द्वापरयुगसन्तानः - अध्यायः ९१
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच
घातकिनां सतां योगो यदि नैवोपजायते ।
कथमुद्धरणं तेषां भवेत् कथय चोत्तमम् ॥१॥
श्रीपुरुषोत्तम उवाच
साधवः सर्वतः श्रेष्ठा मिलेयुर्न तदा भुवि ॥
श्रेष्ठतीर्थेषु गन्तव्यमध्वराऽवभृथे च वा ॥२॥
कुंभसूर्ये प्रगन्तव्यं तीर्थे स्नात्वा प्रमुच्यते ।
कुंकुमवापिकातीर्थे गोमतीतीर्थमित्यपि ॥३॥
स्वर्णरेखा महत्तीर्थं नारायणहृदः स्वयम् ॥
हिरण्यासंगमस्तीर्थं सोमनाथे महत्तमम् ॥४॥
नर्मदासागरयोगश्चोंकारेश्वर इत्यपि ॥
श्रीशैलश्चापि सह्याद्रिः पंपासरस्तथोत्तमम् ॥५॥
दक्षिणोदधिभूतीरः सेतुः कन्याकुमारिका ॥
गोदावरी चन्द्रभागा कावेरी सरयूस्तथा ॥६॥
गंगा च यमुना ब्रह्मपुत्रा सिन्धुः सरस्वती ॥
चन्द्रवीना शालवीना मानपींगा तथा सरित् ॥७॥
मेनकांगी च शिक्षांगी ह्यंगशिक्षांगिका तथा ।
होयांगहा चामुरा च वीना यानाक्षिका तथा ॥८॥
बालकृष्णसरश्चापि द्विकलाख्यसरस्तथा ।
ओवी च तेरिमा द्वीना वोल्गा च नीपरा तथा ॥९॥
नारायणी सर्वदीर्घा विषतुर्यसरोवरम् ।
कङ्गूनदी नायजीरा चित्तं तुंगानिकं सरः ॥१०॥
आमजाना सरिच्चापि मिशूरी मीनकंझुकी ।
सुलीवनसरो विनिपेगं सुपारयं सरः ॥११॥
एरसरः कारुलिंगी तथाऽन्याः सरितः शुभाः ।
यत्र यत्राऽहं मुनिभिः सह स्नातः सरित्सु वै ॥१२॥
सरोवरेषु खातेषु समुद्रेषु क्षितौ रमे ! ।
तत्र तत्रैव तीर्थस्य विधिना स्नानतस्तथा ॥१३॥
घातपापनि नश्यन्ति पुनश्चेन्नाऽऽचरेद् यदि ।
मत्प्रतिमाऽमृतवार्भिः स्नातः शुद्ध्यति तत्क्षणात् ॥१४॥
मत्प्रसादाऽशनेनाऽपि मम सेवादिभिस्तथा ॥
देवालयादिनिर्मित्या सद्यः शुद्ध्यति घातकः ॥१५॥
मन्दिरादेर्विनिर्माता मन्मूर्तिस्थापकस्तथा ॥
साध्वर्थे प्राणदाता च धर्मार्थे प्राणदायकः ॥१६॥
शुद्ध्यत्येव महापापाद् घातकाख्यात् समूलतः ॥
पुष्करं मानसं चापि हिमालयो गिरीश्वरः ॥१७॥
बद्रिकाश्रमतीर्थं च पावनानि समस्ततः ।
मातृतीर्थं पितृतीर्थं निषेवेत ह्यतन्द्रितः ॥१८॥
गुरुतीर्थं सतीतीर्थं निषेवेत प्रयत्नतः ॥
कान्ततीर्थं ज्ञानतीर्थं चात्मतीर्थं ततः परम् ॥१९॥
भक्तितीर्थं परं तस्मादहं सर्वोत्तमोत्तमः ॥
मां निषेवेत सततं मुच्यते सर्वपातकैः ॥२०॥
यस्य घातः कृतस्तस्मै स्वर्णदानं समर्पयेत् ॥
हस्तिदानं राज्यदानं ग्रामदानं समाचरेत् ॥२१॥
वंशस्य जीविकादानं कन्यादानं तथाऽऽचरेत् ।
गोदानं पृथिवीदानं दद्याद् घातविनाशकम् ॥२२॥
दद्याद् यद्वा स्वयं स्वं च भृत्यं यथाऽनुगं यथा ।
दासं यथा यथा शिष्यं यथा क्रय्यं तथाऽऽर्पयेत् ॥२३॥
तेनाऽऽपि घातपापस्य नाशो भवति पद्मजे ।
यथा तोषो भवेत् तच्च दद्यात् सर्वं विशेषतः ॥२४॥
गृहं भूषाऽम्बरसम्पत्पशून् दद्यात् समस्ततः ॥
घातपापस्य नाशो वै तेन संजायतेऽपि च ॥२५॥
प्रभासं नैमिषारण्यं गन्धमादनपर्वतम् ।
नीलाद्रिं चापि कैलासं क्षेत्रं च पौरुषोत्तमम् ॥२६॥
शुक्लतीर्थं भृगुतुङ्गं धर्मारण्यं च दण्डकम् ।
व्याघ्रारण्यं विपाशां च करतोयां च गण्डकीम् ॥२७॥
कर्मनाशां देवदारुवनं कालंजरं तथा ।
ब्रह्मसरो रामहृदं चित्रकूट च विन्ध्यकम् ॥२८॥
एवमादीनि तीर्थानि कृत्वा पापं विनश्यति ।
विख्यातो हिमवान् पुण्यः सिद्धनारायणाश्रितः ॥२९॥
तत्र प्राणी यदि यान्ति प्रपूज्य देवतामुनीन् ।
शुद्धः सिद्धो दिवं यायाद् ब्रह्मलोकं सनातनम् ॥३०॥
कामं क्रोध लोभमोहौ मदं जित्वाऽऽर्च्य मातरम् ॥
पितरं च गुरुं नत्वा गणेशं तीर्थमाविशेत् ॥३१॥
तस्य पातकनाशश्च तीर्थाभिगमनाद् भवेत् ।
अगम्यानि तु तीर्थानि स्मृत्वा पापमपानुदेत् ॥३२॥
ब्रह्म मेध्यं ब्रह्म पुण्यं ब्रह्म स्वर्ग्यमनुत्तमम् ॥
साधवो ब्रह्म चेत्युक्ताः पावनं ब्रह्म सर्वदा ॥३३॥
तदाश्रयं प्रकुर्याद्वै पावनाः साधवः सदा ॥
देवास्तु साधवो यज्ञमयजन्त हरिं हि माम् ॥३४॥
यज्ञेन कर्मणा नित्यभजनेन च सेवया ॥
सेवात्मकानि धर्माणि प्रथमान्युत्तमानि च ॥३५॥
आसँस्तैर्धर्मकार्यैश्च माहात्म्यं प्रसचन्त है ॥
नाकं नित्यानन्दयुक्तं धाम चापुर्हि साधवः ॥३६॥
यत्र साध्या नित्यमुक्ता देवा वसन्ति सेवकाः ॥
अनादिनश्च वै पूर्वे पूर्वतमा वसन्त्यपि ॥३७॥
तेषामाश्रयकरणान्मुक्तिरेव न संशयः ॥
इदं रहस्यं मे लक्ष्मि श्रीपतेः परमात्मनः ॥३८॥
ब्रह्मविद्या भजनं च मत्कथा ध्यानमुत्सवः ॥
मन्मन्त्रदानमित्येभिस्तारयन्ति निजाश्रितान् ॥३९॥
शरणागतरक्षा च मोक्षश्च पापनाशनम् ।
भक्तिलाभो ब्रह्मशीलं भवन्ति साधुसंगमात् ॥४०॥
इदं लक्ष्मि ! मतं कश्चिन्मम श्रीपरमात्मनः ॥
शृणुयात् स लभेद्धाम भजित्वा मां सतश्च मे ॥४१॥
सन्तश्चाऽहं निवसामि विश्वपट्टसरोऽभितः ॥
अनादिश्रीकृष्णनारायणः श्रीकृष्णनामधृक् ॥४२॥
यत्रेमे लोमशाद्याश्च ऋषयः साधवोऽपरे ॥
स्वतःप्रकाशाः ऋषयो वसन्ति चाक्षरे तले ॥४३॥
स देशः पावनो लक्ष्मि ! जलं पापप्रणाशनम् ॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन सेवया ॥४४॥
गतिं तां न लभेदश्वपट्टं संसेव्य यां लभेत् ॥
स्पृष्टान्यश्वपट्टसरोजलैर्गात्राणि देहिनाम् ॥४५॥
येषां तेषां भवेन्मुक्तिराक्षरी मे कृपालवात् ।
सर्वाण्यश्वपट्टसरोजलैः कार्याणि देहिनाम् ॥४६॥
कर्माणि ते भुवं त्यक्त्वा यास्यन्ति परमं पदम् ।
घातपापानि सर्वाणि नश्यन्त्यश्वसरोवरे ॥४७॥
यावदस्थि मनुष्यस्य सरोवरेऽत्र तिष्ठति ॥
तावद्वर्षसहस्राणि स्वर्गं भुक्त्वा प्रमुच्यते ॥४८॥
चान्द्रायणसहस्राणि चाश्वपट्टजलेन वै ॥
तुल्यानि नैव जायन्ते श्रेष्ठं चाश्वसरोजलम् ॥४९॥
कुंकुमवापिकातीर्थं चाश्वपट्टसरोवरम् ॥
लोमशस्याऽऽश्रमश्चैते सच्चिदानन्दरूपिणः ॥५०॥
अग्नौ निक्षिप्ततृणवत् पापान्यत्र सरोवरे ॥
स्नातस्यैव विनश्यन्ति मोक्षभाक् स भवेदिह ॥५१॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ॥
गतिमन्वेष्यमाणानां चाऽश्वसरोऽधिका गतिः ॥५२॥
अनाचाराश्च ये केचिदधर्मशरणाश्च ये ॥
तेषां मुक्तिप्रदं चाश्वसरोवरं मयाऽऽश्रितम् ॥५३॥
अघैश्च प्रबलैर्व्याप्तान् पापिनः पुरुषाऽधमान् ॥
पततो नरके चाश्वसरः स्मृतं हि तारयेत् ॥५४॥
अमंगला अशिवाश्च कल्मषैः कृष्णतां गताः ॥
तेऽश्वपट्टजले स्नात्वा शिवाः शुक्ला भवन्ति वै ॥५५॥
कुंकुमवापिकाधूलिं जनो मूर्ध्ना बिभर्ति यः ॥
सोऽर्करूपस्त्विह भूत्वा याति ब्रह्म सनातनम् ॥५६॥
अश्वपट्टसरःक्षेत्राऽनिलः स्पृशति यं जनम् ॥
तस्य पाप्मा बहुरूपः सद्यो नश्यति मूलतः ॥५७॥
व्यसनैश्चापदाभिश्च विनाशोन्मुखमानवम् ॥
दर्शनादाक्षरं क्षेत्रं रक्षत्यथ पुनाति तम् ॥५८॥
वाङ्मनःकर्मणां पापैर्ग्रस्तं जनं तु पापिनम् ॥
कुंकुमवापिका तूर्णं स्मृता तारयति ध्रुवम् ॥५९॥
सप्ताऽवरान् सप्तपरान् पितॄन् तारयते सरः ॥
श्रुतं पीतं वीक्षितं च स्पृष्टं तथाऽवगाहितम् ॥६०॥
दर्शनात् स्पर्शनात् पानाचाश्वपट्टेतिकीर्तनात् ॥
पुनात्यपुण्यान् पुरुषान् शतशश्च सहस्रशः ॥६१॥
उत्क्रामद्भिश्च यः प्राणैः स्मरेत् लोमशीं भूमिकाम् ॥
नमेत् हृदाऽपि सहसा स गतिं परमां व्रजेत् ॥६२॥
न कालाच्च भयं तस्य न पापेभ्यो यमात्तथा ।
अश्वपट्टसरःस्नातस्यैव मोक्षार्थिनस्त्विह ॥६३॥
शृणु लक्ष्मि ! द्विजत्वं विप्रत्वं साधुत्वमित्यपि ।
गुणैः सञ्जायते सम्यग्गुणास्तीर्थनिषेवणात् ॥६४॥
तीर्थं तु स्थावरं चापि जंगमं चात्मसंस्थितम् ।
स्थावरं मम योगेन जंगमं साधवो मम ॥६५॥
आत्मस्थोऽहं चान्तरात्मा तीर्थत्रयं हि तारकम् ॥
गुणाः पुण्येन चायान्ति दोषाः पापेन देहिनाम् ॥६६॥
पुण्यं सत्कार्यकरणैः सन्ति कार्याणि वै शृणु ।
मम पूजा मम ध्यानं मम कीर्तनमुत्तमम् ॥६७॥
मम कर्मकलापश्च मम सेवा निरन्तरम् ।
मम सतां सेवनं च पुष्पहारार्चनादिभिः ॥६८॥
जलभोजनदानाद्यैः पादसंवाहनादिभिः ।
नैवेद्यार्पणगन्धाढ्याऽम्बरकुंकुमसत्फलैः॥६९॥
आरार्त्रिकनमः प्रदक्षिणस्तुतिक्षमापनैः ।
यज्ञयागादयश्चापि होमा अतिथिसेवनम् ॥७०॥
अनाथबालादिसेवा सतीसाध्वीप्रपूजनम् ।
महीमानस्वागतादि गोविप्रादिप्रसेवनम् ॥७१॥
भक्तानां जरठानां च पित्रोर्गुरोश्च सेवनम् ।
मालाजपश्च लोकानामुपकारविधापनम् ॥७२॥
इत्येवमादीनि कार्याणि कूपसरोविधापनम् ॥
उद्यानशालाकरणं विश्रान्तिद्रुमरोपणम् ॥७३॥
प्रपासत्रादिकरणं दानक्षेत्रादिरक्षणम् ।
वृद्धानां माननं नित्यं चाश्रितानां च रक्षणम् ॥७४॥
दैवं पैत्र्यं साधवं च सत्कार्यं स्वेष्टदैविकम् ॥
दैशिकं ज्ञानदानादि भक्तिदानादिकं तथा ॥७५॥
एवमादीनि कुर्वीत सत्कार्याणि शुभानि वै ॥
तेन गुणाभवन्त्येव शीलव्रतादयः शुभाः ॥७६॥
गुणैः साधुत्वमेवाऽपि ब्रह्मिष्ठत्वं च जायते ॥
भुक्तिर्मुक्तिः करे तस्य कर्तव्यं नाऽवशिष्यते ॥७७॥
पुरा कश्चिद् द्विजापुत्रो नाम्ना कृशांग ऐच्छिकम् ।
महिषं नवधुर्यं चोवाह शकटयोजितम् ॥७८॥
दण्डेन ताडयामास तीव्रशंकुयुतेन वै ॥
रुधिरं तेन निर्भिद्य निःसृतं तन्नितम्बतः ॥७९॥
तद् दृष्ट्वा महिषी माता सशोका पुत्रगृद्धिनी ।
शोचन्तं तं सुतं प्राह मा शुचः पुत्र ! पापिनि ॥८०॥
नाऽयं द्विजो भवत्येषश्चाण्डालो वाहकस्तव ।
द्विजे दारुणता नास्ति द्विजो मैत्रो भवेत् सदा ॥८१॥
द्विजः सत्त्वयुतः स्याद्धि दयावान् रक्षकस्तथा ॥
अहिंस्रो भक्तिसम्पन्नः सर्वेष्वात्मसमः शुचिः ॥८॥
अदोषे दण्डपाते तु चाण्डालो लुब्धकोऽथवा ।
प्रवर्तते घातकश्च क्रूरो निर्दय उद्वृषः ॥८३॥
अयं पापो दयाहीनः स्वजातिं त्वनुवर्तते ॥
श्रुत्वैवं दारुणं वाक्यं महिष्यास्तु कृशांगकः ॥८४॥
पप्रच्छ महिषीं नत्वा ब्रूहि जानासि मां यदि ॥
माता मे ब्राह्मणी चास्ते केन वा दूषिता भवेत् ॥८५॥
चाण्डालो हि कथं चाऽहं महिषि ! शंस मे द्रुतम् ।
महिषी प्राह विप्रायां वृषलेन जनिस्तव ॥८६॥
क्षेत्रे सस्याऽन्विते रात्रै शय्यायां ते पितुस्तदा ।
पितरि निर्गते क्षेत्रे सुप्तोऽभूद् वृषलोऽनुगः ॥८७॥
कर्मचारी स्ववाट्याश्च सस्त्रीकोऽपि तदैकलः ॥
अन्धकारे ह्यनावीक्ष्याऽऽगत्य ते जननी तदा ॥८८॥
शय्यायां सह सुप्ता च कामभावं गता सती ।
लब्धवती ततो गर्भं दैवात् त्वं वृषलस्ततः ॥८९॥
जानाम्यहं समीपस्था क्षेत्रे बद्धा च बालिका ।
स त्वं वृषलाद् विप्रायां जातश्चाण्डालको ह्यसि ॥९०॥
दुर्गुणास्ते निषेकाद्वै वर्तन्ते घातमारकाः ॥
श्रुत्वा कृशांगकस्तूर्णं नत्वा च जननीं तदा ॥९१॥
महिषीं च ततो नत्वा क्षमाप्य महिषं ततः ॥
पापजन्मविनाशार्थं तपस्येव स्थितोऽभवत् ॥९२॥
शतवर्षं तत्र भूमौ क्षेत्रे तेपे सुदारुणम् ॥
तापयामास देवाँश्च महेन्द्रस्तमुपाययौ ॥९३॥
कृशांग ! तप्स्यसे किं त्वं कृषिं त्यक्त्वा सुखप्रदाम् ।
वरं ददामि वद मे ह्यनवाप्यं ददामि ते ॥९४॥
कृशांगः प्राह चाण्डालश्चाऽहं विप्रत्वकांक्षया ।
तपामि देहि विप्रत्वं पितृदोषं निवारय ॥९५॥
महेन्द्रः प्राह तं चाहो विप्रत्वं दुर्लभं तव ॥
पितृदोषेण बीजं त्वं शुद्धो भवितुं नाऽर्हसि ॥९६॥
प्रविनंक्ष्यसि प्रत्युत तदुपारम यत्नतः ॥
पावित्र्यं प्राप्यते चापि चाण्डालत्वं न नश्यति ॥९७॥
एवमुक्त्वा ययाविन्द्रः कृशांगस्तु स्थितस्तथा ॥
तपस्येव निधनार्थं वैप्र्यार्थं वा दृढक्रियः ॥९८॥
अतिष्ठदेकपादेनाऽपरं वर्षशतं तथा ।
पुनश्चेन्द्रः समागत्योवाच विरम यत्नतः ॥९९॥
ब्राह्मण्यं दुर्लभं चैतत् साहसेन विनङ्क्ष्यसि ।
नहि शक्यं निषेकस्थं वृषलत्वं व्यपोहितुम् ॥१००॥
एवंस्थिते तपोयत्नः शीघ्रं त्वं न भविष्यसि ॥
तिर्यग्योनिगतः सर्वो यदि मानुष्यमृच्छति ॥१०१॥
केनचित् पुण्ययोगेन चाण्डालो जायते पुरा ॥
ततः सहस्रकालान्ते शूद्रत्वं विन्दते मुहुः ॥१०२॥
अथ कालान्तरे वैश्यो मुहुर्भूत्वा ततः परम् ॥
क्षत्रियः पुण्ययोगेन जायते च ततः परम् ॥१०३॥
ब्रह्मबन्धुश्च कालेन ततो विप्रः प्रजायते ।
ततः कालान्तरे स्याच्च श्रोत्रियश्च ततः परम् ॥१०४॥
विप्रधर्मान् पालयित्वा तितिक्षुः साधुतां व्रजेत् ॥
तत्र चेद्धर्षशोकौ च कामद्वेषौ कृशांगकः ॥१०५॥
अतिमानाऽतिवादौ चाऽऽविशेते पात्यते तु तैः ॥
तस्मात्ते वृषलोत्थत्वं दूरं न स्यात् कदाचन ॥१०६॥
इत्युक्त्वा प्रययाविन्द्रः कृशांगश्च ततो दृढः ।
सहस्रवर्षमपरं चैकपदा ह्यतिष्ठत ॥१०७॥
ब्रह्मचर्यपरः शुद्धो गृणन् ब्रह्म सनातनम् ।
अथाऽऽययौ महेन्द्रश्च प्राह वरं वृणु ध्रुवम् ॥१०८॥
कृशांगः प्राह शीलं मे सहस्रवर्षमुत्तमम् ॥
तेन मे दीयतां विप्रत्वं महेन्द्र न चाऽपरम् ॥१०९॥
इन्द्रः प्राह परं कामं वृणीष्व मा तु विप्रताम् ॥
चाण्डालबीजजातस्य वृथा तेऽयं परिश्रमः ॥११०॥
इत्युक्त्वा प्रययाविन्द्रः कृशांगश्च ततः परम् ॥
अश्वपट्टसरः प्राप्याऽतिष्ठद् वर्षसहस्रकम् ॥१११॥
वायुमात्राशनः कृशोऽभवच्छुष्कस्तरुर्यथा ।
पपातोर्व्यां मरणाय तावदिन्द्र उपाययौ ॥११॥
जग्राह पतितं चैनं वरदानदयापरः ॥
प्राह वरं वृणीष्वाऽत्र ददामि ते कृशांगक ! ॥११३॥
कृशांगको वरं वव्रे ब्राह्मण्यं देहि मे सदा ॥
इन्द्रः प्राह न ते तद्वै दुर्लभं सुलभं क्वचित् ॥११४॥
कोटिवर्षतपोभिश्च प्राप्यते न तु सर्वथा ।
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतादयः ॥११५॥
भूदेवो ब्राह्मणश्चास्ते ब्राह्मण्यं तव दुर्लभम् ॥
अन्यं वरं वृणीष्व त्वं पूज्यत्वं श्रेष्ठतां च वा ॥११६॥
कृशांगः प्राह चेन्द्र ! त्वं समर्थो नैव दृश्यसे ॥
किं मां तुदसि दुःखाढ्यं मृतं मारयसे कथम् ॥११७॥
द्विजत्वं तु त्रिभिर्वर्णैः प्राप्यते गुणकर्मभिः ।
द्विजत्वं चापि विप्रत्वं समानं गुणकर्मभिः ॥११८॥
उपवीतेन द्विजन्मा विज्ञानेन च विप्रता।
ब्रह्मयोगेन तत्रैव ब्राह्मणत्वं प्रकीर्तितम् ॥११९॥
निष्ठया ब्रह्मणि ब्रह्मिष्ठता मोक्षे तु साधुता ।
इत्येवं गुणयोगेन सर्वं भवति साधितम् ॥१२०॥
वह्निपाकेन . पृथिवी बहुरत्नोत्तमोत्तमा ॥
पुण्यपाकेन देहाश्च विप्रसाधुस्वरूपिणः ॥१२१॥
गुणैः पशुर्गुणैर्यक्षो राक्षसोऽपि गुणैरिह ।
विप्रो गुणैः क्षत्रियादिः साधुर्गुणैश्च मुक्तराट् ॥१२२॥
नरो नारायणश्चाऽपि कर्मगुणैः प्रजायते ।
शोच्यस्त्वं नैव जानीषे ब्राह्मण्यं धनमुत्तमम् ॥१२३॥
लब्ध्वाऽपि नैव जानीषे क्षत्रो भवसि मानवान् ।
न योग्यस्त्वं वरं दातुं याहि शक्र ! निजालयम् ॥१२४॥
विप्रगुणान् समास्थाय कथं नार्हामि. विप्रताम् ।
तपसा मे मातृदोषः पितृदोषः क्षयं गतः ॥१२५॥
ब्राह्मणोऽस्मि न सन्देहो याहि शक्र ! निजालयम् ।
एवमुक्तो महेन्द्रो वै लक्ष्मि ! ददौ वरं शुभम् ॥१२६॥
कृशांग ! त्वं तपोभिश्च शुद्धोऽसि पावितोऽस्यपि ।
कृशानुरग्निरूपस्त्वं ब्रह्मक्षत्रात्मको भव ॥१२७॥
सर्वपूज्यो ब्राह्मणानां सदा पूज्यः सुरोत्तमः ।
विप्रोत्तमश्च ब्रह्मिष्ठो भव कल्पान्तरेष्वपि ॥१२८॥
गुणैस्त्वयाऽर्जितं चात्र विप्रत्वं च गुणैस्ततः ।
ब्रह्मिष्ठत्वं सदा प्राप्तं चाग्नित्वं प्राप्तमेव ह ॥१२९॥
इत्येवं वरदानं तु दत्वा शक्रो ययौ दिवम् ।
कृशांगोऽभूत् कृशानुश्च ह्यश्वपट्टसरोवरे ॥१३०॥
कृशानुतीर्थमत्राऽऽस्ते रमे ! ब्रह्मिष्ठताप्रदम् ।
साधुत्वं. पावनत्वं निर्लेपत्वं प्राप्यतेऽत्र वै ॥१३१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने घातकिनां तीर्थयोगेन पावनत्वं, जंगमतीर्थं साधुजनादयः, अश्वपट्टसरोवरे पुरा द्विजापुत्रस्य कृशांगस्य वृषलोद्भवस्य चाण्डालत्वेऽपि तपोभिश्चेन्द्रवरेण ब्रह्मिष्ठत्वब्राह्मण्यमयं कृशानुत्वं चाऽभवदित्यादिनिरूपणनामा चैकनवतितमोऽध्यायः ॥९१॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP