संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ४५ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ४५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४५ Translation - भाषांतर श्रीनारायणीश्रीरुवाच-देवदेव कृपासिन्धो पुरुषोत्तम माधव ।निर्गुणो भक्तियोगस्ते सत्या कार्यः कथं त्वयि ॥१॥श्रोतुमिच्छामि लोकानां हितार्थं सर्वयोषिताम् ।ब्रह्मप्रियाभिः सर्वाभिरस्माभिः कार्य एव यः ॥२॥तथाऽन्याभिश्च योषिद्भिर्नरैश्चापि कृतो भवेत् ।यथा तथाऽऽकर्णयितुं सम्यगिच्छामि तद्वद ॥३॥एताः सर्वाः स्वसारो मे कोट्यर्बुदाब्जसंख्यकाः ।श्रोतुमिच्छन्ति कान्तास्ताः प्रेरितास्ताभिरत्र ह ।पृच्छामि निर्गुणं भक्तियोगं तव वदाऽत्र नः ॥४॥श्रीपुरुषोत्तम उवाच-.गुणवन्ति हि कर्माणि सफलानि भवन्ति वै ।तान्येव मयि संत्यक्तफलानि निर्गुणानि वै ॥५॥फलाकांक्षायुतं कर्म बन्धकृज्जायते प्रिये ।अफलेच्छायुतं कर्म मोक्षदं सम्प्रजायते ॥६॥सात्त्विकाः सत्त्वकर्माणि कृत्वा यान्ति दिवं जनाः ।राजसा नरलोके च कृत्वा राजससत्क्रियाः ॥७॥तामसाः कल्मषलोकान् यान्ति तमोलया जनाः ।निर्गुणं मां तु सम्प्राप्य ममाऽक्षरं प्रयान्ति वै ॥८॥पञ्चाग्नयो वनेवासा निष्कल्मषा जनाः प्रिये ।लोकं सप्तऋषीणां ते प्रयान्ति फलभागिनः ॥९॥सन्यासाश्रमवासाश्च दण्डादिधारिणस्तथा ।जितेन्द्रियमनोधर्माः सत्यलोकं प्रयान्ति ते ॥१०॥अष्टांगयोगसम्पन्नाः स्ववशा ऊर्ध्वरेतसः ।महर्लोकं जनलोकं प्रयान्ति गतकल्मषाः ॥११॥याज्ञिका यजमानाश्च प्रयान्तीन्द्रपदं चिरम् ।दातारो यान्ति सोमस्य लोकं चामृतवर्षिणम् ॥१२॥व्रतिनस्तु प्रयान्त्येव सूर्यलोकं सुतेजसः ।तैर्थिका वह्निलोकं चोज्ज्वलं प्रयान्ति पुण्यतः ॥१३॥सत्यव्रतास्तथा यान्ति वारुणं लोकमुत्तमम् ।विष्णुभक्तियुता यान्ति वैकुण्ठं चाऽपुनर्भवम् ॥१४॥शंभुभक्तियुता यान्ति नित्यकैलासमूर्ध्वगम् ।पितॄणां याजिनः पुत्रसुखैश्वर्यादिवाञ्च्छया ॥१५॥दक्षिणेन पथाऽर्यम्णा पितृलोकं प्रयान्ति ते ।स्मृतिधर्मपराः स्वर्गं प्रयान्ति पुण्यकारिणः ॥१६॥पञ्चदेवप्रपूजाढ्या दिवं प्रयान्ति दैविकम् ।प्रजापतियजो यान्ति दक्षादींश्च प्रजापतीन् ॥१७॥भूतयज्ञकरा यान्ति भूतानि विविधानि च ।भ्वादितत्त्वोपासकाश्चाऽऽवरणेषु व्रजन्ति वै ॥१८॥यक्षलोकाँस्तथा यान्ति कौबेरयक्षयाजिनः ।ईश्वराणां च यज्वानो यान्तीश्वरपदानि ते ॥१९॥तापसा बदरीं यान्ति श्वेतद्वीपं तु साधवः ।ब्रह्मव्रतास्तु वैराजान् लोकान् यान्ति प्रशीलिनाम् ॥२०॥साध्व्यः सतीनां लोकांश्च प्रयान्ति सूर्यवर्चसः ।लक्ष्मीलोकाँस्तथा यान्ति श्रीलोकान् धर्मयोषितः ॥२१॥पतिव्रता हरेर्लोकान् पतिलोकान् प्रयान्ति च ।ब्रह्मचारिण्य एवापि लोकाँस्तु ब्रह्मचारिणाम् ॥२२॥गणिका गणलोकाँश्च प्रयान्ति कर्मवेदिनाम् ।ईशभक्ता ईशलोकान् प्राणभक्ता मरुत्स्थलीम् ॥२३॥आसुरा निर्ऋतलोकान् यमलोकाँस्तु पापिनः ।आर्षांल्लोकान् संयमिनो यन्ति तपोजनादिकान् ॥२४॥वेदविद्यारता यान्ति सत्यलोकं विरागिणः ।त्यागिनो यान्ति वैकुण्ठं जलावृत्त्यूर्ध्वसंस्थितम् ॥२५॥ऐश्वर्ययाजका यान्ति सिद्धिलोकान् सुयोषिताम् ।द्रव्यदा वसुलोकाँश्च भस्मिनो रुद्रमन्दिरम् ॥२६॥पञ्चाग्नितापसा यान्ति चादित्यमण्डलं जनाः ।कामिनश्चान्द्रलोकं च शीतदानपरायणाः ॥२७॥क्रूकर्मकरा यान्ति राक्षसानां गृहाणि तु ।वासनावन्त एवापि यान्ति पिशाचयोनिषु ॥२८॥दीपदानादिकर्तारः प्रयान्ति वह्निमण्डलम् ।स्मृद्धिदा यान्ति वै स्वर्गं नाक्षत्रं सुविलासवत् ॥२९॥वाटिकाक्षेत्रदातारो यान्ति सम्राट्पदं क्षितौ ।विद्यावन्तस्तथा सारस्वतं पदं प्रयान्ति च ॥३०॥धर्मस्य नाशका यान्ति दारुणं दानवं पदम् ।अधर्मिणो भवन्त्येव दैत्या उद्वेगशालिनः ॥३१॥क्रुद्धाश्च क्रूरकर्माणो नागाः सर्पा भवन्ति च ।जलहानिकरा यान्ति यादसां योनिसंभवान् ॥३२॥पुनरावर्तिनः सर्वे लोकाः सत्यान्तिनो मताः ।कर्मणां सनिमित्तानां मार्गो गतागतात्मकः ॥३३॥तावन्मोदः प्रमोदश्च यावत्पुण्यं प्रविद्यते ।क्षीणे पुण्ये समायाति निम्नलोकं हि कालतः ॥३४॥तस्माल्लक्ष्मि कृतं कर्माऽर्पणीय परमेश्वरे ।कर्मफलस्य संत्यागान्निर्गुणं जायते मयि ॥३५॥भक्ता निष्कारणा भूत्वा ज्ञानवैराग्यसंयुता ।प्रेमभक्त्या युता कृष्णहरिभक्तजनप्रिया ॥३६॥भज मे चरणौ हंससेवितं निर्भयं प्रिये ।मृत्युर्यत्र न सबलस्तं मां भज प्रिये सदा ॥३७॥भक्तियोगो द्विधा लक्ष्मि सगुणश्चापि निर्गुणः ।सगुणोऽस्ति बहुधा वै निर्गुणस्त्वेकधा मतः ॥३८॥भावो विभिद्यते स्त्रीणां गुणयुक्तो हि सर्वदा ।गुणत्रिकाद् भवन्त्येव भक्तास्त्रिभेदशोभनाः ॥३९॥हिंसां दम्भं च मात्सर्यं कपटं स्वार्थशालिताम् ।आलम्ब्य कुरुते भावं क्रुद्धा सा तामसी मता ॥४०॥यश ऐश्वर्यविषयानभिसन्धाय यत्नतः ।अर्चयेन्मां शिवराज्ञि! राजसी सा प्रकीर्तिता ॥४१॥कर्तव्यमिति मत्वा या करोति रागवर्जिता ।मोक्षार्थं भजते मां सा सात्त्विकी सेविका स्मृता ॥४२॥दुःखी स्वार्थी विवेकी च मनिषी भजते तु माम् ।पुण्यपात्राणि वै नार्यो निमित्तेन भजन्ति माम् ॥४३॥स्नेहेन मम भक्ताश्च मां भजन्ति सदा सुखाः ।गुणैर्दोषैश्चाऽपरेऽपि मां भजन्ति स्मरन्ति च ॥४४॥निर्गुणं भक्तियोगं तु कुर्वन्ति मयि साधवः ।साध्व्यश्च रागशून्या यास्ता भजन्ति हरिं वरम् ॥४५॥परिपूर्णतमे सर्वकारणानां च कारणे ।अनादिश्रीकृष्णनारायणे श्रीकान्तवल्लभे ॥४६॥प्रेमगतिरविच्छिन्नाऽखण्डिताऽहेतुकी शुभा ।सा भक्तिर्निर्गुणा दिव्या मयि प्रसन्नताफला ॥४७॥यः स्नेहो दुःखनाशार्थो न स्वार्थो न निरर्थकः ।हरेः प्रसन्नताऽऽलभ्यस्तद्वती निर्गुणा मता ॥४८॥भक्तिर्यथा निर्गुणाऽस्ति दासी तथा च निर्गुणा ।निसर्गप्रेमधारा यं प्रति श्रीपुरुषोत्तमम् ॥४९॥वहति प्रेमरूपा सा निर्गुणा मयि योजिता ।आनन्दात्म फलं तृप्तिः शाश्वती फलमित्यपि ॥५०॥प्रफुल्लता फलं समुत्साहः फलं प्रमोदनम् ।अहो अहो स्थितिर्या च सुधामिष्टा विशारदी ॥५१॥पीयूषरसदात्री च निर्गुणायाः फलं मतम् ।नववध्वा युवत्याश्च विवाहोत्तरमेव यत् ॥५२॥स्वकान्तसंगमेच्छाया यथा धारा प्रवर्तते ।नवानन्दः प्रमोदश्च प्रफुल्लता प्रसन्नता ॥५३॥स्नेहभरः सुतृप्तिश्च सन्तोषो निर्वृत्तिस्तथा ।मिष्टं सुष्ठु समस्तं वै यथा वध्वाः प्रभासते ॥५४॥तथा भक्तिमतीनार्या मयि सर्वं प्रभासते ।सैषा वेदप्रसूर्विद्या निर्गुणा मत्स्वरूपिणी ॥५५॥नैषा मद्व्यतिरेकेण क्वचित् कुत्रापि जायते ।सैषा भागवती विद्या शाश्वती पुरुषोत्तमी ॥५६॥सैषा प्रसन्नतालभ्या ममाऽऽन्तरे निवासतः ।नान्यसाधनलभ्या वै निर्गुणा निर्गुणं विना ॥५७॥नृपस्नेहो नृपकृपां विना भृत्यस्य नास्ति वै ।तथा मम कृपां हित्वा योगोऽयं नैव जायते ॥५८॥लक्षणं निर्गुणानां मे भक्तानां शृणु पद्मजे! ।आक्षरं चापि गोलोकं वैकुण्ठं श्वेतभूतलम् ॥५९॥क्षीरस्थानं बद्रिकां वा पारमेष्ठ्यपदं च वा ।अव्याकृतं चामृतं च लक्ष्मीलोकं प्रकुण्ठकम् ।वैराजं वेश्वराणां च स्थानानि विविधान्यपि ॥६०॥शक्रधिष्ण्यं सार्वभौमं रसाधिपत्यमित्यपि ।दिक्पालत्वं याम्यभावं योगर्द्धिं वैश्वरोत्तमम् ॥६१॥चमत्काराँस्तथा सिद्धीरैश्वर्याणि महान्त्यपि ।नाऽभिलषन्ति ये भक्ता मम पादप्रसेवकाः ॥६२॥दीयमानं मया लक्ष्मि सालोक्यं चापि वोत्तमम् ।न गृह्णन्ति कदाचित्ते मत्सेवानन्दसंभृताः ॥६३॥सामीप्यं चापि नेच्छन्ति प्रेम्ण औन्यात् क्षतेः खलु ।विरहोऽपि संगविघ्नः स्पर्शविघ्नो महान् हि सः ॥६४॥सन्निकृष्टे तु यत्प्रेम दूरत्वं लभते क्वचित् ।तस्मान्मत्संगतौल्ये न सान्निध्यं वर्तते क्वचित् ॥६५॥अथापि दीयमानं च सारूप्यं मानसंभृतम् ।गृह्णन्ति नैव भक्ता मे समानत्वाभिमानतः ॥६६॥दास्ये समानता विघ्नो नैरपेक्ष्यं च विघ्नता ।मम सेवोत्सुकास्तस्मान्न गृह्णन्ति सरूपताम् ॥६७॥अथैकत्वं दीयमानं नैव वाञ्च्छन्ति मामकाः ।द्रवीभावे विलीनीभावे चैकत्वं भवेत् खलु ॥६८॥तथासति कथं सौख्यं स्वामिसेवकसंभवम् ।दासीलभ्यं सुखं नैव कान्ताद्धरेर्भवेन्ननु ॥६९॥अमूर्तभावे त्वेकत्वं भक्तस्य संभवेन्ननु ।सत्येवं योगजं सौख्यं मूर्तेर्मूर्तौ कथं भवेत् ॥७०॥सेवासुखं न लभ्येत नेच्छत्येकत्वमित्यतः ।निरपेक्षाश्च शान्ताश्च समदर्शनसंगताः ॥७१॥कान्तसुखानुसुखिन्यो भवन्ति निर्गुणाः स्त्रियः ।नैरपेक्ष्यं महासौख्यं नैरपेक्षा हरिश्रिताः ॥७२॥सकामास्तु महासौख्यं निष्कामाया विदन्ति न ।निष्कामो भक्तियोगो वै भवेदात्यन्तिकं पदम् ॥७३॥निरपेक्षाः प्रिया नित्यं मां भजन्ति प्रकारकैः ।स्मृत्या संकीर्तनेनापि श्रवणेन च सेवया ॥७४॥पूजया वन्दनेनापि दास्येन सख्यकेन च ।आत्मनिवेदनेनापि प्रेम्णा भक्तिं चरन्ति ह ॥७५॥दुर्लभा भक्तिमत्यो मे मद्भावभावनान्विताः ।महतीनां मानभावं कुर्वन्त्यश्च दयां तथा ॥७६॥दीनास्वथ समानासु मैत्रीं चरन्त्य एव याः ।मम पादाऽब्जमधुपा मम संयोगलालसाः ॥७७॥मां प्रस्मरन्ति प्राणेशं यथा प्रोषितभर्तृकाः ।मम स्मृतेः रोमहर्षो यासां स्वेदः प्रजायते ॥७८॥आनन्दाश्रुकलाश्चापि वैवर्ण्यं प्रेमसंभृतम् ।अनादिश्रीकृष्णनारायणं गृणन्त्य एव च ॥७९॥दिवानिशं मयि सक्तास्ता वै भागवतीतमाः ।मन्मानस्यो मद्धृदया मय्येवाऽङ्गसमर्पणाः ॥८०॥मय्येवाऽऽनन्दभोक्त्र्यश्च महाभागवतीतमाः ।भुवि जलेऽनले वायौ गगने तारकासु च ॥८१॥वनेऽरण्ये जंगमेषु पश्यन्त्यः परमेश्वरम् ।अनादिश्रीकृष्णनारायणं मां च प्रहर्षिताः ॥८२॥विलोकयन्त्यः कामिन्यो रुदन्ति च वदन्ति च ।क्वचिन्नन्दन्ति धावन्ति हसन्ति मार्गयन्ति च ॥८३॥गायन्ति चाऽऽह्वयन्त्युग्रं नृत्यन्ति रमयन्ति च ।विहरन्ति च जल्पन्ति पश्यन्ति मां द्रुमान्तरे ॥८४॥क्वचित्तूष्णीं भवन्त्येता मत्स्वरूपा मदात्मिकाः ।कृतकृत्याः कृतार्थाश्च सर्वानन्दपरिप्लुताः ॥८५॥यासां दर्शनमात्रेण चान्या यान्ति कृतार्थताम् ।दिव्या दिव्यक्रिया वध्वो दिव्यरूपा हि ता यतः ॥८६॥शाश्वतीनां च तासां वै न कालो न यमस्तथा ।न भूमा न महारुद्रो दण्डं दातुं क्षमः क्वचित् ॥८७॥यासां वामे गदा कौमुदकी दक्षे सुदर्शनम् ।अग्रे शार्ङ्गं धनुः पश्चे पाञ्चजन्यस्तु कम्बुकः ॥८८॥नन्दकश्च महाखड्गः शतचन्द्रः पुरस्तथा ।इषवः परितश्चापि छत्रं चोर्ध्वे व्यवस्थितम् ॥८९॥यष्टिश्च पादयोश्चापि पार्श्वे त्वैश्वर्यकोटयः ।मूर्तौ च सिद्धयः सर्वा मम रक्षन्ति ताः प्रियाः ॥९०॥ऊर्ध्वं छत्रं महापद्मं छायां करोति शोभनाम् ।गरुडः पक्षवातैश्च श्रमहर्ता भवत्यपि ॥९१॥यत्र यत्र गताः सत्यस्तत्र तत्र हरिः प्रभुः ।अनादिश्रीकृष्णनारायणोऽहं विचरामि च ॥९२॥तीर्थीकरोमि भूभागान् श्रीमत्पादाब्जरेणुभिः ।क्षणं यत्र स्थिताः सत्यस्तत्र तीर्थानि सन्ति हि ॥९३॥पापा मृता भवेत्तत्र साऽपि याति परां गतिम् ।कृष्णप्रिया वीक्ष्य दूरान्नाऽऽधयो व्याधयोऽपि च ॥९४॥भूतप्रेतपिशाचाद्या ग्रहा विघ्नाश्च राक्षसाः ।आसुरा दोषभागाश्च पलायन्ते भयान्मम ॥९५॥नद्यो नदाः पर्वताश्च प्राकाराः खातभूमयः ।गर्ताश्च गह्वराश्चापि समुद्रा वह्नयस्तथा ॥९६॥मार्गं ददति साध्वीभ्यो निरपेक्षाभ्य एव मे ।साध्वीनां ज्ञाननिष्ठानां विरक्तानां हि योषिताम् ॥९७॥मदात्मिकानां तासां वै प्रतिबन्धो न कुत्रचित् ।शतजन्मतपःपूता पुण्यपुञ्जसमन्विता ॥९८॥संगमासां सा लभते दुर्लभं पुण्यहानिभिः ।यत्कुले मम भक्ता वै जायते ब्रह्मलक्षणा ॥९९॥तत्कुलं विमलं बोध्यं निकृष्टमपि चोर्ध्वगम् ।लक्ष्मि मे भक्तियुक्ता तु सर्वैश्वर्यसमन्विता ॥१००॥पितॄन् दशकुलोद्भूतान्निजाँश्च पतिपक्षगान् ।मातृपक्षगताँश्चापि तावतश्चोद्धरत्यपि ॥१०१॥अपि ब्रह्माण्डमखिलं समुद्धर्तुं बलान्विता ।निरयान् पापबन्धाँश्च क्षेप्तुं शक्ता तु सा मता ॥१०२॥ये याश्च देहवत्यो वै सम्बन्धिनश्च ये च याः ।भृत्याद्याः सुहृदश्चापि कर्मचाराश्च ये च याः ॥१०३॥पक्षिणः पशवश्चापि जन्तवो मशकादयः ।पिपीलिकाः पतंगाश्च कीटाश्च मक्षिकादिकाः ॥१०४॥मम भक्ता गृहे ये यास्तेषां तासां प्रमोक्षणम् ।भवत्येव न सन्देहो मखतीर्थवृषैर्विना ॥१०५॥साध्वीसंसर्गतस्तेऽपि ता यान्ति हरिमन्दिरम् ।मलिनेऽपि प्रदेशे वै भक्ता लोकान् पुनाति मे ॥१०६॥मयि केनापि भावेन मनो लग्नं करोति या ।याति मद्रूपतां साऽपि ममाऽभ्यासाद् यथा तथा ॥१०७॥स्नेहकामभयक्रोधैरैक्यसौहार्दमोहनैः ।भूत्वा मन्मयभावा तु याति मद्भवनं सती ॥१०८॥स्नेहात् पितरौ ग्राम्याश्च कामाद् ब्रह्मप्रियास्तथा ।भयाद् दैत्या दानवाश्च क्रोधाद् रणांगणे भटाः ॥१०९॥ऐक्यात् कुटुम्बिनोऽसंख्याः सौहार्दाद् ऋषयोऽमलाः ।मोहान्नार्यः कोटिशश्च भूत्वा मन्मयभावनाः ॥११०॥मद्रूपगुणसामर्थ्यभावसंलग्नमानसाः ।अनादिश्रीकृष्णनारायणं प्राप्ता हि मां प्रभुम् ॥१११॥तस्मात् केनापि भावेन मनो मयि निवेशयेत् ।सततं स्मरणं मे स्यात् तेन मद्भावमृच्छति ॥११२॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां निर्गुणभक्तियोगनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP