संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २१८ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २१८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१८ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं कथामंगारहारिणः ।झरणाभूमिवासस्य भक्तस्य मौक्तिकेशिनः ॥१॥मौक्तिकेशी ममभक्तो पार्थकुलसखातराट् ।कुलसानां खनीनां वै खातोद्योतकरः सदा ॥२॥सहस्रशो जनास्तत्रांऽगारकर्मकराः खनौ ।खनयन्ति कुलसान् वै पार्थान् कृष्णान् दिवानिशम् ॥३॥प्रातर्भक्तो भजित्वा मां ततो याति खनिं प्रति ।क्षणं मे भजनं तत्र विधापयति भृत्यकैः ॥४॥हरे कृष्ण हरे कृष्ण बालकृष्ण हरे हरे ।अनादिश्रीकृष्णनारायण श्रीश हरे हरे ॥५॥एवं कृत्वा कारयित्वा भजनं खनिगह्वरे ।प्रवेशं च कर्मचारैः समं करोति सत्वरम् ॥६॥कृष्णशिलांऽगारभेदान् निखनन्ति च गह्वरे ।भजन्ते भगवन्तं मां श्रीपतिं श्रान्तिसत्क्षणे ॥७॥मध्याह्ने भोजनं कृत्वा विश्राम्यन्ति तु कर्मिणः ।तदा दिव्यं बोधयति मौक्तिकेशी जनान् यथा ॥८॥विना कृष्णस्य भजनं संसारो गह्वरो महान् ।तीर्यते नैव केनापि ह्यगाधो वासनामयः ॥९॥जन्ममृत्युजराव्याधिस्तरा असंख्यकोटयः ।कर्मस्तरास्तथा तत्र भिन्नव्यापारनोदकाः ॥१०॥विना भक्तिं हरेनैव तदन्तं लभते जनः ।असंगी साधुसंगी च वैराग्याल्लभतेऽन्तकम् ॥११॥वर्तेते हृदये द्वौ तौ विरुद्धो भिन्नगोचरौ ।एको नयति मायायां द्वितीयः परमात्मनि ॥१२॥एको वदति भुञ्जीय विषयान् मायिकानिति ।द्वितीयो वदति नैव भुञ्जीय मायिकानिति ॥१३॥तत्रैकं मन एवाऽस्ति मायिकं मायिकार्थगम् ।द्वितीयो जीवनामाऽऽत्मा निषेधं कुरुते सदा ॥१४॥विविच्यैवं विजानीयादात्मना परमेश्वरम् ।सन्त्यजेद् विषयानन्यान् मोक्षरोधकरानिह ॥१५॥वासना मनसा युक्ता प्रेरिका विषयेष्वपि ।लोकविषयशब्दोत्था भुंक्ष्वेति सा वदत्यपि ॥१६॥सतां कथाप्रसंगोत्था भावनात्मनिवासिनी ।मा भुंक्ष्वेति निषेधं वै करोति मायिकेषु सा ॥१७॥निष्कासनीया लोकोक्तिर्धार्या साधुकथासुधा ।पिता माता सुहृद्बन्धुः स्वसा भ्राता च मातुलः ॥१८॥पुत्रः पत्नी महिषी गौरश्वो वस्त्रं गृहं धनम् ।ममेदं च तवेदं चेत्येवं लौकिकवासनाः ॥१९॥अहन्ताममताहेतुभूताः क्षिपन्ति गह्वरे ।भ्रमन्ति कर्मकाण्डैश्च जायन्ते च पुनः पुनः ॥२०॥सतां कल्याणदातॄणां धृत्वा वाक्यानि वै हृदि ।नेमे पिता सुहृद् बन्धुर्मा भ्राता मातुलः स्वसा ॥२१॥पुत्रः पत्नी महिषी गौरश्वो वस्त्रं गृहं धनम् ।नेदं मम तवेदं न किन्तु तत्परमात्मनः ॥२२॥पिता माता सुहृद् बन्धुः पतिः कृष्णनरायणः ।अहं तु श्रीहरेर्दासः शाश्वतिकोऽस्मि चेतनः ॥२३॥मोक्षदो वै पिता माता तद्दासोऽहं सुभक्तिमान् ।न मे बन्धो न मे माया न मेऽहन्ता न मामकम् ॥२४॥नित्यशुद्धो हरेर्भक्तो मुक्तोऽस्मि सत्समागमात् ।वासना खलु बन्धोऽस्ति मोक्षोऽस्ति वासनालयः ॥२५॥संसारे दुःखबहुले सुखं कृष्णपदेऽस्ति वै ।लोकशब्दाः सतां शब्दा युद्ध्यन्ति बोधकारिणः ॥२६॥तज्जे ज्ञाने विवेकाख्ये युद्ध्यतो हृदयेऽनिशम् ।येषां बलं महत् स्याद्वै तस्यैव विजयो भवेत् ॥२७॥यत्र नारायणश्चास्ते यत्र सन्तश्च मोक्षदाः ।तत्रैव विजयश्चास्ते मायाबलं तु निष्फलम् ॥२८॥साधूनां हृदये कृष्णः साधूनां विजयः सदा ।उपदेशस्वरूपा वै सन्तो येषां हृदि स्थिताः ॥२९॥कथाद्वारा तथा कृष्णो येषां हृत्सु सदा स्थितः ।तेषां बलं च विजयो जायते मोक्षलाभदः ॥३०॥बाह्यानां तु सतां संगात् पुष्यन्ति सन्त आन्तराः ।बाह्यानामसतां संगात् पुष्यन्त्यसन्त आन्तराः ॥३१॥पुष्टानां वर्धते शक्तिरपुष्टानां क्षयो भवेत् ।अतः सन्तः पोषणीया न त्वसन्तः कदाचन ॥३२॥यथा यथा प्रसन्नाः स्युः सन्तो वृत्त्यं तथा तथा ।सतां प्रसन्नता पुष्टिस्तथा कृष्णप्रसन्नता ॥३३॥एवं जाते विजयो वै जीवात्मनः प्रजायते ।मोक्षराज्यं लभतेऽपि कृष्णदास्यं महत्सुखम् ॥३४॥कृष्णार्थं यतमानस्य साधुसेवार्थमित्यपि ।युद्ध्यमानस्य भक्तस्य द्रष्टाऽस्ति भगवान् स्वराट् ॥३५॥युद्धे एव तु मरणे द्रष्टा प्रसीदति ध्रुवम् ।युद्धे मृत्युर्विजयोऽस्ति स्वामी तस्मै प्रसीदति ॥३६॥स्वामिप्रियेहया मृत्युं गतोऽयं चेति वेत्ति सः ।पराङ्मुखो न वै जातस्ततो जयं समर्हति ॥३७॥स्वामी तस्मै ददात्येव फलं जयाधिकं ह्यपि ।तस्माद् बलिभिर्योद्धव्यं जये सन्मुखवक्षसा ॥३८॥मर्तव्यं स्वामिप्रीत्यर्थं युद्धे सन्मुखवक्षसा ।भक्त्या धर्मेण मर्तव्यं हृदि सन्मुखशार्ङ्गिणा ॥३९॥सतां सेवया मर्तव्यं देहे चान्वितचक्रिणा ।नराकृतेर्हरेर्भक्त्या गन्तव्यं गह्वरान्तके ॥४०॥कुसंगः सर्वथा त्याज्यः सत्संगः कार्य एव ह ।सतां कथा श्रवणीया धार्यः कृष्णः सदा हृदि ॥४१॥सद्यो निःश्रेयसायैव गन्तव्यं शरणे हरेः ।न वै शारीरसौख्यार्थं धनपुत्राप्तयेऽपि न ॥४२॥न वा राज्यादिलोभेन गन्तव्यं शरणे हरेः ।निष्कामभावयुक्तेन गन्तव्यं शरणे हरेः ॥४३॥सकामभावना मोक्षरोधिनी जायते यतः ।इच्छाघाते शरणं च त्यक्तव्यं स्यादतो न तत् ॥४४॥सकामशरणं ग्राह्यं ग्राह्यं त्वकामपूर्वकम् ।जायते तु ध्रुवा मुक्तिर्येन ग्राह्यं हि तत्तथा ॥४५॥सकामाः कामसिद्धौ तु भजन्ते भावतो हरिम् ।कामाऽसिद्धौ त्यजन्त्येव भावनामपि सर्वथा ॥४६॥सतां बोधं त्यजन्त्येव भगवत्त्वस्य का कथा ।नास्तिकत्वं निन्दनं च कुर्वन्ति प्रत्युतापि ते ॥४७॥पतन्त्येव निरयेषु स्वार्थाऽनर्थप्रयोजिताः ।ततो निष्कामभावेन प्रसेवेत प्रभुं हरिम् ॥४८॥सकामानां हि संकल्पान् कृपया पूरयत्यपि ।भक्तानां शरणस्थानां भक्तिशरणजं फलम् ॥४९॥ददात्येवाऽनन्तगुणं कृतसापेक्षकः प्रभुः ।महद् दुःखं तु भक्तस्य स्वल्पं करोति तद्वशः ॥५०॥कर्मणां खलु मर्यादा बद्धास्तेनैव शार्ङ्गिणा ।अन्तरस्थो हरिः प्रारब्धानुसारं फलं सदा ॥५१॥समवृत्तिर्ददात्येव कृपया तु विशेषतः ।स्वतन्त्रः सर्वकर्ताऽस्ति नियामकः परेश्वरः ॥५२॥अतिदुष्कर्मिणश्चैनं भवेयुर्यदि सत्प्रभुम् ।कृपया श्रीहरिस्तेषां कर्माणि सुबहून्यपि ॥५३॥दीर्घकालेन भोग्यानि दुष्टानि दुःखदान्यपि ।करोति स्वल्पकालेन स्वल्पभोग्यानि तानि वै ॥५४॥शूलव्यथां कण्टकेन निवारयति सर्वथा ।अतिदारिद्र्यदुःखं निवारयत्यन्नवस्त्रदः ॥५५॥भक्ता हरेः कृपां त्वेनां प्रजानन्ति न चापरे ।अभक्तास्तु हरौ दोषान् कल्पयन्त्यगुणानपि ॥५६॥अनीश्वरत्वं चाक्षिप्य जहत्यपि तदाश्रयम् ।निन्दन्ति निजतुल्येषु वदन्त्यवाच्यजल्पकान् ॥५७॥मया मत्वा प्रभुं द्रव्यव्ययो वै सर्वथा कृतः ।अस्य सन्तः पूजिताश्च सर्वस्वार्पणकारिणा ॥५८॥तथाप्यनेन दुःखं मे न हृतं किञ्चिदित्यपि ।उपकारो न मे ज्ञातश्चाग्रे मे किं करिष्यति ॥५९॥तस्मात् त्यक्तो मया चाऽयं नारायणपदार्थवान् ।एवं त्यक्त्वा प्रयात्येव मायायां निरये ततः ॥६०॥तस्मात् कृष्णस्य भक्तिर्वै कर्तव्या तु निरीहया ।श्रेयसे त्वात्मनो लक्ष्मि न कामलब्धये क्वचित् ॥६१॥सेवा सकामभक्तस्य नाङ्गीकरोति माधवः ।सेवके कामनावत्त्वं दूषणं लालसात्मकम् ॥६२॥तृष्णेच्छा लालसा त्वेका ह्यपराधस्य मूर्तयः ।न कर्तव्या हरौ क्वापि लालसा भक्तिशालिना ॥६३॥लालसाया अपूर्णत्वे द्रोहः स्यात्परमात्मनः ।द्रोहश्चास्त्यपराधो वै महान्नारायणस्य ह ॥६४॥द्रोहं दुःखं च निन्दां च दोषानुवर्णनं तथा ।गुणानां खण्डनं मिथ्यारोपणं क्षमते न सः ॥६५॥हरेर्वा हरिभक्तस्याऽपराधं स्वल्पमित्यपि ।क्षमते न हरिस्तस्मान्न कार्यः सर्वथा हि सः ॥६६॥अनादिश्रीकृष्णनारायणस्याऽऽकारखण्डनम् ।सगुणस्य निरसनं सतां च खण्डनं तथा ॥६७॥अपराधो महानेव महानरकसम्प्रदः ।न कर्तव्यः क्वचित् ज्ञात्वाऽऽप्यज्ञात्वा संगरंगतः ॥६८॥परमे दिव्यलोकेऽयं निजेऽक्षरे पदे प्रभुः ।दिव्याकृतिः कृष्णनारायणोऽस्ति पुरुषोत्तमः ॥६९॥दिव्याऽसंख्यब्रह्ममुक्तैः सेवितो माणिकीपतिः ।कृपया स प्रभुश्चात्र वर्तते मानवात्मकः ॥७०॥दिव्योऽपि दृश्यते चात्र मानवो भौतिको यया ।न त्वयं भौतिकश्चास्ते किन्तु दिव्यो यथाऽक्षरे ॥७१॥अस्मच्चक्षुर्भौतिकं यत् तद्ग्राह्यो वर्तते स्ववत् ।कृपयैव हरिश्चैव दर्शयत्येव नस्त्विह ॥७२॥यथा भक्तस्तथा तेन ग्राह्यः कृपावशोऽस्ति सः ।स एव भक्तवर्गैस्तु बोद्धव्यो दिव्यविग्रहः ॥७३॥तस्मात्परं न चैवाऽस्ति प्राप्तव्यं ज्ञेयमित्यपि ।यदीच्छति स्वभक्तो वै द्रष्टुं धामानि सम्पदः ॥७४॥तदा कृपालुर्भगवान् दर्शयत्येव सर्वथा ।यद् दिव्यं चाक्षरं धाम तत्तु सहैव वर्तते ॥७५॥वैभवा हरिणा साकमैश्वर्याण्यपि सन्ति च ।अक्षरेण निजधाम्ना परिवारेण संयुतः ॥७६॥वर्तते भूतले कृष्णो दृश्यते नरचक्षुषा ।नरवच्चाक्षरं धाम भूवच्चेष्टासमा गुणाः ॥७७॥मुक्ता मानवतुल्याश्च क्रियाश्च प्राकृता यथा ।धामस्थानां च भूस्थानां मनाग् भेदो न विद्यते ॥७८॥दिव्यसमाधिनेत्रास्तु विचक्षते सुदिव्यकान् ।यत्र कृष्णस्तत्र धाम तत्र मुक्ताश्च शक्तयः ॥७९॥ते सर्वे मानवैर्भक्तैरर्पितान्नजलाम्बरम् ।धनसम्पद्गृहाद्यं च गृह्णन्ति मानवा इव ॥८०॥तथापि निस्पृहास्ते तु भक्तकल्याणहेतवे ।गृह्णन्ति तानि दिव्यानि जायन्ते तत्प्रसंगतः ॥८१॥दातारो दिव्यरूपं तल्लभन्ते त्वक्षरे पदे ।कृष्णस्यैवं तथा तस्य भक्तानां च सतां सदा ॥८२॥वेदनीयं हि माहात्म्यं चेत्थं दिव्यप्रमुक्तिदम् ।कृष्णमाहात्म्ययुक्तस्य विपदो न भवन्ति वै ॥८३॥कृष्णभक्तश्च रंकोऽपि नाऽवमान्यः कदाचन ।रंकाऽवमन्तुर्नाशः स्यात् तत्स्थकृष्णस्य पीडनात् ॥८४॥कृष्णक्रियाः समग्राश्च यथा दिव्यास्तथैव च ।भक्तानामपि दिव्यास्ता मन्तव्या भक्तिवेदिना ॥८५॥हरिर्भक्तमनःप्रीत्यै रमते भक्तमानवैः ।कामेन रमते चापि हास्येन रमते तथा ॥८६॥चेष्टया चापि सदृश्या रमते स्त्रीजनैः सह ।तथापि तूर्ध्वरेतस्त्वं कोटिस्त्रीणां स्मयावहम् ॥८७॥धरते श्रीहरिः कोटिरूपधृक् कामगर्वहाः ।नराकृतिः स्वभक्तार्थं करोति नरवत् क्रियाः ॥८८॥कामं क्रोधं भयं लोभं मोहं शोकं च मत्सरम् ।दर्शयति क्वचित्तद्वै सर्वं मंगलकृन्नृणाम् ॥८९॥श्रुतं च कथितं दृष्टं ध्यातं चाप्यनुमोदितम् ।चरितं श्रीहरेः सर्वं मानवानां हि मोक्षदम् ॥९०॥नराकारः श्रीकृष्णो वै नृणां मनांसि पूरयेत् ।नृणां साजात्यभावेन सेवाधर्मो हरौ भवेत् ॥९१॥तेन निःश्रेयसं विन्देत् सेविताच्च प्रसादितात् ।रंकोऽपि दास्यभावोऽपि दास्यपि नगुणाऽपि च ॥९२॥दृढकृष्णाश्रयस्यैव प्रमोदनं सदा भवेत् ।जातं मे परमं श्रेयो मोक्ष्यन्ते मम संगिनः ॥९३॥कृतार्थोऽहं कृतार्थास्ते ये मे वचनवर्तिनः ।सन्तः सन्ति ममाऽऽत्मानश्चात्मदर्शी सदाऽस्म्यहम् ॥९४॥हरिं सतोऽन्यन्नैवाऽस्ति द्रष्टव्यं मम मायिकम् ।एवं मम निवासोऽत्र भूतलेऽपि परेऽक्षरे ॥९५॥विद्यते नात्र सन्देहश्चैवं ज्ञात्वा भजन्तु तम् ।रक्षाकृद् भगवानत्र परत्रापि त्वविष्यति ॥९६॥इत्युपादिश्य संश्रुत्वा ययुः खनौ तु कर्मणे ।हरिस्तेषां परीक्षार्थं खनिभित्तौ जलागमम् ॥९७॥महासरित्स्वरूपेण गर्तं कृत्वा समानयत् ।खातेन भित्तिभंगाद्वै महासरित्प्रवाहवत् ॥९८॥प्रवाहः सहसा तत्र गह्वरे समजायत ।सर्वे ज्ञानेन तृप्तास्ते मृत्युभयविवर्जिताः ॥९९॥अनादिश्रीकृष्णनारायणं मां सस्मरू रमे ।जलं तु गह्वरे तत्र सरोवरसमं ह्यभूत् ॥१००॥भग्ना निमग्ना भक्तास्ते भजन्तो मां रमापतिम् ।आत्मनिष्ठा ज्ञानिनश्च दृढाश्रयास्तु ते हृदि ॥१०१॥दध्युर्मां त्वन्तरात्मानं समाधाविव मोदिनः ।मौक्तिकेशी मम भक्तो मां प्रसस्मार भूखनौ ॥१०२॥भूगर्भे श्रीपतिं कृष्णं जलमग्नोऽतिभक्तिमान् ।अथाऽहं दुःखहीनानां भजतां कर्मचारिणाम् ॥१०३॥प्राविरासं खनौ तत्र जलमध्ये जलार्दनः ।सुदर्शनेन चक्रेणाऽशोषयं वारि सर्वगम् ॥१०४॥क्षणेनैव पलेनैव प्रवाहं चाऽप्यरोधयम् ।स्वस्थास्ते मम भक्ता वै दृष्ट्वा चक्रं सुदर्शनम् ॥१०५॥दृष्ट्वा मां ते निमग्ना वै क्षणं सुखे तु शाश्वते ।अथ मां पूजयामासुः प्रार्थयामासुरक्षरम् ॥१०६॥धाम मोक्षार्थमेवापि तथास्त्वित्यवदं तु तान् ।भक्तिदार्ढ्यं समादिश्य तूर्णं तिरोभवं ततः ॥१०७॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।एवं मन्त्रं ददौ तेभ्यो मौक्तिकेशी खनीश्वरः ॥१०८॥सर्वे ते जापमात्रेण दिव्यज्ञाना प्रजज्ञिरे ।अथ कालान्तरे मौक्तिकेशिनं चान्यमानवान् ॥१०९॥विमानेनाऽनयं धामाऽक्षरं मे परमं पदम् ।एवं माया कुलसानां खनिखाताः परीक्षिताः ॥११०॥रक्षिता मोक्षिताश्चापि लक्ष्मि कृपानुकर्षिणा ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मौक्तिकेशिनाम्नो भक्तस्य शिलांगारखनीश्वरस्य भक्त्या परीक्षणं मोक्षणं चेत्यादिनिरूपणनामाअष्टादशाधिकद्विशततमोऽध्यायः ॥२१८॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP