संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः २०० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः २०० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २०० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु नारायणीश्रि त्वं भाण्डभक्तस्य वै कथाम् ।भाण्डीयनगरे भाण्डोऽभवच्छूद्रो हि भक्तराट् ॥१॥गायने वादने शक्तो नाम्ना कालीन्दरः पुरा ।कालीन्दरोऽतिकुशलश्चाबाल्याद वाद्यरागवान् ॥२॥वाद्यकलां विजानाति गीतिगानानुसारिणीम् ।भाण्डाश्च बहवस्तस्य शालामागत्य दूरतः ॥३॥अभ्यासं विदधत्येव वाद्यानां तत्र वासिनः ।नृत्यानां गालतालानां गलतालात्मकात्मनाम् ॥४॥कण्ठतालीतालसक्थिकरतालात्मकात्मनाम् ।नर्तक्यश्चापि बह्व्यश्चागत्याऽभ्यासं तथाविधम् ॥५॥कुर्वन्ति तस्य शालायां वारांगनाश्च कन्यकाः ।वर्षे वर्षे प्रकुर्वन्ति महोत्सवं च ते ततः ॥६॥समाजे तत्र कुर्वन्ति शिक्षणस्य प्रदर्शनम् ।एवं तत्रातिकुशला गायका नर्तकास्तथा ॥७॥वादका हासकाश्चापि बहुरूपा नराः स्त्रियः ।प्राप्नुवन्ति यथाविद्यं पारितोषिकमुत्तमम् ॥८॥स्वर्णरूप्यमयं रत्नमयं भूषामयं च वा ।वेषमयं वाद्यरूपं समाजेन समर्पितम् ॥९॥एवं सम्वत्सरे लक्ष्मि जायते सुमहोत्सवः ।प्रसिद्धस्तेन भाण्डः सः कालीन्दरो व्यजायत ॥१०॥राजानः साधवः सत्यः श्रेष्ठिनश्चाधिकारिणः ।समुत्सवे समायान्ति पारितोषिकसम्प्रदाः ॥११॥तेषां करोति सत्कारं यथायोग्यं यथाधनम् ।भाण्डीरनृपतिश्चापि नृपादीनां समर्हणम् ॥१२॥स्वागतं चापि योग्यः सन् करोति च यथोचितम् ।एवंविधे समाजेऽयं कालीन्दरोऽतिभक्तराट् ॥१३॥मम मूर्तिं तु सौवर्णी सिंहासने सभागते ।सर्वशृंगारशोभाढ्येऽवस्थापयति शोभनाम् ॥१४॥लक्ष्मीराधायुतां रम्यां कृष्णनारायणाभिधाम् ।मण्डपे तैजसे शोभायुक्ते स्वर्गसभासमे ॥१५॥गायनादेः समारम्भात् पूर्वं प्रपूज्य मां ततः ।नृपान् प्रपूज्य साधूँश्च सतीः प्रपूज्य चाग्रगान् ॥१६॥वृद्धान् विप्रान् श्रेष्ठिवर्यान्नत्वा समाजमादरात् ।गीतिं रम्यां प्रार्थनाढ्यां करोति प्राक् तदा मम ॥१७॥जयति नारायणः सर्वकारणहरिःश्रीपतिः सर्वलक्ष्मीश्वरोऽयम् ।जयति नारायणो ब्रह्मपारायणोराधिकाकान्त ईशेश्वरोऽयम् ॥१८॥जयति कमलापतिर्ब्रह्मललनापति- र्मुक्तमुक्तानिकाकान्त ईशः ।जयति धामेश्वरश्चावतारेश्वरःकंभराबालको बालकृष्णः ॥१९॥जयति गोपालजो माणिकीनायक-श्चाऽक्षराधीश्वरश्च प्रमेशः ।सर्वलोकान्तरश्चान्तरात्मा प्रभु-र्जयति कृष्णो हरिः पार्वतीशः ॥२०॥जयति गोपीपतिर्जयति नैष्ठिक-पतिर्जयति सर्वेशराजाधिराजः ।जयति वै कृष्णनारायणो माधवःस्वामिनां स्वामिनाथो विजयतु ॥२१॥भक्तरक्षाकरो निजजनेष्टदायकःश्रीहरिर्मां समुद्धरतु कृष्णः ।भाण्डजातिं तथा नर्तकीयोषितोगायिका उद्धरत्वीश्वरेशः ॥२२॥भक्तजनभावनां पूरयत्वच्युतो यःप्रभुर्दीनमित्रं विशेषात् ।स्तौति कालीन्दरः कालमायापरंभुक्तये मुक्तये शान्तये तम् ॥२३॥एवं गीतिं नर्तकीभिः सहितस्य जनस्य मे ।कालीन्दरस्य श्रुत्वाऽहं प्रसन्नश्चाऽभवं मुहुः ॥२४॥लक्ष्मीराधादिसहितस्तेभ्यो दातुं स्वदर्शनम् ।कृपामकरवं लक्ष्मि भक्ताधीनो नरायणः ॥२५॥तेजःपुञ्जो मया तत्र प्रदर्शितोऽतिभासुरः ।सभायां तु समाजे वै मण्डपे मम मूर्तिजः ॥२६॥तत्र शनैर्मम रूपं शंखचक्रगदाब्जवत् ।हारकेयूरमुकुटकटककौस्तुभादियुक् ॥२७॥दिव्यशृंगारवेषाढ्यं प्रसन्नवदनं शुभम् ।राधालक्ष्मीयुतं दिव्यैः पार्षदैश्च समन्वितम् ॥२८॥अदर्शयं क्षणं तत्र मुग्धाः सर्वाः स्त्रियो नराः ।अभवँस्तेजसा पुञ्जैः स्तंभनेत्राश्च वै क्षणम् ॥२९॥तेजो विलीय सहसा नरनाट्यधरोऽभवम् ।तैर्दृष्टो रूपवानस्मि तावत्तिरोऽभवं क्षणात् ॥३०॥भक्तभक्त्या मनागेवं मया रूपं प्रदर्शितम् ।सर्वः समाजो रूपं तद् द्रष्टुमियेष वै मुहुः ॥३१॥कालीन्दरं महाभक्तं शिश्रियुस्ते ततः सदा ।वैष्णवाः सर्व एवैते बभूबुर्मयि श्रद्धया ॥३२॥सर्वे नित्यं भजन्ते मां प्रातः कुर्वन्ति कीर्तनम् ।कथां मदीयां कुर्वन्ति पूजनं मम वस्तुभिः ॥३३॥नैवेद्यं भुञ्जते सर्वे मम प्रसादरूपि तत् ।सायं संकीर्तनं सर्वे कुर्वन्ति मिलितास्तथा ॥३४॥भाण्डशालाऽभवल्लक्ष्मि भक्तशाला हि सा सदा ।एकभक्तस्य योगेन कृपया मम दिव्यया ॥३५॥नित्यं सुकीर्तनं तत्र जायते मम हर्षकृत् ।साधवः साध्विकास्तत्र नित्यमायान्ति यान्ति च ॥३६॥कालीन्दरतथा चान्ये भक्ता मम प्रपूजनम् ।नित्यं कुर्वन्ति प्रातश्च मध्ये सायं सुशोभनम् ॥३७॥नित्यभक्त्या पावनास्ते ह्यभवन् पंक्तिपावनाः ।ह्येकदा भाण्डीरपुरं साधुस्तु कमलायनः ॥३८॥मम भक्तो ययौ तीर्थयात्रां कुर्वन् निशामुखे ।कालीन्दरो महान् भक्तः साधूनां सेवको द्रुतम् ॥३९॥साधवे प्रददौ लक्ष्मि जलान्नं स्वागतं व्यधात् ।मधुपर्कं ददौ वासं सेवां चकार भावतः ॥४०॥सायंकालोत्तरं तत्र समाजो दर्शकोऽभवत् ।तत्र कालीन्दरोऽपृच्छत् सते निःश्रेयसं निजम् ॥४१॥आत्यन्तिकं सुकल्याणं वद साधो कथं भवेत् ।कमलायनसाधुस्तं सभायां वक्तुमारभत् ॥४२॥अनादिश्रीकृष्णनारायणः सर्वातिवल्लभः ।हिताय देहिनां चात्र कृपया मानवे कुले ॥४३॥नराकारः स्वयं भूत्वा विहरत्येव भूतले ।तदाश्रिताः साधवश्च दयालवश्चरन्त्यपि ॥४४॥लोकानां हितकर्तारश्चोपदिशन्ति तद्गुणान् ।तद्गुणान् प्रसमाकर्ण्य भक्तिं कुर्वन्ति मानवाः ॥४५॥भक्त्या श्रेयो भवत्येव जायते चाक्षरे गतिः ।ये जनाः समगृह्णन्ति गुणान् साधोः परात्मनः ॥४६॥सेवां कुर्वन्ति साधूनां तथा श्रीपरमात्मनः ।भजन्ते तं प्रभुं साधून् ते तरन्ति भवार्णवम् ॥४७॥ये तु दोषान् प्रगृह्णन्ति ते पतन्ति भवाम्बुधौ ।वर्धन्ते वासनास्तस्य दोषग्रहणपापतः ॥४८॥ये तु दिव्यदृशा साधोर्हरेर्गुणान् गतिप्रदान् ।प्रशंसन्ति च गृह्णन्ति ते यान्ति परमां गतिम् ॥४९॥तेषां हृदये नैर्मल्यं जायते साधुसेविनाम् ।शतविप्रसमः साधुः शतसाधुसमो हरिः ॥५०॥यथा यथा दिवारात्रौ साधुसंगं करोत्ययम् ।तथा तथा दिव्यभावो हरौ साधौ च वर्धते ॥५१॥तथा तथा च नैर्मल्यं सत्संगश्च प्रवर्धते ।प्रवर्धते महापुण्यं परनिःश्रेयसांप्रदम् ॥५२॥इन्द्रियाणां तु पापानि नश्यन्ति साधुसंगतः ।अतः सर्वार्पणैः सेव्याः साधवः साधुभूषणाः ॥५३॥साधोः सेवा हरेः सेवा तया याति परं पदम् ।यत्र साधोर्निवासोऽस्ति तद्गृहं मोक्षदं सदा ॥५४॥यत्र कृष्णनिवासोऽस्ति मन्दिरं तत् प्रमोक्षदम् ।स देशो मोक्षदो यत्र साधुर्हरिर्विराजते ॥५५॥सा खट्वा पावनी यत्र साधुः स्वपिति शान्तिमान् ।यस्मिन् दिने हरेः साधोर्दर्शनं सेवनं भवेत् ॥५६॥दिवसः स शुभः प्रोक्तो मोक्षोऽघविनाशकः ।सभा समाजः शुभकृद् यत्र साधोः समागमः ॥५७॥भक्तानां संगमश्चापि पापहो मोक्षदस्तथा ।वैष्णवानां सतां संगः सतीनां सेवनं तथा ॥५८॥मोक्षदं संभवत्येव सत्संगः शेवधिर्नॄणाम् ।दानं पुण्यं भोजनादि दातव्यं साधवे सदा ॥५९॥श्रीकृष्णाय प्रदातव्यं सर्वस्वं मोक्षकृद्धि तत् ।एवंविधाभिः सेवाभिर्मोक्षं सम्पादयेत् सुधीः ॥६०॥असद्देशमसत्कालमसत्संगं विवर्जयेत् ।सत्संगं सत्क्रियां कुर्यात्तेन मोक्षो भवेदिह ॥६१॥असत्संगो भवेद्भक्तेर्नाशकस्तं परित्यजेत् ।मोक्षस्य रोधकं चापि दुष्टसंगं विवर्जियेत् ॥६२॥पूर्वसंस्कारयोगेन नैर्मल्यं हृदि जायते ।पूर्वपुण्योदयेनापि नैर्मल्यं जायते हृदि ॥६३॥कृपया श्रीहरेश्चापि नैर्मल्यं जायते हृदि ।साधूनां कृपया चापि नैर्मल्यं जायते हृदि ॥६४॥सेवाख्येन पौरुषेण साधूनां श्रीहरेस्तथा ।नैर्मल्यं जायते श्रेष्ठं सर्वस्वार्पणकर्मणा ॥६५॥निर्मलान्तःकरणो यः सज्जते सत्समागमे ।साधुसेवां हरेः सेवां कृत्वा कृपां प्रसादनम् ॥६६॥प्रसन्नतां हरेर्लब्ध्वा लब्ध्वा साधोः प्रसन्नताम् ।वरदानं ततो लब्ध्वा हरेः सतां महात्मनाम् ॥६७॥सद्बुद्ध्या श्रीहरिं प्राप्य नरनाट्यधरं प्रभुम् ।साधून्मोक्षप्रदान् प्राप्य कृत्वा संगं हरेः सताम् ॥६८॥तेभ्यः प्राप्य परं ज्ञानं तद्भक्त्याऽऽप्नोति दिव्यताम् ।कृपया दिव्ययानेन भक्तो याति परं पदम् ॥६९॥सकल्पानां वासनानां मायानां च निवर्तनम् ।मोक्षाभिगमनं चेति हरेः सतां प्रसंगतः ॥७०॥मनो लीनं हरौ कृष्णे जायते स्नेहयोगिनाम् ।तथैकान्तिकभक्तानां स्यान्निष्कैतवसेवया ॥७१॥सेवाभक्तिपरः श्रेष्ठो न निवृत्तिपरायणः ।सेवकोऽसंख्यमोक्षार्थी निवृत्तस्त्वात्ममोक्षकृत् ॥७२॥दास्येन भजमानस्य भक्तिः कृष्णेऽधिका यतः ।भक्त्याधिक्यबलः श्रेष्ठः समर्थोऽसंख्यमोक्षणे ॥७३॥निवृत्तो दुर्बलो हीनः कृष्णस्तद्भक्तसेवया ।सेवकः सबलः कृष्णाज्ञायां दृढस्थितिर्मतः ॥७४॥तत्र कश्चिद् भवेद् दोषो वाक्पारुष्यादिकोऽपि च ।न ग्राह्यो दिव्य एवाऽसौ तद्दोषो गुण एव सः ॥७५॥दोषदृष्टिस्तु पुरुषो दानवो वाऽसुरो हि सः ।कृष्णे दोषग्राहकः स नृनाट्यमनुकुर्वति ॥७६॥कल्याणदो हरिश्चात्र करोति भक्तवाञ्च्छितम् ।नारीणां कामनापूरो नराणामिष्टदोऽपि च ॥७७॥तत दैत्याः कल्पयन्ति स्वदृष्टान्तेन कर्मजान् ।तच्चरित्रेषु दिव्येषु श्रुतिमात्राऽघहारिषु ॥७८॥दोषान् कामक्रोधलोभान् तेन ते यान्त्यधोगतिम् ।नैतावता हरेः साधोर्जगत्कल्याणकारिणः ॥७९॥दोषगन्धोऽपि भवति दिव्यस्य परमात्मनः ।दोषदर्शी त्वासुरः स्यात्तस्माद्दोषं न कल्पयेत् ॥८०॥महत्स्वपि तु भक्तेषु स्वल्पेष्वपि च सर्वथा ।हरौ यथा तथा दोषं स्वल्पं चापि न कल्पयेत् ॥८१॥कृष्णो दिव्यः कृष्णलीला दिव्याः कल्याणदास्तु ताः ।सन्तो दिव्या सतां लीला दिव्यास्तद्वद्धि मोक्षदाः ॥८२॥दिव्या श्रीबालकृष्णस्य चाज्ञा तत्र च वर्तते ।यः स दिव्यो भवेदत्र महानेव मतो हि सः ॥८३॥कृष्णनारायणश्चाऽक्षरेशः श्रीपुरुषोत्तमः ।साक्षात्प्राप्तो नरनाट्यधरोऽत्राऽऽज्ञाप्रवर्तकः ॥८४॥इतिनिश्चित्य भक्तास्तु वर्तन्ते तद्वचोऽन्विताः ।तेषां प्रसेवया मुक्तिर्भवत्येवाऽऽज्ञया यथा ॥८५॥भक्ता आज्ञांकिताः सन्ति मोक्षार्था मोक्षगामिनः ।संसारिणस्त्वभक्तास्ते भवन्ति विषयैषिणः ॥८६॥भक्तानां विषयाः सन्ति नारायणपरायणाः ।अभक्तानां तु विषयाः कामास्वादनतत्पराः ॥८७॥ग्राम्यं गीतं रूपमिष्टं स्पर्शो गन्धश्च देहजः ।अभक्ष्यभक्षणं चेति विषया विषयैषिणाम् ॥८८॥कृष्णगतिं कृष्णरूपं कृष्णस्पर्शोऽतिसौरभः ।कृष्णस्य गन्ध एवापि जलान्नफलभूषणम् ॥८९॥कृष्णप्रसादि तुलसीदलं चाम्बरमित्यपि ।वाद्यगायनशोभादि शृंगारहास्यगीतिकाः ॥९०॥रमणं लासनं भावा भक्तानां भगवत्कृताः ।ग्राम्यास्तिष्ठन्ति बाह्येषु भक्तास्तिष्ठन्ति केशवे ॥९१॥ग्राम्या हातुं न वै शक्ता यथा ग्राम्यान् प्रभोगकान् ।भक्ता हातुं न वै शक्तास्तथा कृष्णप्रभोगकान् ॥९२॥समाधिस्था अपि भक्ताः कुर्वन्ति श्रीहरेः कथाम् ।आकृष्यन्ते गुणे गाने कृष्णस्यैव न चेतरे ॥९३॥सत्वस्थितौ हरेर्ध्यानं जायते शान्तिकृत् सुखम् ।राजसे तामसे भावे कृष्णध्यानं तु दुर्वहम् ॥९४॥ध्येयस्फुर्तिर्भवेन्नैव राजसे तामसे हृदि ।बहिः कृष्णस्तदा दृश्यो दर्शनीयो नृनाट्यधृक् ॥९५॥साधवो दर्शनीयाश्च तदानीं बहिरेव ह ।सेवनीया बहिर्भावै राजसैः सुखसम्पदा ॥९६॥यद्वा चात्मस्वरूपस्य कार्यं सुचिन्तनं तदा ।ज्ञानेन लीयते भावस्तामसो राजसोऽपि च ॥९७॥मनोऽपि कीशवन्नैसर्गिकं चलं निरुद्ध्यते ।अनिरोधे तु सततं कीर्तनीयो हरिर्बहिः ॥९८॥सतालीवादनं कुर्यात् कृष्णकीर्तनमुत्तमम् ।संकल्पास्तेन नश्यन्ति राजसास्तामसास्तथा ॥९९॥सतां सेवा प्रकर्तव्या ग्राह्या वार्ता सतां मुखात् ।साधयेच्छान्तिममृतप्रदां संकीर्तनेन वै ॥१००॥आश्रयोऽतिदृढः कृष्णे प्रसादस्य प्रवर्तकः ।आश्रयेण गुणवेगाः शाम्यन्ति भक्तयोगिनः ॥१०१॥विश्वासेन प्रकर्तव्यश्चाश्रयः परमात्मनः ।स्वार्थेन वा प्रकर्तव्यः स्नेहेन वा परात्मनः ॥१०२॥ज्ञानेन वा प्रकर्तव्यश्चाश्रयः परमात्मनः ।त्रयः पूर्वा निर्बला वै सबलो ज्ञानजाऽऽश्रयः ॥१०३॥सतां वाक्येषु विश्वस्ता आश्रयन्ति हरिं जनाः ।राज्यैश्वर्याऽऽरोग्यधनाद्याप्त्यै तु स्वार्थिका जनाः ॥१०४॥रूपसौहार्दसम्बन्धस्नेहेन स्नेहिनो जनाः ।स्निग्धा भूत्वाऽऽश्रयन्त्येव सहन्ते विरहं न ते ॥१०५॥सत्संगबलतो ज्ञात्वा माहात्म्यं परमात्मनः ।आश्रयन्ति हरिं ज्ञानिवर्यास्ते शाश्वताश्रयाः ॥१०६॥ज्ञानिनस्तु प्रजानन्ति हरिं सर्वेश्वरेश्वरम् ।सर्वगुणाऽगुणाधारं दिव्यमायाधिपं तथा ॥१०७॥दोषाऽदोषाश्रयं न्यायाऽन्यायाश्रयं प्रभुं विभुम् ।अणुं महान्तं दीर्घं च कामाऽकामाश्रयं तथा ॥१०८॥ऐश्वर्याऽनैश्वर्ययुक्तं भयाऽभयसमन्वितम् ।सदसत्सर्वकोशं च यावदाश्चर्यसंभृतम् ॥१०९॥कर्माऽकर्माश्रयं चापि सर्वाश्रयं यथायथम् ।असंभवो हरौ नास्ति यस्य कस्यापि सर्वथा ॥११०॥असुष्ठोश्चापि सुष्ठोश्च महाश्रयो हरिर्हि सः ।सर्वं घटते कृष्णे वै सर्वशरीरशायिनि ॥१११॥अन्विते तत्र सर्वत्र घटते देहवत् क्रिया ।व्यतिरेकेऽपि सर्वं वै घटते माययोज्झितम् ॥११२॥समाये मायया तुल्यममाये निजतुल्यकम् ।घटते च ततो नास्याश्रये विघ्नं प्रजायते ॥११३॥एवं समाश्रितः कृष्णो ज्ञानेन चेत् परेश्वरः ।सर्वकलानिधिः स्यात् स सर्वाधिश्रेयसां प्रदः ॥११४॥आश्रयेण समस्तानि कृतानि साधनानि वै ।भवन्त्येव न संदेहस्तं प्रसाध्य प्रमोक्षयेत् ॥११५॥कालीन्दर! सदा ज्ञात्वा कुर्वाश्रयं मुहुर्मुहुः ।शस्यस्येव परंधाम भज नारायणं हरिम् ॥११६॥इत्युक्त्वा प्रययौ साधुरन्यां दिशं यथोचिताम् ।कालीन्दराद्या भेजुश्च लक्ष्मि! मां तद्वचःस्थिताः ॥११७॥अथाऽहं नीतवाँस्ताँश्चाऽक्षरं मे परमं पदम् ।देहान्ते मे दृढमाश्रयं गतान् भक्तिभागिनः ॥११८॥पठनाच्छ्रवणादस्य स्मरणाद् वर्तनात्तथा ।भुक्तिर्मुक्तिर्भवत्येव कृपया मे रमे सदा ॥११९॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भाण्डीरग्रामस्थस्य कालीन्दरभाण्डस्य नर्तक्यादिसहितस्य परमभक्त्या मोक्षणं कमलायनमहर्षेरुपदेशश्चेत्यादिनिरूपणनामा द्विशततमोऽध्यायः ॥२००॥ N/A References : N/A Last Updated : May 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP