संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १२३ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १२३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२३ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-अनादिश्रीकृष्णनारायण कान्त जगद्गुरो ।सर्वव्रतानां मूर्द्धन्यं सर्वनिःश्रेयसां प्रदम् ॥१॥सर्वाऽऽपद्वारकं सर्वविघ्नानां च निवारकम् ।सर्वसंकष्टहरणं सर्वव्याधिविनाशनम् ॥२॥सर्वभाग्योर्ध्वपदकं सर्वस्मृद्धिकरं व्रतम् ।येनैकेन तु चीर्णेन सर्वव्रतानि सर्वथा ॥३॥चीर्णान्येव भवन्त्येव वद तद्व्रतमुत्तमम् ।येन पापानि सर्वाणि नश्यन्त्येव कृतेन वै ॥४॥प्रायश्चित्तानि सर्वाणि भवन्ति यत्कृतेन च ।सर्वार्थदायकं सर्वधर्मोत्तमं परात्परम् ॥५॥यदग्रेऽन्यव्रतव्रातास्तृणायन्ते हि तद्वद ।सर्वसत्कार्ययज्ञाद्या यत्र विशन्त्यनुष्ठिते ॥६॥श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि सर्वधर्मदानतीर्थविधिव्रतैः ।कृतैरपि न यत् सिद्ध्येत् तत्सिद्ध्यर्थं परात्परम् ॥७॥कृतं व्रतं सिद्धिदं स्याद् ध्रुवं तादृग् वदामि ते ।मया तु बहुधा प्रोक्तं स्पष्टं पुनर्वदामि तत् ॥८॥साधुव्रतं दास्यसेवात्मकं सर्वार्थसाधकम् ।सर्वव्रतानां मूर्द्धन्यं सर्वकल्याणकारकम् ॥९॥सर्वदुःखहरं सर्वविघ्नहरं सुखास्पदम् ।आध्युपाधिव्याधिहरं सर्वभाग्योदयप्रदम् ॥१०॥सर्वर्द्धिकृत् सर्वपापहरं कल्मषनाशकम् ।सर्वधर्मात्मकं पुण्यं सर्वयज्ञात्मकं हि तत् ॥११॥नित्यं सम्पूजयेत् साधून् साधुपूजाव्रतं हि तत् ।यथालब्धोपचारैर्हि सन्तोषयेन्मुनीश्वरान् ॥१२॥प्रातस्तेषां दर्शनं वै कर्तव्यं सर्वदा शुभम् ।मंगलानां मंगलं तत् साधुसन्दर्शनव्रतम् ॥१३॥पादसंवाहनं कार्यं नित्यं सायं सतां शुभम् ।पुण्यदं सम्पदां दातृ पादसंवाहनव्रतम् ॥१४॥प्रातर्दुग्धादि पेयं वै दातव्यं साधवेऽन्वहम् ।यथाशक्ति सुधास्वादु साधुपेयाऽर्पणव्रतम् ॥१५॥प्रातः फलादिकं देयं साधुभ्यः श्रेय इच्छता ।पक्वमिष्टरसा देयाः साधुफलार्पणव्रतम् ॥१६॥सूर्यपक्वा वह्निपक्वाः ऋतुपक्वाः कणादयः ।सद्भ्यो नित्यं प्रदेयास्तत् साधुकणाऽर्पणव्रतम् ॥१७॥शाकपत्राणि देयानि भक्ष्याणि विविधान्यपि ।इक्षुकन्दांऽकुरादीनि साधुशाकाऽर्पणव्रतम् ॥१८॥आमवस्तूनि देयानि घृतपिष्टपयांसि च ।मिष्टक्षाराऽऽरनालानि साध्वपक्वार्पणव्रतम् ॥१९॥पक्वभोज्यानि मिष्टानि रम्याणि विविधानि च ।नित्यं देयानि भावेन साधुभोज्याऽर्पणव्रतम् ॥२०॥शीतवारि प्रदेयं च स्नानपानक्रियार्थम् ।मिष्टं सुगन्धि पानार्हं साधुजलार्पणव्रतम् ॥२१॥मुखवासस्य योग्यानि पूगीफलदलानि च ।बीजादीनि प्रदेयानि साधुसुवासदव्रतम् ॥२२।सायं वा भोज्यवस्तूनि पेयवस्तूनि यानि च ।प्रदेयानि यथाशक्ति साधुसायंव्रतं हि तत् ॥२३॥देहसंवाहनं कार्यं श्रममर्दनमित्यपि ।तैलादिमर्दनं कार्यं साधुश्रमक्षयप्रदम् ॥२४॥वस्त्रदानं प्रदातव्यं कम्बलादिप्रदानकम् ।शय्यासनप्रदानादि साधुवस्त्रार्पणव्रतम् ॥२५॥स्थालीतुम्बीप्रदानं च पात्रपत्रावलीपुटाः ।प्रत्यहं सम्प्रदेयास्तत् साधुपात्रार्पणव्रतम् ॥२६॥पुष्पाणि पुष्पहाराश्च गन्धसारसुगन्धिनः ।चन्दनादि प्रदेयं च साधुगन्धार्पणव्रतम् ॥२७॥काष्ठं समित् प्रदेयं च कटपट्टसुपट्टिकाः ।वृसीचतुष्कीमञ्चादि साधुसमिध्व्रतं हि तत् ॥२८॥विद्यापुस्तकदानं च शालादानं गृहार्पणम् ।ब्रह्मविद्याग्रहदानं साधुविद्यार्पणव्रतम् ॥२९॥दृष्टियन्त्रघटीयन्त्राऽक्षरलेखिनिकाऽर्पणम् ।मषीपत्राद्यर्पणं चं साधुयन्त्रार्पणव्रतम् ॥३०॥तन्तुसूचीप्रदानं च पादत्राणप्रदानकम् ।कञ्चुकादिप्रदानं च साघुत्राणव्रतं त्विदम् ॥३१॥आश्रमं बन्धयित्वाऽस्याऽर्पणं वृक्षादिशोभिनः ।साध्वाश्रमव्रतं त्वेतत् स्वर्गमोक्षप्रदायकम् ॥३२॥कूपः साध्वाश्रमे वापी सरो बा दीर्घिका नली ।कुण्डी कार्या धनैश्चेदं साधुवारिव्रतं शुभम् ॥३३॥प्रतोली धर्मशाला च चन्द्रशाला वितर्दिका ।स्थण्डिलं कारणीयं च धूनी कार्याऽऽतपप्रदा ॥३४॥अग्निशाला कारणीया पाकशाला सतां कृते ।स्नानध्यानजपशाला साधुशालाव्रतं त्विदम् ॥३५॥साधुभ्यो धेनवो देया दोग्ध्र्यो वत्सीसमन्विताः ।वृषभा वाहनार्थं च साधुधेनुव्रतं त्विदम् ॥३६॥गजोष्ट्रतुरगा देयाः सिंहव्याघ्रमृगादयः ।साधवे तु समर्थाय साधुवाहनसद्व्रतम् ॥३७॥वातगा च विमानं च हंसयानं जले तरीः ।शकटी नरवाहं च शिबिका रक्षिका वशा ॥३८॥गन्त्री च पादुका सिंहासनं देयं गजासनम् ।फलकासनमेवापि साधुयानव्रतं त्विदम् ॥३९॥उद्यानो वाटिका क्षेत्रं जीविका वर्षवृत्तिका ।आयभागः प्रदेयश्च साधुवृत्तिव्रतं त्विदम् ॥४०॥वाद्यं कांस्यं झल्लरी च पटहस्तन्त्रिका शुभा ।वंशी वीणा मृदंगादि मूरजं तारतुम्बिका ॥४१॥जलवाद्यं स्वरवाद्यं करतालं च दुन्दुभिः ।विद्युद्वाद्यं प्रदेयं च साधुवाद्यव्रतं त्विदम् ॥४२॥सिंहचर्म गजचर्म व्याघ्रचर्म मृगस्य च ।अजीनं पावनं देयं साधुचर्मव्रतं त्विदम् ॥४३॥मौक्तिकं हीरको रत्नं मणिः काचः शिलोत्तमा ।मर्दली मुशलं देयं साधुसाधनसद्व्रतम् ॥४४॥पेटिका कोष्ठली जोली तुम्बिका कलशी तथा ।रज्जुश्च बन्धनी देया साधुजोलीव्रतं त्विदम् ॥४२॥भिक्षा माधुकरी देया कण्ठी माला च तौलसी ।पूजासामग्रिका देया साधुपूजाव्रतं त्विदम् ॥४६॥व्यजनश्चामरं देयं त्रभाणं चोत्तरापटम् ।पट्टो गलन्तिका देया साधुसन्ध्याव्रतं त्विदम् ॥४७॥ओषधं चापि चूर्णं च वटिका गोलिका तथा ।क्वाथा लेह्यानि देयानि साधुस्वास्थ्यव्रतं त्विदम् ॥४८॥छत्रं दात्रं शिरस्त्राणं पत्त्राणं धोत्रमम्बरम् ।कौपीनं पटको देयः साधुत्राणव्रतं त्विदम् ॥४९॥भस्म पुण्यं दन्तधावं यज्ञोपवीतमित्यपि ।कटिबन्धं गात्रिकं च देयं साधुवृषव्रतम् ॥५०॥साध्वपेक्षितदानं यत् तत्साध्वपेक्षितव्रतम् ।साधूनां वचनं ग्राह्यं साध्वाज्ञापालनं व्रतम् ॥५१॥साधुप्रसादो भोक्तव्यः साधुपुण्याऽमृतं व्रतम् ।साधुपादजलं पेयं साधुवार्यामृतं व्रतम् ॥५२॥साधोः प्रसन्नता लभ्या साध्वनुग्रहसद्व्रतम् ।साधोः प्रासादिकं वस्तु ग्राह्यं साध्वाश्रयव्रतम् ॥५३॥लक्ष्म्येवं ते कथितानि साधुव्रतानि वस्तुतः ।अथान्यानि कथयामि सेवात्मकव्रतान्यपि ॥५४॥येषां तु करणे सम्यक् सिद्धिर्भवति देहिनाम् ।प्राप्ते दुःखे तु साधूनां सेवार्थं मानता तु या ॥५५॥कर्तव्या भृत्यता रूपा दासतारूपिणी च वा ।सर्वार्पणात्मिका या तु द्रव्यार्पणात्मिका च वा ॥५६॥दीपार्पणात्मिका या च नैवेद्यार्पणरूपिणी ।तैलार्पणात्मिका यद्वा भूषार्पणात्मिका च या ॥५७॥वस्त्रार्पणात्मिका या च पुत्रीपुत्रार्पणात्मिका ।साध्व्यै च साधवे योग्या मानता सेवनात्मिका ॥५८॥सा सर्वा दुःखदारिद्र्यनाशिका साध्वर्पणव्रतम् ।नार्या कार्या मानता सा साध्वीसेवात्मिका शुभा ॥५९॥नरेण सा तु कर्तव्या साधुसेवात्मिका शुभा ।यथा धर्मस्य रक्षा स्यात् पुण्यं वर्धेत सौख्यदम् ॥६०॥यथा नारी नरो वापि पुण्यं सम्प्राप्नुयात् परम् ।गुरोर्वापि च गुर्व्याश्च साधोः साध्व्याश्च वै तथा ॥६१॥सेवां कुर्याच्छ्रद्धया वै निःसंशयेन वर्त्मना ।मानता या कृता पूर्वं तया सेवेत सद्गुरुम् ॥६२॥साधुसेवा हि सा प्रोक्ता साधुव्रतं शुभं परम् ।दुष्टस्वप्ने तु सञ्जाते कर्तव्या मानता शुभा ॥६३॥साधूनां दर्शनं चाहं करिष्ये सेवनं क्षणम् ।फलं दुष्टस्वापजन्यं मा भवेन्मे कदाचन ॥६४॥जाते त्वपशकुनेऽपि कर्तव्या मानता शुभा ।साधूनां दर्शनं कृत्वा त्वाशीर्वादवचः शुभम् ॥६५॥प्राप्स्याम्यपशकुनस्य फलं मे मा भवेदिति ।शत्रोर्भये समुत्पन्ने कर्तव्या मानता शुभा ॥६६॥साधूनां दर्शनं पूजां परिचर्यां द्व्यहं शुभाम् ।करिष्याम्याश्रमे स्थित्वा शत्रोर्भयं न मे भवेत् ॥६७॥राजभये तु सम्प्राप्ते कर्तव्या मानता शुभा ।साधूनां दर्शनं सेवां करिष्ये पञ्चवासरान् ॥६८॥भोजयिष्ये सतो द्रव्यं दास्यामि विपुलं सते ।देवसेवां धर्मदानं करिष्ये मा नृपाद् भयम् ॥६९॥प्रजाभये समुत्पन्ने कर्तव्या मानता शुभा ।साध्वर्थे वृत्तिकां दास्ये क्षेत्रवाट्यादि शोभनम् ॥७०॥मासमात्रं सेवयिष्ये साधून् प्रजाभयं न मे ।आभिचारभये जाते कर्तव्या मानता शुभा ॥७१॥भूतावेशाद्यभिचारो विनश्येन्मे यदा तदा ।साधुसेवां पञ्चदिनं करिष्ये भजनं तथा ॥७२॥मलिनोपद्रवे जाते प्राणघातसमे तदा ।कर्तव्या मानता चाऽहर्निशं साध्वाश्रमे मठे ॥७३॥उषित्वा मासपर्यन्तं सेवयिष्ये सतो जनान् ।करिष्ये भजनं भविष्यामि वै निरुपद्रवः ॥७४॥प्रकृतिविकृतौ जायमानायां मानता शुभा ।कर्तव्या साधुसत्संगं करिष्ये पक्षसेवनम् ॥७५॥प्रकृतिर्मे भवेत् स्वस्था भोजयिष्ये सतो जनान् ।वायुरोगे प्रकर्तव्या मानता साधुसंगतिम् ॥७६॥करिष्ये दशदिवसान् नश्येदुन्मत्तता मम ।विषिप्राणिकृते दंशे कर्तव्या मानतोत्तमा ॥७७॥विषं नश्येज्जीवनं मे स्थिरं भवेत्तदर्थकम् ।साधूनां सेवनं मासं करिष्येऽहर्निशं सदा ॥७८॥शस्त्रघातादिजातायां पीडायां मानता शुभा ।कर्तव्या दुःखनाशार्थं करिष्ये पूजनं सताम् ॥७९॥द्रव्यदानादिकं चापि भोज्यदानादिकं तथा ।मासमात्रं साधुवासे वत्स्यामि सेवनोत्सुकः ॥८०॥हृत्पीडायां च मूर्छायां त्रिदोषे वृत्तिसंहृतौ ।कर्तव्या मानता श्रेष्ठा जीवामि यदि घाततः ॥८१॥साधुर्भूत्वा साधुमठे वत्स्यामि भक्तिलब्धये ।यद्वा सेवां सतां सम्वत्सरं दिवानिशं शुभाम् ॥८२॥करिष्ये मनसा द्रव्यैर्देहेन तन्मयात्मना ।ज्वरादिरोगनाशार्थं कर्तव्या मानता शुभा ॥८३॥द्व्यहं सेवां सतां वासे करिष्ये रोगनुत्तये ।महापूजां कारयिष्ये सर्वतोभद्रकं तथा ॥८४॥मण्डलं कारयिष्येऽपि क्रूररोगापनुत्तये ।भोजनं विविधं सद्भ्यो दास्ये पीडाऽपनुत्तये ॥८५॥अंगभग्नादिपीडायां कर्तव्या मानता शुभा ।अंगस्वास्थ्यं भवेन्मे चेत् करिष्ये रूप्यकार्पणम् ॥८६॥गृहार्पणं जीविकाया अर्पणं साधुसेवनम् ।देहे शस्त्रचिकित्सायां कृतायां भिषजां वरैः ॥८७॥कर्तव्या मानता स्यां चेत् सजीवनो निरामयः ।षण्मासान् साधुसेवायां स्थास्येऽन्नधनदो भवन् ॥८८॥पूरवाहेऽभिमध्ये वा विवरे कर्दमेऽपि वा ।एवमादिस्थले मग्ने कर्तव्या मानता शुभा ॥८९॥यद्यहं जीवनाढ्यः स्यां दुर्निवार्यापदस्तदा ।सर्वस्वं मे च वाऽर्धं वाऽर्पयिष्ये देवमन्दिरे ॥९०॥साधूनां सेवनं मासषट्कं दिवानिशं मठे ।करिष्येऽन्नधनवस्त्रदेहमानसशक्तिभिः ॥९१॥युद्धे विजयलाभार्थं कर्तव्या मानता शुभा ।ग्रामान् देशान् सम्पदश्च स्वर्णरूप्यादिहीरकान् ॥९२॥यानवाहनभूषाश्च छत्रचामरपट्टिकाः ।अर्पयिष्ये श्रीहरये सद्भ्थश्चापि यथायथम् ॥९३॥दासवच्च सतां सेवां करिष्ये मासपञ्चकम् ।यज्ञे साधून् भोजयिष्ये कारयिष्ये च मन्दिरम् ॥९४॥पाशबद्धेन कर्तव्या निगडस्थेन मानता ।एतस्माच्चेद् विमुच्येयं करिष्ये साधुसेवनम् ॥९५॥द्विमासं तु मठे स्थित्वा दत्वा भोज्यं यथाबलम् ।वैर्यावृतः प्रकुर्याद्वै मानतां जीवनार्थिनीम् ॥९६॥यद्यहं जीववान् स्यां चेद् दास्ये स्वर्णभरां तनूम् ।रूप्यभारं शरीरं स्वं शर्कराभारकं च वा ॥९७॥चौर्यहृतधनादेस्तु प्राप्त्यर्थं पुनरेव ह ।कर्तव्या मानता श्रेष्ठा यदि प्राप्येत तद्धनम् ॥९८॥दास्येऽर्धं परमेशाय साधवे धर्मकर्मिणे ।यज्ञदानादिकं चापि करिष्ये तद्धनात्तदा ॥९९॥पत्नीसुतापुत्रपितृमातृस्वसृकुटुम्बिनाम् ।कृतेऽपहरणे द्विष्टैः कर्तव्या मानतोत्तमा ॥१००॥जीविताः पुनरेवात्राऽऽगच्छेयुश्चाक्षता यदि ।तदा वत्सरपर्यन्तं करिष्ये साधुसेवनम् ॥१०१॥दास्ये द्रव्यं भोजनादि करिष्ये यजनं शुभम् ।अरिष्टशान्तिं परमां करिष्ये रक्षणात्मिकाम् ॥१०२॥लक्ष्मीत्येवं साधुसेवाव्रतानि कथितानि ते ।कर्तव्यानि नरैर्नारीभिश्च पीडाहराणि वै ॥१०३॥अथाऽप्यन्यानि सर्वाणि कथयिष्ये समासतः ।येषां करणे विघ्नाश्च पीडा यान्ति विदूरतः ॥१०४॥साधुसेवासमं श्रेष्ठं व्रतं सृष्टौ न विद्यते ।आशीर्वादेन तूर्णं वै पीडा नश्यत्यनाशिनी ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सर्वव्रतोत्तमव्रतं साधुसेवामानतात्मकमितिनिरूपणनामा त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP