संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २२४ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २२४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२४ Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वमुष्ट्रपालो मरुद्भुवि ।नाम्नाऽभवद् दीर्घरंभो ग्रामे चित्रोर्ध्वसंज्ञके ॥१॥उष्ट्रा यस्याऽभवन् पारेशतं शमीप्रभोजनाः ।उछ्रायभूनिवासश्च क्रमेलकोर्णविक्रयी ॥२॥उष्ट्रविक्रयकर्ता च धान्यव्यापारकृत्तथा ।एकदेशादन्यदेशे धान्यप्रापणकारकः ॥३॥प्रायशो वै वने वासं कुर्वन्नुष्ट्राभिरक्षकः ।वने रात्रौ निवसति दशोष्ट्रपालकैः सह ॥४॥शमीवनेऽतितरले चरन्त्युष्ट्राः समन्ततः ।दीर्घरंभादयः कृत्वा वह्निं तदभितस्तदा ॥५॥निषद्य कम्बलैर्युक्ता गृणन्ति रामकीर्तनम् ।देवानां च कथागीतिं कुर्वन्ति मिलितास्तथा ॥६॥पिबन्त्युष्ट्रापयश्चापि निवेद्य प्रभवे हृदि ।खादन्ति रोटकान् कृत्वा शमीशिम्ब्यारनालकैः ॥७॥निर्गच्छन्ति वन्यमार्गे यदि केचित्प्रवासिनः ।तेभ्यो ददति सत्कृत्य दुग्धं च रोटकादिकम् ॥८॥परोपकारः कर्तव्यश्चान्नकम्बलदानकैः ।मत्वैवं ते चार्पयन्ति कम्बलानपि चोत्तमान् ॥९॥साधवो वा तीर्थयात्रालवो मिलन्ति तत्पथि ।तेभ्योऽर्पयन्त्यन्नवारि कुर्वन्ति स्वागतादिकम् ॥१०॥रामबुद्ध्यैव सततं पुण्यसत्कर्मवाञ्च्छया ।यथेष्टं भक्तिभावेन सेवन्ते साधुमण्डलम् ॥११॥अथैकदाऽर्बुदयात्राकरणाय त्रिपुष्करम् ।प्रागच्छन्मण्डलं साधुसाध्वीनां पथि चागतम् ॥१२॥कीर्तयद् वाद्यघोषैश्च रामकृष्णजनार्दन ।नरसिंह हर विष्णो कृष्णनारायणाऽच्युत ॥१३॥दृष्ट्वा तांस्तु दीर्घरंभो गत्वा प्रतिप्रणम्य च ।दुग्धं च रोटकान् तेभ्यो ददौ मध्याह्नके जलम् ॥१४॥सायं ते साधवस्तत्र विश्रान्तिं प्रापुरुत्सुकाः ।रात्रौ सर्वे तूष्ट्रपाला असेवन्त सतो जनान् ॥१५॥नामसंकीर्तनं कथां रामस्य शुश्रुवुस्तथा ।अथ साधुवरं रामायणाख्यं वैष्णवोत्तमम् ॥१६॥पप्रच्छ स्वात्मकल्याणं कथं स्यादिति चानतः ।रामायणः प्रत्युवाच तदा कल्याणसाधनम् ॥१७॥साधूनां सेवनं चापि रामनाम्नां सुकीर्तनम् ।भक्तिं विष्णोर्नवधां च कल्याणसाधनानि हि ॥१८॥रामस्य वन्दनं नित्यमर्चनं बहुवस्तुभिः ।मानसैरुपचारैश्चाप्यर्चनं हृदयेऽन्वहम् ॥१९॥कल्याणसाधनं चेति ध्यानं रामस्य चिन्तनम् ।प्रेम्णा पुलकितगात्रो गद्गदाऽक्षरवाक् तथा ॥२०॥तत्स्वरूपैकचिन्तश्च भवेद्भक्तोऽर्चने हरेः ।बाह्यपूजाकरो यद्वा चान्तरार्हणकारकः ॥२१॥विशिष्यतेऽयं भक्तौ वै सर्वेभ्यो भक्तसम्मतः ।ऐकाग्र्यरहितः स्नेहरहितस्तु न शस्यते ॥२२॥पूजने सेवने यस्य श्रद्धा भवति भूयसी ।कथायां कीर्तने यस्य श्रद्धादरौ विशेषतः ॥२३॥माहात्म्यं यस्य चोत्कृष्टं भक्ते यस्य सुमित्रता ।यस्य रामार्चनादौ वै भूरिकालो यथा क्षणः ॥२४॥नवधाऽपि हरेः सेवा यस्य नूत्नाऽनुवासरम् ।न गौणी यस्य जीर्णा न क्वचित् क्वापि भवेदियम् ॥२५॥श्रद्धाभक्तिर्यस्य नित्यं नूतना नूतनोज्ज्वला ।स मुक्तोऽत्र च मुक्ता सा नरो नारी हि भूतले ॥२६॥दूरस्था अपि भक्ता ईदृशाः कृष्णान्तिकस्थिताः ।यदि नैतादृशाः पार्श्वस्थितास्ते दूरवन्मताः ॥२७॥तस्मात् प्रीत्युदयसिद्ध्यै यतितव्यं निरन्तरम् ।श्रवणे मनने निदिध्यासने दिव्यदर्शने ॥२८॥कृष्णे तादात्म्यमापन्नात् साधोर्मुखाद्धरेः कथा ।श्रोतव्या श्रीहरेः स्मृत्या सहिताऽर्थस्य धारिणी ॥२९॥श्रुतार्थस्य तु मननं पुनः पुनर्विचारणम् ।सप्रेममूर्तिसहितं कर्तव्यं वासनापहम् ॥३०॥ततः संस्कारजं शुद्धं स्मरणं निदिध्यासनम् ।कर्तव्यं श्रद्धया प्रीत्या प्रसन्नस्तस्य माधवः ॥३१॥भवेत्तेन हरेः स्फूर्तिः सहजा नित्यमान्तरे ।साक्षात्कारो भवेत् स्फूर्तौ दिव्यमूर्तेर्हरेः सदा ॥३२॥एवं प्रीतिर्हरौ कार्या तया प्रीतिर्हरेर्भवेत् ।परस्परप्रीतिमतोस्तादात्म्यं जायते ततः ॥३३॥ब्रह्मचर्यमात्मनिष्ठा वैराग्यं श्रवणादयः ।कृष्णाश्रयश्च साक्षात्कारहेतवस्त ईरिताः ॥३४॥मननं च निदिध्यासो भक्तेष्टसिद्धिदायकौ ।केवलं श्रवणं नैव साक्षात्कारफलप्रदम् ॥३५॥वासना नहि नश्यन्ति निदिध्यासनमन्तरा ।हृद्ग्रन्थयो विनश्यन्ति कृष्णाऽखण्डविचिन्तनात् ॥३६॥निदिध्यासनयुक्तस्य प्रत्यक्षद्रष्टुरेव ह ।पूर्णकामताऽऽनन्दाश्च वर्तन्ते नेतरस्य तु ॥३७॥बाह्यं कृष्णस्य द्रष्टुर्वै मन्तुश्च हृदये तथा ।स्मर्तुः रूपं च सततं द्रुतं स्फुरति केशवः ॥३८॥अनेवंवर्तमानस्याऽनेवंयत्नकृतोऽपि च ।नैव स्फुरति विश्वात्मा दिव्यात्मा भगवान् हृदि ॥३९॥तस्मात् कृष्णस्य हृद्ये साक्षात्कारस्य साधनम् ।श्रवणं मननं निदिध्यासनं प्रीतिरुच्यते ॥४०॥प्रीत्या सततसन्धात्र्या स्फुरति कान्तवद्धरिः ।तस्माच्छ्रुतस्य दृष्टस्य हरेस्तु मननं तथा ॥४१॥स्मरणं प्रेमसहितं श्रद्धान्वितं समाचरेत् ।तस्योपरि हरेः प्रीतिर्जायते धामयोजिका ॥४२॥देहे जीवस्य तादात्म्यं यावद्वै वर्तते च तत् ।कृष्णे स्नेहे महाविघ्नं बोध्यं संसारजन्मकृत् ॥४३॥तस्माद् देहादयमात्मा भिन्न इत्यवबोधनम् ।गुरोः सतश्च शास्त्राच्च प्राप्तव्यं च विवेकिना ॥४४॥भ्रमो नाशयितव्यश्च तादात्म्यस्य जडात्मनोः ।स्वरूपाणि जडस्यापि चेतनस्यापि सर्वथा ॥४५॥धर्माश्चापि प्रबोद्धव्या यैर्वैलक्षण्यमेतयोः ।स्फुरेत्तेन तु तादात्म्यभ्रान्तिर्नश्येत् समूलिका ॥४६॥जडो दुःखमयो रुग्णो नश्वरो विकृतः क्षयी ।लालामूत्रमलव्याप्तो जन्ममृत्युजरान्वितः ॥४७॥खण्डनद्धो बह्ववस्थो मायिको भौतिकश्चयी ।पिण्डो ह्रासी नैकरूपो देहोऽयं वर्तते सदा ॥४८॥इन्द्रियाणि समग्राणि सूक्ष्मदेहगुणानि वै ।दुःखदोषोद्वेगचिन्ताकराणि तादृशानि च ॥४९॥एतादृशो नाऽहमस्मि चिद्रूपः सुखवानहम् ।अरोगी शाश्वतो निर्विकारः क्षयविवर्जितः ॥५०॥सच्चिदानन्दरूपोऽस्मि जन्ममृत्युजराऽतिगः ।अखण्डः स्थिर एकोऽहं दिव्यो मायाविवर्जितः ॥५१॥अभौतिकश्चयशून्यः प्रकाशी हासवर्जितः ।एकरूपो निर्मलश्चाऽसंगी द्रष्टाऽमरोऽस्मि च ॥५२॥शक्तयो मम दिव्याश्चेन्द्रियशक्तिप्रप्रेरिकाः ।एतादृशो भवाम्येव चेतनो मोक्षधर्मवान् ॥५३॥इत्यात्माऽनात्मनोः सम्यग् विवेकं समचिन्तयेत् ।सतां मुखाच्छास्त्रतो वा ज्ञात्वा तं परिशीलयेत् ॥५४॥पक्वे ज्ञाने देहधर्मसांकर्यं नात्मधर्मसु ।आत्मनिष्ठो भवेत्तेन भगवन्निष्ठ इत्यपि ॥५५॥ब्रह्मरूपो भवेदेव मुक्तरूपोऽत्र मानवः ।न तस्य वासना तिष्ठेन्न भ्रमो नापि यातनाः ॥५६॥आत्माऽनात्मविवेकोऽयं यस्य नास्ति दृढीकृतः ।स देहधर्मैर्दुःखाद्यैः पीड्यते भ्रमनोदितः ॥५७॥यावदभ्यासशैथिल्यं तावद्देहात्मधीवशः ।पशुवत् पाशवीं वृत्तिं चरत्वहंममात्मिकाम् ॥५८॥देहेन्द्रियाद्यैक्यरूपां कामसंकल्पमोहिनीम् ।स्त्रीपुंवित्तरसासक्तिदुःखतृष्णाऽघसंभृताम् ॥५९॥मिष्टभोक्ष्ये गरवत् सा दुःखदा चात्ममोदने ।तया वृत्त्या निरयान् स प्रयात्येव तु मायिकान् ॥६०॥निरयेषु गतिर्नैव यथा स्यात् प्रयतेत तत् ।आत्मनिष्ठां साधयीत हरेः सतां प्रसेवया ॥६१॥प्रेम्णा माहात्म्यवित्त्या च देहनिष्ठां परित्यजेत् ।श्रद्धया सम्प्रसेवेत साधून् भक्त्या जनार्दनम् ॥६२॥आज्ञायां चाति तिष्ठेच्च हरेः साधोर्निरन्तरम् ।शास्त्रधर्मान् पालयेच्च माहात्म्यज्ञानमर्जयेत् ॥६३॥एवं निर्वासनत्वं स्यात् कृष्णे स्नेहात्तु तद् द्रुतम् ।माहात्म्यज्ञानसहिता भक्तिः कृष्णे विवर्धते ॥६४॥माहात्म्यज्ञानहीनस्य नश्यन्ति भक्तिदा गुणाः ।माहात्म्यज्ञानयुक्तस्य गुणाः कल्याणकारिणः ॥६५॥सर्वे त्वागत्य वर्तन्ते हृदये तु यथा सताम् ।गुणानामागमे सर्वा नश्यन्ति वासना द्रुतम् ॥६६॥भजमानस्य भक्तस्य वासनाशेषसंभवे ।मृत्युश्चेज्जायते तस्य जन्म देवादिषूज्ज्वलम् ॥६७॥सम्पद्भोगकरं स्याद्वै भक्तानां च गृहे ततः ।वासनानाशमासाद्य ततो मुक्तिर्भवेत् ध्रुवा ॥६८॥सवासनस्य भक्तस्य याम्यगतिर्न विद्यते ।भक्तिफलं देवलोक ईशलोकोऽथवा मतः ॥६९॥महाचक्रवर्तिराजा भक्तो भूत्वाऽक्षरं व्रजेत् ।अपारकरुणः कृष्णो भक्तस्य परमा गतिः ॥७०॥स तं निर्वासनं कृत्वा स्वभक्तं परिरक्षति ।कृष्णधाम्नः सकाशात्तु मायिका वैभवा अपि ॥७१॥भक्तानां निरया एव भासन्ते चात्मवेदिनाम् ।भुक्त्वा त्यक्त्वा ततस्ते तान् प्रयान्ति चाक्षरं पदम् ॥७२॥रामनाम जपन् कृष्णं स्पृशन् पश्यन् नरायणम् ।दिव्यश्च निर्मलो ब्रह्मरूपो भूत्वा परं पदम् ॥७३॥प्रयाति योगिनां स्थानं मुक्तानां पदमुत्तमम् ।सतां मण्डलमध्यस्थोऽश्नुतेऽक्षरे महासुखम् ॥७४॥भक्ता यद्वाऽप्यभक्ता वा साक्षाद्धरेस्तु दर्शनम् ।स्पर्शनं सेवनं कुर्युस्ते दिव्याः संभवन्ति वै ॥७५॥अभक्ताश्चेत् समनस्काः सेवन्ते प्रीतिसंभृताः ।तदा ते वासनां त्यक्त्वा प्रयान्ति परमं पदम् ॥७६॥अपि भक्ता निर्मनस्काः सेवन्ते श्रीपतिं प्रभुम् ।तदा तेऽपि शनैर्जन्मान्तरे यास्यन्ति तत्पदम् ॥७७॥तीव्रसंवेगभक्तानामासन्नतम ईश्वरः ।मन्दसंवेगभक्तानां दूरतमो जनार्दनः ॥७८॥निर्मनस्कं हरेर्नामकीर्तनं दर्शनं स्पृशिः ।सेवनाद्यं तु नैव स्यात् सम्पूर्णफलदं क्वचित् ॥७९॥निर्मनस्कं तु यद्ध्यानं स्फूर्तिहीनं तु तद्भवेत्॥यत्र नारायणमूर्तिर्नैव भासेत कर्हिचित् ॥८०॥ तस्माद् भक्ता उभयथा बाह्ये वा चान्तरेऽर्हणे ।सप्रेमैकाग्र्यवृत्त्याद्यैः शीलयेयुर्महाप्रभुम् ॥८१॥ते श्रीकृष्णप्रतापेन देहान्ते सद्य एव ह ।ययुः श्रीकान्तगोलोकं मुक्ताः स्युर्दिव्यविग्रहाः ॥८२॥अन्ये तु पुण्यमासाद्य भक्त्यादीनां पुनर्जनुम् ।समासाद्य समाप्यैव पुण्यं यास्यन्ति तत्पदम् ॥८३॥गोपीनामिव सर्वस्वार्पणैर्येषां तु सेवनम् ।स्पर्शमीक्षा कीर्तनं च व्यवस्थात्रिवपुःकृतम् ॥८४॥ते प्रयान्ति द्रुतं कृष्णात्मकं दिव्यं प्रमोक्षणम् ।स्मृतिं विना कृतं सर्वं निष्फलं मोक्षदं न तत् ॥८५॥उष्ट्रपाला भवन्तो वै कुर्वन्तु तत् तथाविधम् ।प्रेम्णा प्रीत्या मनसा च सर्वार्पणेन वै हृदा ॥८६॥सेवनं कीर्तनं चापि स्पर्शनं श्रीहरेः सताम् ।तीव्रस्नेहाढ्यभक्तानामाशु मुक्तिर्भविष्यति ॥८७॥वनिनां कीर्तनं सेवा भक्तिश्च मुक्तिसाधनम् ।विप्राणां कर्मषट्कं च भक्तिर्नवधा मुक्तये ॥८८॥सतां स्नानं ध्यानमिष्टं पूजा प्रसेवनं तथा ।वैराग्यं चात्मनिष्ठा च कृष्णनिष्ठा च मुक्तये ॥८९॥नारीणां कान्तभावेन सेवनं स्नेहपूरितम् ।सर्वार्पणं चानुवृत्तिर्दासीत्वं मुक्तये हरौ ॥९०॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।जपन्तु परमं मन्त्रं बालकृष्णं रटन्त्वपि ॥९१॥पूजनं मानसं ध्यात्वा कुर्वन्तु परमात्मनः ।स्मरन्तु तच्चरित्राणि ततो मुक्तिं व्रजन्त्वपि ॥९२॥इत्युक्त्वा साधवः सर्वे रामायणादयो रमे ।विरेमुः पूजिताश्चापि भोजिताः प्रययुस्ततः ॥९३॥दीर्घरंभादयः सर्वे भेजुः साधूक्तरीतितः ।अनादिश्रीकृष्णनारायणश्रीवल्लभंप्रभुम् ॥९४॥हरेकृष्ण हरेराम हरेविष्णो हरेप्रभो ।बालकृष्ण हरे सीतापते राधापते विभो ॥९५॥एवं ते भजनं चक्रुरुष्ट्रपाला वने गृहे ।सम्भूय सततं स्नेहभक्त्या लक्ष्मि प्रभोर्मम ॥९६॥अथ कालान्तरे याते दीर्घरम्भादिकानहम् ।मुक्तिं नेतुमाययौ च दिव्यरूपश्चतुर्भुजः ॥९७॥वैकुण्ठाधिपतिः रामः सीतया सह शोभनः ।विमानेन तु दिव्येनाऽनयं तं चेतरानपि ॥९८॥उष्ट्रदानानि साधुभ्यो दत्तानि यानि तान्यपि ।दिव्यरूपधरानुष्ट्रानादाय समुपाययौ ॥९९॥सर्वभूषाधरान् रम्यान् स्वर्णवर्णान् विहंगमान् ।किकिणीघुर्घुरशब्दान् नीत्वाऽहं समुपाययौ ॥१००॥ये ये भक्ता उष्ट्रपालास्ताँस्तान् दिव्यान् विधाय च ।आरोहयित्वा चोष्ट्रेषु दिव्यधामाऽनयं मम ॥१०१॥एवं मुक्ता उष्ट्रपालाः रामायनप्रसंगतः ।मया सर्वे कृता दिव्या लक्ष्मि भक्त्या कृपालुना ॥१०२॥पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।भुक्तिर्मुक्तिर्भवेच्चापि तथेष्टर्द्धिश्च सम्पदः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने रामायनाख्यसाधुयोगेन दीर्घरवादीनामुष्ट्रपालानां मोक्षणमित्यादिनिरूपणनामा चतुर्विंशत्यधिकद्वि-शततमोऽध्यायः ॥२२४॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP