संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः|
अध्यायः २२६

द्वापरयुगसन्तानः - अध्यायः २२६

लक्ष्मीनारायणसंहिता


श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वम् आजीवनीनदीतटे ।
सौराष्ट्रे त्वभवद्वैद्यो नाम्ना गदार्दनेश्वरः ॥१॥
जीरदुर्गकृतावासश्चौषधितत्त्वमर्मवित् ।
विप्रः कुटुम्बसहितो जीरदुर्गे निजापणम् ॥२॥
कृत्वा करोति रुग्णानां चिकित्सां चौषधं ततः ।
नामाऽभवद्धि विख्यातं रोगनाशकलाविदः ॥३॥
परितो ग्रामवर्गेषु देशलोकेषु चाप्यति ।
प्रजाजनाः समायान्ति तद्गृहं रोगनुत्तये ॥४॥
सोऽपि नारायणं कृष्णं स्मृत्वा ददाति चौषधम् ।
सुफलं तद्भवत्येव गुणकृद्रोगहारकम् ॥५॥
यज्ञभस्मान्वितं देवप्रसादशर्करान्वितम् ।
तुलसीपत्रचूर्णाढ्यं काष्ठौषधं च धातुजम् ॥६॥
भस्मादि च रसान् वह्निपक्वान् शरन्निवर्तकान् ।
कफनाशकरान् जीर्णज्वरघ्नानासवाँस्तथा ॥७॥
विरेचकान् गूटिकांश्च पाचकान् वायुनाशकान् ।
शक्तिदान् धातुपुष्टिकृद्वृक्षबीजानि यानि च ॥८॥
जन्तुजान् चूर्णितान् रोगहराँस्तुषाँश्च मूलजान् ।
पत्रजान् पुष्पजाँश्चापि त्वचां चूर्णानि यान्यपि ॥९॥
ददाति रोगिणे रोगान्नाशयत्येव सर्वथा ।
विषं हरति शीघ्रं च सर्पादीनां रसोद्भवम् ॥१०॥
एवंविधस्य वैद्यस्य शालायां मानवा दश ।
कुर्वन्ति पेषणं चापि मर्दनं पाचनं तथा ॥११॥
सारनिःसारणं चूर्णनं च प्रज्वालनं सदा ।
औषधानि यथायोग्यं सम्पादयन्ति यत्नतः ॥१२॥
वर्षारंभे स्वयं गदार्दनः क्षेत्रे नदीतटे ।
याति काचादिपात्राणि नीत्वा जन्तुमये स्थले ॥१३॥
सरीसृपाँस्ताम्रकणशेन्द्रगोपान् पिपीलकान् ।
रक्तपुष्टिकरान् जन्तून् धृत्वा दधाति पात्रके ॥१४॥
सहस्रशः प्राणरौधैर्व्यसवस्ते भवन्ति हि ।
उत्तेजकानि तैलानि कर्तुं गर्तादिगोधिकाः ॥१५॥
धृत्वा काचे तु निक्षिप्य व्यसून् करोति वैद्यराट् ।
निर्दयो निजलाभार्थं परप्राणविघातकः ॥१६॥
विप्रोऽपि राक्षसधर्मा हिंसामार्गपरोऽभवत् ।
नाणकाणां प्रलोभेन तृष्णया हिंसकोऽभवत् ॥१७॥
एवं गदार्दनः काले काले जन्तुविनाशकः ।
औषधार्थं कोटिजन्तुनाशकृद्धिंसकोऽभवत् ॥१८॥
जन्तवोऽपि मूर्छिता अर्दिताः शपन्ति तं द्विजम् ।
नः प्राणघ्नस्य ते प्राणान् हरिष्यन्त्यपि जन्तवः ॥१९॥
चतुरशीतिलक्षासु योनिष्वेव मुहुर्मुहुः ।
अस्मद्वद्दुःखमासाद्य मृत्युं याहि पुनः पुनः ॥२०॥
शप्तश्चैवं बहुशापैस्तीव्रवेगैः स वैद्यकः ।
कर्मविपाककालेन ज्वराविष्टोऽभवच्छनैः ॥२१॥
ज्वरनाशाय सहसाऽयुजत् स गूटिकादिकम् ।
ज्वरः शान्तिं न चायाति प्रत्युत संप्रवर्धते ॥२२॥
प्रारब्धागतविघ्नं हि कोट्युपायैर्न नश्यति ।
शापागतं महादुःखं त्वन्योपायैर्न लीयते ॥२३॥
वैद्यस्य यमराजस्य देवस्य च वृषस्य च ।
ईश्वरस्य समर्थस्य मानवस्य तु का कथा ॥२४॥
लीयते शापदस्यैव प्रसादेन न चान्यथा ।
अत्र ते जन्तवो नष्टाः प्रसादः कुत आलभेत् ॥२५॥
जीर्णज्वरो हि वैद्यस्य बलवत्त्वमुपागमत् ।
नित्यं गदार्दनरक्तं शोषयत्येव भूतवत् ॥२६॥
अथाऽयं तन्निरासार्थं क्वाथान् पिबति नित्यशः ।
अप्रारब्धहताः क्वाथा विपरीता भवन्ति यत् ॥२७॥
रक्तनाशकराश्चाप्युष्णताविवर्धकास्तथा ।
नाडीषु मांसपिण्डेषु सूक्ष्मछिद्रकरा अपि ॥२८॥
व्यवर्तन्त समस्तास्ते क्वाथाः क्षतकरास्ततः ।
मूत्रे मले ष्ठीवनेऽस्य रक्तभागः स्रवत्यपि ॥२९॥
निर्वृत्तात्युपचारोऽपि वैद्यो रुग्णतरोऽभवत् ।
न बुद्धिर्न बलं द्रव्यं नोपचारा विभाग्यके ॥३०॥
महापापे प्रभवन्ति योजिताः कुशलैरपि ।
लक्ष्मि प्रसिद्धवैद्यस्य कृतश्रमस्य शान्तये ॥३१॥
अन्ये वैद्याश्चाययुश्च चिकित्सार्थं विदूरतः ।
कृत्वा मूलचिकित्सां ते प्रयोजयन्ति चौषधम् ॥३२॥
तथाप्यघहतस्याऽस्य लेशलाभो न दृश्यते ।
आशाहताश्च ते भूत्वा प्रयान्ति निजमन्दिरम् ॥३३॥
रक्तस्रावा हि वैद्यस्य न शान्तिं प्रगताः खलु ।
तत्रौषधैः कृतैर्लक्ष्मि प्रत्युताधिकतां गताः ॥३४॥
वर्षं त्वेवं गतं तस्य याम्यसदृशदुःखिनः ।
ततो मात्रा तु भस्मोत्था भक्षिता भिषजा स्वयम् ॥३५॥
साऽपि विकृतिमासाद्य विस्फोटान् परितो व्यधात् ।
पाचपूर्णं च दुर्गन्धं स्फुटितं वर्ष्म चाऽभितः ॥३६॥
पाचस्रावि क्लेदितं च नारकं कुण्डवद्ध्यभूत् ।
न पार्श्वे केऽपि गच्छन्ति वैद्यो रोदिति शूलितः ॥३७॥
उत्पन्नकीटजन्तुकृद्दंशैरर्दित इत्यधी ।
आक्रूश्यत्यतिदुःखेन जन्तुखादितमांसकः ॥३८॥
एतादृशमहादुःखं प्राप्तवान् वैद्यराट् रमे ।
दुःखी मां भजते नित्यं दुःखनाशाय केवलम् ॥३९॥
शापदुःखविनाशेऽहं समर्थो न भवामि वै ।
शापदस्य हृदयेऽहं स्थितस्तदा समर्दितः ॥४०॥
शापदस्त्वहमेवाऽस्मि कथं चाऽशापकृत् पुनः ।
विना तं शापदं जन्तुं प्रभवामि निवृत्तये ॥४१॥
एवं विधस्य वैद्यस्य भजमानस्य मामपि ।
दुःखं निवर्तते नैव मरणं नापि जायते ॥४२॥
भोजनं प्राणधारं चाऽऽदत्तेऽस्य जाठरो लघु ।
तेन प्राणा न प्रयान्ति शापभोगप्रबन्धिनः ॥४३॥
बहुदानानि पुण्यानि कृतवान् वैद्यराडपि ।
प्राणाः स्थानं न मुञ्चन्ति याम्यपुरीसमप्रभाः ॥४४॥
ओषधानां प्रयोगैश्च मनाक् स्वास्थ्यं प्रदृश्यते ।
मासं स्वास्थ्यं दृश्यते च मांसमज्जा विवर्धते ॥४५॥
पुनश्च जन्तवस्तत्र जायन्ते च सहस्रशः ।
कीटा दशन्ति बहुधा याम्यकुण्डो यथा त्विह ॥४६॥
एवं मुहुः शापवशादस्य वैद्यस्य वर्तते ।
दशवर्षाणि चैवं वै व्यतीतान्यस्य रोगिणः ॥४७॥
यावन्तो जन्तवस्तेन मारितास्तावदेव तत् ।
दुःखं साक्षादत्र जातं याम्यं तथापि शिष्यते ॥४८॥
मध्ये लक्ष्मि तथा तस्य पुत्राः षट् पापिसंगतः ।
अतिरिक्तातिसारैश्च शनैः क्रमान्मृतिं ययुः ॥४९॥
विध्वस्ता विधवा जाताः षडेवाऽपत्यवर्जिताः ।
गदार्दनस्य पुत्र्यश्च सप्त ताः संगदोषतः ॥५०॥
सर्वा अपि तु विधवा जाताः पितृप्रपापतः ।
आसनाच्छयनाद्वासाद् भोजनात् सहकर्मणः ॥५१॥
उत्पादाद् दायभागाच्च पापं संक्रमते जने ।
जन्तूनां मारणे तेषां कुटुम्बिनां यथा भयम् ॥५२॥
दुःखं चाऽभूत्तथा शापादस्य कुटुम्बिनां तथा ।
सर्वमत्रैव सञ्जातं दुःखं तीव्रप्रवेगिनः ॥५३॥
एवं निर्वंशतां प्राप्ता पत्नी त्वेकाऽवशिष्यते ।
सापि चिन्तापरा भ्रातॄन् निजानाहूय सर्वथा ॥५४॥
द्रव्यं सर्वं ददौ तेभ्यो गृहं शून्यमिवाऽभवत् ।
पत्नी भ्रातर एवापि द्रव्यपाशेन पाशिताः ॥५५॥
रुग्णाः सर्वेऽभवँस्तूर्णं मृतास्ते द्रव्यभोगिनः ।
निर्वंशास्तेऽपि जाता वै पापद्रव्यप्रसंगतः ॥५६॥
वैद्यस्याऽन्नं न भोक्तव्यं प्रायश्चित्ती यतो भवेत् ।
लक्ष्मि शतघ्नो वैद्यो वै तदन्नं पापदं मतम् ॥५७॥
पश्य वैद्या निर्दया वै यमदूतसमाः सदा ।
छेदने घातने मृत्युदाने शवादिसेवने ॥५८॥
नग्नशवाऽभ्यसने च नग्नशवावलोकने ।
नग्नदुर्गन्धकीटाढ्यशवानां नित्यदर्शने ॥५९॥
रोगसंस्कारकरणे पाचक्लेदादिशीलने ।
यमदूतसमा वैद्या अशुद्धाः प्राणपारगाः ॥६०॥
अनुभूतिं विना ये ते पापिनः प्राणहारकाः ।
तेषामन्नं न भोक्तव्यं विनष्टिकृत् तदन्नकम् ॥६१॥
नहि सर्वे त्विह लोके धन्वन्तरिसमाः खलु ।
तत्त्वज्ञा यदि पुण्याः स्युरहिंसकास्तु पावनाः ॥६२॥
अश्विनीपुत्रसदृशाः पूज्यास्ते तु मताः सदा ।
लोककल्याणकर्तारो हिंसामार्गविवर्जिताः ॥६३॥
यथापेक्षौषधानां तु प्रयोगिणः सुभक्तयः ।
जन्तुहिंसाविहीनाश्च काष्ठधात्वादियोगिनः ॥६४॥
दुर्लभास्ते देववैद्यास्तेषां पूजा तु पुण्यदा ।
अथ लक्ष्मि गते काले पत्नी गदार्दनस्य सा ॥६५॥
क्षयरोगेण वै व्याप्ताऽभवन्नाम्ना मुकुन्दिनी ।
वैष्णवी पतिभक्ता च श्रद्धाभावगुणान्विता ॥६६॥
सा त्वाबाल्याद्धरेर्भक्ताऽभवत् स्नात्री प्रपूजिका ।
भक्तिमती धर्मवती पातिव्रत्यपरायणा ॥६७॥
व्रतदानतपःकर्त्री नित्यं साधुप्रसेविका ।
कृष्णकथाया रक्ता च शौचसन्तोषशोभना ॥६८॥
तन्वा मनसा वाण्या च कर्मभिः साधुसेविका ।
कृष्णसेवापरा नित्यं नवधाभक्तिसंयुता ॥६९॥
हारनैवेद्यधूपादिविधात्री विष्णुपूजिका ।
आत्मनिवेदिनी महाभागवती हरिप्रिया ॥७०॥
शीलसत्यपरा साध्वीधर्मयुक्ताऽऽत्मनैष्ठिकी ।
दिव्या दिव्यगुणोपेता भगवन्नैष्ठिकी सदा ॥७१॥
ध्यानपरा च सर्वस्वार्पणपरा हरौ मयि ।
लक्ष्मि त्वेतादृशी भक्ता किन्तु संगात् सुदुःखिता ॥७२॥
पत्युरर्धं समस्तं वै भुज्यते निजयोषिता ।
सैवं दुःखपरा रुग्णा वर्तते भजते तु माम् ॥७३॥
तस्या वर्षे गते क्षीणायास्तु पतिर्मृतोऽभवत् ।
पराधीना च विधवा रुरोद कुररीव सा ॥७४॥
पत्युरसद्गतिं वीक्ष्य स्मृत्वा पुत्रीसुतादिकान् ।
मृतान् भ्रातॄँश्च वै स्मृत्वा स्वस्या असद्गतिं तथा ॥७५॥
चुक्रोशाऽऽक्रन्दनैर्धैर्यवर्जिता क्षयरोगिणी ।
श्रुत्वा चाक्रोशनं देवाः क्षणं स्तब्धास्तदाऽभवन् ॥७६॥
ऋतवश्चापि तत्त्वानि क्षणं जडानि चाऽभवन् ।
अथाऽहं सहसा लक्ष्मि चान्तरात्मा निजानुमः ॥७७॥
मुकुन्दिन्या हृदयस्थो वत्सलो दुःखितोऽभवम् ।
धैर्यं ददौ चान्तरात्मा सद्विचारेण चाप्यहम् ॥७८॥
सापि विज्ञानमासाद्य धैर्यमालम्ब्य मां हरिम् ।
अस्मरद् बहुधा लक्ष्मि नाथ नाथ कृपां कुरु ॥७९॥
भक्ताया चापि दुःखायां विधवायां कृपां कुरु ।
सर्वस्वनाशयुक्तायां शेषायां वत्सलो भव ॥८०॥
दुःखानां नास्ति मे सीमा समुद्धर भवार्णवात् ।
प्रथमं मां मारयित्वा ततः पतिं प्रमारय ॥८१॥
सधवाया गतिर्मे स्याद् विधवाया गतिर्नहि ।
एषाऽहं वह्निमुत्पाद्य सजीवा प्रज्वलामि वै ॥८२॥
सतीत्वं सर्वथा योग्यं विधवात्वं भयावहम् ।
कृपा तेऽस्ति समायाहि जीवयैनं निरोगिणम् ॥८३॥
नैवं चेन्मरणं देहि युगपत्तूभयोरपि ।
इत्युक्त्या सा मम भक्ता क्षणं दध्यौ तु मां हृदि ॥८४॥
तावन्मया पार्षदा मे प्रेषितास्तत्पतिं प्रति ।
याम्यदूतैर्नीयमानं दुःखिनं शरणैषिणम् ॥८५॥
पार्षदैर्मे द्रुतं गत्वा वियोजितो यमार्थिभिः ।
गृहीतश्चानीत एव देहं प्रवेशितः पुनः ॥८६॥
उत्थितः सहसा देहोऽकस्माद् बन्धनबन्धितः ।
शवार्थिनोऽभवन् स्तब्धा महाश्चर्यसमन्विताः ॥८७॥
केचिज्जगदुः पापानामपूर्णं पापभोगनम् ।
पुनः पापप्रभोगायाऽऽगतो याम्यैर्न रक्षितः ॥८८॥
अपरे तु तदा प्राहुः सत्याः पत्न्यास्तु भक्तितः ।
उत्थितश्चातिभक्त्या वै नीरोगोऽयं भविष्यति ॥८९॥
अन्ये प्राहुर्वासनिको वर्ततेऽयं हि पापवान् ।
न याति परलोकं स्वां पत्नीं विहाय चैकलः ॥९०॥
इतरे तु तदा प्राहुः कर्मरेखा हि दुर्गमा ।
इत्येवं ते विरेमुश्च निर्बन्धनं व्यधुश्च तम् ॥९१॥
अथ लक्ष्मि तदा चाऽहं पत्न्या भक्तेः प्रतापतः ।
पुरो दिव्यमभवँश्च मूर्तिमान् पार्षदैः सह ॥९२॥
चतुर्भुजो दिव्यदेहः कृष्णनारायणः प्रभुः ।
अवदं च मुकुन्दिन्यै वरं वृणु मदग्रतः ॥९३॥
साऽपि चोत्थाय सहसा पतिता पादयोर्मम ।
गदार्दनोऽपि मां वीक्ष्य नीरोग इव निद्रितः ॥९४॥
उत्थाय न्यपतच्छीघ्रं पादयोर्मम भूतले ।
वरदानाय च मया नियुक्तावूचतुश्च तौ ॥९५॥
मोक्षं देहि कृपासिन्धो परमेश रमापते ।
सर्वं कालेन नीतं नौ ह्यावां निर्वासनौ कृतौ ॥९६॥
वैद्यवैद्यो महाकालस्तद्वैद्यः परमेश्वरः ।
याम्यहूतौ द्रावितौ त्वत्पार्षदैरिह सर्वथा ॥९७॥
मोक्षं देहि यथेष्टं वा नियोजय परेश्वर ।
एवं प्रार्थयमानाभ्यां तथेत्युक्त्वा विमानके ॥९८॥
अध्यारोप्य दिवं श्रेष्ठं प्रेषयामास पार्षदैः ।
सतीभक्तिप्रतापेन सती मुकुन्दिनी तदा ॥९९॥
दिवं त्यक्त्वा सतीलोकं पत्या सह ययौ द्रुतम् ।
पार्षदा मे तु तां स्वामिसहितां वै मुकुन्दिनीम् ॥१००॥
अवस्थाप्य सतीलोकं प्रययुर्मम धाम ह ।
एवं कालान्तरे प्राप्ते तौ यास्यतः परं पदम् ॥१०१॥
लक्ष्मि भक्ताप्रतापेन वैद्यो याम्यं विहाय च ।
सतीलोकं ययौ यस्य पापपुञ्जोऽभवन्महान् ॥१०२॥
तथापि स्त्रीप्रतापेन कृपया मे लयं गतः ।
अर्धांगनाकृतं पुण्यमर्धं तु लभते पतिः ॥१०३॥
व्रतदानादिकं भक्तिः सर्वमर्धं प्रपद्यते ।
एवं सम्बन्धिनः पुत्राः स्त्रियो मित्राणि चापरे ॥१०४॥
कुर्वन्ति प्रेतनाम्नाऽपि पुण्यं प्रेते प्रपद्यते ।
तस्माच्छ्राद्धं मखं दानं कुर्वन्ति पृष्ठतो जनाः ॥१०५॥
भक्तितुल्यं मोक्षदं वै साधनं नेतरद् रमे ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिश्च वै भवेत ॥१०६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने गदार्दनेश्वरनामकवैद्यस्य पापैर्दुःखानि तत्पत्न्या मुकुन्दिन्या भक्त्या च मोक्षणमित्यादिनिरूपणनामा षड्विंशत्यधिकद्विशततमोऽध्यायः ॥२२६॥

N/A

References : N/A
Last Updated : May 05, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP