संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १५९ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १५९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५९ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-तृप्ताऽहं भवतो वाक्यामृतैः शाश्वतमोदिनी ।विहर्तुं वै विमानेन यास्यामो यदि रोचसे ॥१॥श्रीपुरुषोत्तम उवाच-सर्वब्रह्मप्रियाश्चापि हरिप्रियास्तथाऽपराः ।सज्जा भवन्तु वै सर्वा यास्यामो हिमवद्गिरिम् ॥२॥इत्युक्तास्ताः समस्ता वै सज्जास्तूर्णं श्रिया सह ।अभवन् कृतशृंगारा आरुरुहुर्विमानकम् ॥३॥अत्युत्साहयुता नार्यो कान्तेन हरिणा सह ।आक्षरेण विमानेन ययुर्देशान् विलोकितुम् ॥४॥चतुष्टिलाद्रिं संवीक्ष्यानर्तदेशान् विलोक्य च ।चमत्कारपुरं नारायणीश्रीगिरिमीक्ष्य च ॥५॥सुवर्णद्वीपमीक्ष्याऽपि समुद्रं प्रविलंघ्य च ।नारायणसरो वीक्ष्य कच्छमुल्लंघ्य सिन्धुकीम् ॥६॥नदीं स्नात्वा पावयित्वा वीक्ष्य शिलवत्पर्वतम् ।इन्दुकुशं प्रवीक्ष्यामि कारुकारं प्रवीक्ष्य च ॥७॥श्रीनगरं कश्यपारं वीक्ष्य हिमाद्रिमाययुः ।सप्तसिन्धुपर्वताँश्च वीक्ष्य नन्दासतीं ययुः ॥८॥तया सम्पूजितः कृष्णः कृष्णा ब्रह्मप्रियादिकाः ।प्राप्य पूजां तया दत्तां तामाश्लिष्य हृदम्बुजैः ॥९॥नन्दां देवीं पावयित्वा समैक्षन्त वनानि ताः ।गंगां सुशोभितां चापि समैक्षन्त सुलम्बिताम् ॥१०॥गन्धर्वाद्यैः समाकीर्णां नित्यं देवादिसेविताम् ।सुरेभमदसंसिक्तां समन्ताद्धस्तिराजिताम् ॥११॥तपस्विशरणोपेतां देवब्राह्मणसेविताम् ।सितहंसावलिच्छन्नां काशचामरराजिताम् ॥११॥पुण्यां सुशीतलां हृद्यां मनसां प्रीतिवर्धिनीम् ।क्षयवृद्धियुतां रम्यां द्विजसंघनिषेविताम् ॥१३॥अमृतस्वादुसलिलां तापसैरुपशोभिताम् ।स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ॥१४॥सुशीतशीघ्रपानीयां महर्षिगणसेविताम् ।सर्वलोकस्य चौत्सुक्यकारिणीं चित्तहारिणीम् ॥१५॥पुण्यदां सर्वलोकानां नाकमार्गप्रदायिनीम् ।मेनासारससंघुष्टां जलजैरुपशोभिताम् ॥१६९॥आवर्तनाभिगंभीरां द्वीपोरुजघनस्थलीम् ।नीलनीरजनेत्राढ्यां प्रोत्फुल्लकमलाननाम् ॥१७॥हिमाभफेनवसनां चक्रवाकाधरान्विताम् ।बलाकापंक्तिदर्शनां चलन्मत्स्यावलिभ्रुवम् ॥१८॥जलमांतगकन्ध्रस्थरम्यकुंभपयोधराम् ।हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥१९॥स्वतीरद्रुमवल्लीजरजोयोगसुगन्धिनीम् ।तरंगव्रातसंक्रान्तसूर्यमण्डलदुर्दृशम् ॥२०॥सुरेभजनिताघातविकूलद्वयमत्तिनीम् ।शक्रेभगण्डसलिलैर्देवस्त्रीकुचचन्दनैः ॥२१॥सुगन्धिसलिलां लोभात् षट्पदैरतिसेविताम् ।तपोधनानां देवानामप्सरसां नृयोषिताम् ॥२२॥सुखशान्तिप्रदां पापहारिणीं घोषकारिणीम् ।मुक्तैश्चर्षिगणैर्देवैः पितृभिर्मानवैः श्रिताम् ॥२३॥यक्षराक्षसगन्धर्वैर्गणैः सिद्धैश्च चारणैः ।दैवतैर्देववृक्षैश्च सेवितां समलोकयत् ॥२४॥सस्नुस्तस्यामवतीर्य ब्रह्मप्रिया हरिप्रियाः ।अनादिश्रीकृष्णनारायणः कोटिस्वरूपवान् ॥२५॥ताभिः सह जले सस्नौ तासां मनांस्यपूरयन् ।आधाय तासां सौगन्ध्यं शृंगारस्य द्रवाँस्तथा ॥२६॥कृतकृत्याऽभवद् गंगा प्राक्सखीजनसंगता ।श्रीहरेश्चापि योगेन शाश्वतीं तृप्तिमाप सा ॥२७॥अथ वेषान् प्रधार्यैताः कृत्वा शृंगारमुत्तमम् ।विमानं त्वधिरुह्यैव ददृशिरे हिमालयम् ॥२८॥समुल्लिखद्भिर्बहुभिर्वृतं शृंगैस्तु पाण्डुरैः ।पाण्डुरजटिभिश्चापि तापसैश्चाप्यधिश्रितम् ॥२९॥पारेसहस्रनिर्झरसरिद्भिः पट्टपाण्डुरम् ।पारेसहस्रहिमवच्छीखरैः स्वर्गपाण्डुरम् ॥३०॥देवदारुवनैर्नीलैः कृताऽधोवसनं तथा ।श्वेतमेघकृतोष्णीषं नीलमेघोत्तरीयकम् ॥३१॥क्वचिच्चन्द्रार्कमुकुटं क्वचिद्धातुसमन्वितम् ।हिमानुलिप्तमध्यांगं पार्श्वयोश्चन्दनान्वितम् ॥३२॥सालक्तकैरप्सरसा मुद्रितं चरणैः क्वचित् ।क्वचिद्दिवाकरस्पृष्टं क्वचिच्छायातमःश्रितम् ॥३३॥दरीमुखैः क्वचिद्वारि प्रस्रवन्तं हि पावनम् ।क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम् ॥३४॥किन्नराणां गणैर्गीतं क्वचित् किंपुरुषैरपि ।तपस्विशरणं सिद्धैर्विहृतं दिव्यमानवैः ॥३५॥निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः ।कुसुमैश्च क्वचिद् व्याप्तं महोद्यानमिव स्थितम् ॥३६॥मृगैः क्वचित्तु चरितं दन्तिभिन्नमहाद्रुमम् ।सिंहशार्दूलनादैश्च नादितं गह्वरायुतम् ॥३७॥हिमच्छत्रमहाशृंगं प्रपातशतनिर्झरम् ।वंशस्तम्बवनाकारैः प्रदेशैरुपशोभितम् ॥३८॥वृद्धर्षिप्रतिमं वृद्धसहस्रशीर्षसदृशम् ।हिमसंरुद्धमार्गं च राजतानुकृतिस्थितम् ॥३९॥विलोक्य पर्वतं सर्वा मुदं परां हि लेभिरे ।अरण्यानि विचित्राणि ददृशिरेऽतितद्रसाः ॥४०॥शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः ।न्यग्रोधैश्च महाश्वत्थैः शिरीषैः शिंशपाद्रुमैः ॥४१॥महानिम्बैश्च युक्तानि निर्गुण्डीभिर्हरिद्रुमैः ।कालेयकैर्देवदारुद्रुमैर्निम्बैश्च पद्मकैः ॥४२॥कपित्थैश्चन्दनैर्बिल्वैः रक्तचन्दनपादपैः ।वाताम्रै रिष्टकैश्चाक्षोटकैरर्जुनपादपैः ॥४३॥अब्जकैर्हस्तिकर्णैः सुमनसैः पनसैस्तथा ।प्राचीनामलकैः कोविदारैश्च धनकैस्तथा ॥४४॥समराटैः खर्जूरकैर्नारिकेलैश्च खारिकैः ।प्रियालुभिश्चेङ्गुदैश्च तन्तुमालैर्धवैस्तथा ॥४५॥काश्मीरीपर्णिभिश्चाम्रातकैश्चूतैश्च सर्जकैः ।जातीफलैः पूगफलैः पिप्पलीप्लक्षखादिरैः ॥४६॥कट्फलैश्च लवंगाद्यैरेलाभिः कुसुमांऽशुकैः ।किंशुकैः खदिरैर्मन्दारकैश्च कोविदारकैः ॥४७॥यवासैः शमीभिश्चापि वेतसैरम्बुवेतसैः ।रक्तातिरंगनारंगैः करवीरैश्च चिञ्चुभिः ॥४८॥हिंगुभिर्जम्बीरकैश्च लिचिकाभिः प्रियङ्गुभिः ।जाम्बूभिः रावणैश्चापि कटगुंदैः खलीलकैः ॥४९॥रक्ताशोकैरशोकैश्च कल्लैः श्रीपादपैस्तथा ।आमलकैः शोभितानि चोदुम्बरैश्च चम्पकैः ॥५०॥श्वेतचम्पैः राजचम्पैर्मुचकुन्दैश्च कुन्दकैः ।परूषकैः कदम्बैश्च पारिजातैर्गलाटकैः ॥५१॥किरातैः केतकैश्चापि सौभाञ्जनैर्निकोटकैः ।वल्लकपादपैर्बद्रीद्रुमैरक्षोटकैस्तथा ॥५२॥कञ्जरीभिः सर्जकैश्च सालैस्तालैस्तमालकैः ।सहकारैश्चारडूसैर्बर्बुरैः रामफालकैः ॥५३॥सीताफलैर्यामफलैश्चामृतै रायणादिभिः ।तुम्बुरुपादपैश्चापि थूरकैर्हस्तधूरकैः ॥५४॥चेरिटैश्चार्जुनैश्चापि तिलकै रक्तकेसरैः ।मधुकैस्तुलसीभिश्च वृन्दाभिस्तिग्मगन्धकैः ॥५५॥बकुलैश्च कर्मदैश्च पुन्नागैः केतकैस्तथा ।यूथिकाभिर्जातिफलैर्लोचैस्तिलैः कुशेशयैः ॥५६॥पारिभद्रैर्हरिद्रैश्च कदम्बकुटजादिभिः ।मुस्तकैः कुंकुमैः कंभैर्नीपैः पालीवनैस्तथा ॥५७॥रक्तपुष्पैः सूर्यमुखैः सारघवैः फलीद्रुमैः ।दाडिमैर्बन्धूककैश्च कुंजलैर्मल्लिकादिभिः ॥५८॥कुरबकैर्बीजपूरैः कर्पूरैश्चागुरुद्रुमैः ।गुग्गुलैश्चेक्षुभिश्चापि हिन्तालैश्चक्रमर्दनैः ॥५९॥पीलुभिर्धातकीभिश्च चिरबिल्वैश्च लोध्रकैः ।क्षीरिकाभिरश्मकैश्च नवरंगैस्त्रिखट्वकैः ॥६०॥भल्लातकैरिन्द्रयवैर्गुञ्जाभिः करमर्दकैः ।अविष्टकैश्च सद्राक्षैर्द्राक्षाभिः पुत्रजीवकैः ॥६१॥कंकोलैश्च लवंगैश्च प्रतानैर्नागवल्लिभिः ।मरीचैर्मल्लिकाभिश्च मुक्तकैस्त्रपुसैस्तथा ॥६२॥कुष्माण्डकैश्चिर्भटैश्च पटोलैः कारवेल्लकैः ।कर्कोटकैश्च वार्ताकैर्मूलकैः स्वादुकण्टकैः ॥६३॥शृंगाटकैश्च कल्हारैः सर्षपैः शोभितानि च ।सोमवल्लीसंधिनीवल्लिकासञ्जीवनीतृणैः ।काकालीभिः कासमर्द्दिभिश्च शकन्दलैस्तथा ॥६४॥शिम्बिवनैः सस्यवनैर्वेणुभिः कीचकैस्तथा ।शरगुल्मैश्च कार्पासैः स्वर्णद्रुमैश्च भूतृणैः ॥६५॥शृंगवेराजमोदाभिः कुबेरकैः प्रियालकैः ।कुमुदैश्चोत्पलैश्चापि स्थलपद्मैः कसेरुकैः ॥६६॥मृणालैश्च गोधूमकै राजिकाभिर्नीवारकैः ।शोभितानि ह्यरण्यानि समैक्षन्त हरेः प्रियाः ॥६७॥ददृशिरे तथा तत्र नानारूपान् पतत्रिणः ।मयूरान् शतपत्राँश्च कलविंकाँश्च कोकिलान् ॥६८॥कादम्बकाँश्च हंसाँश्च कोयष्टीन् खञ्जरीटकान् ।कुररान् कालकूटाँश्च खट्वांगान् लुब्धकाँस्तथा ॥६९॥गोक्ष्वेडकाँस्तथा कुंभान् धार्तराष्ट्रान् शुकान् बकान् ।धातुकाँश्चक्रवाकाँश्च कटुकान् टिट्टिभान् भटान् ॥७०॥पारावताँश्च कमलान् सारिका हल्लराँस्तथा ।लावान् प्रभद्रकाँश्चापि गरुडान् ताम्रचूडकान् ॥७१॥कुक्कुटान् कृष्णचटकान् तित्तिरान् कलहंसकान् ।काष्ठकुट्टान् कलविंकान् कपिञ्जलाँश्च डिण्डमान् ॥७२॥भूलिंगान् सीरपादाँश्च भृंगराजान् व्यलोकयन् ।दात्यूहान् चटकान् कारण्डवान् चषाँश्च चातकान् ॥७३॥शुकान्मयूरकान् भारद्वाजान् हंसान् व्यलोकयन् ।अनेकजातिजाताँश्च पक्षिसंघान् व्यलोकयन् ॥७४॥श्वापदान् विविधाकारान् मृगाँश्चापि व्यलोकयन् ।व्याघ्रान् केसरिणः सिंहान् द्वीपिनः शरभान् वृकान् ॥७५॥ऋक्षाँस्तरक्षूँश्च कपीन् गोलाङ्गुलान् प्रगेण्डकान् ।वानरान् शशकान् मार्जारकान् वृकाँश्च भल्लुकान् ॥७६॥मातंगान् महिषाँश्चापि गवयान् चमरान् वृषान् ।गौरखराँश्च सृमरान् मेषान् सारंगकानपि ॥७७॥कुकुरान्नीलकाँश्चापि करालान् शम्बराँस्तथा ।रामशरभान् तोरणान् कालपुच्छान् वराहकान् ॥७८॥तुरगान् गर्दभाँश्चापि रेण्डीयराँश्च चित्रकान् ।व्यलोकयन् स्त्रियः सरोवरान्नदीः सितोदकान् ॥७९॥प्रणालिकानि चोष्णानि शीतलानि च भागशः ।कन्दराणि च शैलस्य व्यलोकयन् हरिप्रियाः ॥८०॥अथाऽग्रे संव्यपश्यँश्च ऋषेरत्रेः शुभाश्रमम् ।नैसर्गिकप्रभायुक्तं हिंसादोषादिवर्जितम् ॥८१॥हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् ।अत्रिणा पूजितः कृष्णः कृष्णाश्च पुरतो ययुः ॥८२॥तत्सन्निधौ रमणीयं शिखरं पाण्डुरं महत् ।हिमपातं घना यत्र कुर्वन्ति सहिताः खलु ॥८३॥अथाग्रे शिखरं त्वन्यद् वर्तते चोच्छ्रितं परम् ।नित्यमेवाभिवर्षन्ति तोयं हिमं घना मुहुः ॥८४॥द्वयोः शिखरयोर्मध्ये शृंगमत्यन्तमुच्छ्रितम् ।तस्य कट्यां वृक्षगणा वर्तन्ते पश्चिमे शुभाः ॥८५॥तमोव्याप्ता निबिडाश्च फलपुष्पादिऋद्धयः ।न तत्र सूर्यस्तपति राजते नहि चन्द्रमाः ॥८६॥तथापि दिवसाभो वै प्रकाशस्तत्र विद्यते ।बदर्यस्तत्र विद्यन्ते महर्षयो वसन्ति च ॥८७॥विमानं त्वम्बरात्तत्र कोटिसूर्यसमप्रभम् ।अवातरद् विशालायां प्रद्योतत् सर्वतोदिशः ॥८८॥नरो नारायणश्चापि भक्तिधर्मौ महर्षयः ।तूर्णमाश्चर्यमापन्ना विमानं प्रति चाययुः ॥८९॥दृष्ट्वा नारायणकृष्णश्रीपतिंवल्लभम् प्रभुम् ।अनादिश्रीकृष्णनारायणब्रह्मपरप्रभुम् ॥९०॥पुपूजुः सहसा सर्वे जलचन्दनसत्फलैः ।नरनारायणौ चापि पूजितौ च परात्मनां ॥९१॥नारायणीभिः सर्वाभिः पूजितो भ्रातरावुभौ ।महर्षयः पूजिताश्च वन्दिताश्च क्षमापिताः ॥९२॥ततो दानानि दत्त्वैव सेवित्वा हृदयोद्भवैः ।भावैस्तान् साधुवर्यांश्च नत्वा भक्तिं वृषं हरिम् ॥९३॥विमानमधिरुह्याऽथ तदग्रे प्रययुस्ततः ।हिमाचलः स्वयं राजेश्वरो भूत्वा समेनकः ॥९४॥पूजार्थमाययौ कृष्णविमानं प्रति सोत्सुकः ।नत्वा पूजां विधायाऽपि प्रार्थयद् भवनं प्रति ॥९५॥समागन्तुं हरिं सोऽपि तदिच्छयाऽऽलयं ययौ ।समन्तात्पर्वतानां वै प्राकाराः श्वेतहीमजाः ॥९६॥मध्ये द्रोणी विशाला च सरोवरादिशोभिताः ।उद्यानादियुता तत्र प्रासादो नगरान्वितः ॥९७॥हिमालयस्य सुभगो विद्यते सुमनोहरः ।अवातरद् विमानं वै तत्र प्राकारभूस्थले ॥९८॥हिमालयगृहेऽनादिकृष्णनारायणस्य वै ।मेना हिमालयश्चापि स्वागतं पूजनं तथा ॥९९॥हरेर्हरिप्रियादीनां चक्रतुर्वै यथोचितम् ।आनन्दं पर्वतो लेभे नारायणस्य दर्शनात् ॥१००॥न्यवासयन्महासौधे परमेशं प्रियायुतम् ।अमृतानि सुभोज्यानि कारयामास सत्वरम् ॥१०१॥भोजयामास शीघ्रं चारार्त्रिकं च व्यधात् ततः ।श्रीहरिश्च विशश्राम प्रियाभिः सेवितो मुदा ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ब्रह्मप्रियादिभिः सहितो विमानेन श्रीकृष्णनारायणो पृथिवीं पश्यन् हिमालयगृहं ययावित्यादिनिरूपणनामा नवपञ्चाशदधिकशततमोऽध्यायः ॥१५९॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP