१०२॥गुरुतीर्थं महत्प्रोक्तं भुक्तिमुक्तिप्रदं सदा ।विहुण्डो नाशमापन्नो ययौ कैलासमेव सः ॥१०३॥शंभुतीर्थस्य योगेन हुण्डोपि नृपयोगतः ।स्वर्गं गतो हि तस्माद्वै गुरुतीर्थं विशिष्यते ॥१०४॥कुञ्जलः कथयित्वैवं विरराम निजान् सुतान् ।च्यवनस्तु तदा लक्ष्मि श्रुत्वा पप्रच्छ पक्षिणम् ॥१०५॥को भवान् वर्तते चात्र दिव्यज्ञानी विहंगम! ।पक्षी प्राह पुरा चाऽहं कश्यपस्य कुलस्य वै ॥१०६॥विद्याधरस्य वै पुत्रो धर्मशर्मा हि नामतः ।मूर्खोऽहमभवं पूर्णः कदाचिन्मद्गृहं प्रति ॥१०७॥सिद्धायनो महर्षिश्च साधुस्तत्र समागतः ।मया प्रसेवितः सोऽपि ज्ञानं मह्यं ददौ शुभम् ॥१०८॥आशीर्वादं प्रददौ मे सिद्धायनः स वै ऋषिः ।निःसंगो निःस्पृहो भूत्वा चैकान्तस्थानसंश्रयः ॥१०९॥सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि ।एकस्थानस्थितश्चापि वेत्स्यसि त्वं त्रिलोकजम् ॥११०॥एवं गुरोः प्रसादेन वेद्मि सर्वं त्रिलोकजम् ।भवन्तं च्यवनं वेद्मि सद्गुरुं मोक्षदं परम् ॥१११॥कीरभावे कारणं च मम वच्मि निशामय ।संसर्गाज्जायते पापं संसर्गात् पुण्यमित्यपि ॥११२॥मया क्रीतः शुकशिशुस्तस्य मुग्धोऽभवं सदा ।मामेवं वदति सोऽपि तात मामेहि चाऽऽस्यताम् ॥११३॥स्नानं गच्छ महाभाग देवानर्चय चेत्यपि ।तस्य वाक्यविनोदेन विस्मृतं धर्मकर्म मे ॥११४॥अथ वाटीं गतश्चाऽहं शाकाद्यर्थं तदा गृहे ।बिडालेन हतः पक्षी मयाऽऽगत्य विलोकितः ॥११५॥अतिदुःखेन तत्पश्चान्मृतोऽहं शुकभावनः ।मरणे शुकभावोऽहं शुकजन्मगतोऽभवम् ॥११६॥जातिस्मरो भवाम्यत्र सिद्धायनप्रतापतः ।नास्ति तीर्थं गुरुसमं ज्ञाने मोक्षे हि सर्वथा ॥११७॥स्थलजादुदकाद् बाह्यं मलं नश्यति नाऽन्तरम् ।गुरुतीर्थात् पूर्वजन्मकृतं मलं विनश्यति ॥११८॥संसारे तारणायैव जंगमं तीर्थमुत्तममम् ।अथाऽहं तर्तुमिच्छामि गुरो च्यवन तारय ॥११९॥इत्युक्त्वा पक्षिराट् पुत्रसहितो भार्यया युतः ।पादयोरागतश्चापि च्यवनस्य महात्मनः ॥१२०॥च्यवनो भगवन्नाममन्त्रं ददौ शुकाय वै ।जलं च पाययामास कृष्णनाम्नाऽभिमन्त्रितम् ॥१२१॥पक्षिणस्ते गुरुं नत्वा स्मृत्वा नारायणं च माम् ।देहाँस्त्यक्त्वा पार्षदा मे भूत्वा वैकुण्ठमाययुः ॥१२२॥दिव्यं तं सद्गुरुं तीर्थं लब्ध्वा मोक्षं ययुर्यतः ।सर्वतीर्थोत्तमं तीर्थं गुरुतीर्थं भवत्यपि ॥१२३॥नरो नारी मोक्षदात्री गुर्वी तीर्थस्वरूपिणी ।वधूर्वा चाऽधवा चापि भक्ता वै मोक्षदायिनी ॥१२४॥तां समाश्रित्य मुक्तिं वै प्रापणीया हि शाश्वती ।साध्वी देवी सेवनीया वधूभिः पापनाशिनी ॥१२५॥ब्राह्मी ब्रह्मप्रिया चापि हरिप्रिया पतिव्रता ।साधुः सत्पुरुषश्चापि सद्गुरुश्च हरिप्रियः ॥१२६॥भुक्तिमुक्तिप्रदश्चापि सेवनीयः सदा जनैः ।पठनाच्छ्रवणाल्लक्ष्मि चास्य मोक्षो भवेद् ध्रुवः ॥१२७॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे नहुषकथानकं कुञ्जलशुककथानकं कामोदाकथानकं च्यवनकथानकं चेत्यादिनिरूपणनामा द्वापञ्चाशत्तमोऽध्यायः ॥५२॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP