द्वापरयुगसन्तानः - अध्यायः ३
लक्ष्मीनारायणसंहिता
श्रीनारायणीश्रीरुवाच -
भगवन्मे कृपासिन्धो वद जिज्ञासितं त्विदम् ।
द्वापञ्चाशद्वत्सरेषु ब्रह्मणो यत्र वत्सरे ॥१॥
मुख्यावतारी त्वं जातो नामकर्मगुणान्वितः ।
तत्सर्वं श्रोतुमिच्छामि त्वल्लीला मुक्तिदा यतः ॥२॥
नान्तोऽस्ति तेऽवताराणां तद्भारं न ददामि ते ।
अवतारिस्वरूपस्य प्राकट्यं तत्पुराभवम् ॥३॥
श्रोतुमिच्छामि भगवन् यन्मेऽपि स्मरणं भवेत् ।
पुरुषोत्तमप्राकट्यमात्रं मे वद वत्सल ॥४॥
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं कथयामि निबोध मे ।
भुक्तिमुक्तिप्रदं तत्तच्चरित्रं मम भामिनि! ॥५॥
वेधसो वत्सरे पाद्मे कल्पाऽष्टमेऽष्टमे मनौ ।
वेधसो नालखण्डाद्वै रोहिणाऽण्डोदरोऽसुरः ॥६॥
जज्ञे ब्रह्माण्डतुल्यो वै शरीरेण बलेन च ।
तेजसा तामसेनापि त्रिलोकिभक्षकोऽभवत् ॥७॥
रुद्रेण गदया चापि त्रिशूलेन प्रताडितः ।
दुद्राव जलमध्ये स रुद्रस्तमन्वगात्तदा ॥८॥
पृथिव्यावरणं भित्त्वा प्रविवेशाऽण्डमण्डलम् ।
सत्यं तपो जनं त्यक्त्वा महर्लोकमुपाययौ ॥९॥
मेरोः स गह्वरे सूक्ष्मो भूत्वा गुप्तोऽवसत्ततः ।
रुद्रः स्वर्गं वीक्षितुं वै महेन्द्रालयमाययौ ॥१०॥
देवाश्च पितरश्चापि महर्षयः समाययुः ।
इन्द्रसभा प्रपूर्णाऽभूत् सूर्यचन्द्रादिभिस्तदा ॥११॥
रोहिणाण्डोदरो ज्ञात्वाऽवसरं ववृधे तदा ।
मेरुतुल्योदरो भूत्वा मुख्यं व्यादाय तां सभाम् ॥१२॥
सस्वर्गां सूर्यचन्द्रेन्द्ररुद्रनक्षत्रसंयुताम् ।
न्यगिलत् सहसा सर्वं स्वर्गं तस्योदरेऽभवत् ॥१३॥
हाहाकारो महाञ्जातश्चुक्षुभुर्भूतलानि च ।
महर्जनादिलोकाश्चाऽकस्माद्वै प्रचकम्पिरे ॥१४॥
सत्यलोके महान् कम्पस्तदा जातोऽतिदारुणः ।
लोकालोकाचलश्चापि मुहुः कम्पमगात्तदा ॥१५॥
अकस्मात् प्रलयं ज्ञात्वा स्वर्गलोकस्य देवताः ।
सरुद्रेन्द्रार्कशशिनो रोहिणाण्डोदरे स्थिताः ॥१६॥
तुष्टुवुर्भयमापन्ना मां तदा पुरुषोत्तमम् ।
परब्रह्म कृपासिन्धो सर्वरक्षक माधव ॥१७॥
नमस्ते भगवन् सर्वान्तर्यामिन् परमेश्वर ।
त्वां विना रक्षको नान्यश्चाकस्मिकलयादिह ॥१८॥
विद्यते प्राणनाथ त्वं रक्ष रक्ष महालयात् ।
केवयं स्वर्गवासाश्च कुत्राऽत्र गह्वरे गताः ॥१९॥
न जानीमो वयं कृष्णनरायण जगद्गुरो ।
स्वर्गं दिव्यं सर्वतेजोमयं महति गह्वरे ॥२०॥
पतितं किं च वा भूत् सत्त्वं वा न्यगिलद्धि नः ।
अकाले प्रलयः प्राप्तस्तस्माद् रक्षय रक्षय ॥२१॥
शरणं तव याताः स्मः समर्पिताः स्वयं सुराः ।
आत्मनिवेदिनस्तेऽत्र यथेष्टं कुरु नः कृते ॥२२॥
इत्येवं संस्तुतश्चाऽहं ब्रह्मणाऽपि च संस्तुतः ।
त्वया साकं तदा नारायणीश्रि! रोहितोदरे ॥२३॥
इन्द्रस्य मानसः पुत्रः सचक्रश्चाऽभवं द्रुतम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥२४॥
त्वं तदा मानसी पुत्री रुद्रस्याऽप्यभवः प्रिये ।
देवाः प्रत्यक्षतां प्राप्तं मां तदा पुरुषोत्तमम् ॥२५॥
विलोक्य मग्नहृदयाः पुपूजुर्हृदयाऽर्पणैः ।
मया तूर्णं तदा सुदर्शनं चक्रं महत् कृतम् ॥२६॥
कोट्यरं कर्तनं रोहिताण्डोदरस्य वर्ष्मणः ।
मया मुक्तं करात्तूर्णं न्यकर्तयत् तदाऽसुरम् ॥२७॥
परितो बहुधा गत्वा भ्रमित्वा च मुहुर्मुहुः ।
चक्रोत्पन्नो महानग्निश्चासुरवर्ष्मखण्डकान् ॥२८॥
कोटिधा तत्कर्तिताँश्च भस्मसात् प्रचकार ह ।
तच्च भस्म तदा स्वर्णं रोहिताख्यं ह्यभूत्त्दा ॥२९॥
रोहिताण्डोदरनाशे जाते स्वस्थाः सुरादयः ।
मां विदित्वाऽक्षरेशं श्रीमहेन्द्रबालकं प्रभुम् ॥३०॥
रक्षकं परमेशानं चेन्द्रालये सुरालये ।
महोत्सवं परं कृत्वा रुद्रो वै देवसाक्षिके ॥३१॥
मण्डपे त्वां निजां पुत्रीं मानसीं मे ददौ तदा ।
रमणीं दैवविधिना प्राप्तवाँस्त्वां तदाऽप्यहम् ॥३२॥
मम संज्ञा तदा चासीदनादिद्युनरायणः ।
तदा स्वर्ग तथा देवा यथावत् स्थापिता मया ॥३३॥
मम योगबलेनैव विकृतं सुकृतं कृतम् ।
अवतारी स्वयं सोऽहं योऽहं चाऽत्राऽस्मि सोऽभवम् ॥३४॥
स्मर रौद्रि प्रिये तत्र लीला मे तव योगिनीः ।
मेऽवतारास्तत्र वर्षे प्रत्यहं बहवोऽभवन् ॥३५॥
इत्येवं कथितं चाऽद्यं जन्म मे मानसं तदा ।
अथ द्वितीयं जन्माऽपि द्वितीये वत्सरे शृणु ॥३६॥
नालक्रमाभिधे वर्षे ब्रह्मणः प्रथमेऽहनि ।
तृतीयस्य मनोरन्ते मेरुर्नाम्ना हि पर्वतः ॥३७॥
चतुर्दशस्तराणां वै भारेण महता तदा ।
आक्रान्तोऽभूत्तदा पातालाऽधो विवेश वै मनाक् ॥३८॥
चतुर्दशस्तरैर्युक्तः सुराऽसुरालयान्वितः ।
निम्नभावं गते मेरौ भुवनानि चतुर्दश ॥३९॥
भग्नानि मेरुणा साकं चाधोभावं गतानि वै ।
भुग्नानि मेरुपार्श्वेषु चाकृष्टानि समन्ततः ॥४०॥
प्रजातानि तदा सत्यं स्वर्गं भूश्च रसातलम् ।
सर्वं वै बुध्नभावं च गतं चाभूत् समन्ततः ॥४१॥
लोकालोकाचलश्चापि प्राकारोऽण्डस्य सर्वतः ।
आन्तराभिमुखं कृष्टो ह्रस्ववलयतां ययौ ॥४२॥
तथापि तस्य बलतो भुग्नान्यपि स्थिराणि वै ।
भुवनान्यभवँस्तत्र क्षणं संकुचितान्यपि ॥४३॥
ब्रह्मविष्णुमहेशाद्याः स्तंभनाशं विलोक्य च ।
ब्रह्माण्डनाशं मत्वा तद्रक्षार्थं परमेश्वरम् ॥४४॥
परब्रह्म हरिं कृष्णनारायणं प्रभुं तु माम् ।
अस्तुवन् परया भीत्या रक्षार्थं मेरुभूभृतः ॥४५॥
ब्रह्माण्डस्यास्य रक्षार्थं लोकानामवनाय च ।
त्वमाधारोऽसि सर्वेषां ब्रह्माण्डानां परेश्वर ॥४६॥
सर्वसृष्टिस्थैर्यशक्तिस्त्वय्येव वर्तते प्रभो ।
तवान्तर्वर्तमानत्वात् स्थिरं सर्वं प्रविद्यते ॥४७॥
भगवन् भवदुत्पन्नं त्वदाधारं समस्तकम् ।
त्वया हीनं लयं चेयात् त्राहि नाशाभिसन्निधेः ॥४८॥
विना स्तंभं गृहं नैव तिष्ठेदण्डं तथा त्विदम् ।
मेरुं विना भुवनानि तिष्ठेयुर्नैव चाम्बरे ॥४९॥
मेरुर्मूले विशत्येव भाराक्रान्तः स्तरान्वितः ।
वयं नाशगताः स्याम रक्षं मेरुं तदाश्रयम् ॥५०॥
इतिस्तुत्वा क्षणं ध्यानं चक्रुर्मम सुरेश्वराः ।
अहं लक्ष्मि! त्वया साकं तूर्णं चाक्षरधामतः ॥५१॥
समाययौ सत्यलोके वेधसः सन्निधौ द्रुतम् ।
सुराणां पश्यतां तत्र वेधसोंऽकेर्भकोऽभवम् ॥५२॥
उज्ज्वलः कोटिसूर्याभः सजटः सर्वभूषणः ।
हसन्नंके समुवाच वेधसं पितरित्यहम् ॥५३॥
स मां पुत्रेति सम्बोध्य मायया चाऽग्रहीत् सुतम् ।
देवा नत्वा हरिं मत्वा पुष्पाद्यैः परमेश्वरम् ॥५४॥
मामानर्चुः स्तवं चक्रुः रक्षेत्यूचुः पुनः पुनः ।
अनादिश्रीमेरुनारायणनामा सुतोऽप्यहम् ॥५५॥
तूर्णं त्वां परमां शक्तिं कृत्वा मेरोः प्रधारिणीम् ।
मम रूपेऽतिसम्पन्नां लीनां कृत्वाऽतिसत्वरम् ॥५६॥
देवान् ब्रह्मादिकान् नीत्वा सह पातालमाययौ ।
मेरुमूलं पृथिव्यां यन्निहितं तदपूजयम् ॥५७॥
त्वां प्रपूज्य महानारायणीश्रि! चादिदेश ह ।
अत्र शक्तिस्वरूपा त्वं विशेति सहसा तदा ॥५८॥
त्वं प्रविष्टा महाशक्तिर्मया सृष्टा मयाऽन्विता ।
मया मेरुस्तदा देवैः साकं मूले समुद्धृतः ॥५९॥
उत्तोलितोऽतिबलिभिः साकं ब्रह्मादिभिः सह ।
यथापेक्ष ततो मेरुश्चोन्नतिं प्रगतोऽभवत् ॥६०॥
भुवनानि समस्तानि समसूत्रतलानि च ।
बभूवुर्वासयोग्यानि देवाद्याः सुखिनोऽभवन् ॥६१॥
त्वया लक्ष्मि! निजच्छायात्मिकया धृतिसंज्ञया ।
तदारभ्य धृतश्चायं मेरुर्मूले चिरं सदा ॥६२॥
अहं विवेश च तत्र मेरौ धारणरूपवान् ।
अम्बराकर्षणरूपोऽन्तरात्मा मेरुगर्भगः ॥६३॥
एवं मेरौ परं कृत्वा स्थैर्यं ततः सुरादिभिः ।
सह मूलानि लोकानां मेरुलग्नानि वीक्ष्य .च ॥६४॥
सुलग्नानि तदा कृत्वा स्थिराण्यास्थाय वै क्रमात् ।
रसातलात्तथा महातलात् तलातलात्तथा ॥६५॥
सुतलाद् वितलाच्चापि तथाऽतलाद् भुवं प्रति ।
आजगाम त्वया साकं भुवः स्वश्च महर्जनम् ॥६६॥
तपः सत्यं परं गत्वा चाजपुत्रः स्थिरोऽभवम् ।
अनादिश्रीमेरुनारायणोऽहं वेधसः सुतः ॥६७॥
मेरुपुत्र्या त्वया साकं सुरादिभिर्विवाहितः ।
आकल्पान्तं तदा चासं सर्वरक्षणहेतवे ॥६८॥
अवतारी स्वयं कृष्णनारायणः परेश्वरः ।
अवतारास्तदा वर्षे कल्पे कल्पे ममाऽभवन् ॥६९॥
अनेके कार्यवशगा यत्पारो नैव विद्यते ।
महानारायणीश्रि! त्वं स्मर स्वत्संभव तदा ॥७०॥
ममापि संभवं मेरुनारायणात्मकं शुभम् ।
अथाऽन्ये वत्सरे लक्ष्मि! तृतीये वेधसोऽपि च ॥७१॥
कथयामि जनुर्मेऽत्र शृणु कृष्णनरायणि! ।
नालोर्ध्ववत्सरे चाद्ये कल्पे मनौ तृतीयके ॥७२॥
नारायणि! तदा स्वर्गे भूतले सूर्यमण्डलम् ।
अशातितं तु लोकानां भस्मसात् कारकं ह्यभूत् ॥७३॥
लक्षरश्मियुतं चासीद् दाहकं सर्वतोमुखम् ।
दिशां विदिशां लोकानां ग्रहाणां सृष्टिदेहिनाम् ॥७४॥
भूतलानां च सर्वेषां समुद्राणां च दाहकम् ।
भुवःस्थानां वायवीयसृष्टीनां दाहकं ह्यभूत् ॥७५॥
लोकालोकस्यापि मेरोर्दाहकं वनवासिनाम् ।
नक्षत्राणां च ताराणां दाहकं जनवासिनाम् ॥७६॥
महर्लोकनिवासानां तथोर्ध्ववासिनामपि ।
समन्ततोऽभवच्चापि दाहकं भस्मसात्करम् ॥७७॥
तद्दाहदुःखमासाद्य मनवो देवतास्तथा ।
सर्वलोकनिवासाश्च तुष्टुवुर्वेधसं तदा ॥७८॥
ब्रह्मा स्तुतिं समाकर्ण्य ययौ सूर्यस्य शान्तये ।
सोऽपि दग्धः परावृत्य सत्यलोकं ययौ तदा ॥७९॥
शंकरो वै महाशान्तिं कर्तुं ययौ रविं प्रति ।
सोऽपि दग्धो नमस्कृत्य परावृत्याऽक्रियोऽभवत् ॥८०॥
ततो विष्णुस्तथा देवा मिलित्वा परमेश्वरम् ।
तुष्टुवुर्मां कृष्णनारायणं श्रीपुरुषोत्तमम् ॥८१॥
सूर्यतेजःप्रशान्त्यर्थं नमश्चक्रुः पुनःपुनः ।
कोटिसूर्यप्रणेतस्त्वं भगवन् परमेश्वर ॥८२॥
जगच्चक्षुर्जगत्प्रभाप्रद सूर्यात् प्ररक्षय ।
वयं त्रिलोकवासाश्च तथाऽन्ये चोर्ध्ववासिनः ॥८३॥
दग्धा भवामः सूर्यस्याऽनलैर्लक्षप्रसर्पिभिः ।
त्वया कृतं जगत् सर्वं सप्रकाशं सुखार्थकम् ॥८४॥
तद्यदि स्याद् दग्धभस्म किं सूर्यस्य प्रयोजनम् ।
तस्माद् रक्षय देवेश तप्तान् शान्तान् विधेहि नः ॥८५॥
इत्युक्त्वा प्रददुः पूजां बह्वीं मेऽर्पणरूपिणीम् ।
अनादिश्रीकृष्णनारायणाय परमात्मने ॥८६॥
तदाऽहं कमले! साकं त्वया तूर्णं नरायणः ।
अक्षरादाययौ सत्यं ब्रह्मस्थानं ततः परम् ॥८७॥
देवैः सम्पूजितश्चाहं विष्णोरंकेऽभवं सुतः ।
सहस्रहस्तकः सौम्यः किरीटकुण्डलादिमान् ॥८८॥
शाणशस्त्रादियुक्तश्च सुधामृतघटादिमान् ।
सुदर्शनं मया तत्र शाणात्मकं क्षणात् कृतम् ॥८९॥
सर्वाग्निशामकं सुधामृतं शातनशक्तिकम् ।
मया लक्ष्मि तदाऽऽज्ञप्ता त्वं देवी .शातनी भव ॥९०॥
सूर्ये प्रविश्य च तत्राऽमृतं धारय शातनि! ।
औष्ण्यं यद्वद् भवेन्न्यूनं तथा विधेहि सत्वरम् ॥९१॥
त्वं चाज्ञां मे समादाय तूर्णं वह्निस्वरूपिणी ।
महातेजोमयी भूत्वाऽर्बुदतापकरी सती ॥९२॥
अमृतं च समादाय प्रविष्टा सूर्यमण्डलम् ।
शनैः सुधां च तद्गर्भे सन्निहितवती ततः ॥९३॥
शनैः शनैः किरणानि शान्तिमाप्तानि वै रवेः ।
त्वम च शनैः शनैस्तत्र स्वं तेजः समुपाहरः ॥९४॥
ततश्चाऽहं तव रूपे शाणे यन्त्रे रविं तदा ।
धृत्वा तेजोऽतितीक्ष्णाँश्च प्रदेशानप्यशातयम् ॥९५॥
सर्वान् विभिद्य तद्देशान् देवादिभ्यस्तदाऽददम् ।
ते चक्रुश्चायुधान्येव चाव्याहतानि वै तदा ॥९६॥
सूर्यो मया कृतस्तत्र सहस्रांशुः सुखप्रदः ।
अन्येंऽशवस्त्वया लक्ष्मि! लीनीकृताः स्ववर्ष्मणि ॥९७॥
तत आरभ्य सूर्यः स लोकसम्पत्करोऽभवत् ।
सा त्वं ततश्च तत्पुत्री सौरी शातनिकाऽभिधा ॥९८॥
अभवः सा मया विष्णुपुत्रेण सूर्यशातिना ।
अनादिश्रीकृष्णनारायणेनापि विवाहिता ॥९९॥
कल्पान्तं चाऽवसस्तत्र स्मर त्वं तन्मया सह ।
आसीन्नारायणीश्रि! यत् सूर्यकर्माऽभवं प्रभुः ॥१००॥
परब्रह्म स्वयं सूर्यकर्माऽहं चाऽभवं प्रिये ।
एवं तत्रापि वर्षे चाऽवतारा मम कोटिशः ॥१०१॥
सञ्जाता धर्मगुप्त्यर्थं रक्षार्थं देहिनां तथा ।
अवतारी स्वयं प्रोक्तोऽनादिविष्णुनरायणः ॥१०२॥
तृतीयं मम वै लक्ष्मि प्राकट्यं तत्र वत्सरे ।
जानाम्यहं च तत्सर्वं हस्ताऽऽमलकवत् प्रिये ॥१०३॥
मां भजित्वा तदा मुक्तिं गता ह्यसंख्यदेहिनः ।
पठनाच्छ्रवणाच्चापि भुक्तिर्मुक्तिर्भवेत्तथा ॥१०४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः प्रथमे वर्षेऽनादिश्रीद्युनारायणस्य रोहिणाण्डोदराऽसुरनिगलितस्वर्गरक्षार्थम्, द्वितीये वर्षे स्वभारेण
निमज्जतो मेरोर्धारणार्थम् अनादिमेरुनारायणस्य, तृतीये वर्षे दाहयतो रवेः शातनार्थम् अनादिविष्णुनारायणस्य, च प्राकट्यमितिनिरूपणनामा तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : May 03, 2021
TOP