संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|द्वापरयुगसन्तानः| अध्यायः ७ द्वापरयुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ विषयानुक्रमणिका द्वापरयुगसन्तानः - अध्यायः ७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७ Translation - भाषांतर अथ नारायणीश्रि! त्वं समाकर्णय मत्कथाम् ।दैत्यानां पावनीं रम्यां सुतलाभिनिवासिनाम् ॥१॥ब्रह्मणश्चासनाख्ये वत्सरे वै नवमे पुरा।कल्पे चतुर्दशे चाद्ये मनौ सुतलके तले ॥२॥आसीद् राजा चलवर्मा सार्वभौमो महाबलः ।अतलस्य वितलस्य सुतलस्य जनेश्वरः ॥३॥त्रिलोक्यां यस्य वै यानं व्योमगं त्वभवत्तदा ।अतलस्य वितलस्य सुतलस्य प्रजा जनाः ॥४॥चलदेवं पुपूजुर्वै प्रत्यक्षं रक्षकं नृपम् ।राजाऽपि धर्मवानासीत् प्रजापालनतत्परः ॥५॥मम भक्तो शिवकन्ये! देवपूजापरायणः ।अनाथाऽतिथिनारीणां शरण्यः शीलशोभनः ॥६॥दिनार्धे यस्य नित्यं वै याति देवस्य पूजने ।तदर्धं च ततो याति राज्यावलोकने ततः ॥७॥शेषार्धं निजलोकेषु प्रवासे याति सर्वदा ।एवं कृतवतस्तस्य जिज्ञासाऽभूत्तपोमयी ॥८॥कर्मभूमौ तपः शीघ्रं फलत्ययुतधा यतः ।पृथ्व्यां गत्वा तपः कार्यं विचार्येति विमानगः ॥९॥ऋष्यार्षे सद्गुरुं पृष्ट्वा राज्यं सर्वं ततः स च ।कृत्वा तु गुरुसाद् राजा प्राययौ मानवीक्षितौ ॥१०॥कुमुदाचलमासाद्य शीतव्याप्ते वने सदा ।तपस्तेपे निराहारः सहस्रवत्सराणि सः ॥११॥तत्र तपसि राजाऽसौ दिव्यदृष्ट्या व्यलोकयत् ।नारायणं परेशानं देवं श्रीपुरुषोत्तमम् ॥१२॥मामेव परमात्मानं नत्वोवाच मनोगतम् ।नमस्ते परमेशाय तपःफलप्रदायिने ॥१३॥भक्तमानसपूराय हरये परमात्मने ।इत्युक्त्वा दण्डवच्चक्रे पपौ मच्चरणामृतम् ॥१४॥ययाचे प्रेर्यमाणश्च मया चलनृपस्तदा ।अचलत्वं देहि मेऽत्र चलं तु नाशमेति वै ॥१५॥चलं राज्यं चलं वित्तं चलं कुटुम्बकं तथा ।चलं च जीवनं कृष्ण सुतलादि चलं ततः ।अचलत्वं वृणे त्वत्तो भक्तोऽहं देहि मे मतम् ॥१६॥श्रीपरमेश्वर उवाच-शृणु राजन्! चलं सर्वं ब्रह्माण्डं चलमित्यपि ।कालश्चलश्चला माया चलं मनश्च जीवनम् ॥१७॥चले भवेत् चलं सर्वं ह्यचलं ते मतं वद ।श्रीचलदेव उवाच-चलं चित्तं चला लक्ष्मीश्चलं शासनमित्यपि ॥१८॥अचला तव भक्तिर्हि तां वृणे देहि मे प्रभो ।अचलायास्ततः पात्रमचलं स्यां च केशव ॥१९॥श्रीपरमेश्वर उवाच-अचला मे प्रेमभक्तिः सेवा सा प्रेमपूर्विका ।तत्पात्रमचलं त्वं चेद् भवितुं वै समिच्छसि ॥२०॥तदा मुक्तिर्मम लोके ते ददाम्यचलां ध्रुवाम् ।गृहाण शीघ्रं मे मन्त्रं याहि धामाऽक्षरं मम ॥२१॥श्रीचलदेव उवाच-चलोऽहं चाऽचलो जातश्चेदानीं कृपया तव ।अचलस्याऽचलो वंशो भवेदेवं विधेहि मे ॥२२॥श्रीपरमेश्वर उवाच-यथा त्वमचलो जातो मत्कृपांशात्तथा तव ।वंशोऽप्यचलतां राजन् मद्योगात् सम्प्रयास्यति ॥२३॥अनपत्यो भवानास्ते सापत्यो भव भूपते ।मां विना तु चलं सर्वं तवाऽपत्यं भवाम्यहम् ॥२४॥अचलोऽहं तवाऽपत्यं भवाम्यत्र विलोकय ।इत्युक्त्वाऽहं तदा लक्ष्मि! तस्य वै मानसः सुतः ॥२५॥अभवं त्वार्षदेवाख्यो राजाऽतितोषणं ययौ ।तपः समापयित्वैव नीत्वा नृपं मया सह ॥२६॥सुतलं तत्र ऋष्यार्यो गुरुर्मा ज्ञातवान् प्रभुम् ।मदाज्ञयाऽपि लक्ष्मि! त्वम् ऋष्यार्षस्य सुताऽभवः ॥२७॥राजा स्वं मानसं पुत्रं त्वार्षदेवं विधानतः ।राज्येऽभ्यषेचयत् ऋष्यार्षोऽपि सुतां ददौ स मे ॥२८॥आर्षपद्माभिधा त्वं चाऽसेवयः श्रीपतिं च माम् ।आर्षदेवं चावतारिप्रभुं श्रीपुरुषोत्तमम् ॥२९॥पालनार्थं वचनस्य मयाऽपि मानसः सुतः ।विष्णुरेव स्वयं पुत्ररूपेण प्रकटीकृतः ॥३०॥दृढध्रुवाऽभिधः शंखचक्रगदासुमायुधः ।जातमात्रो युवा विष्णुरेखैश्वर्यादिशोभनः ॥३१॥अचले वै पदे चोर्ध्वे स्वर्गान्ते विनियोजितः ।पदाधारं जगतां वै ग्रहाणां ज्योतिषां तथा ॥३२॥नक्षत्राणां तारकाणामृषीणां मण्डलानि च ।भ्रमन्ति स्म दिशां ध्रौव्याद् ध्रुवनाम्ना दृढीकृतः ॥३३॥चलदेवो मया नारायणीश्रि! प्रेषितोऽक्षरम् ।अचलं चाऽव्ययं धाम पालितं मद्वचो मया ॥३४॥अचलोऽहं तथाऽनादिकृष्णनारायणः सुतः ।परब्रह्म स्वयं चाऽनाद्यार्षनारायणाऽभिधः ॥३५॥मम पुत्रः स्वयं विष्णुर्दृढध्रुवाऽभिधस्तथा ।आकल्पान्तं त्वचलोऽपि मया कृतो वचोबलात् ॥३६॥एवं वै भूतले लक्ष्मि! प्राकट्यं मे पुराऽभवत् ।राज्यं च सुतले लोके पुत्रस्य तु दिवोपरि ॥३७॥तदा त्वम् ऋष्यार्षपुत्रीं चाऽऽर्षपद्मां निजां स्मर ।प्राकट्यं कथितं चार्षनारायणि! प्रभोर्मम ॥३८॥ततः परं प्रवक्ष्यामि प्राकट्यं मे शृणु प्रिये ।अथ लक्ष्मि! मम वंशे दृदध्रुवस्य व सुतः ॥३५॥थुरानन्दात्मकश्चासीद् भक्तराट् तापसो मुनिः ।तपश्चचार विपुलं वैष्णवो मनुकालिकम् ॥४०॥प्रसन्नो भगवान् ब्रह्मा वरदानं ददौ तदा ।मा तपः कुरु राजेन्द्र वरं वृणु यथेप्सितम् ॥४१॥इत्युक्तो ब्रह्मणा प्राह तव वर्षद्वयाऽऽयुषम् ।सहस्रद्वयकल्पात्मजीवनं मां चिरं कुरु ॥४२॥तथाऽस्त्विति ददौ वेधा वरदानं थुराय ह ।थुरानन्दोऽपि बुभुजे सत्यलोके यथायथम् ॥४२॥दिवारात्रिविमिश्रं वै वर्षद्वयाऽऽयुरेव ह ।नवमे वत्सरे द्वेधा वर्षद्वयाऽऽयुरिद्गतम् ॥४४॥सहस्रकल्पा दिवसा निशाः सहस्रकल्पिकाः ।अथैवं दशमे प्राप्ते वत्सरे प्राणरोधने ॥४५॥वेधसश्चापि दिवसे कल्पे चतुर्दशे तदा ।मनौ च प्रथमे तत्र थुरानन्दस्य वै प्रिये ॥४६॥ब्रह्मवर्षद्वयकालो गतो रात्रिदिवादिभिः ।सोऽपि जातिस्मरस्तत्र पुनश्चारब्धवाँस्तपः ॥४७॥त्रिलोकीनां हि राज्यार्थं स च देवैर्निवारितः ।सत्यलोकादृषिभिश्च जनादिभ्यश्च पितृभिः ॥४८॥दिवः सुरैर्मानवैश्च भूतलाद् विनिवारितः ।ययौ तपोऽर्थमतलं सत्कृतो दानवैस्तदा ॥४९॥दैत्यैश्च सत्कृतश्चापि सत्कृतश्चासुरैरपि ।तपश्चचार रौद्रं वै रुद्रमाराधयन्मखे ॥५०॥मस्तकं नेत्रसहितं जुहाव कुण्डगेऽनले ।रुद्रस्तावत्तत्र साक्षादभवद् दिव्यभासुरः ॥५१॥वद किं रोचते तेऽत्र वृणु सर्वं ददामि ते ।थुरानन्दस्तदा प्राहाऽवध्यत्वं देहि मे प्रभो ॥५२॥हरः प्राह विना कृष्णं परब्रह्म सनातनम् ।अवध्यत्वं तव जातं लग्नं भवतु ते शिरः ॥५३॥इत्युक्तः स थुरानन्दो ध्रुवपुत्रोऽतिहर्षितः ।परिहारं तपसश्च प्रचक्रे स्वाऽध्वरस्य च ॥५४॥अथ राजाऽपि चाऽऽदातुं प्रस्थानं दानवान्वितः ।चक्रे भुवं दिवं सत्यं दैत्यासुरसमन्वितः ॥५५॥यत्र यत्राऽभवद्राज्याभिषिक्तं पदमुत्तमम् ।सत्ताश्रितं नृपाणां च सुराणां चाऽन्यलोकिनाम् ॥५६॥ताँस्तान् सत्तावतः सर्वान् विजित्य युद्धदुर्मदः ।निजाश्रितान् वशान् कृत्वा तत्तत्पदेषु दानवान् ॥५७॥दैत्यानसुरान् स्ववशान् नृपतीनभ्यषेचयत् ।भूतले सर्वखण्डेषु नृपा दैत्याश्च दानवाः ॥५८॥सत्ताधीशा असुराश्चाऽभवन् प्रजाप्रपीडकाः ।धर्मकर्मविहीनाश्च भ्रष्टाचारसमन्विताः ॥५९॥अशीलाः कामकाराश्च हिंसादौरात्म्यसंभृताः ।अयज्ञशीलाः भोक्तारोऽभवन् प्रजाधनस्य ते ॥६०॥तीर्थदानार्हणरिक्ता विपथा ब्रह्मवर्जिताः ।सुरा अपि च पितरो महर्षयश्च तद्भयात् ॥६१॥दुःखिता अभवन् सर्वे मानवा राक्षसाऽर्दिताः ।थुरानन्दोऽपि सर्वेषु लोकेषु त्वसुरान्वितः ॥६२॥विमानेन प्रयात्येवोद्धोषयत्येव सर्वथा ।मां यजन्तु मानयन्त्वाराधयन्तु जनाधिपम् ॥६३॥परमेशं च मां साक्षान्मत्वाऽर्पयन्तु चोपदाः ।यज्ञे मां पूजयन्त्वेव देवतायतनेष्वपि ॥६४॥गणेशस्य स्थले मां च पूजयन्तु सदा जनाः ।आहरन्तु करं मह्यं कीर्तयन्तु गुणान्मम ॥६५॥पश्यन्तु मत्प्रतिमां चोपचारानर्पयन्तु मे ।प्रातर्गृह्णन्तु मन्नाम विष्णुश्चाऽहं न चेतरः ॥६६॥थुरानन्दो थुरानन्दो थुरानन्दो रटन्त्विति ।थुरानन्दे महानन्दो ब्रह्मानन्दो मिलिष्यति ॥६७॥थुरोऽहं ब्रह्मसंज्ञोऽस्मि थुरे माया न विद्यते ।थुरं प्राप्य च संसेव्य कष्टं नष्टं भवेत् सदा ॥६८॥मां थुरं माथुरं लब्ध्वा भवन्तु सुखिनः सदा ।अस्त्यहं योगिनां राजा पितॄणां द्युसदां तथा ॥६९॥मानवानामृषीणां च दैत्यानां रक्षसां तथा ।वसूनां च निधीनां च दिक्पालानां नृपोऽस्म्यहम् ॥७०॥समुद्राणामरण्यानां गन्धर्वाणां नृपोऽस्म्यहम् ।इत्यजस्य प्राणरोधाख्ये वर्षे दशमे तथा ॥७१॥कल्पे चतुर्दशे तत्र मनौ च प्रथमे नृपः ।बलवानभवद् राजा दैत्यदानवपूजितः ॥७२॥अथ भक्तः प्रजा देवाः पितरो मुनयः स्त्रियः ।सत्यश्च साधवो मामाराधयामासुरीश्वरि! ॥७३॥प्रच्छन्नाः स्वगृहे स्वस्वहृदयेषु समाहिताः ।तुष्टुवुः श्रीहरिं मां च रक्षार्थं मानवादयः ॥७४॥हरे नाथ कृपासिन्धो दीनबन्धो जनार्दन ।अधर्मार्दन दैत्यानामन्तकृत् परमेश्वर ॥७९॥रक्ष रक्ष हरे कृष्णाऽनादिनारायण प्रभो ।परब्रह्माऽन्तरात्मँस्त्वं रक्ष नो दानवार्दितान् ॥७६॥इत्येवं प्रार्थनां चक्रुर्बहुधा सर्वदेहिनः ।तदाऽहं संविचार्यैव थुरानन्दस्य कर्म तत् ॥९७॥वरदानान्तमेवाऽपि त्वया साकं समागमम् ।भूतले मानवे लोके मेरोः पश्चिमखण्डके ॥७८॥नाम्ना भामन्तके खण्डे सम्प्रज्ञानद्विजालये ।विशोकानामपत्न्यास्तु सन्निधौ दर्शनात्तदा ॥७९॥प्राविरासं बालरूपः शंखचक्रगदाधरः ।चक्रवज्रशक्तिशूलदण्डपाशधरः प्रभुः ॥८०॥अष्टबाहुर्हरिः सोऽहं परब्रह्मनरायणः ।उज्ज्वलः कोटिकामोर्ध्वप्रभावान् कुशलो मृधे ॥८१॥सर्वाऽस्त्रमन्त्रविद्विज्ञो ब्रह्मभावपरायणः ।तदा त्वं च समादिष्टा मया लक्ष्मि! द्रुतं गता ॥८२॥थुरानन्दालये नैजं प्राकट्यमाप्तुमीश्वरी ।थुरानन्दस्य पुत्री त्वं जातमात्रा तु मानसी ॥८३॥ज्योत्स्नाकुमारिकानाम्नी सर्वलक्षणलक्षिता ।अभवश्च स्वयंवरयोग्या नृपालये तदा ॥८४॥राजा स्वयंवराख्यं च समाजं कृतवान् क्षितौ ।भामन्तके महाखण्डे त्रिलोक्याह्वानमाचरत् ॥८५॥स्वयंवरस्य तत्रैव मण्डपो देवमण्डपः ।इन्द्रपुरीसमस्तेन नृपेण कारितस्तदा ॥८६॥निर्णीते दिवसे तत्राऽऽययुर्दैत्याश्च दानवाः ।राजानः पार्थिवाः पातालाधिपाश्च दिवोऽधिपाः ॥८७॥चतुर्दशभुवनानां दिक्पाला लोकपालिनः ।आययुर्मण्डपे तत्र ज्योत्स्नाकुमारिकांऽऽक्षया ॥८८॥समाजोऽभूच्चार्बुदानां राज्ञां तत्र नृपालये ।ज्योत्स्ना शृंगारिता श्रेष्ठे मुहूर्ते वरमालिकाम् ॥८९॥नीत्वा बन्धुभिरुत्कृष्टायुधवेदिभिरान्विता ।यथार्थज्योत्स्निका कन्या सर्वाकर्षणकारिणी ॥९०॥सुपरिचारयित्र्या च कुलशुद्धिज्ञयोषिता ।गुरुणा चापि विप्रेण युक्ता मण्डपमाययौ ॥९१॥लोकोत्तरस्वरूपा त्वं समाजजाड्यकारिणी ।मुग्धः सर्वः समात्-स्त्वां विलोक्याऽक्षरवासिनीम् ॥९२॥न दृष्टा न श्रुता क्वापि कन्येदृशी ममाऽस्त्वियम् ।इत्येवं भूभृतां तत्र हृदयान्यभवन् क्षणम् ॥९३॥अपूर्णरूपयोगानां भग्नान्यासन् मनांसि वै ।पूर्णानामपि सन्देहास्पदान्यासन् मनांसि वै ॥९४॥तव कान्त्या तदा लक्ष्मि! समाजोऽर्बुदभूभताम् ।निस्तेजा इव निकटेऽभवत्तत्र क्षणान्तरे ॥९५॥स्वर्गस्यापि तु राजानो प्रभग्नाशास्तदाऽभवन् ।नाऽस्मान् वरिष्यतीयं वै स्वाऽयोग्यान् रूपवर्जितान् ॥९६॥इत्येवं चैषणाहीनास्तदाऽन्येषां तु का कथा ।अथ त्वं गोपुरं गत्वा नत्वा गोपुरदेवताम् ॥९७॥प्रविष्टा मण्डपं दिव्यमार्गेण स्वर्णशोभिना ।दृष्टवती च राजन्यं श्रुतवती च वृद्धया ॥९८॥अलब्धहृच्छया तत्राऽलग्नचित्ता पुनः पुनः ।वारत्रयं भ्रमित्वैव मण्डपं वीक्ष्य सर्वतः ॥९९॥अदृष्ट्वा मां वरमालायुता गोपुरमागता ।तत्राऽहमभवं विप्रोऽलब्धप्रवेश एव ह ॥१००॥दरिद्रः पीतधौत्रश्च पीतकञ्चुक एव च ।सवेष्टनशिरा विप्रः षोडशवार्षिको युवा ॥१०१॥रूपसौन्दर्ययुक्तश्च सूक्ष्मसर्वाऽऽयुधान्वितः ।दैत्यसंहारकृत्सूक्ष्मं रूपं प्रच्छाद्य चागतः ॥१०२॥कृतचन्द्रस्तथा भाले करे तु जपमालिकः ।पादयोः पादुके बिभ्रन् लोकविलक्षणोऽभवम् ॥१०३॥इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसो नवमवत्सरे चलदेववंशे ध्रुवस्याऽचलतार्थम् अनाद्यार्ष- नारायणस्य, दशमवत्सरे ध्रुवदेवपुत्रस्य थुरानन्दस्य दानवर्धितस्य पराभवार्थम् अनादिप्राज्ञनारायणस्य प्राकट्यं ज्योत्स्नाकुमारिकालक्ष्म्याः स्वयंवरश्चेत्यादिनिरूपणनामा सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : May 03, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP