संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ५१ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ५१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५१ Translation - भाषांतर शृणु नारायणीश्रि त्वं कुञ्जलस्तु ततः परम् ।द्वितीयं स्वसुतं चापि पप्रच्छ विनयान्वितम् ॥१॥समुज्ज्वल! किमपूर्वं दृष्टवान् श्रुतवान् वद ।श्रुत्वा समुज्ज्वलः प्राह हिमवन्तं गिरिं पितः ॥२॥आहारार्थं प्रगच्छामि पश्यामि कौतुकं नवम् ।मानसं यत्सरश्चास्ते तत्र दृष्टं वदामि तत् ॥३॥बहुहंससमाकीर्णो हंस एकः समागतः ।स च कृष्णो महातेजाः कृष्णहंसान्वितः शुभः ॥४॥त्रयश्चान्येऽपि शुक्लाश्च चञ्चुपादैस्तु कृष्णकाः ।आययुस्ते चतुर्ण्णां वै पत्न्यो हंस्यः समाययुः ॥५॥भयंकर्यश्चोर्ध्वकेश्यः कृष्णवर्णा विभीषणाः ।कृष्णा हंसा जले सस्नुर्न सस्नुश्च त्रयोऽपरे ॥६॥चतस्रो हंसिकाश्चापि नैव सस्नुः सरोवरे ।कृष्णा हंसा जलात्तस्माद्विनिर्गत्याऽऽययुर्द्रुतम् ॥७॥त्रयोऽन्ये हंसकाश्चाप्याययुरुड्डीय विन्ध्यकम् ।शिष्टाश्चतस्रो हंस्योऽपि विन्ध्याचलमुपाययुः ॥८॥हंसा हंस्यो महाभीता बभ्रमुः परितस्ततः ।निषण्णा दुःखदग्धाश्च वृक्षशाखासु संहिताः ॥९॥तत्र कश्चित् समायातो लुब्धकस्तु धनुर्धरः ।शिलापृष्ठे निषसाद भिल्ली ततः समागता ॥१०॥द्वावेतौ च्यवनौ दृष्ट्वा महर्षिं तं प्रणेमतुः ।च्यवनस्य पादजलं पीत्वा दिव्यौ बभूवतुः ॥११॥विमानवरमारुह्य ययतुः स्वर्गमेव तौ ।देवौ दिव्यतमौ भूत्वा हृष्टौ साक्षान्मयि हि तौ ॥१२॥अथ हंसास्तदोड्डीय च्यवनस्यैव पादयोः ।रजस्सु ते समलुठन् तथा पादजलं पपुः ॥१३॥च्यवनेनाऽभिषिक्तास्ते श्वेता बभूवुरेव च ।कृष्णत्वं लीनतां प्राप्तं ययुश्चाऽदृश्यतां ततः ॥१४॥के त्वासन् वै पितर्हंसाः कृष्णवर्णा हि ते पुरा ।पश्चात् श्वेताः कथं जाताः क्व गतास्ते ततः परम् ॥१५॥कुञ्जलस्तत् समाकर्ण्य प्राह पुत्रं समुज्ज्वलम् ।शृणु पुत्र कथयामि दिव्यं कथानकं तु तत् ॥१६॥तान्यासन् सर्वतीर्थानि चाऽष्टषष्टिमतानि वै ।एतेषु मानवाः स्नात्वा पापानि क्षालयन्ति च ॥१७॥गोवधाख्यं महापापं स्त्रीवधाख्यं तथाविधम् ।स्वामिद्रोहात्मकं पापं सुरापानात्मकं तथा ॥१८॥हेमस्तेयोद्गतं पापं गुरुनिन्दात्मकं तथा ।भ्रूणहत्या महाघोरा राजद्रोहस्तथाविधः ॥१९॥मित्रद्रोहश्च विश्वासघातश्च देवभेदनम् ।वृत्तिच्छेदो गोचरस्य नाशनं वह्निदाहनम् ॥२०॥साधुसाध्वीविनाशश्च गरदानं भयंकरम् ।मातापितृवधश्चापि बालिकाभोग इत्यपि ॥२१॥पशुहत्या मातृसंगो विंशतिपातकानि वै ।तथाऽन्यानि पातकानि मानवाः क्षालयन्ति हि ॥२२॥तैः पापैः कृष्णतां यान्ति प्राप्तानि तीर्थकानि वै ।तानि पापानि सर्वाणि क्षालयितुं निजानि हि ॥२३॥भूत्वा हंसस्वरूपाणि गतानि मानसं सरः ।स्नात्वा नैव विनष्टानि पापानि तेन वै पुनः ॥२४॥नर्मदायास्तीरमाप्ता हंसाश्चासन् सुदुःखिताः ।पापप्रक्षालनं तीर्थं चिन्तयन्तो द्रुमे स्थिताः ॥२५॥तैर्दृष्टौ दिव्यरूपौ च व्याधीव्याधौ दिवंगतौ ।परस्परं वदमानौ च्यवनस्य गुरोर्बलम् ॥२६॥ब्रह्महत्या गुरुघातश्चाऽगम्यागमनादिकम् ।गोहत्या च सुरापानं नष्टं गुरोर्बलाद्धि नौ ॥२७॥दिव्यौ जातौ स्वर्गयानौ धन्यं पादं गुरोर्भुवि ।इतिश्रुत्वा च ते हंसाश्च्यवनस्याऽन्तिकं ययुः ॥२८॥लुलुठुः पादरजसि पादवारि पपुश्च ते ।च्यवनोऽपि तदा रेवतोयैश्चाऽऽप्रोक्षयद्धि तान् ॥२९॥सर्वे हंसाः श्वेतवर्णा भूत्वा नत्वा मुनिं मुहुः ।ययुश्चाऽदृश्यतां तत्र हंसा हंस्योऽपि सर्वशः ॥३०॥गुरुतीर्थं पातकानां शामकं परमोत्तमम् ।सर्वतीर्थानि मानानि गुरुतीर्थे भवन्ति वै ॥३१॥कृष्णहंसाऽन्वितश्चैको यश्चासीत् कृष्णहंसकः ।सर्वतीर्थसमेतः सह्यभूत् प्रयागराजकः ॥३२॥त्रयश्चान्ये तु हंसास्ते रेवा गोदा च पुष्करम् ।हंस्यश्चापि चतस्रस्ता गंगा च ब्रह्मपुत्रिका ॥३३॥सरस्वती च कावेरी ह्यासंस्तत्र हि हंसिकाः ।इत्येतत् कथितं सर्वं गुरुतीर्थनिषेवणम् ॥३४॥सर्वपापहरं मोक्षप्रदं वै गुरुतीर्थकम् ।अथ वै कुञ्जलः पुत्रं पप्रच्छ च तृतीयकम् ॥३५॥किं विज्वल! त्वया दृष्टमाश्चर्यं कथयाऽत्र मे ।विज्वलः पितरं प्राह नूत्नं विलोकितं तु यत् ॥३६॥पितश्चाऽहं नवलक्षाऽभिधं वै पर्वतं ययौ ।देववृन्दैश्चाप्सरोभिः ऋषिभिः सेवितं शुभम् ॥३७॥दिव्यवृक्षैः समाकीर्णं फलपुष्पनतैः सदा ।योगिनो नवलक्षाणि वर्तन्ते यत्र पर्वते ॥३८॥आनन्दकाननं नाम वनं तत्र प्रभासते ।विमलं च सरस्तत्र विशालं चावलोकितम् ॥३९॥यादोभिर्विविधैर्युक्तं हंसकारण्डवादिभिः ।किन्नरोरगगन्धर्वैश्चारणाद्यैः सुशोभितम् ॥४०॥विमानं तत्र वारीणामुपरि चाम्बरे शुभम् ।सुवर्णकलशैर्युक्तं दृष्टं सहसा कानकम् ॥४१॥छत्रदण्डपताकाभी राजमानः पुमान् शुभः ।किन्नरैरप्सरोभिश्च गन्धर्वाद्यैर्महर्षिभिः ॥४२॥स्तूयमानो महासिद्धैर्दृष्टः सुरूप उत्तमः ।सर्वाभरणशोभांगो रत्नहारादिराजितः ॥४३॥तत्पार्श्वे त्वेककान्ता च वरानना सुशोभिता ।मुक्ताहारयुता चाऽपि वलयैः कंकणैर्युता ॥४४॥दिव्याम्बरा सुशृंगारा युवती चार्चिता स्थिता ।तौ द्वौ हृष्टौ विमानाच्चाऽवरोहयतां भूतले ॥४५॥स्नातवन्तौ च यावत्तौ मृतौ तावद्धि तौ तटे ।शवो दिव्यौ तटे स्तश्च तौ द्वौ पृथक् तटे स्थितौ ॥४६॥नार्यौ द्वे च नरौ द्वौ च तावेव वीक्षितौ मया ।तत्र वैमानिकौ द्वौ यौ तौ शस्त्रेण निजौ शवौ ॥४७॥भक्षयामासतुस्तत्र नारी नारीं नरो नरम् ।क्षुधया पीड्यमानौ भक्षयतः पिशितं निजम् ॥४८॥अन्ये द्वे च स्त्रियौ तात चायाते त्वम्बरात् पृथक् ।हसतः खादमानौ तावस्मद्योगेऽपि नार्पितम् ॥४९॥अन्नं स्वल्पं जलं स्वल्पं कस्मैचित्त्वपिनाऽर्पितम् ।एवं तौ भक्षयित्वैव पीत्वा जलं दिवं प्रति ॥५०॥गतौ विमानमारुह्य दृष्टं सर्वं मया नवम् ।किमेतद् वद मे तात स्वमांसभक्षणं कुतः ॥५१॥श्रुत्वा पुत्रस्य तद्वाक्यं कुञ्जलः प्राह पुत्रकम् ।शृणु विज्वल! लोकोऽयं कर्मभूमिर्हि वर्तते ॥५२॥पुण्यकर्मा मोदतेऽत्र परत्र भोजनादिभिः ।दत्तं दानं समायाति पुरतो यत्र याति सः ॥५३॥अदत्तं नैव चायाति स्वर्गेऽन्यत्र च वा गतः ।यादृशं वपते बीजं क्षेत्रे तु कृषिकारकः ॥५४॥लभते तादृशं तत्र फलं बीजसजातिकम् ।यादृशं क्रियते कर्म तादृशं लभ्यते फलम् ॥५५॥कर्मदायादको लोकः पूर्वकर्मवशानुगः ।पूर्वं दत्तं कृतं चैतत् फलरूपं निषेव्यते ॥९६॥पञ्च सृष्टानि गर्भेऽस्य देहिनः कर्मजानि वै ।यशोवित्तं जीविका च विद्या च मरणं तथा ॥५७॥देवत्वं वा मानुषत्वं पशुत्वं पक्षिताऽथवा ।तिर्यक्त्वं स्थावरत्वं च स्मृद्धयो भोजनादिकम् ॥५८॥आत्मना विहितं यादृक् तादृक् समुपतिष्ठति ।पूर्वदेहकृतं कश्चित् कर्तुमलं हि नाऽन्यथा ॥५९॥शुभाऽशुभं कृतं कर्म कर्तारमनुगच्छति ।उपभोगादृते तस्य नाश एव न विद्यते ॥६०॥सुशीघ्रमपि धावन्तं स्वकर्म चानुधावति ।उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति ॥६१॥छायावद् वर्तते लग्नं भोगं फलं ददाति तत् ।येन यत्रोपभोक्तव्यं दैवेन तत्र नीयते ॥६२॥कर्मभूमिरियं तात चान्या भोगाय धूमयः ।चोलराजः सुबाह्वाख्यो ददौ दानानि भूरिशः ॥६३॥रत्नानि च सुवर्णानि राजतादीनि कोटिशः ।अन्नं जलं च सुलभं मत्वा ददौ न तत्तदा ॥६४॥पुरोधाश्चोलराजस्य जैमिनिस्तमुपादिशत् ।श्रद्धया विधिवत् पात्रे देहि चान्नं धनादिकम् ॥६५॥अन्नदानात् परं नास्ति प्राणिनां तृप्तिदं द्रुतम् ।तस्मादन्नं पयोयुक्तं प्रदेहि क्षत्रियर्षभ ॥६६॥तारणाय हितायैव सुखसम्पत्तिहेतवे ।ग्रासाग्रमपि दातव्य मुष्टिप्रस्थं च वा नृप ॥६७॥श्रद्धया वा पर्वदिने विप्रं सन्तं प्रभोजय ।एकभोजनलभ्यं वै फलं नित्यं भुनक्ति हि ॥६८॥पूर्वजन्मनि दत्तान्नं जन्मान्तरे सदा लभेत् ।नित्यं प्रभुज्यते दत्तं देह्यन्नं चाऽविचारयन् ॥६९॥प्राणरूपं यतोऽन्नं तत् प्रदेहि त्वं प्रयत्नतः ।स्वर्गे लोके सदा चान्नं दत्तममृतमीयते ॥७०॥श्रुत्वा नृपतिः पप्रच्छ स्वर्गगुणान् वदाऽत्र मे ।जैमिनिः स्वर्गलाभाँश्चाऽकथयद् वै सुबाहवे ॥७१॥सर्वकामप्रदान्युद्यानानि स्वर्गे भवन्ति वै ।सर्वर्तुफलपुष्पाणि विमानानि च सन्ति वै ॥७२॥अप्सरसश्च दिव्याश्च हेमशय्यासनानि च ।सर्वकामसमृद्ध्यो विद्यन्ते कल्पवल्लिजाः ॥७३॥न रोगा न जरा मृत्युर्न शोको न हिमाऽऽतपौ ।न तत्र क्षुत्पिपासा च न ग्लानिश्चापि विद्यते ॥७४॥एवंविधगुणं स्वर्गं दोषाँस्तत्रापि तान् शृणु ।अत्र दत्तं हि लभ्येत नाऽदत्तं तत्र लभ्यते ॥७५॥दोषो महानयं स्वर्गेऽतिशयो दोष इत्यपि ।अदत्तस्याऽत्र भोग्यस्याऽसन्तोषस्तत्र वै सदा ॥७६॥अन्यश्रियं परां दृष्ट्वा समुद्वेगः सदाऽस्ति च ।अकस्मात् पतनं चापि वासनावशवर्तिता ॥७७॥फलभूमिर्मता द्यौश्च कर्मभूमिरियं मता ।तस्मादन्नं प्रदत्तं यत् तत्स्वर्गे भुज्यते सुरैः ॥७८॥श्रुत्वा 'नृपः ऋषिं प्राह निर्दोषं वद मे पदम् ।जैमिनिश्चाह भगवत्पदं निर्दोषमेव ह ॥७९॥आब्रह्मभवना लोकाः सदोषाः कर्मणाऽर्जिताः ।मायालोकाः समस्ता वै दोषवन्तो गुणात्मकाः ॥८०॥अगुणं तु पदं विष्णोर्नारायणस्य शार्ङ्गिणः ।भक्तियोगगतास्तत्र साध्व्यो गच्छन्ति साधवः ॥८१॥राजा प्राह न मे स्वर्गं गन्तुमिच्छा प्रवर्तते ।यस्माद्वै पतनं तत्र गन्तव्यं नैव सर्वथा ॥८२॥दानफलं च भोगो वै भोगान्ते पतनं यदि ।दानमेव न कर्तव्यं पातफलं मया क्वचित् ॥८३॥करिष्ये ध्यानभक्त्यादि यजिष्ये कमलापतिम् ।दाहप्रलयवर्ज्यं च गमिष्ये परमं पदम् ॥८४॥श्रुत्वा तं जैमिनिश्चाह राजन् धर्मो नृपस्य यः ।अनिच्छताऽपि कर्तव्यो दानं यज्ञः प्रदानकम् ॥८५॥आदावन्नं सुयज्ञेषु जलं ताम्बूलमम्बरम् ।काञ्चनं भूमिदानं च गोदानं चेतरच्च यत् ॥८६॥वैकुण्ठेऽपि फलं भुंक्ते दानधर्मस्य शाश्वतम् ।साधुभ्यस्तु विभागैकं गोग्रासं च ततः परम् ॥८७॥भृत्यादिभ्यश्चैकभागं प्रयच्छन्ति तपोधनाः ।एवमन्नस्य दानेन दिव्यलोकगता अपि ॥८८॥क्षुधातृषाविहीनाश्च नित्यतृप्ता हरेः स्थले ।तिष्ठन्ति नान्यथा राजन् देह्यन्नं धनमित्यपि ॥८९॥दानाज्ज्ञानं ततः सिद्धिस्ततस्तृप्तिं गमिष्यसि ।अदाने त्वं गतश्चापि वैकुण्ठे क्षुधमाप्यसि ॥९०॥श्रुत्वा राजा तदा प्राह दानं चेत् तृप्तिकारणम् ।योगिनां च सतां त्यागवतां मोक्षे हि का गतिः ॥९१॥अदत्तदानाः ऋषयः करपात्रा हि साधवः ।अपरिग्रहसर्वस्वा मोक्षे तृप्ताः कथं वद ॥९२॥श्रुत्वा प्राह ऋषिस्तं वै ज्ञानभक्तिपरायणाः ।मूर्त्यानन्देन तृप्तास्ते सदा क्षुत्तृड्विवर्जिताः ॥९३॥राजा प्राह तथैवाऽहं यतिष्ये ज्ञानभक्तिमान् ।दानं बन्धप्रदं नैव कर्तव्यं निश्चिकाय सः ॥९४॥ज्ञानं कृत्वा तथा स्वल्पां भक्तिं कृत्वा ममार सः ।सुबाहुः प्रमदायुक्तो विमानोदग्रमाश्रितः ॥९५॥ययौ स्वर्गं पूर्वकृतं पुण्यं भोक्तं विधानतः ।नाऽभुक्तं क्षीयते पुण्यं कृतं स्वर्णादिदानजम् ॥९६॥क्षुधा जाता महातीव्रा तृषापि च तथाविधा ।राजा वै प्रियया सार्धं क्षुधातृषाप्रपीडितः ॥९७॥स्वर्गे रुद्धः कर्मणा वै वैकुण्ठं नैव गच्छति ।हृषीकेशो दृश्यते न विमानं नोर्ध्वमृच्छति ॥९८॥स्वर्गे राजा व्याकुलो वै जातः क्षुधादिपीडितः ।इतश्चेतश्च वेगैश्च धावति क्ष्माधिपस्तदा ॥९९॥सर्वाभरणशोभांगश्चन्दनादिविभूषितः ।अप्सरोभिः सेव्यमानो देवैश्च सत्कृतोऽपि च ॥१००॥अदत्तं नाऽऽप्तवान् राजाऽमृतं चान्नं प्रभोजनम् ।जलं च नाऽऽप्तवान् स्वर्गे बभ्राम पीडितो मुहुः ॥१०१॥भार्यां संप्राह राजानं सत्यं दानफलं सुराः ।भुञ्जतेऽमृतमेवाऽत्र दत्तमन्नं पुरा तु यत् ॥१०२॥अन्नवारिप्रदानं तु न कृतं भूतले नृप ।क्षुधा मां त्वां बाधतेऽतस्तृषा चोग्रा प्रवर्तते ॥१०३॥भोजनं सलिलं चात्र लभ्यते न विमानके ।अमृतं भोजनं नास्ति चान्यदेवगृहे इव ॥१०४॥यामः पृथ्व्यां भोजनार्थं जलार्थं ननु पार्थिव ।इत्युक्तो भूपतिः राज्ञ्या विमानेन द्रुतं क्षितिम् ॥१०५॥आजगाम वने रम्ये नन्दने तत्र वै ऋषिम् ।ददर्श वामदेवं स सभार्यो नृपतिस्ततः ॥१०६॥अवतीर्य नमश्चक्रे दत्तासने ह्युपाविशत् ।ऋषिकृतं स्वागतादि जग्राहाऽथ निरामयम् ॥१०७॥पृष्टो राजा जगादर्षिं निरामयो भवामि न ।क्षुधा मे बाधते चापि तृषा चातीव दारुणा ॥१०८॥ताभ्यां शान्तिं न गच्छामि सुखं विन्दामि नैव च ।श्रुत्वैव वामदेवस्तं प्राह राजन् हितं शृणु ॥१०९॥अन्नदानं जलदानं त्वया दत्तं न भूतले ।हरिश्चाराधितो नैव नैवेद्यफलवारिभिः ॥११०॥तेन दोषेण स्वर्गे न वैकुण्ठेऽपि न ते कृते ।भोजनं विद्यते राजन् सर्वमन्यत् प्रविद्यते ॥१११॥आराधितस्त्वया विष्णुर्ज्ञानभक्त्या तु शुष्कया ।तेन प्राप्तं त्वया स्वर्गं शुष्कं भोजनमन्तरा ॥११२॥अन्नं त्वमृतरूपेण स्वर्गे चावाप्यते नृप ।वैकुण्ठे ब्रह्मतृप्त्यात्म पीयूषं प्राप्यते सदा ॥११३॥कटुतिक्तकषायाश्च क्षाराम्ब्लमधुरास्तथा ।स्निग्धाश्चोपस्कराः सर्वे नानारूपाश्च भूगताः ॥११४॥दत्ताः सर्वा ह्यवाप्यन्ते ओषध्यः पुष्टिहेतवः ।साधवः पितरो देवा भोजिता येन भूपते ॥११५॥स एव भुंक्ते स्वर्गेऽपि भोजनस्य फलामृतम् ।मिष्टान्नपानमेवाऽत्र दाने दत्तं न वै त्वया ॥११६॥स्वशरीरं त्वया पुष्टमन्नैरमृतसदृशैः ।अदत्तं च यतस्तस्माद् भुंक्ष्व क्षुधातृषाफलम् ॥११७॥यदि ते क्षुत्प्रतीकारो ह्यभीष्टो वर्तते तदा ।याहि नन्दनसरसि स्नात्वा भुंक्ष्व शवं निजम् ॥११८॥एवमुक्तः सुबाहुश्च वामदेवं प्रणम्य तु ।नन्दनाख्यवने गत्वा सस्नौ तटाकवारिणि ॥११९॥तावच्छवौ समुत्पन्नौ राज्ञो राज्ञ्या हि तौ शवौ ।निजौ तौ भक्षितवन्तौ तृप्तौ जातौ तदा हि तौ ॥१२०॥हसतश्च स्त्रियौ द्वे ये प्रज्ञा श्रद्धा हि ते मते ।दानमार्गं परित्यज्य ज्ञानमार्गे गतं नृपम् ॥१२१॥लोभमार्गे स्थितं भूपं हसतस्ते ह्युभे स्त्रियौ ।अस्मद्योगेऽपि दत्तं न भुंक्ष्व राजन् फलं चिरम् ॥१२२॥अथ राजा वामदेवं ययौ भुक्त्वा पुनर्वने ।उद्धारो मे यथा स्याद्वै तथा विधेहि चार्थयत् ॥१२३॥वामदेवः करे दत्वा जलं राज्ञ्या नृपस्य च ।शम्याः कृष्णार्पणं पुण्यमकारयद् दिवःप्रदम् ॥१२४॥राजा कृष्णार्पणं चक्रे पुण्यं गुरोस्तु पादयोः ।पुण्यहीनोऽभवच्छीघ्रं पापहीनो बभूव च ॥१२५॥फलमूलान्नसलिलैर्विष्णुमपूजयत्तदा ।तृप्तो विष्णुर्गुरोर्वाक्यात् प्रत्यक्षः समजायत ॥१२६॥पार्षदैः सहितो दिव्ये विमाने च नृपीं नृपम् ।नीत्वा पीयूषसंवार्धौ वैकुण्ठमनयत् प्रभुः ॥१२७॥नित्यतृप्तिस्तदा जाता नैवेद्यसलिलार्पणैः ।एवं श्रुत्वा विज्वलोऽभूत् संहृष्टः सद्गुरोर्बलम् ॥१२८॥गुरुर्मोक्षप्रदाता च विष्णुतुल्यो भवत्यपि ।पापतापशमयिता नित्यतृप्तिप्रदो गुरुः ॥१२९॥पठनाच्छ्रवणाच्चास्य पुरुषार्थचतुष्टयम् ।साधनं चापि कृत्वैव ब्रह्मलोकं व्रजेज्जनः ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां गुरुतीर्थे तीर्थानां पापनाशकं गुरुपदम्, अदत्तान्नजलदानकस्य सुबाहुनृपतेः स्वशवभक्षकस्य वाम-देवाख्यगुरोर्योगान्नित्यतृप्तिर्मोक्षावाप्तिश्चेत्यादिनिरूपणनामैकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : May 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP