द्वापरयुगसन्तानः - अध्यायः ११०
लक्ष्मीनारायणसंहिता
श्रीपुरुषोत्तम उवाच-
विद्या चाचरणं लक्ष्मि जन्म दीक्षा शुभाश्रयः ।
एते यत्र प्रविद्यन्ते दानपात्रं तदुत्तमम् ॥१॥
याचते यत्प्रदत्तं तच्छ्रेय एव निगद्यते ।
अयाचते प्रदत्तं तु दानं स्वस्वत्ववर्जितम् ॥२॥
ब्रह्मिष्ठो दानपात्रं वै साधुः पात्रप्रभूषणम् ।
लब्ध्वा साधुः सुविद्वान् यत् प्रीणाति देवता गुरून् ॥३॥
याचना सर्वथा लक्ष्मि निकृष्टोद्वेगकारिणी ।
प्रकाशदस्युर्याचमानो भवत्येवाऽघकृद्धि सः ॥४॥
याचना तु भवेन्मृत्युर्मृत्युरेव तु याचना ।
सा तु दुःखप्रदा तस्माद् याचतो दानमेव न ॥५॥
दातृत्वं जीवनं प्रोक्तं याचते दीयते यदि ।
जीवनं श्रेय एवास्ति दाता श्रेयश्च विन्दति ॥६॥
ग्रहीता श्रेयसा युक्तो भवत्येव तथाऽधर्मः ।
उत्तमो वै प्रदाता स्यात्तस्माद्दानं प्रशस्यते ॥७॥
याचते दीयमानेनाऽनृशंसत्वं विभाव्यते ।
अयाचते तु दानेन स्वर्गफलं विभाव्यते ॥८॥
पूज्या हि ज्ञानविज्ञानतपोभक्तियुता जनाः ।
योगिनः साधवः पूज्यास्तेभ्यो देयं समस्तकम् ॥९॥
दत्तमतिथये विद्यावते शीलवतेऽर्थिने ।
अक्षयं वै फलं तस्य जायते शाश्वतं दिवम् ॥१०॥
येषां शिष्याः सुता दाराः प्रतीक्षन्तेऽन्नवारिणी ।
तेभ्यो दत्तं प्रभुञ्जानास्त्रेताग्निं प्रीणयन्ति ते ॥११॥
साधुभ्यो ब्रह्मचारिभ्यो दत्तं प्रभुञ्जते तु ते ।
ब्रह्माग्निं ते प्रीणयन्ति सवनं परमं हि तत् ॥१२॥
मध्यन्दिनं तु सवनं भिक्षुकेभ्योऽर्पणं सदा ।
देवेभ्यश्चापि पितृभ्योऽर्पणं तद्वैश्वदैविकम् ॥१३॥
सवनं तु तृतीयं तद् यज्ञास्त्रयो दिवंप्रदाः ।
नारायणाय मह्यं यद् दत्तं दिव्यमखो हि सः ॥१४॥
आत्मार्पणात्मको लक्ष्मि कर्तव्योऽयं विजानता ।
अद्रोहः सर्वभूतानां संविभागोऽनुयायिनाम् ॥१५॥
सेवा तुष्टिर्दमस्त्यागो यज्ञा भवन्ति सात्त्विकाः ।
त एतेऽवभृथायन्ते श्रद्धापूताः सदक्षिणाः ॥१६॥
पापकृतां जनानां न प्रतिगृह्णन्ति साधवः ।
तस्माद् द्रव्यमये यज्ञे दातव्यं पापनाशनम् ॥१७॥
यदि गृह्णन्ति सन्तोऽस्य पापिनः पावनं हि तत् ।
पापप्रक्षालनशक्तं पात्रबलात् प्रजायते ॥१८॥
ब्राह्मणाँस्तर्पयेद् द्रव्यैस्तत्तदिष्टतमाऽर्पर्णैः ।
मैत्रान् साधून् वेदविदः शीलव्रततपोजुषः ॥१९॥
तर्पयेद् बहुधा दानैः स्वाद्वन्नैर्दक्षिणादिभिः ।
प्रजावतो भक्तजनान् प्रजावान् जायते हि के ॥२०॥
यावतः साधुधर्मान् वै सन्तः संवर्धयन्ति हि ।
ते भर्तव्या बहुदानैर्जीवकल्याणकारिणः ॥२१॥
धेनवो वृषभा भूषा अम्बराणि धनानि च ।
आज्यान्यन्नानि यानानि छात्रं वासांस्युपानहौ ॥२२॥
अश्ववन्ति च यानानि वेश्मानि शयनानि च ।
एते देयाः साधुसद्भ्यः स्वर्गदा मोक्षदा हि ते ॥२३॥
दाता पापैर्विनिर्मुक्तः पूतः स्वर्गं प्रयाति हि ।
उपछन्नं प्रकाशं वा वृत्त्या साधून् प्रपालयेत् ॥२४॥
राजसूयाऽश्वमेधानां फलभाक् स भवेद् ध्रुवः ।
योगं क्षेमं विन्दतेऽपि शाश्वतं चाक्षरं पदम् ॥२९॥
साधवो यं न शंसन्ति तन्न कुर्यात् कदाचन ।
दद्याद्वै महतो भोगान् क्षुद्भयं प्रणुदेत् सताम् ॥२६॥
यत्र देशे प्रपश्यन्ति स्वादुभोज्यानि बालकाः ।
प्रपश्यन्त्येव नाऽश्नन्ति स देशोऽघमलात्मकः ॥२७॥
यत्र देशे साधवश्चाऽनाथाः स्त्रियश्च बालकाः ।
क्षुधा सीदन्ति देशः स नाशमायाति सर्वथा ॥२८॥
क्रोशन्त्यो यत्र वै देशे ध्रियन्ते तरसा स्त्रियः ।
गावश्चापि प्रजाश्चापि स देशो मरणोन्मुखः ॥२९॥
तस्मादभयदानाख्यं दानं परमकं मतम् ।
अभयस्य प्रदाता वै याति चाऽभयमक्षरम् ॥३०॥
पुरुषोत्तमसाम्नश्चोद्गाता यात्यभयाऽक्षरम् ।
पृथिवीदानकृल्लक्ष्मि! याति क्ष्मामक्षरात्मिकाम् ॥३१॥
दत्ताऽत्र क्ष्मा दिव्यरूपं धृत्वोत्तिष्ठति चाक्षरे ।
अचला चाऽक्षया दोग्ध्री दिव्यकामादिपूरणी ॥३२॥
रत्नवासांसि रम्याणि सुधाव्रीहियवाऽमृतान् ।
सर्वविधान्यमृतानि लभते भूमिदोऽक्षरे ॥३३॥
भूमिदः सर्वलोकेषु शाश्वतीरेधते समाः ।
यावद्भूमेरिहाऽऽयुश्च तावद्भूमिद एधते ॥३४॥
भूमिं ददुश्च ये दाने भूमिं ते भुञ्जते पराम् ।
भूमिर्भूतिर्महालक्ष्मीर्दातारं कुरुते प्रियम् ॥३५॥
यथादानं तथा भोगो दानं श्रीः परमा मता ।
अपि पापसमाचारे ब्रह्मघ्ने भक्तिवर्जिते ॥३६॥
क्षितिः क्षिप्ता पुनात्येव ग्रहीता साधुभिस्तु चेत् ।
सा मन्यते धन्यभाग्यं साधुहस्तगता सती ॥३७॥
दातारं कुरुते शुद्धं स्वापत्यं जननी यथा ।
पृथ्व्या नामाऽस्ति धर्माख्यं प्रियदत्तेति सार्थकम् ॥३८॥
भूमिं तु साधवे दत्वा भूमिं दिव्यां प्रविन्दते ।
यः साधोर्भूमिमादत्ते न भूमिं विन्दते हि सः ॥३९॥
साधोर्भूमिः शस्यतेऽत्र सा तु नारायणी मता ।
पापी गोचर्ममात्रेण भूमिदानेन पूयते ॥४०॥
यो यजेताऽश्वमेधेन दद्याद्वा साधवे महीम् ।
महीदानं प्रशस्तं शाश्वतानन्दफलप्रदम् ॥४१॥
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।
सर्वमेतद् दत्तवान् स्याद् यो ददाति वसुन्धराम् ॥४२॥
तपो यज्ञः श्रुतं शीलं गुरोः सेवा गवार्चनम् ।
साधुदैवतपूजा च एता भवन्ति भूमिदे ॥४३॥
दातृनिःश्रेयसे युक्ता श्रेयः परं ददाति सा ।
यथा जननी पुत्रं स्वं क्षीरेण भरतेऽन्वहम् ॥४४॥
तथा पुष्णाति दातारं सर्वगन्धरसैर्मही ।
मृत्युः कालो यमदण्डो माया वह्निर्ज्वरो ह्यरिः ॥४५॥
पाशो बाधाश्च विघ्नाश्च भयं दुरीतमित्यपि ।
अकस्माता ईतयश्च नोपसर्पन्ति भूमिदम् ॥४६॥
पितॄन् देवान् महर्षींश्च सिद्धान् योगिजनान् सतीः ।
साध्वीर्युक्तान् ब्रह्मकान्ताः सन्तर्पयति भूमिदः ॥४७॥
कृशाय वृत्तिहीनायाऽनाथाय सीदते क्षितिम् ।
जीविकाजननीं दत्वा सर्वसत्री भवेज्जनः ॥४८॥
यथा धेनुः स्ववत्सं वै यच्छति वत्सला पयः ।
पोषयत्येव तद्वत् क्ष्मा दातारं पोषयत्यति ॥४९॥
ससस्यां वा सबीजां वा सकणां यः प्रयच्छति ।
श्रेष्ठं गृहं चार्पयति भवेद् ब्रह्मा स दानकृत् ॥५०॥
यथा चन्द्रमसो वृद्धिः शुक्ले प्रत्यहमेव ह ।
तथा भूदः परां वृद्धिं सस्ये सस्ये प्रविन्दति ॥५१॥
पृथ्वी मूर्तिमती प्राह पृथ्वीस्वामिन एव सा ।
मामादाय च मां दत्त दत्वा मां मामवाप्स्यथ ॥५२॥
प्रायश्चित्तं महीदानं पुनात्युभयतो दश ।
स कुलीनः स पुरुषः स बन्धुः स हि पुण्यकृत् ॥५३॥
स दाता स मखी साधुर्यो ददाति वसुन्धराम् ।
यथा सस्यानि रोहन्ति तथा क्ष्मादस्य कामनाः ॥५४॥
भूमिर्माता पिता लक्ष्मीरन्नं जीवनमित्यपि ।
भूमौ भवन्ति पुष्टाश्च निष्ठां व्रजन्ति वै भुवि ॥५५॥
आदित्या वरुणा रुद्रा ब्रह्माणो विष्णवोऽनलाः ।
वसवः शशिनो देवा भूमिं दत्वाऽभवन् सुराः ॥५६॥
सुवर्णदानं गोदानं भूमिदानं गृहार्पणम् ।
ददन्नेतान् साधवेऽत्र सर्वपापैः प्रमुच्यते ॥५७॥
भर्तुर्निःश्रेयसे यत्ता पतिव्रताऽर्धदेहिनी ।
भूदानमाचरेत् तेन भर्ता यात्यक्षरम पदम् ॥५८॥
रत्नोपकीर्णां वसुधां सर्वकामगुणान्विताम् ।
दद्याद् राजाधिराजः स्यात् पुण्यः स्वर्गे महीयते ॥५९॥
सर्वकामदुघां धेनुं महीं कामप्रवर्षिणीम् ।
कन्यां वंशकरीं साध्वीं ददन् स्वर्गे महीयते ॥६०॥
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा ।
सरितस्तर्पयन्तीह परे तु वसुधाप्रदम् ॥६१॥
महीं शस्त्रजितां दत्वा युद्धपापं व्यपोहति ।
न तस्य लोकाः क्षीयन्ते स्वर्गे मोदन्त एव ते ॥६२॥
भूतिं चेच्छन् प्रदद्याद् क्ष्मां पुण्यामृद्धिरसान्विताम् ।
सागरान् सरितः शैलान् काननानि च सर्वशः ॥६३॥
तडागान्युदपानानि स्रोतांसि च सरांसि च ।
स्नेहान् सर्वरसांश्चैव ददाति वसुधां ददन् ॥६४॥
ओषधीर्वीर्यसम्पन्ना नगान् पुष्पफलान्वितान् ।
काननोपलशैलाँश्च धातून् खनीश्च सर्वथा ॥६५॥
जीविकां सर्वजीवानां ददाति वसुधां ददन् ।
इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम् ॥६६॥
गोऽश्ववाहनपूर्णां च निधिगर्भां ससाधनाम् ।
ददाति योऽक्षयलोकान् लभते स महासुखान् ॥६७॥
भूमिसत्रं भवेत्तस्य सर्वकलुषनाशकम् ।
सतां लोके परे दिव्ये सद्भिर्दाता महीयते ॥६८॥
शतं दिव्या योषितोऽपि दिव्यमालाविभूषिताः ।
सम्पदश्चोपतिष्ठन्ति ब्रह्मलोके धराप्रदम् ॥६९॥
शंखभद्रासनं छत्रं वराश्वावरवाहनम् ।
धर्मपुण्यानि पुष्पाणि हिरण्यनिचयाँस्तथा ॥७०॥
आज्ञां सदाऽप्रतिहतां जयशब्दान् वसूनि च ।
हिरण्यपुष्पाश्चौषधीन् कुशकाञ्चनशाद्वलाः ॥७१॥
अमृतप्रसवां भूमिं भूतिं क्ष्मादः प्रपद्यते ।
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः ॥७२॥
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ।
नास्ति साधुसमं पात्रं नास्ति मोक्षसमं सुखम् ॥७३॥
नास्ति मुक्तिप्रदं स्तोत्रं पुरुषोत्तमसामवत् ।
दानकृत् स्तोत्रवक्ता च याति धामाऽक्षरं मम ॥७४॥
दानफलं परं भुक्त्वा स्वर्गे सत्ये तथैश्वरे ।
दिव्यलोके ततो याति स्तवाद्धामाऽक्षरं मम ॥७५॥
यथा भूमिस्तथा चान्नं शस्यते दानरूपकम् ।
लोकयात्रा भवत्यन्ने प्राणा अन्ने प्रतिष्ठिताः ॥७६॥
अन्नं तत् प्रथमं ब्रह्म जीवकं तृप्तिदं सदा ।
अन्नभूर्जस्कर शक्तिप्रदं धारकमेव तत् ॥७७॥
तापसा भिक्षवः सन्तो गृहिणोऽन्ने प्रतिष्ठिताः ।
क्षुधितायाऽन्नदाता तु परत्र निधिमान् ध्रुवः ॥७८॥
अतिथिं चागतं शीघ्रं जलान्नैः पूजयेद् गृही ।
अन्नदो लभते स्वर्गे चेह वाऽमृतमुत्तमम् ॥७९॥
अन्नं श्वपाके शुनिं वा दत्तं न विप्रणश्यति ।
दद्याददृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥८०॥
पितॄन् देवानृषीन् विप्रान् साधून् नारीरनाथकान् ।
अतिथीन् प्रीणयत्यन्नैस्तस्य पुण्यमनन्तकम् ॥८१॥
अन्नदानं सर्ववर्णे शस्यते पुण्यदं हि तत् ।
न पृच्छेद् गोत्रचरणं स्वाध्यायं देशमित्यपि ॥८२॥
भिक्षुकाय प्रदद्याद्वै याचितोऽन्नं समुत्तमम् ।
अन्नदस्याऽन्नसस्यानि सर्वदा फलदानि वै ॥८३॥
भवन्ति चेहाऽमुत्रापि सुधास्वादुफलानि हि ।
पितरोऽपि प्रतीक्षन्ते कुलेऽन्नदो भवेद्धि नः ॥८४॥
सन्तो विप्रा अनाथाश्च व्यंगा अन्नस्य भिक्षवः ।
सत्कृताश्च निवर्तन्ते दत्वा पुण्यानि दैवतम् ॥८५॥
नित्यं मिष्टान्नदायी तु स्वर्गे वसति सत्कृतः ।
अन्नदः पशुमान् पुत्री धनवान् भोगवानपि ॥८६॥
प्राणवान् रूपवाँश्चापि जायते पूज्यते सुरैः ।
क्षेत्रं क्षुधायुतं पात्रं तत्रोप्यते प्ररोहति ॥८७॥
प्रत्यक्षं प्रीतिजननं चामृतं पुण्यसत्फलम् ।
भोक्तुर्दातुर्भवत्येव जीवनांकुरमेव ह ॥८८॥
धातुमूलं काममूलं गर्भमूलं सदाऽन्नकम् ।
प्रसवश्चापि धर्मार्थौ रोगनाशोऽन्नतो मताः ॥८९॥
अन्ने भूः स्वः सत्यलोकः सर्वे तिष्ठन्ति पद्मजे ।
अन्नाभावे प्रभिद्यन्ते शरीरे पञ्चधातवः ॥९०॥
बलं रूपं प्रशक्त्याद्या नश्यन्त्यन्ननिरोधनात् ।
उत्सवाश्च विवाहाश्च यज्ञाश्चान्नैर्भवन्ति हि ॥९१॥
स्थावरं जंगमं यच्च सर्वमन्ने प्रतिष्ठितम् ।
जडं च चेतनं चापि पुष्टितत्त्वमपेक्षते ॥९२॥
अपि यन्त्राणि तैलाऽऽपोऽपेक्षन्ते का कथाऽऽत्मनः ।
भवनानि प्रकाशन्ते दिवि चान्नप्रदात्मनाम् ॥९३॥
तारासंस्थानि जायन्ते चन्द्रशुभ्राणि तानि वा ।
तरुणादित्यवर्णानि किंकिणीजालवन्ति च ॥९४॥
अनेकशतभौमानि सान्तर्जलचराणि च ।
वैदूर्याऽर्कप्रकाशानि रौप्यरुक्ममयानि च ॥९५॥
सर्वकामफलदाश्च वल्लीवृक्षाश्च तेष्वपि ।
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाः सन्ति तेषु च ॥९६॥
घोषवन्ति विमानानि लभ्यन्ते भवनेष्वपि ।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥९७॥
क्षीरनद्यो दधिनद्यो घृतनद्योऽत्र सन्ति च ।
प्रासादा दिव्यकान्ताश्च सुशय्याः काञ्चनोज्ज्वलाः ॥९८॥
देव्यो मनोहरा योग्याः प्राप्यन्ते तत्र मन्दिरे ।
अन्नदानां सदा लक्ष्मीर्वर्धतेऽमृतवर्षिणी ॥९९॥
सुधानद्यः प्रस्रवन्ति पीयूषवार्धयस्तथा ।
एवं भुक्त्वा शुभान् लोकान् यथापुण्यमतः परम् ॥१००॥
पुरुषोत्तमसाम्ना वै लक्ष्मि याति पदं मम ।
अक्षरं धाम परमं भुंक्ते कामान् मया सह ॥१०१॥
साधून् विप्राँस्तर्पयेद्वै सर्पिषा पायसेन च ।
कृसरैः पोलिकाद्याभिः सूपोदनैश्च तर्पयेत् ॥१०२॥
तिलपक्वान्नकैर्भक्ष्यैः फाणितैः पायसैः शुभैः ।
शाकैः फलैर्मूलकैश्च कन्दैर्दलैश्च सक्तुकैः ॥१०३॥
राजमाषैश्च मिष्टान्नैर्लड्डुकैस्तर्पयेत् सतः ।
दक्षिणायां स्वर्णदानं रूप्यकं चाऽर्पयेत्तथा ॥१०४॥
स्वर्गान् भुक्त्वा सामपाठादक्षरं संव्रजत्यपि ।
शाश्वतं परमानन्दं भुंक्ते लक्ष्मि मया सह ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दानपात्रे दानफलं भूदानफलमन्नदानफलं पुरुषोत्तमसामफलं चेत्यादिनिरूपणनामा दशाधिकशततमोऽध्यायः ॥११०॥
N/A
References : N/A
Last Updated : May 04, 2021
TOP