संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः १२० द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः १२० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२० Translation - भाषांतर श्रीपुरुषोत्तम उवाच-शृणु लक्ष्मि! महालक्ष्म्या मन्त्रान्तरं वदामि ते ।यदाराधनतो भूयात् साधको भुक्तिमुक्तिमान् ॥१॥ओं महालक्ष्मीमहामायामहानारायण्यै कमलवासिन्यैमहाविष्णुप्रियायै नमः, ओं श्रीं ह्रीं क्लीं णीं म्लींष्णीं महामात्रे पुरुषार्थवर्षिण्यै स्वाहा॥२॥पञ्चाशदक्षरं दिव्यं महामन्त्रं जपेत् सदा ।ऋषिर्नारायणश्चाऽहं महालक्ष्मीर्हि देवता ॥३॥स्वर्णचम्पकरूपाभां सर्वभूषणभूषिताम् ।कृपाहास्यप्रसन्नास्यां भक्तानुग्रहतत्पराम् ॥४॥सर्वैश्वर्यादिसम्पूर्णां सर्वाम्बरविराजिताम् ।कोटिसूर्येन्दुकान्तां च रत्नहारादि बिभ्रतीम् ॥५॥कम्भराश्रीमहालक्ष्मीं श्रीमद्गोपालरूपिणीम् ।महाविष्णुमहाशक्तिं ध्यायेच्छ्रीमातरं रमाम् ॥६॥जपेन्मन्त्रायुतं मन्त्रलक्षं वाऽथ दशांशतः ।पायसेन हवनं च कुर्याच्छ्रीचन्दनार्चनम् ॥७॥स्थापनं पूजनं कुर्यादारार्त्रिकं निवेदनम् ।जलं ताम्बूलकं दद्यात् क्षमापनं विसर्जनम् ॥८॥नवशक्तीः पूजयेच्च महालक्ष्म्याः स्वरूपिणी ।विभूतिमुन्नतिं कान्तिं सृष्टिं कीर्ति च सन्नतिम् ॥९॥व्युष्टिमुत्कृष्टिमृद्धिं च दक्षिणे तु गजाननम् ।वामे कुसुमधन्वानं पूजयेच्चन्दनादिभिः ॥१०॥उमां श्रीं भारतीं दुर्गां धरणिं वेदमातरम् ।देवीमुषां चाष्टदिक्षु गंगां यमीं च पूजयेत ॥११॥पादपद्मक्षालनायाऽऽनीता अपः प्रपूजयेत् ।शंखपद्मनिधी चाऽर्चेत् पार्श्वयोर्धृतचामरौ ॥१२॥धृतातपत्रं वरुणं पूजयेत् पश्चिमे तथा ।राशीन्नवग्रहाँश्चापि दिग्गजानर्चयेत्तथा ॥१३॥लोकपालाँस्तदस्त्राणि पूजयेत्त्वनले तथा ।दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः ॥१४॥गुडूचीमाज्यसंसिक्तां जुहुयात् सप्तवासरान् ।अष्टोत्तरसहस्रं यः स जीवेत् पूर्णमेव ह ॥१५॥हुत्वा तिलान् घृताभ्यक्तान् दीर्घमायुष्यमाप्नुयात् ।शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम् ॥१६॥अचिरादेव महती लक्ष्मीः सञ्जायते ध्रुवा ।नारीकेलघृताद्यैर्जुहुयात् कुबेरवद् भवेत् ॥१७॥गुडघृताभ्यां हवनादन्नवान् सम्प्रजायते ।एवं यो भजते लक्ष्मीं कंभरां ललितां श्रियम् ॥१८॥सम्पदस्तस्य जानन्ते महालक्ष्मीः प्रसीदति ।देहान्ते वैष्णवं धाम लभते पारमेश्वरम् ॥१९॥श्रीपुरे दिव्यलोके सा माता लक्ष्मीः परेश्वरी ।विविधान् स्वावतारान् हि त्रैलोक्यां कुरुते सदा ॥२०॥महालक्ष्मीर्महामाया मूलप्रकृतिरीश्वरी ।पारब्राह्मी चाऽक्षरी च परेशी पुरुषोत्तमी ॥२१॥राधालक्ष्मीश्च गंगा च विरजा च सरस्वती ।सावित्री चाथ गायत्री कमला पद्मिनी रमा ॥२२॥तुलसी माधवी पद्मा चेत्येवं ख्यायते हि सा ।विष्णुकाञ्च्या महालक्ष्मीर्ललिता वर्तते सती ॥२३॥शिवकाञ्च्यां सैव देवी कामेश्वरी शिवप्रिया ।वर्तते परमा पूज्या नैकरूपा हि कंभरा ॥२४॥श्रीनारायणीश्रीरुवाच-काञ्चीपुर्याः सुकल्याणी द्वेधा या वर्तते स्वयम् ।महालक्ष्मीः परा शक्तिस्तां द्वेधां दिश मे प्रभो ॥२५॥श्रीपुरुषोत्तम उवाच-काञ्चीक्षेत्रे पुरा ब्रह्मा मालक्ष्मीदर्शनाय ह ।आत्मैकध्यानयुक्तश्च तपस्तेपेऽतिदुःसहम् ॥२६॥पुरस्तस्य प्रादुरासीन्महालक्ष्मीः कराब्जिका ।पद्मासने राजमाना विष्णुना महता सह ॥२७॥सर्वशृंगारवेषाढ्यां सर्वाभरणभूषिताम् ।आदिलक्ष्मीं प्रवीक्ष्यैव ब्रह्मविष्ण्वीशमातरम् ॥२८॥कामाक्षीं तां दिव्यदेवीमस्तौषीद् विश्वसृट् स्वयम् ।अनादिश्रीकृष्णनारायणस्य जननीं भुवि ॥२९॥ब्रह्मोवाच-जय लक्ष्मि महालक्ष्मि जगन्मातः परेश्वरि ।जय श्रीनाथसहजे जय श्रीसर्वमंगले ॥३०॥जयश्रीकरुणाराशे जय वैष्णववन्दिते ।जय लोकप्रपूज्ये त्वं लोककर्त्र्यै च ते नमः ॥३१॥अनन्यभावनाभक्तैर्वेद्यायै ते नमो नमः ।आम्नायमुनिसंघातैर्ज्ञातोक्ता या परेश्वरी ॥३२॥परब्रह्मस्वरूपायै मात्रे ते वै नमो नमः ।हृदयस्थे नमस्तुभ्यं साम्राज्यसम्पदीश्वरि ।वेदा निःश्वसितं ते वै तस्यै मात्रे नमो नमः ॥३३॥सहस्रशीर्षा देवोऽपि धत्ते यदाज्ञया क्षितिम् ।सूर्यचन्द्राग्नयो भान्ति यदंशतेजसा सदा ॥३४॥पञ्चविंशतिरूपायै मात्रे लक्ष्म्यै नमो नमः ।ईश्वरा अपि यस्यास्ते प्राप्यैश्वर्याणि चेश्वराः ॥३५॥सर्वात्मनामन्तरस्थां परमानन्दरूपिणीम् ।श्रीविद्यां श्रीमहालक्ष्मीं त्वां नमामि पुनः पुनः ॥३६॥सर्वज्ञानात्मिका यूपात्मिका स्वर्णात्मिकाऽसि च ।तत्त्वोपदेशरूपा च स्मृद्ध्यात्मा शान्तिवर्षिणी ॥३७॥देशकालपदार्थात्मा मणिमन्त्रौषधात्मिका ।धातुतैजसरूपा च तस्यै मात्रै नमो नमः ॥३८॥कल्याणगुणसम्पन्ना कम्भराभूतिशालिनी ।कुंकुमवापिकामाता बालकृष्णप्रसूः रमा ॥३९॥अनादिश्रीकृष्णनारायणांकशोभिताऽव्यया ।वारंवारं सुराष्ट्रे त्वं समायासि नमोऽस्तु ते ॥४०॥इतिस्तुता च सा माता सन्तुष्टा वीक्ष्य वेधसम् ।वृणीष्वेति तदा प्राह ब्रह्माऽपि चार्थयद् वरम् ॥४१॥मातस्ते दर्शनादद्य कृतकृत्योऽस्मि सर्वथा ।तथापि लोकरक्षार्थं कामये तत् प्रदेहि मे ॥४२॥कर्मभूमौ जना मूढाः संसारवासनावृताः ।तेषां मोक्षार्थमेवात्र भूमौ निवासमाचर ॥४३॥श्रुत्वाऽऽह वेधसं माता तथाऽस्त्विति तदा रमे ।ब्रह्माऽपि मन्दिरं शीघ्रं कारयामास सौभगम् ॥४४॥महालक्ष्म्या समं स्थातुं सस्मार परमेश्वरम् ।पुण्डरीकाक्षमीशेशेश्वरेश्वरेश्वरेश्वरम् ॥४५॥सोऽपि साक्षात् समायातः प्रार्थितो ब्रह्मणा तथा ।निवासार्थं सह लक्ष्म्या तथास्त्विति जगाद सः ॥४६॥एवं काञ्चनतुल्यायां स्थल्यां शुभे हि मन्दिरे ।महाविष्णुयुता माता महालक्ष्मीः स्थिताऽभवत् ॥४७॥अथ ब्रह्मा पुनः प्राह मातः पितः सदाऽत्र वै ।वैष्णवाद्यो भवद्भक्तः शंकरोऽपि वसत्विह ॥४८॥वैष्णव्या निजशक्त्याऽऽढ्यश्चेति पूरय कामनाम् ।तथाऽस्त्विति हरिः प्राह शिवरूपोऽभवद्धरिः ॥४९॥महालक्ष्मीश्चाऽभवच्च महागौरी महोज्ज्वला ।सर्वशृंगारशोभाढ्या महालावण्यशेवधिः ॥५०॥शिवं गौरीं तदा ब्रह्मा नारायणश्च देवताः ।पुपूजुः परया भक्त्या स्थापयामासुरीश्वरी ॥५१॥मनसा निर्मितं धात्रा मध्ये नगरमुत्तमम् ।मन्दिरं च तयोरर्थे शिवकांचीतिसुन्दरम् ॥५२॥महालक्ष्म्या वायुभागे स्थितवान् शंकरस्तदा ।अग्निभागे विष्णुरेव ब्रह्माऽव्यक्तो व्यराजत ॥५३॥आदिर्लक्ष्मीर्महालक्ष्मीर्माता सा श्रीपरेश्वरी ।का नाम वाणी मा नाम कमला ते ह्युभे ततः ॥५४॥कामा साऽक्ष्णा तु वामेन पश्यत्येव हरिं प्रभुम् ।शंकरं दक्षिणेनाऽक्ष्णा पश्यत्येव च वेधसम् ॥५५॥कामाक्षीति ततः साऽभूत् कथिता देवपुंगवैः ।तदा गंगायमुनाद्याः सर्वतीर्थाधिदेवताः ॥५६॥तिस्रः कोट्योऽर्धकोटी च सेवार्थं समुपाययुः ।तदाऽऽदाय करयोस्तु चामरे श्रीः सरस्वती ॥५७॥महालक्ष्मीं विजयन्त्यौ स्थिते वै पार्श्वयोः सुखे ।आदिश्रीनयनोत्पन्ने सर्वशृंगारशोभिते ॥५८॥एवं स्वमातरं पृष्ठे स्थिता सन्तोषिणी सुता ।छत्रं स्वर्णमयं धृत्वा राजते दिव्यरूपिणी ॥५९॥महालक्ष्म्याश्चाज्ञयाऽथ सरस्वती स्वयंप्रभा ।पश्यतां सर्वदेवानां विधातुर्देहमाविशत् ॥६०॥इन्दिराश्रीराविशच्च विष्णुदेहे तदाज्ञया ।एवं गौरी शंकरस्य तदा वर्ष्म समाविशत् ॥६१॥सन्तुष्टा चाविशन्मातृदेहं ब्रह्मव्रता सदा ।एवं ता देवतास्तत्र काञ्च्यां वसन्ति पद्मजे ॥६२॥ब्रह्मा ततः सुरानाह प्रतिवर्षमिहालये ।विवाहः सम्प्रकर्तव्यो महागौरीमहेशयोः ॥६३॥तथा कार्यो विवाहो वै महालक्ष्म्यामहाप्रभोः ।महोत्सवः प्रकर्तव्यो राजोपचारकैरिह ॥६४॥विवाहोत्सवकर्तॄणां सौभाग्यं शाश्वतं भवेत् ।काञ्च्यां कुंकुमवाप्यां वा महोत्सवफलं समम् ॥६५॥मया कुंकुमवाप्याख्ये क्षेत्रे सौवर्णमन्दिरे ।स्थापिता मे प्रसूर्माता महालक्ष्मीः परेश्वरी ॥६६॥सहगोपालकृष्णेन महानारायणेन वै ।तत्पूजां ये करिष्यन्ति ते यास्यन्ति महत्फलम् ॥६७॥नैवेद्यं ये धरिष्यन्ति ते यास्यन्ति दिवं सुखम् ।भक्तिं तयोः करिष्यन्ति ते यास्यन्त्यमृतं पदम् ॥६८॥श्रीपुरं चैश्वरं धाम महाविष्णोर्महात्मनः ।इयमेव महालक्ष्मीः श्रीमती परमेश्वरी ॥६९॥त्रियुगलं ससर्जाऽपि लक्ष्मीविष्णुमयं तथा ।सावित्रीविश्वसृङ्रूपं शिवाशिवस्वरूपकम् ॥७०॥जया च विजया विद्या सेवन्ते परमेश्वरीम् ।सम्पत्करी महादेवी सेवते श्रीमतीं सदा ॥७१॥मन्त्रं जपेत्पूजयेच्च श्रीचक्रं सर्ववस्तुभिः ।धारितं मनसा सिद्ध्येत् श्रीचक्रस्य प्रपूजनात् ॥७२॥श्रीचक्रं वै महालक्ष्मीमूर्तिर्गुप्ता न संशयः ।भक्तो भूत्वाऽखिलं भारमैहिकामुष्मिकात्मकम् ॥७३॥श्रीदेवतायां निक्षिप्य भवेच्छरणवर्तनः ।अनुकूलो महालक्ष्म्याः प्रातिकूल्यविवर्जितः ॥७४॥रक्ष मामिति विश्वस्तः सेवां तु वृणुयात् सदा ।दीनाधीनो भवेच्चापि भुक्तिं मुक्तिं स विन्दति ॥७५॥अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् ।सद्गुरूपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७६॥इन्द्रियार्थेषु वैराग्यमहंकारविवर्जितः ।जन्ममृत्युजराव्याधिदुःखदोषानुचिन्तनम् ॥७७॥असक्तिरनभिष्वंगो मायिकेषु तु वस्तुषु ।समता तु सुखे दुःखे भक्तिः श्रीललितेश्वरे ॥७८॥एकान्तशीलता चान्यसंसद्रागविहीनता ।आध्यात्मिकपरत्वं च परज्ञानाभिमग्नता ॥७९॥एवं च वर्तयन् भक्त्या महालक्ष्म्याः प्रपत्तिमान् ।विन्दते परमं मोक्षं भुक्तिं स्वर्गमनुत्तमम् ॥८०॥श्रीलक्ष्मीदर्शने दीक्षां वदामि शृणु पद्मजे ।हस्ते श्रीनगरं ध्यात्वा धाम यत्परमं परम् ॥८१॥महालक्ष्म्या महाविष्णोर्हिरण्मयं सुशोभनम् ।महालक्ष्म्या जपन्मन्त्रं गुरुः शिष्यतनुं स्पृशेत् ॥८२॥स्पर्शदीक्षा सर्वपापनाशिनीं पुण्यदायिनीम् ।दत्वा निमील्य नयने ध्यात्वा श्रीपरमेश्वरीम् ॥८३॥गुरुः शिष्यं प्रपश्येत् सा दृग्दीक्षा पावनी शुभा ।गुरोर्दृष्ट्याः स्पर्शनेन भाषणेन च सेवया ॥८४॥पापनाशो भवेज्ज्ञानं दिव्यदेहो भवेदपि ।गुरोः प्रसादमासाद्य शिष्यस्तद्रूपवान् भवेत् ॥८५॥चिरं शुश्रूषता तुष्टो दद्यादाशीर्गुरुर्हि सा ।दीक्षा तु मानसी प्रोक्ता सर्वार्पणा तदुत्तमा ॥८६॥शुक्लपक्षे शुभे काले स्नात्वा सन्ध्यामुपास्य च ।गुरुं नत्वा पवित्रं च मन्दिरं प्रति संव्रजेत् ॥८७॥आचमनं ततः कृत्वा महालक्ष्मीं प्रपूजयेत् ।आवाहनासने पाद्यमर्घ्यमाचमनं क्रियात् ॥८८॥स्नानं पञ्चामृतमयं शुद्धाऽद्भिरभिषेचनम् ।वस्त्रं विभूषणं गन्धं पुष्पं धूपं च दीपकम् ।नैवेद्यं सलिलं ताम्बूलकं प्रदक्षिणं स्तुतिम् ॥८९॥ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमो महालक्ष्म्यैकम्भरायै कामाक्ष्यै ललितायै श्रीचक्रायै महानारायण्यैमहापरमेश्वर्यै पूर्णब्रह्ममहाविष्णुपत्न्यै श्रीगोपाल-कृष्णांगनायै सर्वसम्पत्प्रपूरिण्यै चाऽष्टोत्तरद्विशतमहा-सामर्थ्यमय्यै ते नमः क एं ईल ह्रीं हस कहल ह्रींसकल ह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीं स्वाहा ॥९०॥इतिपुष्पांजलिं दद्यात्ततो गोमयलेपिते ।भूतले तण्डुलपीठे वारिकुंभं सरत्नकम् ॥९१॥पञ्चपल्लवसंयुक्तं नारिकेलफलान्वितम् ।अभ्यर्च्य गन्धपुष्पाद्यैस्ततो मन्त्रं जपेन्मुहुः ॥९२॥अष्टोत्तरशतं जप्त्वा दीपं प्रदर्श्य वै गुरुः ।शिष्यं च कारयित्वैव साष्टांगं कुसुमाञ्जलिम् ॥९३॥प्रार्थनां कारयेत् तत्र मुहुः सर्वेष्टलब्धये ।परंधाम परंब्रह्म मम त्वं स्वेष्टदेवता ॥९४॥रक्ष मां सकुटुम्बं त्वं रक्ष मोक्षार्थमेव माम् ।गुरोश्चरणयोर्न्यस्य मस्तकं भक्तिसंयुतः ॥९५॥हस्तौ प्रक्षाल्य च ततो नैवेद्यं मिष्टमुत्तमम् ।विविधान्नं फलं दुग्धसारं लक्ष्म्यै समादिशेत् ॥९६॥शिष्यकर्णे मनुं दत्वाऽभिषिञ्चेत् कुंभवारिणा ।ततः शुद्धो महालक्ष्म्याः सपर्या सर्वदाऽऽचरेत् ॥९७॥लक्ष्मीशेषं प्रभुञ्ज्याच्च दक्षिणां गुरवेऽर्पयेत् ।भोजयेद् वैष्णवान् साधून् साध्वीर्बालाँश्च कन्यकाः ॥९८॥शरीरमर्थं प्राणं च तस्मै श्रीगुरवे दिशेत् ।तदधीनश्चरेन्नित्यं तद्वाक्यं नैव लंघयेत् ॥९९॥प्रसादभोजी शिष्यः स्यात् पंक्तिपावनपावनः ।यः प्रसन्नः क्षणार्धेन मोक्षलक्ष्मीं प्रयच्छति ॥१००॥दुर्लभं तं विजानीयाद् गुरुं संसारतारकम् ।आददीत ततो ज्ञानं सेवेत सततं च तम् ॥१०१॥गुरुभक्तिर्भवेच्छिष्यस्तद्द्रोहः पातकं परम् ।तत्पादसेवनं मुक्तितुल्यं मुक्तिप्रदं मतम् ॥१०२॥गुरुशासनवर्तित्वाच्छिष्यसंज्ञा प्रतन्यते ।जपं ध्यानं जपं ध्यानं कुर्याच्छ्रान्तत्वहानये ॥१०३॥ध्यानात् कीटो भ्रमरः स्यात्तथा शिष्यो हरिर्भवेत् ।आत्मैक्यभाविनो ब्रह्मीभूतता दर्शनं फलम् ॥१०४॥अहंभावे गते ज्ञाते चात्मनि परमात्मनि ।यत्र यत्र मनो याति सर्वे ते हि समाधयः ॥१०५॥सर्वब्रह्मात्मलब्धेस्तु ब्रह्मरूपस्य योगिनः ।न तस्य किञ्चिदाप्तव्यं ज्ञातव्यं चाऽवशिष्यते ॥१०६॥पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः ।जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥१०७॥देहो देवालयः प्रोक्तो जीवोऽयं सेवकः स्मृतः ।सेवयाऽन्तर्गतं कृष्णं तोषयेत् सर्वदानकैः ॥१०८॥कोटिदानव्रतयज्ञेभ्यो वरं गुरुसेवनम् ।निर्गतं यद्गुरोर्वक्त्रात् तत्सर्वं शास्त्रमस्य वै ॥१०९॥निषिद्धमपि तत्कुर्याद् गुर्वाज्ञां नैव लंघयेत् ।जातिविद्याधनाढ्योऽपि गुरुं दण्डवदाचरेत् ॥११०॥रिक्तपाणिस्तु नोपेयाद् राजानं देवतां गुरुम् ।फलपुष्पाम्बरादीनि यथाशक्ति समर्पयेत् ॥१११॥सद्भक्तरक्षणायैव दिव्यदेवोऽपि माधवः ।कृपानिधिर्गुरुर्भूत्वा संसारीव स चेष्टते ॥११२॥नास्ति गुर्वधिकं तत्त्वं नास्ति ज्ञानाधिकं सुखम् ।नास्ति भक्त्यधिका पूजा नास्ति मोक्षाधिकं फलम् ॥११३॥स्मरणात्पूजनाच्चापि श्रवणात्पठनादपि ।भुक्तिमुक्तिप्रदं दिव्यं फलं चाऽस्य प्रजायते ॥११४॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने महालक्ष्म्या मन्त्रान्तरं काञ्चीपुर्योर्महालक्ष्म्या द्वेधारूपता ब्रह्मविष्णुमहेशानां तत्र निवासो दीक्षाविधानं चेत्यादिनिरूपणनामा विंशाऽधिकशततमोऽध्यायः ॥१२०॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP